Skip to content

६२. योनिव्यापन्निदानम्

Adhikarana योनिरोगनिदानम् (१) · Śloka

अथ योनिव्यापन्निदानम् | विंशतिर्व्यापदो योनौ निर्दिष्टा रोगसङ्ग्रहे | मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च ||१|| जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक् | (च. चि. अ. ३०) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

स्त्र्यधिकारानुवृत्तेः प्रदुष्टार्तवकार्यत्वाच्च योनिव्यापन्निदानमाह– विंशतिरित्यादि| रोगसङ्ग्रह इति अष्टोदरीये, चरकोक्तत्वादस्य वाक्यस्य| मिथ्याचारेण असम्यगाहाराचारेण, चरतेर्गतिभक्षणार्थत्वात्| प्रदुष्टेनार्तवेनेति वातादिदुष्टरजसेत्यर्थः| तेन, वन्ध्यादिष्वार्तवदुष्टिरपि कारणं भवति| बीजदोषान्मातापित्रोरारम्भकबीजदोषात्| दैवात् प्राक्तनाधर्मकारणात्; दैवस्य सर्वत्र कारणत्वे सिद्धेऽत्र विशेषेण कारणत्वमुक्तम्||१||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

योनिप्रवृत्तत्वादसृग्दरस्यानन्तरं योनिव्यापन्निदानमाह– विंशतिरित्यादि| व्यापदो रोगाः| रोगसङ्ग्रह इति अष्टोदरीये, चरकोक्तेः| मिथ्याचारतः असम्यगाहाराचारतः| प्रदुष्टेनार्तवेनेति कुपितवातादिदुष्टेनार्तवेन, बन्ध्यासु आर्तवदुष्टिरपि कारणं भवति| बीजदोषादित्यादि गर्भारम्भकबीजगतार्तवदोषात्| दैवादित्यादि दैवं सर्वत्र साधारणं विशिष्टदृष्टकारणादर्शने सति कार्यदर्शनादुन्नेयम्||१||–

Adhikarana वातिकयोनिरोगाणां लक्षणम् (२-४) · Śloka

सा फेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति ||२|| वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम् | परिप्लुतायां भवति ग्राम्यधर्मेण रुग्भृशम् ||३|| वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता | चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ||४|| (सु. उ. तं. अ. ३८) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

श्लैष्मिका आह– सा फेनिलमित्यादि| सा योनिः फेनवदार्तवं मुञ्चति| उदावर्तेति ऊर्ध्वमावर्तः समन्ताद्वर्तनं वायोर्यत्र सा तथेति, अर्शआदित्वादच्| विप्लुतामिति विप्लुतां वातवेदनया विप्लुतत्वात्| नित्यवेदनाम् अतिकुपितेनैव वातेनेति| परिप्लुतायामिति परि सर्वतो वातविकारेण प्लुतत्वात् परिप्लुतासञ्ज्ञा| परिप्लुतायां बाह्याभ्यन्तरवातवेदनाभिर्युक्तायाम्| “ग्राम्यधर्मेण रुग्भृशम्” इत्यत्र “ग्राम्यधर्मे रुचिर्भृशम्” इति पाठान्तरं, तत्र रुचिरभिलाषः; ग्राम्यधर्मे मैथुने| वातलेत्यादि योनिविशेषणं, वातलया सह पञ्च योनिव्यापदः| वातलायाः पृथगभिधानं वातलायां विशेषेण वातवेदनाप्रादुर्भावार्थम्| एवं पित्तलादिष्वपि बोद्धव्यम्| चतसृष्विति उदावर्तावन्ध्याविप्लुतापरिप्लुतासु||२-४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पूर्वं योनेर्विंशतिर्व्यापद उक्तास्तासु उदावर्तामाह– सा फेनिलमित्यादि| उद् ऊर्ध्वमा समन्तात् वृत्ता वर्तुला योनिर्यत्र सा तथा| ‘उदावर्ता’ इति पाठान्तरम्| तत्राप्ययमेवार्थः| सा योनिः फेनेनार्तवं मुञ्चति| वन्ध्यामाह– नष्टमार्तवं रजो यस्यां सा तथा| विप्लुतामाह– वातवेदनाविप्लुतत्वात्| नित्यवेदनां वातजनिततोदवन्ध्यादिनानावेदनायुक्ताम्| परिप्लुतामाह– परिप्लुतायामिति| परि सर्वतो वातविकारपरिप्लुतत्वात्परिप्लुतेति सञ्ज्ञा| ग्राम्यधर्मे मैथुने भृशं पीडा भवति| “ग्राम्यधर्मेऽरुचिः” इति पाठान्तरम्| तत्रारुचिरनभिलाषः| वातजामाह– वातलेत्यादि| कर्कशा स्तब्धा, शूलनिस्तोदपीडितेति| वातलेति योनिविशेषणम्| वातलया सह पञ्चयोनिव्यापदः| वातलेति पृथग्विधानमत्यर्थवातवेदनाप्रादुर्भावार्थम्| एवं पित्तलादिष्वपि व्याख्येयम्| आद्यासु चतसृषु वातानुबन्धित्वमाह– चतसृष्वपीत्यादि| उदावर्तावन्ध्याविप्लुतापरिप्लुतेति चतसृषु वातवेदना ज्ञेया, वातलायामधिकाऽतः सञ्ज्ञा||२-४||

