Adhikarana क्रिमीणां सङ्ख्या (१-२) · Śloka १
अथ क्रिमिनिदानम् | क्रिमयश्च द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः | बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः ||१|| नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः | (वा. नि. अ. १४) |
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अजीर्णात् क्रिमिसम्भव इत्यतोऽजीर्णानन्तरं क्रिमिनिदानमाह– क्रिमय इत्यादि| तत्र बाह्यास्त्वगुपलेपकबाह्यमलसम्भवाः, आभ्यन्तरा आमाशयादिसम्भवाः, ते देशभेदेन द्वैविध्येनोक्ताः कारणभेदाच्चतुर्धा भवन्तीत्याह– बहिर्मलेत्यादि| बहिर्मलो गात्रोपलेपी स्वेदादिरुक्त एव बहिर्मलादिषु चतुर्षु जन्म बहिर्मलादिजन्म तद्भेदात्| त एव चतुर्विधा नामभेदेन विंशतिविधा भवन्ति, विंशत्यतिरिक्ताश्चातिसूक्ष्माः कृमयः सहजाश्चरकेणोक्ताः, ते चावैकारिकत्वेन रोगाधिकारे नोच्यन्ते, विंशतिविधास्तु क्रिमयो दोषप्रकोपणद्वारेण ज्वरशूलादीन् जनयन्तीति रोगा उच्यन्ते||१-२||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अजीर्णात्कृमिसम्भव इत्यतोऽजीर्णानन्तरं कृमिनिदानमाह– कृमय इत्यादि| एके बाह्याः केशे वस्त्रादिजा यूकालिक्षादयः, अन्ये चाभ्यन्तराः| तत्र बाह्यास्त्वगुपलेपकबाह्यमलसम्भवाः, आभ्यन्तराश्च आमादिसम्भवाः, त एव देशभेदाद्द्वैविध्येनोक्ताः कारणभेदाच्चतुर्धा भवन्ति| बहिर्मलो गात्रोपलेपी स्वेदादिरुक्तः| एवं बहिर्मलादिषु चतुर्षु जन्म बहिर्मलादिजन्म, तस्य भेदात्| केचिद्बहिर्मलजन्मानः, तथा केचित्कफजन्मानः, केचिद्रक्तजन्मानः, केचित्पुरीषजन्मानश्चेति चतुर्धा| त एव चतुर्विधा नामतो नामभेदेन विंशतिविधा वक्ष्यमाणाभिः सञ्ज्ञाभिर्विंशतिविधा भवन्ति तानाह– नामतो विंशतिविधा विंशतिसङ्ख्याका नामत इत्यर्थः| एते च नामविशेषाः केचित्सान्वयाः, केचिन्निरन्वयाः, व्यवहारार्थं पूर्वाचार्यैः प्रणीताः| तेषां नामानि यूका, लिक्षा बहिर्मलोत्थे द्वे, एतयोराश्रयः केशवस्त्राणि; कफजा– अन्नादाः, उदरावेष्टाः, हृदयादाः, महागुदाः, चुरवः, दर्भकुसुमाः, सुगन्धाः, एवं सप्त, एषामाश्रय आमाशयः; रक्तजाः– केशादाः, लोमविध्वंसाः, रोमद्वीपाः, उदुम्बराः, सौरसाः, मातरः, एवं षट्, एषां स्थानं रक्तवाहिसिराः| पुरीषोत्थाः पञ्च– ककेरुकमकेरुकसौसुरादाः, सशूलाः, लेलिहः; एषामाश्रयः पक्वाशयः| एवं विंशतिः||१-२||–