Adhikarana अर्शसां षड्भेदाः (१) · Śloka १
अथार्शोनिदानम् |
पृथग्दोषैः समस्तैश्च शोणितात् सहजानि च |
अर्शांसि षट्प्रकाराणि विद्याद्गुदवलित्रये ||१||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अतीसारग्रहण्यर्शसां परस्परानुबन्धित्वादतीसारग्रहण्यनन्तरमर्श उच्यते– पृथगित्यादि| ‘अरिवत् प्राणान् शृणाति हिनस्तीत्यर्शः’ इति पृषोदरादिपाठान्निरुक्तिमाहुः| सहजानीति सह शरीरेण जातानि, गुदवल्यारम्भकबीजभागस्य दोषदूषितत्वात्| अत्र द्वन्द्वजानि प्रकृतिसमसमवायारब्धत्वान्न पृथग्गणितानि| उक्तं हि सुश्रुते– “अर्शःसु दृश्यते रूपं यदा वै दोषयोर्द्वयोः| संसर्गं तं विजानीयात् संसर्गः षड्विधश्च सः||” (सु. नि. अ. २) इति| षड्विधत्वं चात्र संसर्गस्य वातादिभिर्युग्मैस्त्रयः संसर्गाः, तैरेव रक्तयोगादपरे त्रय इति| सन्निपातजं त्वेकैकदोषजेष्वदृष्टस्यासाध्यत्वस्य योगाद्विकृतिविषमसमवायारब्धमिति सङ्ख्यया पृथग्गणितम्| गुदवलित्रय इति अर्धपञ्चाङ्गुलमानं गुदं, तस्यावयवभूतास्तिस्रो वलय उपर्युपरि व्यवस्थिताः शङ्खावर्तनिभाः प्रवाहणीविसर्जनीसंवरणीनामिकाः; तत्र गुदौष्ठमर्धाङ्गुलं, तदूर्ध्वमङ्गुलमाना प्रथमावली सुश्रुतेन (सु. नि. अ. २) निर्दिष्टा; भोजेऽप्युक्तम्– “रोमान्तेभ्यो यवाध्यर्धं गुदौष्ठं परिचक्षते| गुदौष्ठादङ्गुलं चैकं प्रथमां तां वलीं विदुः|| सार्धैकाङ्गुलमानेन तदन्येऽपि प्रकीर्तिते||” इति सार्धाङ्गुलमाना द्वितीया तृतीया चेति||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अतीसारग्रहण्यर्शसां परस्परानुबन्धित्वादतीसारग्रहण्योरनन्तरमर्श उच्यते– पृथगित्यादि| अरिवत् प्राणान् हिंसन्ति इत्यर्शांसि| तानि च षट्प्रकाराणि भवन्ति| पृथग्दोषैर्वातादिभिः त्रीणि, समस्तैर्दोषैः एकं, शोणितेन चैकम्, एकं सहजमित्येवं षडर्शांसि| तत्र सहजानि सह शरीरेण जातानि, गुदवल्यारम्भकबीजभागस्य दोषदूषितत्वात्, कुलजानीत्यर्थः| अत्र द्वन्द्वजानि प्रकृतिसमसमवायारब्धत्वान्न पृथग्गणितानि| उक्तं हि सुश्रुते– “अर्शःसु दृश्यते रूपं यदा वै दोषयोर्द्वयोः| संसर्गं तं विजानीयात् संसर्गः षड्विधश्च सः” इति| षड्विधत्वं चात्र संसर्गस्य वातादियुग्मैस्त्रयः संसर्गाः, तैरेव रक्तयोगादपरे त्रय इति| त्रिदोषजं तु विकृतिविषमसमवायारब्धत्वेनासाध्यत्वात्सङ्ख्यया पृथग्गणितम्| गुदवलित्रय इति अर्धपञ्चाङ्गुलमानं गुदं, तस्यावयवभूतास्तिस्रो वलय उपर्युपरि व्यवस्थिताः शङ्खावर्तनिभाः प्रवाहणीविसर्जनीसंवरणीनामिकाः, तत्र गुदोष्ठमर्धाङ्गुलं, तदूर्ध्वमङ्गुलद्वयप्रमाणा प्रथमावलि, द्वितीया सार्धैकाङ्गुला, तृतीयाऽपि सार्धैकाङ्गुला, एवं सार्धपञ्चाङ्गुलगुदं सुश्रुतेन निर्दिष्टम्| भोजेनाप्युक्तम्– “रोमान्तेभ्यो यवाध्यर्धं गुदौष्ठं परिचक्षते| गुदौष्ठादङ्गुलं चैकं प्रथमां तां वलीं विदुः” इति| सार्धाङ्गुलमाना द्वितीया तृतीया चेति||१||
Adhikarana सम्प्राप्तिपूर्वकमर्शःस्वरूपम् (२) · Śloka २
दोषास्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन् |
मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि तान् जगुः ||२||
(वा. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सम्प्राप्तिपूर्वकमर्शःस्वरूपमाह– दोषा इत्यादि| त्वङ्मांसग्रहणेन त्वङ्मांसाश्रितं रक्तमपि गृह्यते, चिकित्सायां रक्तस्रावणोपदेशात्| अपानं गुदम्, आदिशब्देन नासिकादीनां ग्रहणम्| कायचिकित्सकास्तु गुदजस्यैवार्शस्त्वमिच्छन्ति, नासादिजानां त्वधिमांसत्वं, तेषु “पञ्चात्मा मारुतः” इत्यादिसम्प्राप्तेरभावात्, विष्टम्भ इत्यादिपूर्वरूपस्य चासम्भवात्; यदाह चरकः– ‘शिश्न’ इत्यारभ्य यावत् “अधिमांसव्यपदेश एव” (च. चि. अ. १४) इति| सुश्रुतेन तु मांसाङ्कुरत्वसाधर्म्यात् शस्त्रक्षाराग्निसाध्यत्वाच्च तेष्वर्शःशब्दप्रयोगः कृतः, सार्षपादिस्नेहे तैलव्यपदेशवत्; सुश्रुतार्थवादिनो वाग्भटस्याप्ययमेवाभिप्राय इति||२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सम्प्राप्तिपूर्वकमर्शःस्वरूपमाह– दोषा इत्यादि| दोषा वातादयस्त्वङ्मांसमेदांसि सन्दूष्य अपानादौ यान् मांसाङ्कुरान् कुर्वन्ति भिषजस्तान्मांसाङ्कुरानर्शांसि जगुः कथयन्ति| त्वङ्मांसग्रहणेन त्वङ्मांसाश्रितं रक्तमपि गृह्यते, यस्मात् चिकित्सायां रक्तस्रावकरणोपदेशः| अपानं गुदम्| आदिशब्देन नासिकाश्रवणचक्षुर्मेढ्रनाभिप्रभृतयो गृह्यन्ते| एषां लक्षणानि सुश्रुते पठितानि| कायचिकित्सकास्तु गुदजस्यैवार्शस्त्वमिच्छन्ति नासिकादिजातानां त्वधिमांसत्वं, तेषु ‘पञ्चात्मा मारुतः पित्तम्’ इत्यादिसम्प्राप्तेरभावात्, तथा विष्टम्भेत्यादिसर्वपूर्वरूपस्य चासम्भवात्| यदाह चरकः– “शिश्नेत्यारभ्य यावदधिमांसव्यपदेश एव” इति| सुश्रुतेन तु मांसाङ्कुरत्वसाधर्म्याच्छस्त्रक्षाराग्निसाध्यत्वाच्च तेष्वर्शःशब्दप्रयोगः कृतः, सर्षपादिस्नेहे तैलव्यपदेशवत्| सुश्रुतनुवादिनो वाग्भटस्यायमेवाभिप्रायः प्रतिभाति||२||
Adhikarana वातार्शोनिदानम् (३-४) · Śloka ४
कषायकटुतिक्तानि रूक्षशीतलघूनि च |
प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथुनसेवनम् ||३||
लङ्घनं देशकालौ च शीतौ व्यायामकर्म च |
शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः ||४||
