Skip to content

. अग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानम्

Adhikarana वाताद्याधिक्याज्जठरानलस्य चतुर्विधत्वम् (१) · Śloka

अथाग्निमान्द्याजीर्ण-विसूचिकालसक-विलम्बिकानिदानम् | मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः | कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ||१||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अर्शःकार्यत्वादग्निमान्द्यादीनां तान्याह– मन्द इत्यादि| मन्दस्य दुर्जयत्वात् प्रागभिधानम्| कफपित्तानिलाधिक्यादिति यथाक्रमं मन्दादिषु योज्यम्| तत्साम्यादिति तेषां कफादीनां साम्यात्| समोऽविकृतः, धातुसाम्यहेतुरित्यर्थः| एतस्याविकारस्यापि विकारप्रस्तावेऽभिधानं प्रकृतिज्ञानानन्तरीयकं विकृतिज्ञानमिति बोधनार्थम्| जाठर इति धात्वग्निभूताग्निव्यवच्छेदार्थम्||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अर्शोभ्योऽग्निमान्द्यस्य सम्भवस्ततोऽर्शोऽनन्तरमग्निमान्द्यादिजान् रोगानाह– मन्द इत्यादि| अनलो वह्निश्चतुर्विधो भवति– मन्दः, तीक्ष्णो, विषमः, समश्चेति| मन्दस्य दुर्जरत्वात्प्राक् कथनन्| कफपित्तानिलाधिक्यादिति यथाक्रमं मन्दादिषु योज्यम्| तत्साम्यादिति तेषां कफादीनां साम्यात्| समः अविकृतः, धातुसाम्यहेतुरित्यर्थः| जाठर इति धात्वग्निव्यच्छेदार्थम्||१||

Adhikarana विषमाद्यग्निभेदानां कार्यं, समाग्नि-मन्दाग्नि-विषमाग्नि-तीक्ष्णाग्निलक्षणानि च (२-४) · Śloka

विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमित्तजान् | करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ||२|| समा समाग्नेरशिता मात्रा सम्यग्विपच्यते | स्वल्पाऽपि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः ||३|| कदाचित् पच्यते सम्यक्कदाचिन्न विपच्यते | मात्राऽतिमात्राऽप्यशिता सुखं यस्य विपच्यते | तीक्ष्णाग्निरिति तं विद्यात् समाग्निः श्रेष्ठ उच्यते ||४||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

प्रतिलोमतन्त्रयुक्त्या तेषां रूपमाह– विषम इत्यादि| वातजान् रोगानिति वातनानात्मजानामशीतेरन्यतमान् सामान्यजांश्च ज्वरातीसारादीन्, एवं पित्तनानात्मजानामोषचोषादीनां चत्वारिंशतोऽन्यतमान्, एवं कफनानात्मजानां विंशतेरालस्यादीनामन्यतमान्| एते च विकाराश्चरके महारोगाध्याये (च. सू. अ. २०) एव द्रष्टव्याः| समेत्यादि| समा उचिता, मात्रा आहारस्य, सम्यग्यस्य विपच्यते स समाग्निः| तीक्ष्णाग्निरिति तं विद्यादिति छेदः| मात्राऽतिमात्रेत्युपलक्षणं, तेनाजीर्णगुरुभोजनादिकमपि लक्षणीयम्| यदुक्तमन्यत्र– “अतिमात्रमजीर्णेऽपि गुरु चान्नमथाश्नतः| दिवाऽपि स्वपतो यस्य पच्यते सोऽग्निरुत्तमः||” इति| तीक्ष्णग्रहणेन भस्मकस्यावरोधः, अत्यन्ततीक्ष्णाग्निरेव हि ‘भस्मक’ इत्युच्यते| यदुक्तं चरके– “नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्| स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति|| तदा लब्धबलो देहं विरुजेत् सानिलोऽनलः| अभिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः|| पक्त्वाऽन्नं ततो धातून् शोणितादीन् पचत्यपि| ततो दौर्बल्यमातङ्कान् मृत्युं चोपनयेन्नरम्|| भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति| तृट्कासदाहमूर्छाः स्युर्व्याधयोऽत्यग्निसम्भवाः||” (च. चि. अ. १५) इति||२-४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तेषां स्वरूपमाह– विषम इत्यादि| विषमोऽग्निर्वातजान् रोगानिति वातनानात्मजान् अशितेरन्यतमान्सामान्यजांश्च ज्वरातीसारादीन् ; तीक्ष्णोऽग्निरेवं पित्तजानिति पित्तजानाम् ओषचोषादीनां चत्वारिंशतोऽन्यतमान्; एवं मन्दोऽग्निः कफजानां विंशतेरालस्यादीनामन्यतमान्; एते च रोगाश्चरक महारोगाध्याये द्रष्टव्याः| तेषां लक्षणमाह– समेत्यादि| समा उचिता मात्रा अशिता उपयुक्ता सती सम्यग्यस्य विपच्यते स समाग्निः| मन्दाग्नेः मन्दवह्नेः पुरुषस्य स्वल्पाऽपि मात्रा अशिता सम्यङ्नैव विपच्यते| विषमाग्नेस्तु पुरुषस्य कदाचित्सम्यक् पाकं गच्छति कदाचिन्न गच्छति, वायोर्विषमगतित्वात्| तीक्ष्णग्निरिति तं विद्यादिति तीक्ष्णसमाग्न्योरिति भेदः| मात्राऽतिमात्रेत्युपलक्षणं, तेनातिमात्रमजीर्णभोजनादिकमपि सुखं यस्य विपाकं गच्छति तं तीक्ष्णाग्निरिति जानीयात्| तदुक्तं तन्त्रान्तरे– “अतिमात्रमजीर्णेऽपि गुरु चान्नं तथाऽश्नतः| दिवाऽपि स्वपतो यस्य पच्यते सोऽग्निरुत्तमः” इति| तीक्ष्णग्रहणेन भस्मकस्यावरोधः, अत्यन्ततीक्ष्णाग्निरेव हि भस्मक उच्यते| यदुक्तं चरके– “नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्| स्वोष्मणा पाचकस्थाने बलमग्नेः प्रयच्छति|| तदा लब्धबलो देहं विरूक्षः सानिलोऽनलः| अभिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः|| पक्त्वाऽन्नं च ततो धातूञ्छोणितादीन् पचत्यपि| ततो दौर्बल्यमातङ्कान्मृत्युं चोपनयेन्नरम्|| भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति| तृड्दाहकासमूर्छाः स्युर्व्याधयोऽत्यग्निसम्भवाः” इति| तेषु मध्ये समाग्निरुत्तमः||२-४||