Adhikarana पैत्तिकयोनिरोगाणां लक्षणम् (५-७) · Śloka

सदाहं क्षीयते रक्तं यस्यां सा लोहितक्षया | सवातमुद्गिरेद्बीजं वामिनी रजसा युतम् ||५|| प्रस्रंसिनी स्रंसते च क्षोभिता दुष्प्रजायिनी | स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसङ्क्षयात् ||६|| अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता | चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् ||७|| (सु. उ. तं. अ. ३८) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पैत्तिका आह– सदाहमित्यादि| क्षीयते रक्तमिति अतिप्रवृत्त्या रक्तस्य क्षयः| वामिन्युद्गिरेद्बीजमिति शुक्रं शुद्धमपि वमतीत्यर्थः| प्रस्रंसिनी स्रंसते इति स्वस्थानाच्च्यवते निःसरतीति यावत्| अत एव “ क्षीरस्विन्नां प्रवेशयेत्|” (सु. उ. तं. अ. ३८) इति चिकित्सितम्| क्षोभिता विमर्दिता| दुष्प्रजायिनी दुःखप्रसवा| रक्तसङ्क्षयादार्तवस्य वायुना क्षयात्| यद्यपि सर्वस्यैवापत्यस्य नाशस्तथाऽपि पुत्रस्य प्राधान्यात् पुत्रघ्नीति व्यपदेशः| पित्तलया सह पञ्च पित्तजाः| दाहपाकेत्याद्युपलक्षणं, तेन नीलपीतासितार्तवा च भवतीत्यर्थः| यदुक्तमन्यत्र– “व्यापल्लवणकट्वम्लक्षाराद्यैः पित्तजा भवेत्| दाहपाकज्वरोष्णार्ता नीलपीतासितार्तवा||” इति| आद्यास्विति रक्तक्षयावामिनीप्रस्रंसिनीपुत्रघ्नीषु||५-७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अथ पित्तानुबन्धिन्यः| तत्र रक्तक्षयामाह– सदाहमित्यादि| अतिप्रवृत्त्या रक्तस्य क्षयः, तेन रक्तक्षयेति सञ्ज्ञा| वामिनीमाह– सवातमित्यादि| सुगमम्| प्रस्रंसिनीमाह– प्रस्रंसिनीत्यादि| स्रंसते स्वस्थानाच्च्यवते, निःसरतीत्यर्थः| क्षोभिता विमर्दिता, दुष्प्रजायिनी दुःखप्रसवा| स्थितमित्यादि| पुत्रघ्नीमाह– पुत्रघ्नीति सर्वापत्यविनाशिन्यस्तथाऽपि पुत्रस्य प्राधान्यादत्र पुत्रघ्नीति व्यपदेशः| पित्तलामाह– अत्यर्थमित्यादि| दाहपाकज्वरान्वितेत्युपलक्षणं, तेन नीलपीतासितार्तवा च भवतीत्यवगन्तव्यम्| तथा च तन्त्रान्तरे– “व्यापल्लवणकट्वम्लक्षाराद्यैः पित्तजा भवेत्| दाहपाकज्वरोष्णार्ता नीलपीताऽसितार्तवा||” इति| चतसृष्वपि पित्तानुबन्धमाह– रक्तक्षयावामिनीप्रस्रंसिनीपुत्रघ्नीषु पित्तलया सह पञ्चपित्तानुबन्धिन्यः||५-७||

Adhikarana श्लैष्मिकयोनिरोगाणां लक्षणम् (८-१०) · Śloka १०

अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति | कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते ||८|| मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते | बहुशश्चातिचरणा तयोर्बीजं न विन्दति ||९|| श्लेष्मला पिच्छिला योनिः कण्डूग्रस्ताऽतिशीतला | चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् ||१०|| (सु. उ. तं. अ. ३८) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