(च. चि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातार्शसो निदानमाह– कषायेत्यादि| प्रमितम् अल्पतमम्, अल्पं मात्राहीनमशनं, जेज्जटस्त्वाह– ‘प्रमितमतीतकालभोजनम्’| ‘प्रमृत’ इति पाठे तु नष्टशक्तिकं धान्यादिकमाहुः| ‘प्रमिताशनमेकरसाभ्यासः’ इत्यन्ये| तन्नातियुक्तम्; एकरसाभ्यासः किं वातप्रकोपकस्य कट्वादेः, कफप्रकोपकस्य मधुरादेर्वा? नाद्यः, कट्वादेरत्रैवोपात्तत्वात्; द्वितीये मधुरादीनां त्वभ्यासो वातशामक एव, एकरसाभ्यासाच्च दौर्बल्यमुक्तं नतु वातवृद्धिरिति चिन्त्यमेतत्| तीक्ष्णमिति मद्यविशेषणं, पैष्टिकादिमृदुमद्यस्य वातप्रशमकत्वात्| शीतो देश आनूपः, कालो हेमन्तादिः| आतपस्य उष्णम्, आतपस्योष्णगुणस्याप्युद्भूतरौक्ष्याद्वातप्रकोपकत्वमिति||३-४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अथ वातार्शोनिदानमाह– कषायेत्यादि| एतत्सर्वं वातार्शसां हेतुः कारणम्| प्रमितमल्पतमम्, अल्पं मात्राहीनम्, अन्ये प्रमितस्थाने अतीतमिति पठन्ति, तत्रातीतकालभोजनम्| अन्ये प्रमृताल्पाशनमिति पठन्ति| तत्र प्रमृतं नष्टशक्तिकं धान्यादिकमाहुः| तीक्ष्णमिति मद्यविशेषणं, पैष्ट्यादिमृदुमद्यस्य वातप्रशमकत्वात्| शीतो देश आनूपः, कालो हेमन्तादिः| आतपस्योष्णगुणस्यापि उद्भूतरूक्षत्वात् वातप्रकोपकत्वमेव| अन्यत्सुबोधम्||३-४||
Adhikarana पित्तार्शोनिदानम् (५-६) · Śloka ६
कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः |
देशकालावशिशिरौ क्रोधो मद्यमसूयनम् ||५||
विदाहि तीक्ष्णमुष्णं च सर्वं पानान्नभेषजम् |
पित्तोल्बणानां विज्ञेयः प्रकोपे हेतुरर्शसाम् ||६||
(च. चि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पित्तार्शोनिदानमाह– कट्वम्लेत्यादि| देशकालावशिशिराविति उष्णो देशो मरुः, उष्णः कालः शरद् ग्रीष्मश्च| असूयनं परसम्पत्तौ द्वेषः, स क्रोधविशेष एव| पित्तोल्बणानामित्यनेन सर्वेषामर्शसां त्रिदोषजत्वम्, अधिकेन तु व्यपदेश इति दर्शितं चरकेण| यदाह स एव– “अर्शांसि नाम जायन्ते नाऽसन्निपतितैस्त्रिभिः| दोषैर्दोषविशेषात्तु विशेषः कथ्यतेऽर्शसाम्||” (च. चि. अ. १४) इति||५-६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अथ पित्तार्शोनिदानमाह– कट्वित्यादि| कट्वम्लेत्यादिको हेतुर्ज्ञेयः| देशकालावशिशिराविति देशो मरुदेशः, उष्णश्च कालो ग्रीष्मः शरच्च, असूयनं परसम्पत्तौ द्वेषः, स च क्रोधविशेष एव| पित्तोल्बणानामित्यनेन सर्वेषामर्शसां त्रिदोषजत्वम्, अधिकेन तु व्यपदेश इति दर्शितं चरकेण, यदाह स एव “अर्शांसि नामजायन्ते नाऽऽसन्निपतितैस्रिभिः| दोषैर्दोषविशेषात्तु विशेषः कथ्यतेऽर्शसाम्” इति| शेषं सुगमम्||५-६||
Adhikarana श्लेष्मार्शोनिदानम् (७-८) · Śloka ८
मधुरस्निग्धशीतानि लवणाम्लगुरूणि च |
अव्यायामो दिवास्वप्नः शय्यासनसुखे रतिः ||७||
प्राग्वातसेवा शीतौ च देशकालावचिन्तनम् |
श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसाम् ||८||
(च. चि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
श्लेष्मार्शोनिदानमाह– मधुरेत्यादि| शय्यासनसुखे रतिरिति सुखशय्यासने रतिरासक्तिः| प्राग्वातसेवा पुरोवातसेवनम्| अचिन्तनं निश्चिन्तता||७-८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अथ श्लेष्मार्शोनिदानमाह– मधुरेत्यादि| श्लेष्मोत्कटानामर्शसां समुत्पत्तावेतन्मधुरस्निग्धेत्यादिकारणमुक्तम्| शय्यासनसुखे रतिस्तत्रासक्तिः| प्राग्वातसेवा पुरोवातसेवनम्| अचिन्तनं निश्चिन्तता| अन्यत्सुबोधम्||७||८||
Adhikarana द्वन्द्वजार्शोनिदानम् (९) · Śloka ९
हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वोल्बणानि च |९|
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
द्वन्द्वजार्शोनिदानादिकमाह– हेत्वित्यादि| हेतुलक्षणसंसर्गादिति दोषद्वयस्य निदानमेलकेन लक्षणमेलकेन च द्वन्द्वोल्बणानि द्वन्द्वजानि विद्यात्|९|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
दोषाणां हेतुलक्षणैरेव द्वन्द्वोल्बणमाह– हेत्वित्यादि| दोषद्वयस्य निदानमेलके लक्षणमेलके च द्वन्द्वोल्बणानि द्वन्द्वजानि विद्यात् जानीयात्|९|–
Adhikarana त्रिदोषजार्शोनिदानम् (९) · Śloka ९
सर्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणं समम् ||९||
(च. चि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
त्रिदोषजार्शोनिदानमाह– सर्व इत्यादि| सर्वो हेतुरिति एकैकशो वाताद्यर्शसां यो हेतुरुक्तः स त्रिदोषजानां भवति, त्रयो दोषा जनकत्वेनैषां सन्तीति त्रिदोषजानि| सहजैर्लक्षणं सममिति तेषां लक्षणं सहजैरर्शोभिः सह समं सदृशं, सहजानां यल्लक्षणं तत्त्रिदोषजानामित्यर्थः| ‘सहजैर्लक्षणैः समम्’ इति पाठान्तरे तु सहजैः सहजार्शोभवैर्लक्षणैः समं सह सर्वो हेतुस्त्रिदोषाणामिति योज्यम्| सहजार्शोलक्षणं चात्र सङ्ग्रहेणोक्तं तन्त्रान्तरादनुस्मर्तव्यं; यदाह सुश्रुतः– “दुर्दर्शनानि परुषारुणपाण्डूनि दारुणान्तर्मुखानि, तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजः क्षीणरेताः क्षामस्वरः क्रोधनोऽल्पाग्निर्घ्राणशिरोऽक्षिश्रवणरोगवान्, सततमन्त्रकूजनाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते||” (सु. नि. अ. २) इति; चरके च– ‘कानिचिदणूनि’ (च. चि. अ. १४) इत्यादिना प्रभूततरं लक्षणमुक्तम्| ननु, त्रिदोषजानीति विशेषाभिधानमनुपपन्नं, सर्वेषामेव रोगाणां त्रिदोषजत्वात्| यदुक्तम्– “द्रव्यमेकरसं नास्ति न रोगोऽप्येकदोषजः| योऽधिकस्तेन निर्देशः क्रियते रसदोषयोः||” इति| नैवं; “सर्वदेहचरास्तु वातपित्तश्लेष्माणः” इति वचनादेकस्मिन् धात्वादौ दोषेण दूषिते सति तद्गतेतरदोषेऽप्यवश्यम्भाविनी काचिद्दुष्टिः, दुष्टदोषसम्बन्धात्| किञ्च स्वकारणात् वृद्धो वायुः शैत्याच्छीतस्य श्लेष्मणो बलमादधाति, लाघवात्तेजोरूपस्य पित्तस्य; पित्तं च कटुत्वाद्वातस्य, द्रवत्वात् श्लेष्मणः; कफश्च शैत्याद्वायोः, द्रवत्वात् पित्तस्येति| अत एवोक्तम्– “न रोगोऽप्येकदोषजः” इति| अनेनैवाभिप्रायेणोक्तम्– “एकः प्रकुपितो दोषः सर्वानेव प्रकोपयेत्|” इति| यत्र तु स्वकारणात्त्रयोऽपि कुपितास्तत्र त्रिदोषव्यपदेश इति सिद्धान्तः; एवं सर्वत्र||९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