Adhikarana अजीर्णभेदाः (५-६) · Śloka

आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः | अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ||५|| (सु. सू. अ. ४६) | अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च | वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् ||६||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अग्निमान्द्याजीर्णयोः परस्परकारणत्वादजीर्णान्याह– आममित्यादि| त्रिभिरिति कफादिभिरेकैकशो यथासङ्ख्येन| रसशेषत इति रसाय शेषो रसशेषः, प्रकृतिविकृतिभावे चतुर्थी; यथा– यूपाय दारु यूपदारु; अथवा “रसशब्देन रसवानाहारोऽभिप्रेतो लक्षणया, तेन रसशब्देन रसवानाहारोऽभिधीयते, तस्य शेषोऽपरिणतिलक्षणो रसशेष” इति जेज्जटः| ननु, यद्येवं तदा आमविदग्धविष्टब्धानामन्यतमरूपस्यावश्यम्भावित्वान्न तेभ्यो भेदः; किञ्च तल्लिङ्गैरम्लोद्गारादिभिर्भवितव्यं, तथाच सत्युद्गारशुद्धौ रसशेषाजीर्णलक्षणस्यानुदयप्रसङ्गः? उक्तं हि सुश्रुते– “उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य| रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम्||” इति (सु. सू. अ. ४६)| आरोग्यमञ्जर्यां नागार्जुनोऽप्याह– “उद्गारेऽपि विशुद्धतामुपगते काङ्क्षा न भक्तादिषु स्निग्धत्वं वदनस्य सन्धिषु रुजा कृत्वा शिरोगौरवम्| मन्दाजीर्णरसे तु लक्षणमिदं, तत्रातिवृद्धे पुनर्हृल्लासज्वरमूर्छनादि च भवेत् सर्वामयक्षोभणम्||” इति| नैवम्, अवश्यम्भाविविदग्धादिरूपस्याप्याहारशेषस्यात्यल्पत्वेन न तदनुरञ्जितोद्गारोदयप्रसङ्गः, अकालबुभुक्षायामिव| यदाह सुश्रुतः– “स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति| भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दबुद्धिं विषवन्निहन्ति||” (सु. सू. अ. ४६) इति| तन्त्रान्तरेऽप्याहारापाकजं रसशेषलक्षणमुक्तम्– “आमं विदग्धं विष्टब्धं रसशेषमथापि च| चतुर्विधमजीर्णं स्यादाहारापरिपाकतः||” इति| गदाधरस्त्वाह– “रसे शेषो रसशेषः, आहारजनिते रसे शेष आहारावयवोऽनुप्रविष्टोऽलक्ष्यमाणः क्षीरे नीरमिव रसशेषः|” इति| ननु, आमाजीर्णादिभ्यो रसशेषस्य को भेदः? उच्यते– आमादित्रयमन्नजं, रसशेषस्त्वाहाररसजः; वातिकादिव्यपदेशश्चात्र न कृतः, अल्पत्वाद्वातादिलिङ्गानां; हेतुलक्षणचिकित्साभेदाच्चास्य भेद इति| अजीर्णमिति तद्विरोधे नञ्, जीर्णं पक्वं, तद्विरुद्धमजीर्णम्; यथा– असितम्| सर्वमजीर्णं त्रिदोषजम्, एकदोषव्यपदेशस्तूत्कटैकदोषलिङ्गत्वेनोक्त इति व्याख्यानयन्ति; यतस्त्रैदोषिकमेवाजीर्णकारणमुक्तम्– “अत्यम्बुपानात्” इत्यादि| अजीर्णादपि दोषत्रयकोपो भवति| यदुक्तं सुश्रुते– “अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत्|” (सु. सू. अ. ४६) इति| अजीर्णं