Skip to content

. कृमिनिदानम्

Adhikarana क्रिमीणां सङ्ख्या (१-२) · Śloka

अथ क्रिमिनिदानम् | क्रिमयश्च द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः | बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः ||१|| नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः | (वा. नि. अ. १४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अजीर्णात् क्रिमिसम्भव इत्यतोऽजीर्णानन्तरं क्रिमिनिदानमाह– क्रिमय इत्यादि| तत्र बाह्यास्त्वगुपलेपकबाह्यमलसम्भवाः, आभ्यन्तरा आमाशयादिसम्भवाः, ते देशभेदेन द्वैविध्येनोक्ताः कारणभेदाच्चतुर्धा भवन्तीत्याह– बहिर्मलेत्यादि| बहिर्मलो गात्रोपलेपी स्वेदादिरुक्त एव बहिर्मलादिषु चतुर्षु जन्म बहिर्मलादिजन्म तद्भेदात्| त एव चतुर्विधा नामभेदेन विंशतिविधा भवन्ति, विंशत्यतिरिक्ताश्चातिसूक्ष्माः कृमयः सहजाश्चरकेणोक्ताः, ते चावैकारिकत्वेन रोगाधिकारे नोच्यन्ते, विंशतिविधास्तु क्रिमयो दोषप्रकोपणद्वारेण ज्वरशूलादीन् जनयन्तीति रोगा उच्यन्ते||१-२||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अजीर्णात्कृमिसम्भव इत्यतोऽजीर्णानन्तरं कृमिनिदानमाह– कृमय इत्यादि| एके बाह्याः केशे वस्त्रादिजा यूकालिक्षादयः, अन्ये चाभ्यन्तराः| तत्र बाह्यास्त्वगुपलेपकबाह्यमलसम्भवाः, आभ्यन्तराश्च आमादिसम्भवाः, त एव देशभेदाद्द्वैविध्येनोक्ताः कारणभेदाच्चतुर्धा भवन्ति| बहिर्मलो गात्रोपलेपी स्वेदादिरुक्तः| एवं बहिर्मलादिषु चतुर्षु जन्म बहिर्मलादिजन्म, तस्य भेदात्| केचिद्बहिर्मलजन्मानः, तथा केचित्कफजन्मानः, केचिद्रक्तजन्मानः, केचित्पुरीषजन्मानश्चेति चतुर्धा| त एव चतुर्विधा नामतो नामभेदेन विंशतिविधा वक्ष्यमाणाभिः सञ्ज्ञाभिर्विंशतिविधा भवन्ति तानाह– नामतो विंशतिविधा विंशतिसङ्ख्याका नामत इत्यर्थः| एते च नामविशेषाः केचित्सान्वयाः, केचिन्निरन्वयाः, व्यवहारार्थं पूर्वाचार्यैः प्रणीताः| तेषां नामानि यूका, लिक्षा बहिर्मलोत्थे द्वे, एतयोराश्रयः केशवस्त्राणि; कफजा– अन्नादाः, उदरावेष्टाः, हृदयादाः, महागुदाः, चुरवः, दर्भकुसुमाः, सुगन्धाः, एवं सप्त, एषामाश्रय आमाशयः; रक्तजाः– केशादाः, लोमविध्वंसाः, रोमद्वीपाः, उदुम्बराः, सौरसाः, मातरः, एवं षट्, एषां स्थानं रक्तवाहिसिराः| पुरीषोत्थाः पञ्च– ककेरुकमकेरुकसौसुरादाः, सशूलाः, लेलिहः; एषामाश्रयः पक्वाशयः| एवं विंशतिः||१-२||–

Adhikarana बाह्यक्रिमिलक्षणम् (२-३) · Śloka

तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ||२|| बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः | द्विधा ते कोठपिडकाकण्डूगण्डान् प्रकुर्वते ||३|| (वा. नि. अ. १४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उक्तान् बाह्यान् विवृणोति– बाह्यास्तत्र मलोद्भवा इति| तिलानामिव प्रमाणं परिमाणं, संस्थानमाकृतिः, वर्णश्च श्वेतः कृष्णो वा येषां यूकादिरूपाणां ते तथा| केशाम्बराश्रया इति अम्बरं वस्त्रम्| बहुपादा इति यूकाः, सूक्ष्मा इति लिक्षाः||२-३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उक्तबाह्यानाह– बाह्या इत्यादि| तत्र तेषु चतुर्षु, बाह्यास्तत्र बाह्यमलोद्भवाः, तिलानामिव प्रमाणं संस्थानम् आकृतिर्वर्णश्च श्वेतः कृष्णो वा येषां यूकालिक्षारूपाणां ते तथा| केशाम्बराश्रया इति– केशाः कचाः अम्बरं वस्त्रं च आश्रयो येषाम्| ते के कृमयो भवन्तीति तानाह– बहुपादा इत्यादि| यूकाः केशविद्धाः, बहुपादाः बहुचरणाः, लिक्षाः सूक्ष्मा अणवः||२-३||