त्रिदोषजमाह– सर्व इत्यादि| एकैकशो वाताद्यर्शसां यो हेतुरुक्तः स त्रिदोषजानां भवति| त्रयो दोषा जनकत्वेनैषां सन्तीति त्रिदोषजानि| तेषां लक्षणं सहजैरर्शोभिः सह समं सदृशं सहजानां यल्लक्षणं भवति तत्त्रिदोषजानां भवतीत्यर्थः| सहजार्शोलक्षणं चात्र सङ्ग्रहे नोक्तं तन्त्रान्तरादनुसर्तव्यम्| यदाह सुश्रुतः– “दुर्दर्शनानि परुषारुणपाण्डुराणि दारुणान्तर्मुखानि च, तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजः क्षीणरेताश्च भवति, क्षामस्वरः क्रोधनोऽल्पाग्निर्घ्राणशिरोक्षिश्रवणरोगी सन्ततमन्त्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते” इति सहजानां लक्षणम् ||९||
Adhikarana वातार्शोलक्षणम् (१०-१५) · Śloka १५
गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमचिमान्विताः |
म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः ||१०||
मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः |
बिम्बीखर्जूरकर्कन्धूकार्पासीफलसन्निभाः ||११||
केचित् कदम्बपुष्पाभाः केचित् सिद्धार्थकोपमाः |
शिरःपार्श्वांसकट्यूरुवङ्क्षणाद्यधिकव्यथाः ||१२||
क्षवथूद्गारविष्टम्भहृद्ग्रहारोचकप्रदाः |
कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः ||१३||
तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम् |
रुक्फेनपिच्छानुगतं विबद्धमुपवेश्यते ||१४||
कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते |
गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च ||१५||
(वा. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पूर्वं निदानमुक्तं, सम्प्रति वातादिभेदेनार्शसां लक्षणान्युच्यन्ते, तत्र प्रथमं वातार्शोलक्षणमाह– गुदेत्यादि| गुदाङ्कुरा गुदे अङ्कुराकाराः मांसप्ररोहाः, त एव अर्शांसि| बह्वनिला वातोल्बणाः| शुष्काः स्रावरहिताः| चिमचिमा वेदनाविशेषः| म्लाना अनुपचिताः| स्तब्धाः काठिन्यात्| विशदा अपिच्छिलाः, धूलिस्पर्शवत्| परुषाः कर्कशाः, गोजिह्वास्पर्शवत्| खराः कर्कोटफलवत् सूक्ष्मानेककण्टकाचिताः| एषु विकल्पेषु वक्ष्यमाणं केचिदिति पदं सम्बन्धनीयम्| मिथोविसदृशाः परस्परभिन्नरूपाः| वक्रा धनुःकाष्ठादिवत्| तीक्ष्णाः सूक्ष्माग्राः| फलसन्निभा इति बिम्ब्यादिभिः सम्बध्यते, बिम्ब्यादिसन्निभत्वं चाकृत्या ज्ञेयम्| बिम्बी ओष्ठोपमफला ‘तेलाकुचा’ इति लोके ख्याता, कार्पासी वनकार्पासी, कदम्बपुष्पाभाः स्थूला अनेकसूक्ष्मशिखराः| सिद्धार्थकोपमाः सूक्ष्मपिडकारूपाः| हृदयं गृहीतमिवेति वेदना हृद्ग्रहः| ग्रथितं ग्रन्थिलं पाषाणवत्| रुक् शूलम्| पिच्छा पिच्छिलो द्रवभागः| उपवेश्यते वर्चस्त्याज्यते| कृष्णशब्दस्त्वगादिभिः वक्त्रान्तैः प्रत्येकं सम्बध्यते| अस्योपद्रवमाह– गुल्मेत्यादि| अष्ठीला वातरोगविशेषः||१०-१५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पूर्वं निदानमुक्तं, सम्प्रति वातादिभेदेनार्शसां लक्षणमाह– गुदाङ्कुरा इत्यादि| बह्वनिलाः वातोल्बणाः| गुदाङ्कुराः गुदेऽङ्कुराः मांसप्ररोहाः अर्शांसि| शुष्काः स्रावरहिताः| चिमिचिमा वेदनाविशेषस्तेनान्विताः; सर्षपकल्कलिप्ता इवेति यावत्| म्लाना अनुपचिताः| श्यावारुणा वर्णतः| स्तब्धाः कठिनाः कीलवत्| विशदा अपिच्छिलाः धूलीस्पर्शवत्| विषमा इति पाठे विषमा निम्नोन्नताः| परुषाः कर्कशाः गोजिह्वास्पर्शवत्| खराः कर्कोटकफलवत् सूक्ष्मानेककण्टकचिताः| एषु विकल्पे वक्ष्यमाणं केचिदिति पदं सम्बन्धनीयम्| मिथ इति मिथोविसदृशाः परस्परं विभिन्नरूपाः| वक्रा धनुर्वत्कुटिलाः| तीक्ष्णा दर्भाङ्कुरवत्सूक्ष्माग्राः| विस्फुटिताननाः केसरादिवदाननं येषां तेषां विदीर्णमुखा इत्यर्थः| बिम्बादिफलवत् सदृशत्वमाकृत्या, बिम्बी ओष्ठोपमफला, कर्कन्धुः कोलबदरी, कार्पासी वनकार्पासी| केचिदिति केचित्कदम्बपुष्पाभाः स्थूलाः, केचित्सिद्धार्थकोपमाः सर्षपवत्सूक्ष्माः| शिरःप्रभृतीनामभ्यधिकव्यथा अतिवेदना| क्षवथ्विति क्षवथुः छिक्का| विष्टम्भो मलस्य तृड्ग्रहः| हृद्ग्रहः हृदयं गृहीतमिवेति वेदना हृद्ग्रहः| तैरिति तैर्गुदाङ्कुरैरर्शोभिः पीडितः पुरुषः ग्रथिलं ग्रथितं पाषाणवत्, स्तोकमल्पं, सप्रवाहिकं वातप्रवाहिकालक्षणोपेतं; रुक् शूलं, पिच्छा पिच्छिलो द्रवभागस्तेनानुगतम्, ईदृग्वर्चः उपवेश्यते त्याज्यते, गुदेनेति शेषः| कृष्णशब्दस्त्वगादिभिर्वक्त्रान्तैः प्रत्येकं सम्बध्यते| अस्योपद्रवमाह– गुल्मेत्यादि| ततो वातार्शोभ्य उपद्रवरूपाणामेषां सम्भव उत्पत्तिः| अष्ठीला नाभेरधोभागे पाषाणपिण्डिकावद्वातरोगविशेषः||१०-१५||
Adhikarana पित्तार्शोलक्षणम् (१६-१८) · Śloka १८
पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः |
तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः ||१६||
शुकजिह्वायकृत्खण्डजलौकोवक्त्रसन्निभाः |