पञ्चमं केचिदित्यादि| निर्दोषम् आध्मानादिदुष्टेरकारकम्| दिनपाकि चेत्यहोरात्रेणाहारः पच्यते इत्युत्सर्गः, यत्र तु मात्राकालासात्म्यादिदोषादपरदिने पच्यते तद्दिनपाकि| कालव्यतिक्रमेण पच्यमानमप्याध्मानादिकं न करोतीति पूर्वेभ्यो भेदः| एतदभिधानस्य तु प्रयोजनं पाककालप्रतीक्षणं, नैशाजीर्णे भोजननिषेधात्| प्राकृतं प्रतिवासरमिति प्राकृतमवैकारिकं, प्रतिवासरं प्रतिदिनं क्रियमाणम्| अयमभिसन्धिः– अद्यैव भुक्तमन्नं किं जीर्णमजीर्णं वा? न तावज्जीर्णं, क्षुत्पिपासामलोत्सर्गादेर्जीर्णलक्षणस्यानुदयात्; तस्मादजीर्णं, तच्चाध्मानादिकं न करोतीति पूर्वेभ्यो भिन्नम्| तस्य चाभिधानप्रयोजनम्– पाकार्थं वामपार्श्वशयनाद्याचारसेवा| उक्तं हि सुश्रुते– “भुक्त्वा पादशतं गत्वा वामपार्श्वेन संविशेत्| शब्दरूपरसस्पर्शगन्धांश्च मनसः प्रियान्|| भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति||” (सु. सू. अ. ४६) इति| न चात्राहारस्य निषेधः, तस्य शास्त्रेण विहितत्वात्| चरके तु– “तस्य लिङ्गमजीर्णस्य” इत्यादिना “घोरमलविषं च ” इत्यन्तेनान्नविषाख्यमजीर्णं” पठितं, तच्च पित्तादिसंसृष्टरसशेषाजीर्णमेवेति व्याचक्षते; तेन रसशेष एव तस्यान्तर्भाव इति पृथक् पठितम्||५-६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अग्निमान्द्याजीर्णयोः परस्परकारणत्वादजीर्णान्याह– आममित्यादि| आहारस्यैव अपक्व उद्वरितो रसो रसशेषस्ततः| नन्वामाजीर्णादिभ्यो रसशेषस्य को भेदः? उच्यते– आमादित्रयमन्नजं, रसशेषस्त्वाहाररसजः, वातिकादिव्यपदेशश्चात्र न कृतः, अल्पत्वाद्वातादिलिङ्गानाम्| मतान्तरमाह– अजीर्णमित्यादि| अजीर्णं पञ्चममिति निर्दोषमाध्मानादिदुष्टेरकारकं, दिनपाकि चेति अहोरात्रेणाहारः पच्यते इति सामान्यं, यत्र तु मात्राकालसात्म्यादिदोषादपरस्मिन् दिने पच्यते तद्दिनपाकि, कालव्यतिक्रमेणाहारः पच्यमानोऽप्याध्मानादिकं न करोतीति पूर्वेभ्यो भेदः| एतदभिधानस्य तु प्रयोजनं पाककालप्रतीक्षणं, निशाजीर्णे भोजननिषेधात्| अन्ये षष्ठमाहुः– प्राकृतमवैकारिकं, प्रतिवासरं प्रतिदिनं क्रियमाणम्| अयमभिसन्धिः– अद्यैव भुक्तमन्नं किं जीर्णं अजीर्ण वा ? न तावज्जीर्णं क्षुत्पिपासामलोत्सर्गादेर्जीर्णलक्षणस्यानुत्पादनात्, तस्मादजीर्णम्| तच्चाध्मानादिकं न करोति परं प्रकृतत्वादविकारित्वमस्येति पूर्वेभ्यो भिन्नम्| तस्य चाभिधानप्रयोजनं पाकार्थं वामपार्श्वशयनाद्याचारसेवा| उक्तं हि सुश्रुते– “भुक्त्वा पादशतं गत्वा वामपार्श्वेन संविशेत्| शब्दरूपरसस्पर्शगन्धादीन् मनसः प्रियान्|| भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति” इति| न चात्राहारस्य निषेधः, तस्य शास्त्रे विहितत्वात्||५-६||

