Skip to content

४७. उपदंशनिदानम्

Adhikarana उपदंशनिदानम् (१) · Śloka

अथोपदंशनिदानम् | हस्ताभिघातान्नखदन्तपातादधावनाद्रत्यतिसेवनाद्वा | योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः ||१||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

स्थानप्रत्यासत्तेरुपदंशनिदानमाह– हस्तेत्यादि| नखदन्तपातादिति बलवदनुरागोदयात् नखदन्तच्छेदस्थानत्वेनानुक्तेऽपि मेहने नखदन्तपातः; यदुक्तं कामशास्त्रे– “शास्त्रस्य विषयस्तावद्यावन्मन्दरसा नराः| प्रवृत्ते रतिचक्रे तु न शास्त्रं नापि च क्रमः||” (का. सू. सां. अ. २) इति| कलहादिवशाद्वा मेहने नखदन्तपातः| अधावनादप्रक्षालनात्| रत्यतिसेवनादिति व्यवायस्यात्यन्तसेवनात्| योनिप्रदोषादिति दीर्घकर्कशरोमादियोगाद्योनिदुष्टेः| शिश्ने मेहने| विविधापचारैरिति अशुद्धसलिलप्रक्षालनब्रह्मचारिणीगमनादिभिः| उपदंशसञ्ज्ञा च दंशनोपाधिमन्तरेणापि रूढा बोद्धव्या| यद्यप्यभिघातक्षते मेहने उपदंश आगन्तुः षष्ठः सम्भाव्यते, तथाऽपि तस्य दोषलिङ्गयुक्ततया दोषज एवान्तर्भावः||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

व्रणत्वसामान्यात्स्थानप्रत्यासन्नत्वादुपदंशनिदानम्| तस्य हेतुमाह– हस्तेत्यादि| नखदन्तपातादिति बलवदनुरागोदयात्प्रबलकामरागवशात् कामिनां मेहने दन्तनखपातो भवति| यदुक्तं कामशास्त्रे– “शास्त्रस्य विषयस्तावद्यावन्मन्दरसा नराः| रतिचक्रे प्रवृत्ते च न शास्त्रं नापि च क्रमः||” इति| कलहादिवशाद्वा मेहने नखदन्तपातः| अधावनादप्रक्षालनात्, अत्युपसेवनादिति व्यवायस्यात्यन्तसेवनात्, योनिप्रदोषात् अल्पमहाद्वारदीर्घकर्कशरोमसङ्कीर्णदेशत्वादियोनिदोषात्, रोगप्रभृतेर्वा योनिदुष्टेः| विविधोपचारैरिति क्षारोष्णमलिनाम्भःप्रक्षालनब्रह्मचारिणीगमनादिभिः| पञ्चोपदंशा इति वातेन, पित्तेन, शोणितेन, कफेन, सन्निपातेन; एवं पञ्च| यद्यप्यभिघातक्षते मेहने उपदंश आगन्तुः षष्ठः सम्भवति, तथाऽपि तस्य दोषलिङ्गयुक्ततया दोषज एवान्तर्भावः||१||

Adhikarana वातिक-पैत्तिकोपदंशलक्षणम् (२) · Śloka

सतोदभेदैः स्फुरणैः सकृष्णैः स्फोटैर्व्यवस्येत् पवनोपदंशम् | पीतैर्बहुक्लेदयुतैः सदाहैः पित्तेन... |२|

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पैत्तिकमाह– पीतैरित्यादि| स्फोटैरित्यनुसञ्जनीयम्| एवमुत्तरत्रापि|२|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातजोपदंशलक्षणमाह– सतोदेत्यादि| भेदो द्विधा क्रियत इव| व्यवस्येत् जानीयात्| पित्तजमाह– पीतैरित्यादि| पित्तै रक्तैर्वेति विकल्पः, पित्तेन बहुक्लेदयुतैः आर्द्रताबहुलैः, स्फोटैरिति शेषः|२|

Adhikarana रक्तज-कफजोपदंशलक्षणम् (२-३) · Śloka

...रक्तात् पिशितावभासैः ||२|| स्फोटैः सकृष्णै रुधिरं स्रवन्तं रक्तात्मकं पित्तसमानलिङ्गम् | सकण्डुरैः शोथयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन ||३||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

रक्तजमाह– रक्तादित्यादि| रक्तात् पिशितावभासैरिति मांसवत्ताम्रैः स्फोटैः रक्ताच्छोणितात् उपदंशं व्यवस्येत्| ‘रक्तैः’ इति पाठान्तरे रक्तैः शोणितैः||२-३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

रक्तजमाह– पिशितावभासैरित्यादि| मांसवत्ताम्रैः स्फोटैः रक्तात् शोणितात् उपदंशं व्यवस्येत्| ‘रक्तैः’ इति पाठान्तरम्, तत्र रक्तैः शोणितैः| कफजमाह– सकण्डुरैः कण्डूयुतैः, महद्भिः महत्परिग्रहैः, घनैर्निबिडैः, स्फोटैरिति शेषः||२-३||