दाहपाकज्वरस्वेदतृण्मूर्छारुचिमोहदाः ||१७||
सोष्माणो द्रवनीलोष्णपीतरक्तामवर्चसः |
यवमध्या हरित्पीतहारिद्रत्वङ्नखादयः ||१८||
(वा. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पित्तार्शोलक्षणमाह– पित्तोत्तरा इत्यादि| नीलमुखा नीलाग्राः| तन्वस्रं तन्वस्रं तनु अघनम्, अस्रं रक्तं स्रवन्तीति तन्वस्रस्राविणः| विस्राः आमगन्धिनः| तनवः स्वल्पाः| मृदवः कोमलाः| श्लथाः लम्बनशीलाः| यवमध्याः यववन्मध्ये स्थूलाः| हरित् हरित्पत्रवर्णं, पीतं हरितालाभं, हारिद्रं हरिद्रावर्णम्; आदिशब्दाद्विण्मूत्रनेत्रवक्त्राणां ग्रहणम्||१६-१८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पैत्तिकान्याह– पित्तोत्तरा इत्यादि| पित्तोत्तराः पित्तोल्बणा गुदाङ्कुरा ईदृशा ज्ञेयाः| नीलमुखाः नीलाग्राः| तनु अघनमस्रं रक्तं स्रवन्तीति तन्वस्रस्राविणः, विस्राः विस्रगन्धिनः, तनवः स्वल्पाः, मृदवः कोमलाः अन्ये ‘मृदुलम्बिन’ इति पठन्ति, तत्र लम्बिनो लम्बनशीलाः| आकृत्या च शुकजिह्वायकृत्खण्डजलौकोमुखसन्निभाः सदृशाः| उपद्रवानाह– दाहेत्यादि| दाहादिमोहान्तोपद्रवदायिनः| सोष्माणः उष्णस्पर्शाः| द्रवं नीलं उष्णं पीतरक्तम्, आममपक्वं वर्चः उपवेशयन्ति| यवमध्येति यववत् मध्ये स्थूलाः प्रान्ते सूक्ष्माः| हरितं हरितपत्रवर्णं, पीतं हरितालाभं, हारिद्रवर्णं तद्वत् त्वगादि येषां ते| एवमादिशब्दाच्च चक्षुर्नेत्रादयो गृह्यन्ते||१६-१८||
Adhikarana श्लेष्मार्शोलक्षणम् (१९-२३) · Śloka २३
श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः |
उत्सन्नोपचितस्निग्धस्तब्धवृत्तगुरुस्थिराः ||१९||
पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः |
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः ||२०||
वङ्क्षणानाहिनः पायुबस्तिनाभिविकर्षिणः |
सश्वासकासहृल्लासप्रसेकारुचिपीनसाः ||२१||
मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः |
क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः ||२२||
वसाभसकफप्रायपुरीषाः सप्रवाहिकाः |
न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः ||२३||
(वा. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
श्लेष्मार्शोलक्षणमाह– श्लेष्मोल्बणे इत्यादि| अत्र ‘गुदाङ्कुरा’ इत्यनुवर्तते| महामूला दूरवास्त्ववगाहिनः| घना निबिडावयवाः| उत्सन्ना दैर्घ्येणोद्गताः, उपचिताः परिणाहेन स्थूलाः, स्तब्धा अनम्राः, वृत्ताः परिणाहेन वर्तुलाः, गुरवो गुरुद्रव्याक्रान्तमिव गुदं कुर्वते, स्थिरा अचञ्चलाः| श्लक्ष्णा मणिवन्मसृणाः| कण्ड्वाढ्याः कण्डूबहुलाः; कण्डूव्यपगमार्थं स्पृश्यमानाः प्रीणयन्त्यर्शसमिति स्पर्शनप्रियाः| करीरो मरुजद्रुमः, पनसः कण्टकिफलं, तयोरस्थ्याभाः, अथवा करीरो वंशाङ्कुरः; तेन करीराभाः, पनसास्थ्याभाश्चेत्यर्थः| तथा गोस्तनसन्निभाः गोस्तनसदृशा इत्यर्थः| वङ्क्षणौ आनाहितुमाबद्धुमिव शीलं येषां ते तथा; गुदप्रत्यासत्त्या वङ्क्षणयोः प्रेरणाद्यसामर्थ्यकारिण इत्यर्थः| पायुबस्तिनाभिविकर्षिण इति पाय्वादिष्वाकर्षवत्पीडाकारिणः| प्रसेको मुखस्य गुदस्य वा; कृच्छ्रं मूत्रकृच्छ्रं, शिरोजाड्यं शिरःस्तिमितता, शिशिरज्वरकारिणः शीतज्वरकारिणः| क्लैब्यं स्त्रीष्वनुत्साहः, अग्निमार्दवं वह्निमान्द्यं, छर्दिर्वमिः| आमप्रायविकारदाः आमबहुला ये रोगाः अतीसारग्रहण्यादयस्तत्प्रदाः| प्रायस्थाने ‘प्राज्य’ इति पाठान्तरे स एवार्थः; प्रायप्राज्यशब्दयोः प्रचुरार्थत्वात्| वसाभं च सकफं च प्राज्यं च पुरीषं येषां ते तथा| न स्रवन्ति ‘क्लेदरक्तादिकम्’ इति शेषः| न भिद्यन्ते गाढविट्कप्रपीडिता अपि न विदीर्यन्त इति||१९-२३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
श्लैष्मिकान्याह– श्लेष्मोल्बणा इत्यादि| अत्रादौ गुदाङ्कुरा इत्यनुवर्तते| महामूला दूरधात्ववगाहनाः| घना निबिडावयवाः| मन्दरुजः स्वल्पपीडाः| सिताः शुक्लवर्णाः| उत्सन्ना दैर्घ्येणोद्गताः| उच्छूना इति पाठे श्वयथुमन्तः| परिणाहेन स्थूलाः, स्तब्धाः अनम्राः| वृत्ताः परिणाहेन वर्तुलाः| गुरवः गुरुद्रव्याक्रान्तमिव गुदं कुर्वते| स्थिरा निश्चलाः| पिच्छिला अविशदाः| स्तिमिता मन्दाः| श्लक्ष्णा मणिवन्मसृणाः| कण्ड्वाढ्याः कण्डूबहुलाः| कण्डूव्यपगमार्थमुपस्पृश्यमानाः प्रीणयन्त्यर्शसमिति स्पर्शनप्रियाः| आकृत्या तु करीरो मरुदेशोद्भवो द्रुमः, पनसः कण्टकिफलं, तयोरस्थिवदाभाः| अथवा करीरो वंशाङ्कुरः, तेन करीराभाः, पनसास्थ्याभाश्चेत्यर्थः| तथा गोस्तनसन्निभास्तत्सदृशाः| वङ्क्षणावानाहितुमाबद्धुमिव शीलं येषां ते तथा| गुदप्रत्यासत्त्या वङ्क्षणयोः प्रेरणाद्यसामर्थ्यकारिणः| पायुवस्तिनाभिविकर्षिणः पाय्वादिषु आकर्षणवत् पीडाकारिणः| बस्तिः मूत्रकोशः| उपद्रवानाह– कासेत्यादि| हृल्लासः उपस्थितवमनमिव, प्रसेको मुखस्य गुदस्य वा| कृच्छ्रं मूत्रकृच्छ्रं, शिरोजाड्यं शिरस्तिमितता, शिशिरज्वरकारिणः शीतज्वरकारिणः| क्लैब्यं स्त्रीष्वनुत्साहः| आमप्रायविकारदाः आमबहुला ये रोगा अतीसारग्रहण्यादयस्तत्प्रदाः| प्रायःस्थाने ‘प्राज्य’ इति पाठे स एवार्थः, प्रायः प्राज्यशब्दयोः प्रचुरार्थत्वात्| वसाभं च, सकफं, प्राज्यं प्रभूतं पुरीषं येषां ते तथा| सप्रवाहिकाः श्लैष्मिकप्रवाहयुक्ताः| न स्रवन्ति क्लेदरक्तादिकमिति शेषः| न भिद्यन्ते गाढविट्कनिपीडिता अपि न विदीर्यन्त इति| पाण्डुस्निग्धास्त्वगादयः त्वङ्नखनयनवदनानि यत्र पुरुषाणां भवन्ति||१९-२३||