Adhikarana अजीर्णनिदानम् (७-९) · Śloka

अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च | कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ||७|| ईर्ष्याभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन | प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति ||८|| (सु. सू. अ. ४६) | मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति | चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः ||९|| (च. वि. अ. २) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अजीर्णकारणमाह– अत्यम्बुपानादित्यादि| सन्धारणादिति वेगानाम् स्वप्नविपर्ययात् दिवास्वप्नादेः| लघु चापीति ‘अपि’ शब्देन स्निग्धोष्णादिगुणयुक्तमपि बोध्यम्| केचित् ‘ईर्ष्याभयक्रोधपरिप्लुतेन’ इत्यादिश्लोकं पठन्ति; स च मानसदोषाजीर्णविषयो बोद्धव्य इति||७-९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अजीर्णस्य कारणमाह– अत्यम्ब्वित्यादि| विषमाशनं “बहु स्तोकमकाले वा तज्ज्ञेयं विषमाशनम्” इति| क्षुत्तृड्वातपुरीषादिवेगानां सन्धारणं, रात्रिजागरणं दिवास्वापः स्वप्नविपर्ययः| कायिकं कारणमभिधाय मानसं रजस्तमोदोषकारणमाह– ईर्ष्येत्यादि| ईर्ष्या परसम्पत्तेरसहिष्णुता, भयं परस्मात्त्रासः, क्रोधः पराभिद्रोहलक्षणः, तैः परिप्लुतेन ईर्ष्यादिभिः परिभूतेन, लुब्धेन लोभसहितेन, रुग्दैन्यनिपीडितेन शोकदैन्यव्याप्तेन, दैन्यं निर्गतित्वं, प्रद्वेषो मात्सर्यमिति||७-९||

Adhikarana आमाजीर्ण-विदग्धाजीर्ण-विष्टब्धाजीर्ण-रसशेषाजीर्णलक्षणानि (१०-१२) · Śloka १३

तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः | उद्गारश्च यथाभुक्तमविदग्धः प्रवर्तते ||१०|| विदग्धे भ्रमतृण्मूर्छाः पित्ताच्च विविधा रुजः | उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते ||११|| विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः | मलवाताप्रवृत्तिश्च स्तम्भो मोहाऽङ्गपीडनम् ||१२|| रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे |१३|

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उद्दिष्टानामामाजीर्णादीनां लक्षणमाह– तत्रेत्यादि| तत्रेति तेषु मध्ये| गण्डः कपोलः अक्षिकूटः चक्षुर्गोलकः, तद्गतः शोथो भवति प्रभावात्| उद्गारश्च यथाभुक्तमिति मधुरादिरूपः| अविदग्धोऽनम्लः, द्वितीयपाके ह्याहारस्याम्लता दर्शिता| विदग्ध इत्यादि| विविधा वातवेदना तोदभेदादिरूपा| अङ्गपीडनं सामवातवेदनादि| पित्ताच्च विविधा रुज इति ओषचोषादयः| सधूमाम्ल इति धूमोद्गारोऽम्लोद्गारश्च||१०-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उद्दिष्टानामजीर्णानां लक्षणमाह– तत्रेत्यादि| तत्र तेषु मध्ये आमे अजीर्णे गुरुतादिचिह्नं भवति| गुरुता उदराङ्गयोर्गौरवम्| उत्क्लेद उपस्थितवमनत्वमिव| गण्डः कपोलः, अक्षिकूटश्चक्षुर्गोलकः, तद्गतः शोथो भवति तत्प्रभावात्| उद्गारश्च यथाभुक्तमिति मधुरादिरूपः| अविदग्धोऽनम्लः| एतस्य लक्षणं सुश्रुते उक्तम्– “माधुर्यमन्नं गतमामसञ्ज्ञम्” इति| तदेतत् कफदूषितान्नस्वभावकथनमात्रम्| कफकार्याणि गौरवकण्डूप्रभृतीनि द्रष्टव्यानि| विदग्धलक्षणमाह– विदग्धं किञ्चिद्विपक्वम् अम्लभावगतम्| उक्तं च सुश्रुते– “विदग्धसञ्ज्ञं गतमम्लभावम्” इति| धूमोद्गारोऽम्लोद्गारश्च| विष्टब्धलक्षणमाह– विष्टब्ध इत्यादि| आनद्धवातं विष्टब्धं कथ्यते| उक्तं च सुश्रुते– “किञ्चिद्विपक्वं भृशतोदशूलं विष्टब्धमानद्धविरुद्धवातम्” इति| तत्र तेषु मध्ये विष्टब्धेऽजीर्णे विविधवातवेदनास्तोदभेदादिरूपाः| विदग्धे विलम्बिका न प्राप्यते तां कफवाताभ्यां पठिष्यति विदग्धं पित्तात्तस्मात्त्रिविधो जीर्णो यथासम्भवं विसूच्यादिनामुत्पादक इति| उक्तं चरके– “अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत्|” इति|| रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवम्| “ ग्लानिगौरवविष्टम्भो भ्रममारुतमूढताः| विबन्धश्चाप्रवृत्तिश्च सामान्याजीर्णलक्षणम्||”||१०-१२||