Adhikarana सन्निपातजोपदंशलक्षणम् (४) · Śloka

नानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम् |४|

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सन्निपातजमाह– नानाविधेत्यादि| नानाविधस्रावरुजोपपन्नमिति प्रत्येकदोषोक्तस्राववेदनायुक्तम्| त्रिमलोपदंशमिति त्रिदोषोपदंशम्|४|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सन्निपातजमाह– नानेत्यादि| प्रत्येकदोषोक्तस्राववेदनायुक्तम्| त्रिमलोपदंशमिति त्रिदोषोपदंशमसाध्यमाहुः|४|–

Adhikarana उपदंशस्या साध्यलक्षणम् (४) · Śloka

विशीर्णमांसं क्रिमिभिः प्रजग्धं मुष्कावशेषं परिवर्जयेच्च ||४||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

असाध्यतामाह– विशीर्णेत्यादि| मुष्कावशेषमिति विशीर्णसमस्तमेहनमांसत्वेनावशिष्टफलकोषमात्रम्||४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वर्ज्यमाह– विशीर्णेत्यादि| विशीर्णमांसं शटितमांसं, कृमिभिः प्रजग्धं भक्षितं, मुष्कावशेषमिति शीर्णसमस्तमेहनमांसत्वेनावशिष्टफलकोशमात्रं, एवमुक्तलक्षणोपदंशं परिवर्जयेत्||४||

Adhikarana उपदंशस्यासाध्यलक्षणम् (५) · Śloka

सञ्जातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः | कालेन शोथक्रिमिदाहपाकैर्विशीर्णशिश्नो म्रियते स तेन ||५||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उपक्रमे चिकित्साकरणार्थमाह– सञ्जातेत्यादि| विषये प्रसक्त इति अतिव्यवायरतः| कालेन चिरकालेन||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उपक्रमे चिकित्साकरणार्थमाह– सञ्जातेत्यादि| यो मूढो विषये प्रसक्तः व्यवायादितत्परः, स तेनोपदंशेन कालेन कालान्तरेण म्रियते शोथादिभिरुपद्रवैः प्रशीर्णशिश्नः गलितमेहनः||५||

Adhikarana लिङ्गार्शोलक्षणम् (६-७) · Śloka

अङ्कुरैरिव सङ्घातैरुपर्युपरिसंस्थितैः | क्रमेण जायते वर्तिस्ताम्रचूडशिखोपमा ||६|| कोषस्याभ्यन्तरे सन्धौ सर्वसन्धिगताऽपि वा | (सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा) | लिङ्गवर्तिरभिख्याता लिङ्गार्श इति चापरे ||७||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

एकस्थानत्वेनात्र लिङ्गार्श आह– अङ्कुरैरित्यादि| अङ्कुरैरङ्कुरसदृशैरीषद्दीर्घैः, सङ्घातैर्मांसप्रतानैः, ‘सञ्जातैः’ इति पाठे ‘मांसैः’ इति शेषः| ताम्रचूडशिखोपमा इति ताम्रचूडः, कुक्कुटः, तच्चूडातुल्या| सन्धाविति मेढ्ररन्ध्रसन्धौ, सर्वसन्धिगतेत्यनेन सर्वसन्धेरुक्तत्वात्| एषा त्रिदोषजा, वर्तिरिति योज्यम्; अत एव ‘सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा|’ इति क्वचित् पाठः| सुश्रुते क्वचित् स्त्रीणामप्युपदंशः पठ्यते| यथा– “मेढ्रसन्धौ व्रणाः केचित् केचित् सर्वाश्रयास्तथा| कुलत्थाकृतयः केचित् केचित् पद्मदलोपमाः|| रुजादाहार्तिबहुलाः कृष्णास्तोदसमन्विताः| शीघ्रं केचिद्विसर्पन्ति शनैः केचित्तथाऽपरे| स्त्रीणां पुंसां च जायन्ते उपदंशाः सुदारुणाः||” इति| किन्तु समानतन्त्रेष्वदर्शनादेतदनार्षमाहुः||६-७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

एकस्थानत्वेनात्र लिङ्गार्श आह– अङ्कुरैरित्यादि| अङ्कुरसदृशैरीषद्दीर्घसङ्घातैः मांसप्रतानैः| अन्ये सन्धाविति मेढ्ररन्ध्रसन्धौ, सर्वसन्धिगतेत्यनेन सर्वसन्धेरुक्तत्वात्, एषा त्रिदोषजा, अत एव “सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा” इति क्वचित्पठ्यते| सुश्रुते तु क्वचित् स्त्रीणामप्युपदंशाः पठ्यन्ते| तद्यथा– “मेढ्रसन्धौ व्रणाः केचित्केचित्सर्वाश्रयास्तथा| कुलत्थाकृतयः केचित्केचित्पद्मदलोपमाः|| रुजादाहार्तिबहुलाः कृष्णास्तोदसमन्विताः| स्त्रीणां पुंसां च जायन्ते उपदंशाः सुदारुणाः||” इति| किन्तु समानतन्त्रेष्वदर्शनादेतदनार्षमाहुः||६-७||

Adhikarana पुष्पिका · Śloka ४७

इति श्रीमाधवकरविरचिते माधवनिदाने उपदंशनिदानं समाप्तम् ||४७||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायामुपदंशनिदानं समाप्तम्||४७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यकृतायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायामुपदंशनिदानम्||४७||