Adhikarana सन्निपातार्शसः सहजार्शसश्च लक्षणम् (२४) · Śloka २४
सर्वैः सर्वात्मकान्याहुर्लक्षणैः सहजानि च |२४|
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सन्निपातार्शसः सहजार्शसश्च लक्षणमाह– सर्वैरित्यादि| सर्वैर्वातजाद्यर्शोभवैर्लक्षणैः, सर्वात्मकानि त्रिदोषजानि; तथा तैरेव लक्षणैः सहजान्यप्याहुः, तेषामपि त्रिदोषजत्वात्||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सन्निपातार्शसः सहजार्शसश्च लक्षणमाह– सर्वैरित्यादि| सर्वैर्वातजाद्यर्शोभवैर्लक्षणैः सर्वात्मकानि त्रिदोषजानि तथा तैरेव लक्षणैः सहजान्यप्याहुः, तेषामपि त्रिदोषजत्वात्||–
Adhikarana रक्तार्शोलक्षणम् (२४-२७) · Śloka २७
रक्तोल्बणा गुदेकीलाः पित्ताकृतिसमन्विताः ||२४||
वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः |
तेऽत्यर्थं दुष्टमुष्णं च गाढविट्कप्रपीडिताः ||२५||
स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः |
भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ||२६||
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः |
(वा. नि. अ. ७) |
विट् श्यावं कठिनं रूक्षमधोवायुर्न वर्तते ||२७||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
रक्तार्शोलक्षणमाह– रक्तोल्बणा इत्यादि| गुदेकीलाः कीलवत् कीलाः अर्शांसि, “हलदन्तात् सप्तम्याः सञ्ज्ञायाम्” (पा. अ. ६ पा. ३ सू. १) इत्यलुक्समासः| पित्ताकृतिसमन्विताः पैत्तिकार्शोलक्षणयुक्ताः| विद्रुमसन्निभाः प्रवालमणिवल्लोहिता इत्यर्थः| ते गाढविट्कप्रपीडिताः कठिनपुरीषयन्त्रिताः, दुष्टम् आविलम्, उष्णं च रक्तं स्रवन्ति| तस्येति रक्तस्य, अतिप्रवृत्तितः अतिक्षयात्, भेकाभः प्रावृषेण्यवर्षाभ्वाभः पीतच्छविः, ‘पुरुषः’ इति शेषः| दुःखैः रोगैः| शोणितक्षयसम्भवैरिति त्वक्पारुष्याम्लशीतप्रार्थनासिराशैथिल्यैः (सु. सू. अ. १५) सुश्रुतोक्तैः| बलं स्थौल्यम्, उत्साहो हर्षः| हतौजा हतशक्तिः| कलुषेन्द्रिय आविलचक्षुः, व्याकुलसर्वेन्द्रियो वा| विट् श्यावमिति विट्शब्दो नपुंसकोऽप्यस्ति, एतन्निर्देशादेव| काश्मीरास्तु चरके– “विट् श्यावा कठिना रूक्षा” इत्येव पठन्ति| अधोवायुर्न वर्तते गुदेन, प्रतिलोमगत्वात्||२४-२७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
रक्तजान्याह– रक्तोल्बणा इत्यादि| गुदेकीलाः कीलवत् कीला अर्शांसि, तेषां लक्षणमीदृशम्– पित्ताकृतिसमन्विताः पैत्तिकार्शोलक्षणयुक्ताः| आकृत्या च गुञ्जा रक्तगुञ्जा, विद्रुमः प्रवालमणिस्तत्सदृशलोहिता इत्यर्थः| ते गाढविट्कप्रपीडिताः कठिनपुरीषयन्त्रिताः| अतिशयेन दुष्टं रक्तमुष्णं च स्रवन्ति| सहसा अकस्मात्| तस्येति रक्तस्यातिप्रवृत्तितः प्रवर्तनाद्भेकाभः प्रावृषेण्यवर्षाभ्वाभः पीतच्छविः पुरुषः| दुःखैः रोगैः, शोणितक्षयसम्भवैरिति शोणितक्षये त्वक्पारुष्याम्लशीतप्रार्थनासिराशैथिल्यैः सुश्रुतोक्तैः| बलं स्थौल्यम्| उत्साहो हर्षः| हतौजा हतशक्तिः, कलुषेन्द्रियो व्याकुलसर्वेन्द्रियः| अधोवायुर्न प्रवर्तते गुदेन, प्रतिलोमत्वात्||२४-२७||
Adhikarana रक्तार्शसो वातजादिभेदेन लक्षणानि (२८-३०) · Śloka ३०
तनु चारुणवर्णं च फेनिलं चासृगर्शसाम् |
कट्यूरुगुदशूलं च दौर्बल्यं यदि चाधिकम् ||२८||
तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम् |
शिथिलं श्वेतपीतं च विट् स्निग्धं गुरु शीतलम् ||२९||
यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम् |
गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम् |
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः ||३०||
(च. चि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इदानीं तस्यैव रक्तार्शसो निदानस्य रक्तस्य वातादिभेदेन लक्षणमाह– तन्वित्यादि| तत्रानुबन्धो वातस्येति वातादिदुष्टस्यैव रक्तस्यारम्भकत्वान्नतु केवलस्य, दोषत्वाभावात्| शिथिलमित्यादिना कफानुबन्धस्य| ननु, पित्तानुबन्धः कुतो नोक्त इति? उच्यते, रक्तपित्तयोः प्रायः समानलिङ्गत्वात्| उक्तं च पूर्वं “रक्तोल्बणा गुदेकीलाः पित्ताकृतिसमन्विताः|” इति||२८-३०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इदानीमस्यैव रक्तार्शोनिदानस्य वातादिभेदेन लक्षणमाह– तन्वित्यादि| रक्तोल्बणानामर्शसामसृग्यदीदृशं भवति– तनु अल्पं, कट्यादिषु शूलम्, अधिकं च दौर्बल्यं, तत्र रक्तार्शसि वातस्यानुबन्धो ज्ञेयः| यदि च रूक्षणं रूक्षद्रव्यादि हेतुः कारणम्| श्लेष्मानुबन्धलक्षणमाह– रक्तोल्बणानामर्शसां यदि शिथिलं श्वेतपीतं च विट् प्रवर्तते, यदि च स्निग्धं गुरु शीतलं तन्तुमत्पाण्डु पिच्छिलं च असृक्प्रवर्तते, तन्तुमत्सूत्राकारं, गुदमपि पिच्छिलार्द्रस्तिमितं निश्चलं भवति, तस्मिन् रक्तार्शसि श्लेष्मानुबन्धो विज्ञेयः| गुरु स्निग्धं च तत्र कारणं हेतुः| ननु पित्तानुबन्धः कुतो नोक्तः इति तत् उच्यते, रक्तपित्तयोः प्रायः समानलिङ्गत्वात्| पूर्वमुक्तं च ``रक्तोल्बणा गुदेकीलाः पित्ताकृतिसमन्विताः'' इति||२८-३०||
Adhikarana अर्शसां पूर्वरूपम् (३१-३२) · Śloka ३२
विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च |
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽल्पविट्कता ||३१||
ग्रहणीदोषपाण्ड्वर्तेराशङ्का चोदरस्य च |
पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये ||३२||
