Adhikarana असृग्दरनिदानम् (१) · Śloka १
अथासृग्दरनिदानम् |
विरुद्धमद्याध्यशनादजीर्णाद्गर्भप्रपातादतिमैथुनाच्च |
यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च |
तं श्लेष्मपित्तानिलसन्निपातैश्चतुष्प्रकारं प्रदरं वदन्ति ||१||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
स्त्रीपुंसां साधारणान् विकारानभिधाय पुम्प्रतिनियतस्योपदंशादेरुक्तत्वात् स्त्रीनियतरोगाभिधानम्| तत्र च योनिव्यापत्तिविशेषेऽप्यार्तवप्रवृत्तिसद्भावात् प्रथमं दुष्टार्तवप्रवृत्तिस्वरूपं प्रदरमाह– विरुद्धेत्यादि| विरुद्धमद्यं दुष्टमद्यम्; अथवा विरुद्धं संयोगादिविरुद्धं, मद्यं च स्वरूपतः| अजीर्णादपक्वभोजनात्| अतिकर्षणात् लङ्घनाद्यतियोगेन क्षीणधातुत्वात्| तं श्लेष्मपित्तानिलसन्निपातैरित्यत्र श्लेष्मणोऽग्रेऽभिधानं श्लेष्मजेऽपि वेदनासूचनार्थम्||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अथ प्रदरनिदानारम्भः| तस्य निदानमाह– विरुद्धेत्यादि| विरुद्धमद्यं व्यापन्नं मद्यं, किंवा विरुद्धं क्षीरमत्स्यादि मद्यं च| तस्य सङ्ख्यासम्प्राप्तिमाह– तमित्यादि| वृद्धाः वृद्धवैद्याः||१||
Adhikarana असृग्दरस्य सामान्यरूपम् (२) · Śloka २
असृग्दरं भवेत् सर्वं साङ्गमर्दं सवेदनम् |२|
(सु. शा. अ. २) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तस्य सामान्यरूपमाह– असृग्दरमित्यादि| सवेदनं सशूलम्| असृग् दीर्यते च्यवते यस्मिन्नित्यसृग्दरं; तन्त्रान्तरमत्र– “तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि| असृग्दरं विजानीयात् पुरस्तादुक्तलक्षणम्||” (सु. शा. अ. २) इति| तदेवेति आर्तवम्|२|–
Adhikarana आर्तवातिप्रवृत्तौ दोषाः (२) · Śloka २
तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्छा मदस्तृषा |
दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः ||२||
(सु. शा. अ. २) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
आर्तवातिप्रवृत्तौ उपद्रवानाह– तस्यातिवृत्तौ दौर्बल्यमित्यादि| रोगाश्च वातजा इति आक्षेपककम्पादयः||२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उपद्रवानाह– तस्येत्यादि| अतिप्रवृत्तौ अतिप्रवृद्धौ दौर्बल्यादयः| वातजा इति आक्षेपापतानकम्पादयः||२||
Adhikarana श्लैष्मिकादिभेदेनासृग्दरस्य विशेषलक्षणानि, असाध्यलक्षणं च (३-५) · Śloka ५
आमं सपिच्छाप्रतिमं सपाण्डु पुलाकतोयप्रतिमं कफात्तु |
सपीतनीलासितरक्तमुष्णं पित्तार्तियुक्तं भृशवेगि पित्तात् ||३||
रूक्षारुणं फेनिलमल्पमल्पं वातार्ति वातात् पिशितोदकाभम् |
सक्षौद्रसर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषात् ||४||
तं चाप्यसाध्यं प्रवदन्ति तज्ज्ञा, न तत्र कुर्वीत भिषक् चिकित्साम् |
शश्वत् स्रवन्तीमास्रावं तृष्णादाहज्वरान्विताम् |
क्षीणरक्तां दुर्बलां च तामसाध्यां विनिर्दिशेत् ||५||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
