Adhikarana योनिकन्दस्य निदानपूर्वकं सामान्यलक्षणम् (१-२) · Śloka २
अथ योनिकन्दनिदानम् | दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् | क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यदा ||१|| पूयशोणितसङ्काशं निकुचाकृतिसन्निभम् | जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः ||२||
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
योन्याश्रयत्वात् योनिकन्दनिदानमाह– दिवास्वप्नादित्यादि| नखदन्ताद्यैरित्यत्रादिशब्दात् कण्टकादिपरिग्रहः| वाताद्याः कुपिता इति यथानिदानं प्रत्येकं वातादयः कुपिताः| निकुचाकृतिसन्निभमिति वर्तुलमित्यर्थः; अस्यानन्तरं गुडकमिति द्रष्टव्यं, तेन नपुंसकलिङ्गता सङ्गता भवति| कन्दः प्रायेण जरन्नारीयोनिगतो निकुचाकारो रोगः||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इहैव योनिसंश्रितत्वेन कन्दनिदानमाह– दिवेत्यादि| नखदन्ताद्यैरित्युपलक्षणम्| आदिग्रहणात् कण्टकादिपरिग्रहः| वाताद्याः कुपिता इति यथानिदानेन वातादयः प्रत्येकं कुपिताः| लकुचाकृतिसन्निभमेतस्यानन्तरं गुडकमिति द्रष्टव्यम्| कन्दः प्रायेण जरन्नारीयोनिगतो लकुचाकारो रोगः||१-२||