(च. चि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पूर्वरूपमाह– विष्टम्भ इत्यादि| विष्टम्भोऽन्नस्येति विष्टभ्यान्नस्याजीर्णतागमनम् आहारो वा वा विष्टब्धः आमाशय एवावतिष्ठते, वातवैगुण्यात्| दौर्बल्यं हीनशक्तिता| ‘विष्टम्भोऽङ्गस्य’ इति पाठान्तरे विष्टम्भो मलस्य, अङ्गस्य दौर्बल्यम्| यद्यपि निदानानन्तरं पूर्वरूपं वक्तव्यं भवति, तथाऽपि निदानलक्षणानन्तरमत्र पूर्वरूपं; निदानलिङ्गयोश्चिकित्साङ्गतमत्वप्रतिपादनार्थं तयोः पूर्वमभिधानम्; अथवाऽवश्यवक्तव्यानां कामचारादभिधानमिति| एवमन्यत्रापि व्यतिक्रमे द्रष्टव्यम्| कुक्षेराटोपो ‘गुडगुडाशब्दः’ इति चक्रः, ‘तनतनी’ इति गुणाकरः; ‘रुजापूर्वकः क्षोभः’ इति गदाधरः, पुरीषवृद्धिलक्षणे च ‘आटोपम् आध्मानम्’ इति विवृतवान्; एतच्च न सर्वत्र, गुल्मपूर्वरूपे आटोपाध्मानयोरुभयोरपि पाठात्| उद्गारबाहुल्यमधोनिरुद्धस्य वायोरूर्ध्वगमनात्| सक्थिसादो जङ्घावसादः| ग्रहणीदोषपाण्ड्वर्तेः ग्रहणीदोषयुक्तपाण्डुरोगस्य उदरस्य चाशङ्का, तेषां लक्षणदर्शनात्| ‘ग्रहणीदोषपाण्ड्वर्तिः’ इति पाठान्तरे ग्रहणीदोषस्य पाण्डोः पाण्डुरोगस्य चार्तिः पीडा स्यात्| अभिवृद्धये उत्पत्त्यर्थमिति||३१-३२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
विष्टम्भोऽन्नस्येत्यादि| विष्टम्भोऽन्नस्य अजीर्णतागमनम्, आहारो वा विष्टब्ध आमाशय एवावतिष्ठते, वातवैगुण्यात्| दौर्बल्यं हीनशक्तिता| विष्टम्भोऽङ्गस्येति पाठान्तरे विष्टम्भो मलस्य, अङ्गस्य दौर्बल्यम्| कुक्षेराटोपः गुडगुडाशब्द इति चक्रः, तलतल इति गुणाकरः, रुजापूर्वकः क्षोभ इति गदाधरः, पुरीषवृद्धिलक्षणे आटोपः आध्मानमिति माधवः| उद्गारबाहुल्यं अधोनिरुद्धस्य वायोरूर्ध्वगतत्वात्| सक्थिसादो जङ्घावसादः, अल्पविट्कता अल्पपुरीषत्वम्| ग्रहणीरोगपाण्ड्वर्तेराशङ्केति ग्रहणीरोगयुक्तस्य पाण्डुरोगोदरस्य चाशङ्का, एतेषां लक्षणदर्शनात्| ग्रहणीरोगपाण्ड्वर्तिरिति पाठान्तरे ग्रहणीरोगस्य पाण्डोः पाण्डुरोगस्य चार्तिः पीडा स्यादिति||३१-३२||
Adhikarana अर्शसां समुत्पत्तौ वातादीनां सर्वेषामेव प्रकोपः (३३-३४) · Śloka ३४
पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम् |
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ||३३||
तस्मादर्शांसि दुःखानि बहुव्याधिकराणि च |
सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ||३४||
(च. चि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
ननु, गुददेशदुष्ट्या गुदजस्योत्पादात् कथं सर्वदेहे कृशत्वकृष्णत्वादिरूपा दुष्टिरित्यत आह– पञ्चात्मेत्यादि| पञ्चात्मा पञ्चस्वरूपः, प्राणापानसमानोदानव्यानभेदात्; इति तेषां स्थानानि| एवं लिङ्गविपरिणामात् पञ्चात्मकत्वं पित्तेऽपि योज्यं, पित्तं ह्यालोचकरञ्जकसाधकपाचकभ्राजकभेदाद्भिन्नम्| एवं कफोऽपि पञ्चात्मा, हृदयामाशयजिह्वाशिरःसन्धिषु क्रमेणावलम्बकक्लेदकबोधकतर्पकश्लेष्मकभेदात्| यदाह गौतमः– “श्लेष्मा तु पञ्चविधोरःस्थः क्लेदकादिस्वकर्मणा| कफधाम्नां च सर्वेषां यत् करोत्यवलम्बनम्|| अतोऽवलम्बकः, श्लेष्मा यस्त्वामाशयसंश्रितः| क्लेदकः सोऽन्नसङ्घातक्लेदनाद्, रसबोधनात्|| बोधको रसनास्थस्तु, शिरःसंस्थोऽक्षितर्पणात्| तर्पकः, श्लेष्मकः सम्यक् श्लेषणात् सन्धिषु स्थितः||” इति| गुदवलीत्रयस्य च प्रकोपो विकृतत्वं, सन्निधानस्याप्यभावात्, वलीदुष्टेरप्राप्तेश्च| सर्व एवेति उक्तमारुतादय एवेति| तस्मादित्यादि| बहुव्याधिकराणीति जठराग्निमान्द्याद्युपद्रवकराणि| प्रायः कृच्छ्रतमानीति प्रायोग्रहणादसाध्यानि सुखसाध्यान्यपि||३३-३४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
ननु, गुददेशदुष्ट्या गुदजस्योत्पादात् कथं सर्वदेहे कृशत्वादिरूपा दुष्टिरित्याह– पञ्चात्मेत्यादि| गुदजानां समुद्भवे सम्भवे एते सर्व एवोक्तस्वरूपा वातादयः प्रकुप्यन्ति| पञ्चात्मा पञ्चस्वरूपः, प्राणापानसमानोदानव्यानभेदात्| तेषां स्थानानि– “हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः| उदानः कण्ठदेशे च व्यानः सर्वशरीरगः”इति| एवं पञ्चात्मा वायुः कथ्यते “योऽनिलो वक्त्रसञ्चारी स प्राणो नाम देहधृक्| सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चैवावलम्बते|| कुपितः कुरुते चापि हिक्काश्वासादिकान् गदान्| उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः|| तेन भाषितगीतादिविशेषश्चाभिवर्तते| ऊर्ध्वजत्रुगतान् रोगान् करोति कुपितश्च सः|| आमपक्वाशयचरः समानोऽग्निसहायवान्| अन्नं पचति तज्जांश्च विकारान् प्रव्यनक्ति सः|| गुल्माग्निसादातीसारान्प्रदुष्टश्च करोति सः| पक्वाशयाश्रयोऽपानः काले कर्षति चाप्यधः| वातमूत्रपुरीषाणि शुक्रगर्भार्तवानि च| क्रुद्घश्च कुरुते रोगान् घोरान्वस्तिगुदाश्रयान्|| सर्वदेहसरो व्यानो रससंवाहनोद्यतः| स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि|| क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान्| शुक्रदोषाः प्रमेहाश्च व्यानापानप्रकोपजाः|| युगपत् कुपिताश्चामी देहं भिन्द्युरसंशयम्”इति| पञ्चात्मा वायुः ‘रजोगुणमयः सूक्ष्मः शीतो रूक्षो लघुश्चलः’ इति| एवं पञ्चात्मकत्वं पित्ते योज्यम्, आलोचकरञ्जकसाधकपाचकभ्राजकभेदात्;”पाचकं भ्राजकं चैव रञ्जकालोचके तथा| साधकं चेति पञ्चैव पित्तनामान्यनुक्रमात्|| स्वाशये पाचकं पित्तमग्निरूपं तिलोन्मितम्| भ्राजकं कान्तिदं यत्तु लेपाभ्यङ्गादिपाचकम्|| रञ्जकं तु यकृत्प्लीहोस्तद्रसं शोणितं