Adhikarana अजीर्णोपद्रवाः (१३) · Śloka १३

मूर्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः | उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ||१३|| (सु. सू. अ. ४६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उपद्रवानाह– मूर्छेत्यादि| अतिप्रवृद्धाजीर्णे तु मरणमपि||१३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अजीर्णस्योपद्रवानाह– मूर्छेत्यादि| मूर्छा चेतनाच्युतिः, प्रलापोऽसम्बद्धभाषणम्, वमथुः छर्दिः, सदनमङ्गग्लानिः, अन्ये तु स्फुटनमिवाङ्गानामिति वदन्ति||१३||

Adhikarana अजीर्णकारणेष्वतिमात्रभोजनस्य विशेषकारणत्वम् (१४) · Śloka १४

अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः | रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ||१४||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उक्ताजीर्णकारणेभ्योऽतिमात्रभोजनस्य विशेषकारणत्वमाह– अनात्मवन्त इत्यादि| अनात्मवन्तो दुष्टमनोयुक्ताः, लोलुपत्वेन तदात्वसुखाकाङ्क्षिण इति| अत एवोक्तम्– पशुवदिति| रोगानीकस्य रोगसमूहस्य विसूच्यादेः, मूलं कारणम्||१४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उक्ताजीर्णकारणेभ्योऽतिमात्रभोजनस्य विशेषकारणत्वमाह– अनात्मवन्त इत्यादि ये नरा अप्रमाणतः पशुवद्भुञ्जते, किम्भूताः ? अनात्मवन्तो दुष्टमनोयुक्ताः लोलुपत्वेन तदात्वसुखकाङ्क्षिण इत्यर्थः, अत एवोक्तम्– पशुवदिति| रोगानीकस्य रोगसमूहस्य विसूच्यादेर्मूलं कारणमजीर्णं प्राप्नुवन्ति||१४||

Adhikarana अजीर्णेभ्यो विसूच्यादिसम्भवः (१५) · Śloka १५

अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम् | विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ||१५|| (सु. उ. तं. अ. ५६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अजीर्णसम्भवत्वाद्विसूच्यादीनामजीर्णानन्तरं विसूच्यादीनाह– अजीर्णमित्यादि| “आमविष्टब्धविदग्धेषु त्रिषु विसूच्यलसकविलम्बिका यथासङ्ख्यं भवन्ति” इति कार्तिककुण्डः| ‘तन्न’ इति बकुलकरः| यथासङ्ख्ये हि विलम्बिका विदग्धात् प्राप्नोति, तां च कफवाताभ्यां पठिष्यति, तस्मात्त्रिविधाजीर्णाद्यथासम्भवं विसूच्यादीनामुत्पाद इति युक्तम्| उक्तंहि– “अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत्” इति||१५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अजीर्णसम्भवात् विसूच्यादय इत्यजीर्णानन्तरं विसूच्यादीनाह– अजीर्णमित्यादि| यदामादिभेदेनाजीर्णमुक्तं तस्मात्त्रिविधाजीर्णाद्विसूच्यलसकौ स्यातां तथा विलम्बिकाऽपि भवेत् यदत्र चतुर्थस्याजीर्णस्य रसशेषस्योपादानं न कृतं तदपरिणाममात्रत्वेन तस्य विसूच्याद्यारम्भकत्वस्वाभावादेकोपमतत्वेनोक्तत्वाच्च| आमविष्टब्धविदग्धेषु विसूच्यालसकविलम्बिकाख्या यथासङ्ख्यं भवन्तीति कार्तिककुण्डः| तन्न, यथासङ्ख्ये विदग्धाजीर्णस्य विलम्बिकाजनकत्वासम्भवात्, तस्याः कफवातसमुद्भूतत्वेन पठिष्यमाणत्वात्, विदग्धभावस्य पित्तजन्यत्वात्, तस्मात् “त्रिविधमप्यजीर्णं यथासम्भवं विसूच्यादीनामुत्पादकम्” इति बकुलः||१५||