श्लैष्मिका आह– अत्यानन्देत्यादि| ग्राम्यधर्मेण मैथुनेन| कर्णिन्यां कर्णिकेति कर्णिका मांसकन्दाकारग्रन्थिः| मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते इति अचरणा सम्यङ्मैथुनाचरणात् पूर्वं प्रथमं, पुरुषादतिरिच्यते विरमति, तेन बीजं न गृह्णाति| अत्र अचरणशब्देनोपचारात् तद्वती स्त्री भण्यते| बहुशश्चातिचरणेति बहुशो मैथुनाचरणादतिचरणा, सा च श्लेष्मजनितकण्डूभिराजगेव (?) बहुमैथुनाचरणाद्बीजं न धत्ते| अत उक्तम्– तयोर्बीजं न विन्दतीति| तयोरिति अचरणातिचरणयोः| श्लेष्मलायामतिशीतलेत्युपलक्षणं, तेन वेदनादिकमपि ज्ञेयम्| तथाच तन्त्रान्तरे– “कफोऽभिष्यन्दिभिर्वृद्धो योनिं चेद्दूषयेत् स्त्रियाः| स कुर्यात् पिच्छिलां शीतां कण्डूग्रस्तां सवेदनाम्||” इति||८-१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अथ श्लेष्मानुबन्धिन्यः| तत्रात्यानन्दामाह– अतीत्यादि| कर्णिनीमाह– कर्णिन्यामित्यादि| बहुशो मैथुनाचरणादतिचरणा, सा च श्लेष्मजनितकण्डुयोगाद्बहुमैथुनाचरणादतिचरणा, बीजं गर्भाङ्कुरजननं न लभते| अत एवोक्तम्– तयोर्बीजं न विन्दतीत्यादि| तयोरिति चरणातिचरणयोः| श्लेष्मलामाह– श्लेष्मलेत्यादि| अतिशीतलेत्युपलक्षणं, तेन वेदनेत्यपि बोद्धव्यम्| यदुक्तं तन्त्रान्तरे– “कफोऽभिष्यन्दिभिर्वृद्धो योनिं दूषयते स्त्रियाः| स कुर्यात्पिच्छिलां शीतां कण्डुग्रस्तां सवेदनाम्||” इति| श्लेष्मानुबन्धत्वमाह– चतसृष्वपीत्यादि| अत्यानन्दाकर्णिनीचरणातिचरणासु| एवं श्लेष्मानुबन्धिन्यः पञ्च||८-१०||

Adhikarana सान्निपातिकयोनिरोगाणां लक्षणम् (११-१३) · Śloka १३

अनार्तवाऽस्तनी षण्डी खरस्पर्शा च मैथुने | अतिकायगृहीतायास्तरुण्यास्त्वण्डली भवेत् ||११|| विवृता च महायोनिः सूचीवक्त्राऽतिसंवृता | सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा ||१२|| चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रयो भवेत् | पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः ||१३|| (सु. उ. तं. अ. ३८) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सान्निपातिका आह– अनार्तवेत्यादि| अनार्तवा रजःशून्या| अस्तनी ईषत्स्तनी| अतिकायगृहीताया महामेहनेन गृहीतायाः| अण्डली अण्डवन्निःसृता योनिः| विवृता महायोनिः अतिविवृतमुखी| सूचीवक्त्रा अतिसंवृता सूचीरन्ध्राऽतिसङ्कटमुखी| सर्वलिङ्गसमुत्थानेति सर्वदोषलिङ्गानां समुत्थानं यत्र सा तथा| अन्ये त्वाहुः– सर्वदोषसमुत्थाना सर्वदोषहेतुजेत्यर्थः| चरकोक्ता अधिका रक्तयोन्यादयः सुश्रुतोक्तानामदूरान्तरत्वेनावबोद्धव्याः||११-१३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सन्निपातजादयः पञ्च| तत्र षण्डीमाह– ‘अनार्तवेत्यादि’ इति पाठः क्वचित्पुस्तके नोपलभ्यते [ अनार्तवेत्यादि| अनार्तवा अरजस्का, अस्तनी ईषत्स्तनी| अण्डिनीमाह– अतिकायो बृहन्मेहनपुरुषः, तेन गृहीताया इति अप्रगल्भायाः, अण्डली अण्डवन्निःसृता योनिः| विवृतामाह– अतिविवृता| सूचीवक्त्रामाह– अतिशयेन सूचीवत्सङ्कीर्णमुखी संवृता| सन्निपातजामाह– सर्वलिङ्गेत्यादि| सर्वलिङ्गानां समुत्थानं यत्र सा तथा| चतसृष्वपि सर्वलिङ्गानुबन्धमाह– चतसृष्विति| षण्ड्यण्डलीविवृतासूचीवक्त्रासु| त्रिदोषजाः पञ्च| आसामसाध्यतामाह– पञ्चेत्यादि||११-१३||

Adhikarana पुष्पिका · Śloka ६२

इति श्रीमाधवकरविरचिते माधवनिदाने योनिव्यापन्निदानं समाप्तम् ||६२||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां योनिव्यापन्निदानं समाप्तम्||६२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां योनिव्यापन्निदानम्||६२||