व्रजेत्| आलोचकं स्थितं नेत्रे रूपदर्शनकारि तत्|| साधकं हृदये तिष्ठेन्मेधाप्रज्ञाकरं च तत्| पित्तमुष्णं द्रवं पीतं नीलं सत्त्वगुणोत्तरम्|| कटुतिक्तरसं ज्ञेयं विदग्धं चाम्लतां व्रजेत्” इति| तेषां स्थानानि आलोचकं नेत्रयोः, रञ्जकं यकृत्प्लीह्नोः, साधकं हृदि, पाचकं पक्वामाशययोर्मध्ये, भ्राजकं त्वचि| एवं कफोऽपि पञ्चात्मा, आलम्बकक्लेदकबोधकतर्पकश्लेष्मकभेदात्| तेषां स्थानानि| यदाह गौतमः– “श्लेष्मा पञ्चविधस्तत्र त्रिकसंस्थः स्ववीर्यतः| हृदयस्थः स्ववीर्याच्च तत एवाम्बुकर्मणा|| कफधाम्नामशेषाणां यत्करोत्यवलम्बनम्| अतोऽवलम्बकः श्लेष्मा यस्त्वामाशयसंस्थितः|| क्लेदकः सोऽन्नसङ्घातक्लेदनाद्रसबोधनात्| बोधको रसनास्यस्तु शिरःसंस्थोऽक्षितर्पणात्|| तर्पकः श्लेष्मकः सन्धेः श्लेषणात्सन्धिसंस्थितः| उरःकण्ठःशिरःसन्धिपर्वाण्यामाशयो रसः| मेदो घ्राणं च जिह्वा च कफस्थानमुरो भृशम्”इति| एवं दोषत्रयाणां पञ्चात्मकत्वं सिद्धम्| पञ्चात्मानो दोषास्त्रयः गुदवलित्रयं च गुदजानां समुद्भवे सर्व एव प्रकुप्यन्ति, गुदवलित्रयस्य प्रकोपो विकृतत्वं प्रवहणादिस्वकार्याकर्तृत्वम्| अन्ये तु गुदवलीत्रय इति पठन्ति व्याख्यानयन्ति च– सर्वे दोषा गुदवलीत्रये कुप्यन्ति| तन्नातियुक्तं, प्राणोदानयोस्तत्रासन्निधानात्| अन्ये व्याख्यानयन्ति– गुदवलीत्रये गुदजानां समुद्भवे उत्पत्तौ सति सर्व एव दोषाः प्रकुप्यन्तीति| तस्मादर्शांसि दुःखप्रदानि बहुव्याधिकराणि जठराग्निमान्द्याद्युपद्रवकराणि| अतः सर्वशरीरतापीनि| प्रायः कृच्छ्रतमानीति प्रायोग्रहणादसाध्यानि| सुश्रुतस्तु– “सर्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः| ताभिस्तु प्रहितो वायुरपानः सन्निवर्तते|| ततो व्यानेन सङ्गम्य ज्योतिर्गृह्णाति देहिनाम्|” इति||३३-३४||
Adhikarana अर्शसां साध्यासाध्यत्वादिविचारः (३५-३७) · Śloka ३७
बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च |
अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च ||३५||
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च |
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ||३६||
सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिम् |
जायन्तेऽर्शांसि संश्रित्य तान्यसाध्यानि निर्दिशेत् ||३७||
(च. चि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उक्तवाताद्यर्शसां साध्यत्वादिकमाह– बाह्यायामित्यादि| न चिरोत्पतितानीति अनतिक्रान्तसंवत्सराणि| परिसंवत्सराणीति परिगतोऽतिक्रान्तः संवत्सरो यैस्तानि तथा| यानि तु बाह्यवलिजातानि द्विदोषोल्बणानि तानि कृच्छ्राणि, त्रिदोषजानि याप्यानीत्युक्तम्; एवं द्वितीयायामेकदोषोल्बणानि कृच्छ्राणि, द्विदोषोल्बणानि याप्यानि, त्रिदोषोल्बणान्यसाध्यानि; एवं तृतीयायामेकदोषोल्बणानि याप्यानि, शेषाण्यसाध्यानि| यद्याप्यं प्रत्याख्येयं वा तद्दोषवलिभेदेऽप्यसाध्यमेव; यदुक्तं चरकेण– “नासाध्यः साध्यतां याति साध्यो याति त्वसाध्यताम्|” (च. नि. अ. ८) इति||३५-३७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सुखसाध्यान्याह– बाह्यायामित्यादि| न चिरोत्पतितानीति अनतिक्रान्तसंवत्सराणि| कृच्छ्रसाध्यान्याह– द्वन्द्वजानि द्वितीयायां वलौ यान्यर्शांसि कृच्छ्रसाध्यानि तान्याहुः| परिसंवत्सराणि च परिगतोऽतिक्रान्तः संवत्सरो यैस्तानि कृच्छ्रसाध्यानि याप्यानीत्यर्थः| असाध्यान्याह– सहजानीत्यादि| यानि सहजानि तान्यसाध्यानि, तथा त्रिदोषजान्युत्तरकालजान्यपि, यान्यभ्यन्तरं वलिं संश्रित्य जायन्त” इत्यन्वयः| तत्रापि विशेषः कथ्यते– यानि तु बाह्यवलिजातानि द्विदोषोल्बणानि तानि कृच्छ्राणि, त्रिदोषाणि याप्यानीत्युक्तम्; एवं द्वितीयायामेकदोषोल्बणानि कृच्छ्राणि त्रिदोषोल्बणानि असाध्यानि; एवं तृतीयायां एकदोषोल्बणानि याप्यानि शेषाण्यसाध्यानि||३५-३७||
Adhikarana याप्यार्शोलक्षणम् (३८) · Śloka ३८
शेषत्वादायुषस्तानि चतुष्पादसमन्विते |
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा ||३८||
(च. चि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
असाध्यो हि द्विविधो याप्यप्रत्याख्येयभेदात्, तत्र यद्यायुःशेषोऽस्ति चतुष्पादसम्पत्तिश्च तदा याप्यत्वमन्यथा प्रत्याख्येयत्वमित्याह– शेषत्वादित्यादि| चतुष्पादसमन्विते ‘अर्शोरोगिणि’ इति शेषः| समन्वित इति भावे क्तः, तेन ‘चतुष्पादसमन्वये सति’ इति चक्रः||३८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
असाध्यस्य याप्यप्रत्याख्येयभेदेन द्वैविध्यमाह– शेषत्वादित्यादि| यद्यायुषः शेषोऽस्ति तदा चतुष्पादसमन्विते तान्यर्शांसि याप्यन्ते ‘ रोगिणम्’ इति शेषः| कीदृशे रोगिणि? दीप्तकायाग्नौ, पुनः कीदृशे? चतुष्पादसमन्विते; अतोऽन्यथा विपरीतानि प्रत्याख्येयानि असाध्यानि| पादचतुष्टयं यथा– रोगी भिषक्, परिचारक औषधं च| यदा रोगी भिषग्वाक्यकृदाढ्यो जितेन्द्रियः, वैद्यः शास्त्रे कर्मणि कुशलो निर्लोभः सत्यधर्मपरश्च, परिचारक आप्तः कुलीनोऽनलसः आतुरच्छन्दानुवर्ती च, औषधं नवं रसवीर्यादिसम्पन्नं च| तदुक्तम्– “वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः| एते पादाश्चिकित्सायाः कर्मसाधनहेतवः| तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयङ्कृती| लघुहस्तः शुचिः शूरः सज्जोपस्कृतभेषजः|| प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः| सत्यधर्मपरो यश्च स भिषक्पाद उच्यते|| आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मवानपि| उच्यते व्याधितः पादो वैद्यवाक्यकृदास्तिकः|| प्रशस्तदेशसम्भूतं प्रशस्तेऽहनि चोद्धृतम्| अल्पमात्रं महावीर्यं गन्धवर्णरसान्वितम्|| दोषघ्नमग्लानिकरमविकारि विपर्यये| समीक्ष्य काले दत्तं च भेषजं पाद उच्यते|| स्निग्धोऽजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे| वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः” इति| एषा चतुष्पादसम्पत्तिः सा चायुषः शेषत्वाद्घटते||३८||