Adhikarana विसूचिकानिरुक्ति (१६-१७) · Śloka १७

सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः | यस्याजीर्णेन सा वैद्यैर्विसूचीति निगद्यते ||१६|| न तां परिमिताहारा लभन्ते विदितागमाः | मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः ||१७|| (सु. उ. तं. अ. ५६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विसूच्या निरुक्तिमाह– सूचीभिरित्यादि| ‘बाहुल्याद्वायुः सूचीभिरिव तुदन्’ इति विसूचीनिरुक्तिः| पाण्डुरोगवत् सूचीभिरिव तोदनं विहायान्येऽपि वेदनाभेदा विविधा भवन्त्येव| यदुक्तं तन्त्रान्तरे– “विविधैर्वेदनाभेदैर्वाय्वादेर्भृशकोपतः| सूचीभिरिव गात्राणि भिनत्तीति विसूचिका||” इति विदितागमा विदितायुर्वेदाः| मूढास्तज्ज्ञानानभिज्ञाः| अजितात्मानः अजितेन्द्रियाः अशनलोलुपाः पशुवदप्रमाणभोजिनः||१६-१७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विसूच्या निरुक्तिमाह-यस्यां विसूचिकायामनिलः सूचीभिरिव गात्राणि तुदन् सन् तिष्ठते वैद्यैरादिवैद्यैरजीर्णात्सा विसूचीति कथ्यते||१६|| इति प्रतिपादनार्थमाह– नेत्यादि| एवंविधाः पुरुषास्तां विसूचिकां न प्राप्नुवन्ति| विदितागमा विदितायुर्वेदाः, मूढास्तज्ज्ञानानभिज्ञाः पुरुषास्तां भजन्ते| मुह्यन्तीति मूढाः भक्ष्याभक्ष्यानभिज्ञाः, अजितात्मानोऽजितेन्द्रियाः, अशनलोलुपाः पशुवदप्रमाणभोजिनः; ‘कलुषाशयाः’ इत्यन्ये पठन्ति, कलुषो दुष्ट आमाशयो येषां ते कलुषाशयाः; आमाशयदुष्टिश्च दुष्टान्नसम्पर्कात्, वातादिकोपाच्च||१७||

Adhikarana विसूचिकालक्षणम् (१८) · Śloka १८

मूर्छाऽतिसारो वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः | वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ||१८|| (सु. उ. तं. अ. ५६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विसूची लक्षणमाह– मूर्छेत्यादि| वमथुः वान्तिः| शिरसश्च भेदः शिरःशूलम्| अत्र च वमनातीसारौ मिलितौ लक्षणमिति सौश्रुताः सुश्रुते– त्वधोगाया आमातीसारेण ग्रहणम्, ऊर्ध्वगायाश्छर्द्या च| (चरके तु पठ्यते– “ऊर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विसूचीं विद्यात्||” (च. वि. अ. २) इति| अत ऊर्ध्वगा विसूची भवति, तथाऽधोगाऽपि, चरके आमातीसारस्यापठितत्वात्; चकारादुभयमार्गगाऽपीति चेति व्याचक्षते, ऊर्ध्वगायाश्च अपक्वाहारवमनेन त्रिदोषच्छर्दिभ्यो भेद इति मन्तव्यम्||१८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विसूचीलक्षणमाह– मूर्छेत्यादि| वमथुर्वान्तिः, उद्वेष्टनं मोटनं जङ्घादीनां, खल्लीति लोके| तस्यां विसूच्यां; शिरसश्च भेदः शिरःशूलम्| अत्र वमनातीसारौ मिलितौ लक्षणमिति सुश्रुतः| सा च द्विधा अधोगा ऊर्ध्वगा च| आमातिसारेणाधोगा छर्द्योर्ध्वगा चेति सौश्रुताः; चरके तु “ऊर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विद्यात्” इत्युभयगा| ऊर्ध्वगायाश्चापक्वाहारवमनेन दोषजच्छर्दिभ्यो भेद इति मन्तव्यम्||१८||

Adhikarana अलसकलक्षणम् (१९-२०) · Śloka २०

कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति | निरुद्धो मारुतश्चैव कुक्षावुपरि धावति ||१९|| वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि | तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु ||२०|| (सु. उ. तं. अ. ५६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अलसकमाह– कुक्षिरित्यादि| आनह्यते आध्मायते, मलविष्टम्भस्य वक्ष्यमाणत्वात्| प्रताम्येत् मुह्यति पुरुषः परिकूजति आर्तनादं करोति| निरुद्ध इत्यजीर्णेनाधः प्रतिरुद्धगतिः कुक्षौ वा, तेनोपरि धावति ऊर्ध्वं हृदयकण्ठादिकं गच्छति| ‘अलसक’ इति दोषस्थिरत्वनिमित्ता सञ्ज्ञा| यदुक्तं तन्त्रान्तरे– “प्रयाति नोर्ध्वं नाधस्तादाहारो न विपच्यते| आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः||” इति||१९-२०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अलसकलिङ्गमाह– कुक्षिरित्यादि| यस्य कुक्षिरुदरमानह्यते आध्मायते, मलविष्टम्भस्य वक्ष्यमाणत्वात्| प्रताम्येत् प्रमुह्यति पुरुषः, परिकूजति आर्तनादं करोति, मारुतो निरुद्ध इति अजीर्णेनाधःप्रतिबद्धगतिः, कुक्षौ तेनोपरि धावति ऊर्ध्वं हृदयकण्ठादिकं गच्छति, तस्य पुरुषस्यालसकनामानं रोगमाचष्टे कथयति| अलसक इति दोषस्थिरत्वनिमित्तसञ्ज्ञा| यदुक्तं तन्त्रान्तरे– “प्रयाति नोर्ध्व नाधस्तान्न चाहारो विपच्यते| आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः||” इति|| १९-२०||