श्लैष्मिकादिभेदेन विशेषलक्षणान्याह– आममित्यादि| आमम् आमरसानुविद्धम्| सपिच्छाप्रतिममिति पिच्छा शाल्मल्यादिनिर्यासः, तत्सदृशं पिच्छिलमित्यर्थः; सशब्द ईषदर्थे| पुलाकतोयप्रतिमं प्रक्षालितपललतोयसदृशम्; अन्ये पुलाकं गवेधुकमाहुः| पित्तार्तियुक्तं दाहचिमिचिमादियुक्तम्| भृशवेगि बहुवेगि| वातार्ति तोदादिलक्षणम्| पिशितोदकाभं मांसप्रक्षालनजलसदृशम्| सक्षौद्रसर्पिर्हरितालवर्णमिति नानावर्णत्वं त्रिदोषकोपादेव| क्षौद्रवर्णं मनाक्कपिलं, सर्पिर्वर्णं विलीनघृतवत् किञ्चिदरुणं च| मज्जप्रकाशं मज्जा अस्थिस्नेहः, तत्समम्| कुणपं शवगन्धि| तच्चाप्यसाध्यमिति चिकित्सानिवृत्त्यर्थम्||३-५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तत्र श्लेष्मजमाह– आममित्यादि| आमम् आमरससंयुक्तं, सपिच्छाप्रतिमं, सद्यःस्रुतशाल्यादिमण्डतुल्यं, पिच्छिलमित्यर्थः| पुलाकतोयप्रतिमं गवेधुकान्नवारिवत्, अन्ये पुलाकं तुच्छधान्यमाहुः| पित्तजमाह– सेत्यादि| पित्तार्तियुक्तं सन्तापादियुक्तं, भृशवेगि बहुधारं भूरिप्रवृत्ति| वातिकमाह– रूक्षेत्यादि| पिशितोदकाभं मांसप्रक्षालनोदकवर्णम्| त्रिदोषमाह– सेत्यादि| क्षौद्रवर्णं मनाक्कपिलं सर्पिर्वर्णं विलीनघृतवत्, हरितालवर्णं पीतं, मज्जप्रकाशं मज्जाऽस्थिस्नेहः तत्समं, कुणपं शवगन्धि, असाध्यमिति चिकित्सानिवृत्त्यर्थम्||३-५||
Adhikarana शुद्धार्तवलक्षणम् (६-७) · Śloka ७
मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च |
नैवातिबहुलात्यल्पमार्तवं शुद्धमादिशेत् ||६||
शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम् |
तदार्तवं प्रशंसन्ति यच्चाप्सु न विरज्यते ||७||
(सु. शा. अ. २) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
विशुद्धार्तवलक्षणमाह– मासादित्यादि| निष्पिच्छदाहार्तीति अपिच्छिलमदाहमशूलादि वेदनम्, एतेन विकृतवातादिलिङ्गरहितमित्यर्थः| पञ्चरात्रानुबन्धीति “पञ्चरात्रं प्रभूतप्रवृत्त्याऽनुबध्नातीत्यर्थः|” अल्पप्रवृत्त्या पञ्चरात्रात् परतोऽप्यनुबध्नाति| तदुक्तं हारीते– ‘ षोडशदिवसान्यृतुकालः’| इति| विदेहेऽप्युक्तम्– “स्त्रीणामृतुर्भवति षोडश वासराणि|” इति| शशासृगित्यादिना वर्णद्वयं वातादिप्रकृतिभेदात्| यच्चाप्सु न विरज्यते इति येनार्तवेन रञ्जितं वस्त्रमप्सु प्रक्षालितं सल्लोहितं न भवति तद्विशुद्धम्| तथाच हिरण्याक्षः– “सुरेन्द्रगोपसङ्काशं स्निग्धं च मधुगन्धि च| अपिच्छिलमशीतं च यद्वासो न विरञ्जयेत्||” इति||६-७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
शुद्धार्तवलक्षणमाह– मासेत्यादि| अपिच्छदाहार्तीति अपिच्छिलम्, अदाहम्, अशूलादिवेदनम्, एतेन विकृतवातादिलक्षणरहितमित्यर्थः| पञ्चरात्रानुबन्धीति पञ्चरात्रं प्रभूतप्रवृत्त्याऽनुबध्नाति यदित्यर्थः| अल्पप्रवृत्या पञ्चरात्रात्परतोऽप्यनुबध्नाति| यदुक्तं हारीते– “षोडशदिवसान्यृतुकालः” इति| विदेहोऽप्युक्तवान्– “स्त्रीणामृतुर्भवति षोडश वासराणि” इति| पुनश्च शुद्धलक्षणमाह– शशेत्यादि|| वर्णद्वयाभिधानं वातादिप्रकृतिभेदेन वर्णभेदात्| यच्चाप्सु न विरज्यत इति यदार्तवं कर्पटगतं सत् अप्सु जलेषु संयुज्यमानेषु न विवर्णं भवति| अयमर्थः– यत् धौतं सत् वासो न विरञ्जयति| यदुक्तं हिरण्याक्षे– “इन्द्रगोपकसङ्काशं स्निग्धं च मधुगन्धि च| अपिच्छिलमशीतं च यद्वासो न विरञ्जयेत्||” इति||६-७||
Adhikarana पुष्पिका · Śloka ६१
इति श्रीमाधवकरविरचिते माधवनिदाने असृग्दरनिदानं समाप्तम् ||६१||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायामसृग्दरनिदानं समाप्तम्||६१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां प्रदरनिदानम्||६१||