Adhikarana क्रिमिनिदानम् (४) · Śloka

अजीर्णभोजी मधुराम्लनित्यो द्रवप्रियः पिष्टगुडोपभोक्ता | व्यायामवर्जी च दिवाशयानो विरुद्धभुक् संलभते क्रिमींस्तु ||४||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तेषां निदानमाह– अजीर्णेत्यादि| अजीर्णे भोजनशीलोऽजीर्णभोज| मधुराम्लनित्यः सततमधुराम्लभोज| विरुद्धं क्षीरमत्स्यादि||४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तेषां निदानमाह– अजीर्णेत्यादि| ना पुरुषः कृमीन् लभते, कथम्भूतः? अजीर्णे भोजनशीलोऽजीर्णभोज, मधुराम्लनित्यः सततमधुराम्लभोज, विरुद्धं क्षीरमत्स्यादि| तथा द्रवप्रियः, पिष्टं गोधूमचूर्णकृतं पूपादि||४||

Adhikarana क्रिमिविशेषे निदानविशेषः (५) · Śloka

माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः | मांसमत्स्यगुडक्षीरदधिशुक्तैः कफोद्भवाः ||५|| विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि | (सु. उ. तं. अ. ५४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

क्रिमिविशेषे निदानविशेषमाह– माषेत्यादि||५||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पुरीषजानां निदानमाह– माषेत्यादि| एतैः कारणैः पुरीषजा जायन्ते, ‘पक्वाशय’ इति शेषः| कफोद्भवनिदानमाह– मांसेत्यादि| शुक्त इक्षुरसः कालान्तरेणाम्लीभूतः| एते आमाशये| शोणितजानां कारणमाह– विरुद्धेत्यादि| शाकम् अपक्वहरितचणकादिशाकभक्षणम्||५||–

Adhikarana आभ्यन्तरक्रिमिलक्षणम् (६) · Śloka

ज्वरो विवर्णता शूलं हृद्रोगः सदनं भ्रमः ||६|| भक्तद्वेषोऽतिसारश्च सञ्जातक्रिमिलक्षणम् | (सु. उ. तं. अ. ५४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

आभ्यन्तरक्रिमिलक्षणमाह– ज्वर इत्यादि||६||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

आभ्यन्तरकृमिलक्षणमाह– ज्वर इत्यादि| विवर्णता शरीरे श्यामपीतता, शूलमामाशये पक्वाशये च, हृद्रोगो हृदयविकारो हृल्लासादिः, भ्रमश्चक्रारूढस्येव, भक्तद्वेषो भोजनविद्वेषः||६||–

Adhikarana कफजक्रिमिलक्षणम् (७-१०) · Śloka १०

कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ||७|| पृथुब्रध्ननिभाः केचित् केचिद्गण्डूपदोपमाः | रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवः ||८|| श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते | अन्त्रादा उदारावेष्टा हृदयादा महागुदाः ||९|| चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते | हृल्लासमास्यस्रवणमविपाकमरोचकम् ||१०|| मूर्छाच्छर्दिज्वरा नाहकार्श्यक्षवथुपीनसान् | (वा. नि. अ. १४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

कफजानाह– कफादित्यादि| कफनिमित्ताः क्रिमयो ये त्वामाशये जायन्ते, ते च वृद्धाः सन्तः सर्वत ऊर्ध्वमधश्च सर्पन्ति; एवं पुरीषजादिषु दृष्टव्यम्| ब्रध्नश्चर्मलता, ‘ब्रध्नी’ इति लोके| रूढं प्ररूढम्| तनवः परिणाहेन, दीर्घा आयामेन, अणवः उभाभ्यामपि स्वल्पाः| ते इति कफजाः| सप्त नामानि विवृणोति– अन्त्रादा इत्यादि| एते च नामविशेषाः केचित् सान्वयाः केचिन्निरन्वया व्यवहारार्थं पूर्वाचार्यैः प्रणीताः; एवं वक्ष्यमाणेष्वपि बोध्यमिति||७-१०||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

कफजानां स्वरूपमाह– कफादित्यादि| कफनिमित्तात्कृमयः आमाशये नाभेरूर्ध्वं जायन्ते| ते च वृद्धाः सन्तः सर्वतः ऊर्ध्वमधश्च प्रसरन्ति| आकारेण पृथुब्रध्ननिभाः विस्तीर्णचर्मैकदेशाकाराः, ब्रध्नश्चर्मलता ब्राध्नीति लोके, केचित्कृमयो गण्डूपदोपमाः भूमिलताकाराः, केचिद्रूढधान्याङ्कुरास्तदाकृतयो भवन्ति, रूढं प्ररूढमङ्कुरितमिति यावत्| तनवः परिणाहेन, दीर्घा आयामेन, तथा केचित् अणवः उभाभ्यामपि स्वल्पाः| श्वेताः शुक्लाः, ताम्रावभासाः ताम्रवर्णाः, केचिदिति सर्वत्र सम्बन्धनीयम्| नामतस्तु ते सप्तधा इति कफजाः अन्त्रादा इत्यादि| ते कुपिता यान् रोगान् कुर्वते तानाह– हृल्लासेत्यादि| हृल्लास उपस्थितवमनत्वमिव, आस्यस्रवणं लालास्रावः, आनाह उदरे निश्चलाटोपः||७-१०||–