Adhikarana विलम्बिकालक्षणम् (२१) · Śloka २१

दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य | विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ||२१|| (सु. उ. तं. अ. ५६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विलम्बिकामाह– दुष्टमित्यादि| भुक्तमन्नं कफमारुताभ्यां दुष्टमिति सम्बन्धः| भृशं दुश्चिकित्स्याम् अत्यर्थं दुश्चिकित्स्यां, प्रत्याख्येयां वर्जनीयामित्यर्थः| ननु, अलसकविलम्बिकयोरुभयोरपि वातकफप्रबलयोरूर्ध्वाधोऽप्रवर्तनशीलयोस्तुल्यत्वात् को भेदः? उच्यते अलसके तीव्राः शूलादयो भवन्ति, यदुक्तम्– “पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा| अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम्|| शूलादीन् कुरुते तीव्रांश्छर्द्यतीसारवर्जितान्||” इति||२१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विलम्बिकालक्षणमाह– दुष्टमित्यादि| यस्य पुरुषस्य भुक्तमन्नं कफमारुताभ्यां दुष्टं सदूर्ध्वमधश्च न प्रवर्तते, पुराणाः शास्त्रविदस्तां विलम्बिकामाहुः; भृशं दुश्चिकित्स्यामत्यर्थं दुश्चिकित्स्यां, प्रत्याख्यायोपचरणीयामित्यर्थः| दुष्टमित्यत्र लीनमिति केचित्पठन्ति| इयमेव विलम्बिका तन्त्रान्तरे दण्डकालसक इति नाम्ना पठ्यते| तथाच– “ दुष्टा ह्यलसके दोषाश्छर्द्यतीसारवर्जिताः| कारकास्तीव्रशूलादेः स्रोतसां सन्निरोधकाः|| निजयोगात्तनुं सर्वां दण्डवत्स्तम्भयन्ति च| स दण्डालसकः शीघ्रं नरदेहविनाशकृत्” इति| नन्वलसकविलम्बिकयोरुभयोरपि वातकफप्रबलयोरूर्ध्वाधोप्रवर्तनशीलयोस्तुल्यत्वात्को भेदः ? उच्यते– अलसके तीव्राः शूलादयो भवन्ति, यदुक्तम्– “पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा| अलसं क्षोभितं दोषैः शल्यत्वेनेव संस्थितम्|| शूलादीन्कुरुते तीव्रांश्छर्द्यतीसारवर्जितान्” इति||२१||

Adhikarana अजीर्णजन्यस्यामस्य कार्यान्तरम् (२२) · Śloka २२

यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः | दोषेण येनावततं शरीरं तल्लक्षणैरामसमुद्भवैश्च ||२२|| (सु. उ. तं. अ. ५६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अजीर्णजातान् विसूच्यादीनभिधायाजीर्णजन्यस्यामस्य कार्यान्तरमाह– यत्रस्थमित्यादि| आमं कर्तृ, यत्रस्थं तमेव देशं विशेषेण रुजेत्; एतेनान्यदेशेऽपि किञ्चिद्रुजं करोतीति बोधयति| यत्रेतिसर्वनामशब्देन कुपितवातादीनामिवानियतमेव स्थानमामस्येति दर्शितम्| कै रुजेदित्याह– विकारजातैर्विकारसमूहैः| किम्भूतैरित्याह– दोषेण येन स्वकारणकुपितेन वातादिनाऽवततं व्याप्तं शरीरं, तल्लक्षणैः तल्लिङ्गैस्तोददाहगौरवादिभिः, न केवलं तैरामसमुद्भवैश्च विकारजातैरपाकालसकादिभिरपि| अनेनैव श्लोकेन तन्त्रान्तरोक्तमामवाताख्यं रोगं गृहीतवान् सुश्रुतः, तस्य लक्षणस्य समानत्वादित्याहुः||२२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अजीर्णजन्यानि विसूच्यादीन्यभिधाय अजीर्णजन्यस्यामस्य कार्यान्तरमाह– यत्रेत्यादि| आममसम्यक्परिणतं, तथाच– “अविपक्वमसंयुक्तं दुर्गन्धं बहु पिच्छिलम्| सदनं सर्वगात्राणामाममित्यभिधीयते” इति| यत् आमं कर्तृ, यत्रस्थं वायुप्रेरणाकर्षणस्यावैगुण्याद्यत्र व्यवस्थितं तमेव देशं विशेषेण रुजेत् पीडयेत्, एतेनान्यदेशेऽपि किञ्चिद्रुजं करोतीति बोधयति| एतावता धातुभूताग्नीनां मान्द्यत्वेनामसम्भवत्वात् शोषव्रणविद्रध्यादिरोगाणां तज्जन्यत्वमुक्तं भवति| यदुक्तम्– “धातूनां सप्त सप्तानां भूतानां पञ्च पावकाः| त्रयोदश भवन्त्येवं सह जाठरवह्निना” इति| यत्र धातुप्रदेशे वह्निर्मन्दो भवति तत्रैवामसम्भवात्पिडिकाद्युत्पत्तिः स्यात्| यत्रेति ग्रहणेन कुपितवातादीनामिवानियतमेव स्थानमामस्येत्युक्तं भवति| किम्भूतैर्विरुजेदित्याह– दोषेण येन स्वकारणात् कुपितेन वातादिना अवततं व्याप्तं शरीरं, तल्लक्षणैरेव तस्य लिङ्गैस्तोददाहगौरवादिभिः ; न केवलं तैः आमसमुद्भवैर्विकारजातैरामवातादिभिः| अनेन श्लोकेन तन्त्रान्तरोक्तमामवातरोगं सङ्गृहीतवान् सुश्रुतः, उक्तलक्षणस्य समानत्वादित्याहुः||२२||