Adhikarana अर्शसामुपद्रवादसाध्यत्वम् (३९-४१) · Śloka ४१
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा |
शोथो हृत्पार्श्वशूलं च यस्यासाध्योऽर्शसो हि सः ||३९||
हृत्पार्श्वशूलं सम्मोहश्छर्दिरङ्गस्य रुग्ज्वरः |
तृष्णा गुदस्य पाकश्च निहन्युर्गुदजातुरम् ||४०||
(च. चि. अ. १४) |
तृष्णा अरोचकशूलार्तमतिप्रस्रुतशोणितम् |
शोथातिसारसंयुक्तमर्शांसि क्षपयन्ति हि ||४१||
(सु. सू. अ. ३३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उपद्रवादसाध्यत्वमाह– हस्ते इत्यादि| हस्तपादादिशोथो मिलितोऽसाध्यलक्षणम्| अत्र हृत्पार्श्वशूलसम्मोहादि व्यस्तं समस्तं वा||३९-४१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अथोपद्रवादसाध्यत्वमाह– हस्त इत्यादि| यस्य हस्तपादादिषु श्वयथुः स्यात् हृत्पार्श्वशूलं च स अर्शसोऽर्शोरोगी असाध्यः| असाध्यस्य लक्षणमाह– हृदित्यादि| हृत्पार्श्वशूलं सम्मोहश्च; तथा हृत्पार्श्वादि समस्तं व्यस्तं च, अङ्गस्य रुक् पीडा, गुदमुष्कयोः पाकश्च, गुदजानि अर्शांसि, तं नरं घ्नन्तीत्यर्थः| रक्तार्शोऽसाध्यत्वमाह– तृष्णेत्यादि| अतिप्रस्रुतशोणितं तृष्णारोचकाद्युपद्रवयुक्तं पुरुषमर्शांसि क्षपयन्ति नाशयन्ति, हि पादपूरणे||३९-४१||
Adhikarana मेढ्रजादीनामर्शसां लक्षणम् (४२) · Śloka ४२
मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं, नाभिजानि च |
गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च ||४२||
(वा. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अथ मेढ्रजादीनां स्वरूपमाह– मेढ्रादिष्वित्यादि| मेढ्रादिष्वपि वक्ष्यन्ते यथास्वमित्यन्तेन छेदः| तेन ‘नासार्श’ इत्यादिव्यपदेशः| गण्डूपदास्यरूपाणि किञ्चुलकमुखसदृशानि||४२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
स्थानान्तरेष्वन्यान्यप्यर्शांस्याह– मेढ्रादिष्वित्यादि| मांसाङ्कुरत्वादेषामर्शसां व्यपदेशः, सर्षपादिषु स्नेहेषु तैलव्यपदेशवत्| मेढ्रः शेफः, आदिशब्दाच्चक्षुर्नासादीनि| यथास्वं यथास्थानम्| नाभिजानि तु गण्डूपदास्यरूपाणि किञ्चुलमुखसदृशानि आकृत्येत्यर्थः| तानि पिच्छिलानि मृदूनि च भवन्ति||४२||
Adhikarana चर्मकीलसम्प्राप्तिः (४३) · Śloka ४३
व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः |
कीलोपमं स्थिरखरं चर्मकीलं तु तद्विदुः ||४३||
(वा. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
चर्मकीलसम्प्राप्तिमाह– व्यान इत्यादि| व्यानो वायुः, “एतच्च गुदौष्ठदेश एव नान्यत्र इति कार्तिककुण्डादयः”||४३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
चर्मकीलसम्प्राप्तिमाह– व्यान इत्यादि| व्यानो वायुः, कफं गृहीत्वा सङ्गृह्य, त्वचो बहिः कीलसदृशमर्शः कुर्यात्, स्थिरं निश्चलं, तं चर्मकीलं प्राहुः| त्वचो बहिरिति गुदौष्ठं परित्यज्येत्यर्थः, तत्र त्वर्शसामेव सम्भवत्वात्; एतच्च गुदोष्ठदेश एव नान्यत्रेति कार्तिककुण्डादयः||४३||
Adhikarana चर्मकीलस्य वातजादिभेदेन लक्षणानि (४४) · Śloka ४४
वातेन तोदपारुष्यं पित्तादसितवक्त्रता |
श्लेष्मणा स्निग्धता चास्य ग्रथितत्वं सवर्णता ||४४||
(वा. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तस्यैव वातादिभेदेन लक्षणमाह– वातेनेत्यादि| सवर्णता गात्रसवर्णता|४४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्यैव वातादिलक्षणमाह– वातेनेत्यादि| वातेन तोदः पीडाविशेषः, पारुष्यं परुषता; पित्तात् असितं किञ्चित्कृष्णं वक्त्रं च; श्लेष्मणा स्निग्धता, ग्रन्थिसादृश्यं सवर्णता गात्रसमानवर्णता| दोषाः प्रकुपिता मेढ्रमांसशोणिते प्रदूष्य कण्डूः कुर्वन्ति, ततः कण्डूयतां क्षतम्| “तस्मिन् क्षते प्ररोहाः स्युर्मांसजा रुधिरस्रवाः| विनाशयन्ति शेफं ते घ्नन्ति पुंस्त्वं च सत्वरम्” इति| शेफो मेढ्रं, पुंस्त्वं शुक्रम्| “तथा योनौ च ते दुष्टा गण्डूपदमुखाकृतीन्|| दुर्गन्धान्सुकुमारांश्च पिच्छिलान् जनयन्ति हि”इति| मांसाङ्कुरानिति शेषः| चकाराद्योनेरार्तवं च घ्नन्ति| “तैरेवोर्ध्वगतैर्दोषैः कर्णजार्शस्तु जायते| बाधिर्यं शूलमत्युग्रं सततं कर्णपूतिता|| नेत्रजेषु जलस्रावो वेदना चाप्यदर्शनम्| अश्रूणां जायते वर्त्माऽवरोधोऽर्शस्सु सन्ततम्|| घ्राणजेषु प्रतिश्यायः कृच्छ्रोच्छ्वासः शिरोव्यथा| क्षवथुः पूतिवक्त्रं च वाक्यं स्यादनुनासिकम्|| मुखार्शस्सु च कण्ठौष्ठतालुमध्यैकजन्मसु| स्याद्धि गद्गदवाक्यत्वं रसाज्ञानं मुखामयाः||” इति||४४||
Adhikarana पुष्पिका · Śloka ५
इति श्रीमाधवकरविरचिते माधवनिदानेऽर्शोनिदानं समाप्तम् ||५||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजरक्षितकृतायां मधुकोशव्याख्यायामर्शोनिदानं समाप्तम्||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवैद्यवाचस्पतिकृते आतङ्कदर्पणे रुग्विनिश्चयव्याख्यायामर्शोनिदानम्||५||