Adhikarana रक्तजक्रिमिलक्षणम् (११-१२) · Śloka १२

रक्तवाहिसिरास्थानरक्तजा जन्तवोऽणवः ||११|| अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिददर्शनाः | केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः | षट् ते कुष्ठैककर्माणः सहसौरसमातरः ||१२|| (वा. नि. अ. १४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

रक्तजानाह-रक्तेत्यादि| रक्तवाहिसिरास्थानाश्च ते रक्तजाश्चेति रक्तवाहिसिरास्थानरक्तजाः; अथवा रक्तवाहिसिरास्थानं यद्रक्तं तज्जाः| नामभेदात्ते षट्, तत्र केशादादयश्चत्वारः, सह सौरसनाममातृनामभ्यां क्रिमिभ्यां वर्तन्ते इति सहसौरसमातरः, एवं षड् भवन्ति| कुष्ठैककर्माण इति कुष्ठमेवैकं कार्यं येषां ते तथा, कुष्ठजनका इति यावत्| उक्तं हि सुश्रुते– “सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि चोपदिश्यन्ते” (सु. नि. अ. ५) इति ||११-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

रक्तजानां स्वरूपमाह– रक्तेत्यादि| रक्तजा जन्तवः क्रिमयः, रक्तवहासु सिरासु स्थानं येषां ते तथा वृद्धाः सन्तः सर्वतः प्रसरन्तीत्यत्रापि योज्यम्| अपादाः पादरहिताः, वृत्ताः वर्तुलाः, वर्णतस्ताम्राः, ते सौक्ष्म्यात् अणुरूपत्वात् केचिददृश्याः| नामतः षट्– केशादा, लोमविध्वंसाः रोमद्वीपाः उदुम्बराः सहसौरसमातरः, एवं षड् भवन्ति| ते कुष्ठैककर्माण इति कुष्ठमेवैकं कर्म कार्यं येषां ते तथा, कुष्ठजनकाः कुष्ठैकफलदा इत्यर्थः| उक्तं च सुश्रुते– “सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सकृमीणि सरक्तानि चोपदिश्यन्ते” इति| अथवा कुष्ठेन सहैकं समानं कर्म हर्षकण्डूतोदादिकं केशश्मश्रुलोमविध्वंसादिकं त्वक्सिरास्नायुमांसतरुणास्थिभक्षणं च येषां त एवम्||११-१२||

Adhikarana पुरीषजक्रिमिलक्षणम् (१३-१६) · Śloka १६

पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः | प्रवृद्धाः स्युर्भवेयुश्च ते यदाऽऽमाशयोन्मुखाः ||१३|| तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः | पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ||१४|| ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः | सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि ||१५|| विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः | रोमहर्षाग्निसदनं गुदकण्डूर्विमार्गगाः ||१६|| (वा. नि. अ. १४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पुरीषजानाह– पक्वाशय इत्यादि| अधोविसर्पिण इति विसर्पणं गतिः, गुदनिःसरणशीलाः; ते यदाऽतिवृद्धाः सन्तः आमाशयोन्मुखा भवेयुस्तदाऽस्य रोगिण उद्गारनिःश्वास विड्गन्धानुविधायिनः स्युः पुरीषगन्धयुक्ता भवन्तीति योज्यम्| शेषं सुबोधम्||१३-१६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पुरीषजानाह– पक्वाशय इत्यादि| पुरीषोत्थाः क्रिमयः पक्वाशय एव जायन्ते, पुरीषस्य पक्वाशयस्थितत्वात्| ते चाधोविसर्पिणः स्युर्नोर्ध्वगाः; अधोविसर्पिण इति गुदनिःसरणशीलाः| ते यदा वृद्धाः सन्त आमाशयोन्मुखा भवेयुः, तदाऽस्य रोगिण उद्गारे निःश्वासे विङ्गन्धानुविधायिनः पुरीषगन्धकारिणो भवन्तीति योज्यम्| पृथवो दीर्घाः, वृत्ता वर्तुलाः, तनवः अल्पाः, स्थूला उत्सन्नाः ‘आकारेण’ इति शेषः| वर्णतः श्यावाः, ईषत्पीतश्वेताः| असिताः कृष्णाः| नामतः पञ्चधा ककरुकादिभेदेन| एवं ते पञ्च यान् रोगान् जनयन्ति तानाह– विड्भेदेत्यादि| विड्भेदः सान्द्रमलप्रवृत्तिः, शूलं पक्वाशये, विष्टम्भो मलस्य, पारुष्यं कर्कशाङ्गत्वम्, अग्निसदनं वह्निग्लानिः, विमार्गगा विमार्गप्रवृत्तयः||१३-१६||

Adhikarana पुष्पिका · Śloka

इति श्रीमाधवकरविरचिते माधवनिदाने क्रिमिनिदानं समाप्तम् ||७||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां क्रिमिनिदानं समाप्तम्||७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां क्रिमिनिदानम्||७||