Adhikarana वृद्धेः सम्प्राप्तिः (१-२) · Śloka ३
अथ वृद्धिनिदानम् | क्रुद्धोऽनूर्ध्वगतिर्वायुः शोथशूलकरश्चरन् | मुष्कौ वङ्क्षणतः प्राप्य फलकोषाभिवाहिनीः ||१|| प्रपीड्य धमनीर्वृद्धिं करोति फलकोषयोः | दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः ||२|| मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम् |३| (वा. नि. अ. ११) |
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शोथत्वसामान्यात् शोथानन्तरं वृद्धिरभिधीयते| वृद्धेः सम्प्राप्तिमाह– क्रुद्धोऽनूर्ध्वगतिर्वायुरित्यादि| अनूर्ध्वगतिरधोगतिर्वायुः मुष्कौ प्राप्य चरन् गच्छन् वङ्क्षणतो मेढ्रजङ्घासन्धेः सकाशात्; फलकोषाभिवाहिनीरिति फलं च कोषश्च फलकोषौ, अथवा फलयोः कोषौ, तद्वहा धमनीश्च प्रपीड्य सन्दूष्य, वृद्धिं करोति| फलकोषयोरिति द्विवचनमुपलक्षणं, तेनैककोषेऽपि दृश्यमाना वृद्धिः सङ्गता| स वृद्धिरिति “क्तिच्क्तौ च सञ्ज्ञायाम्” इत्यनेन क्तिजन्तो वृद्धिशब्दः पुंलिङ्गः, क्तिन्नन्तस्तु स्त्रीलिङ्गः| वृद्धिः कुरण्डोऽभिधीयते| सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायां सप्तधेति वचनं न्यूनाधिकसङ्ख्यानिरासार्थं, तेन द्वन्द्वजादिवृद्धेरधिकाया निरासः, असम्भवस्तु तस्या व्याधिस्वभावात्; मूत्रान्त्रवृद्ध्योर्वातवृद्ध्यन्तर्भावात् न्यूनसङ्ख्यानिरासार्थम् अनयोर्वातजत्वेऽपि निमित्तचिकित्साभेदात् पृथगभिधानं, निमित्तभेदनिबन्धन एव व्याधिभेदः| यदुक्तम्– “दोषदूष्यसंसर्गादायतनविशेषान्निमित्ततश्चैषां व्याधीनां भेदः|” (सु. सू. अ. २४) इति| अत आह– मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलमिति||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
शोथाधिकारात् वृद्धिरभिधीयते| वृद्धेः सम्प्राप्तिमाह– क्रुद्ध इत्यादि| अनूर्ध्वगतिर्वायुः अधोगतिर्वातो मुष्कौ प्राप्य चरन् गच्छन्, वङ्क्षणतो मेढ्रजङ्घासन्धेः सकाशात्, फलकोषाभिवाहिनीरिति फलं च कोशश्च फलकोशौ, अथवा फलयोः कोशौ फलकोशौ, तद्वहा धमनीः प्रपीड्य सन्दूष्य वृद्धिं करोति, फलकोषयोरिति द्विवचनमुपलक्षणं, तेनैकफलकोषेऽपि दृश्यमाना वृद्धिः सम्मता| वृद्धिः ‘कुरण्ड’ इति लोके| वृद्धेः सङ्ख्यामाह– दोषेत्यादि| दोषत्रयैस्त्रयः, रक्तेनैकः, मेदसा चैकः, मूत्रेणैकः, एवं सप्त| सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायां पुनः सप्तधेति वचनं न्यूनाधिकसङ्ख्यानिरासार्थं, द्वन्द्वजाया अपि वृद्धेर्निरासः, द्वन्द्वजायास्त्वसम्भवो व्याधिस्वभावात्; मूत्रान्त्रवृद्ध्योर्वातवृद्ध्यन्तर्भावात् न्यूनसङ्ख्यानिरासः, अनयोर्वातजत्वेऽपि निदानचिकित्साभेदात् पृथगभिधानं, निदानभेदनिबन्धन एव व्याधिभेदः| उक्तं च– “दोषदूष्यसंसर्गादायतनविशेषान्निमित्ततश्चैषां व्याधीनां भेदः” इति| अत एव मूत्रान्त्रजावपि वातात्, तत्र हेतुभेदत एव भेदः केवल इति| वृद्धिशब्दः पुल्लिङ्गो वा||१-२||