Adhikarana विसूच्यलसकयोरसाध्यलक्षणम् (२३) · Śloka २३

यः श्यावदन्तौष्ठनखोऽल्पसञ्ज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः | क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ||२३|| (सु. उ. तं. अ. ५६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विसूच्यलसकयोरसाध्यत्वलक्षणमाह– य इत्यादि| “विलम्बिकायास्तु स्वरूपेणैवासाध्यत्वम्” इति जेज्जटः| अल्पसञ्ज्ञो मोहयुक्तः| अभ्यन्तरयातनेत्रः कोटरान्तःप्रविष्टाक्षिगोलकः| सर्वविमुक्तसन्धिः श्लथीभूतसर्वपर्वास्थिसन्धिः| अपुनरागमाय मरणाय||२३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विसूच्चलसकयोरसाध्यलक्षणमाह– य इत्यादि| विलम्बिकायास्तु स्वरूपेणैवासाध्यत्वमिति जेज्जटः| यः पुरुषः श्यावदन्तादिलक्षणयुक्तः स्यात्, श्यावशब्दो दन्तादिभिः प्रत्येकं सम्बध्यते, अल्पसञ्ज्ञो मोहयुक्तः, अभ्यन्तरयातनेत्रः कोटराक्षः अन्तःप्रविष्टनेत्रः| क्षामस्वरः क्षीणध्वनिः, सर्वविमुक्तसन्धिश्च, स नरः अपुनरागमाय अपुनरावृत्तये मरणाय, यायाद्गच्छेत्| अत्रान्ये– निद्रानाशादिभिर्लक्षणान्तरं पठन्ति| परं तु “निद्रानाशोऽरतिः कम्पो मूत्राघातो विसञ्ज्ञिता| अमी उपद्रवा घोरा विसूच्याः पञ्च दारुणाः||” इति माधवेन सङ्गृहीतत्वात्पृथङ्न लिखितम्||२३||

Adhikarana जीर्णाहारलक्षणं, विसूचिकाया उपद्रवाः, सामान्याजीर्णलक्षणं च (२४-२७) · Śloka २७

उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः | लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ||२४|| निद्रानाशोऽरतिः कम्पो मूत्राघातो विसञ्ज्ञता | अमी ह्युपद्रवा घोरा विसूच्यां पञ्च दारुणाः ||२५|| प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम् | तन्मूलो रोगसङ्घातस्तद्विनाशाद्विनश्यति ||२६|| ग्लानिगौरवविष्टम्भभ्रममारुतमूढताः | विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् ||२७||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अजीर्णप्रतियोगितया जीर्णाहारलक्षणमाह– उद्गारेत्यादि| उद्गारशुद्धिर्धूमाम्लादिरहितत्वम्| उत्साहः शरीरमनसोर्बलम्| उत्सर्गो मलमूत्रप्रवृत्तिः, वेगसहित उत्सर्गो वेगोत्सर्गः| यथोचित उपयुक्ताहारानुरूपः| लघुता देहस्य, विशेषेण कोष्ठस्येति||२४-२७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अजीर्णप्रतियोगितया जीर्णाहारलक्षणमाह– उद्गारशुद्धिरित्यादि| जीर्णाहारस्य पुंस एतल्लक्षणम्– उद्गारशुद्धिर्धूमाम्लादिरहितत्वम्, उत्साहः शरीरमनसोर्बलम्, उत्सर्गो मलमूत्रप्रवृत्तिः वेगसहित उत्सर्गः वेगोत्सर्गः, यथोचितः उपयुक्ताहारानुरूपः, लघुता देहस्य विशेषेण कोष्ठस्येति||२४-२७||

Adhikarana पुष्पिका · Śloka

इति श्रीमाधवकरविरचिते माधवनिदानेऽग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानं समाप्तम् ||६||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानं समाप्तम्||६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवैद्यवाचस्पतिकृते आतङ्कदर्पणे रुग्विनिश्चयव्याख्यानेऽग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानम्||६||