Adhikarana शूकदोषनिदानम् (१) · Śloka १
अथ शूकदोषनिदानम् |
अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः |
व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः ||१||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
समानस्थानत्वाच्छूकदोषनिदानमाह– अक्रमादित्यादि| शूको जलशूकः, स तु विषजन्तुर्जलमलोद्भवः सशूकः, तथा शूकप्रधानो लिङ्गवृद्धिकरो वात्स्यायनाद्युक्तो योगः शूक उच्यते; तस्य दोषो वैकृतमसम्यक्करणात्, ततो वा दोषो वातादिः, तत्कृतो वा विकारः, “दोषा अपि व्याध्याख्यां लभन्ते” इत्यागमात्; अत एव शूकदोषविवरणे शूकदोषनिमित्ता व्याधय एव बोद्धव्याः| एवं च यदत्र ‘कुम्भिका रक्तपित्तोत्था’ इत्यादिकारणान्तरोपवर्णनं तत् शूककृतरक्तपित्तादिरूपं ज्ञेयम्| अन्ये त्वादिशब्दलोपात् शूकादिदोषनिदानमाहुः| आदिशब्देन दुष्टयोनिगूढान्तर्लोमदुर्भगागमनादि गृह्यते; तन्न मनोहरं, “वृद्धिं योऽभिवाञ्छति” इत्यनेन विशेषणेन दुष्टयोन्यादेरयोग्यस्य ग्रहीतुमनर्हत्वात्| अन्ये तु दुष्टयोन्यादीन्युपदंशहेतुत्वेनोक्तत्वात् नानुमन्यन्ते; तदनैकान्तिकम्, एकजातीयहेतूनामनेकरोगकरणदर्शनात्| अक्रमादित्यनुचितवृद्धिक्रमात्; अनुचिता च वृद्धिर्भूरिविकारकरजलशूकयोगानामाचारणात्, जलशूकयोगानां वात्स्यायनादौ विस्तरः| यथा– “भल्लातकास्थिजलशूकमथाब्जपत्रमन्तर्विदह्य मतिमान् सह सैन्धवेन| एतद्विरूढबृहतीफलतोयपिष्टमालेपनं महिषविड्विमलीकृतेऽङ्गे|| स्थूलं महत्तरतुरङ्गमतुल्यमाशु शेफं करोत्यभिमतं न हि संशयोऽस्ति||” इत्यादि| यच्च जलशूकरहितमश्वगन्धादितैलं तदुचितमेव लिङ्गवर्धनम्| यदुक्तम्– “अश्वगन्धावरीकुष्ठमांसीसिंहीफलान्वितम्| चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत्|| स्तनलिङ्गकर्णपालिवर्धनं म्रक्षणादिदम्||” इति| गदाधरस्त्वाह– लिङ्गवृद्धिरेव कामपरायणनिन्दितपुरुषैः क्रियमाणा अक्रमः| दश चाष्टौ चेति अष्टादश; सङ्ख्येयनिर्देशादेव लब्धायां सङ्ख्यायां पुनस्तदुक्तिः सम्मूढपिडकादौ द्वित्वशङ्कानिरासार्थम्||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
समानस्थानत्वाच्छूकदोषनिदानारम्भः| तस्य सम्प्राप्तिमाह– अक्रमादित्यादि| शूको जलशूकः, स तु विषजन्तुर्जलमलोद्भवो जीवविशेषः सशूकः, तत्प्रधानो लिङ्गवृद्धौ वात्स्यायनादिशास्त्रोक्तो योगः शूकदोष उच्यते, तन्मुख्यत्वात् लिङ्गवृद्धौ अन्येऽपि योगाः शूकाः कथ्यन्ते, तस्य दोषो विकारः, शूकस्य कारणत्वात् “क्वचिद्दोषा अपि व्याध्याख्यां लभन्ते” इत्यागमात्, अत एव शूकदोषविवरणे शूकदोषनिमित्तत्वात् व्याधय एव वक्तव्याः| अत्र शूकजा इति शूकदोषजा व्याधयः| अक्रमादिति अनुचितवृद्धिक्रमात्, अनुचिता वृद्धिः भूरिविकारकरजलशूकयोगानामाचरणात्, जलशूकयोगानां वात्स्यायनादौ विस्तरः| यथा– “भल्लातकास्थिजलशूकमथाब्जपत्रमन्तर्विदह्य मतिमान्सह सैन्धवेन| एतद्विरूढबृहतीफलजोपपिष्टमालेपनं महिषविड्विमलीकृतेऽङ्गे|| स्थूलं महत्तरतुरङ्गमतुल्यमाशु शेफं करोत्यभिमतं न हि संशयोऽस्ति|” इत्यादि| यच्च जलशूकरहितमश्वगन्धादितैलं, तदुचितमेव लिङ्गवर्धनम्| यदुक्तम्– “ अश्वगन्धावचाकुष्ठमांसीसिंहीफलान्वितम्| चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत्| स्तनलिङ्गकर्णपालिवर्धनं म्रक्षणादिदम्||” इति| शेफसो लिङ्गस्य| गदाधरस्त्वाह– लिङ्गवृद्धिरेव कामपरायणनिन्दितपुरुषैः क्रियमाणा अक्रमः| दश च अष्टौ चेति अष्टादश, सङ्ख्येयनिर्देशादेव लब्धायां सङ्ख्यायां पुनस्तदुक्तिः सम्मूढपिडकादौ द्वित्वसङ्ख्यानिरासार्थम्||१||
Adhikarana सर्षपिकालक्षणम् (२) · Śloka २
गौरसर्षपसंस्थाना शूकदुर्भुग्नहेतुका |
पिडका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा ||२||
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सर्षपिकामाह– गौरेत्यादि| शूकदुर्भुग्नहेतुकेति दुर्भुग्नशूकहेतुकेत्यर्थः| पिडकादिषु उभयवचनमिति(?) परनिपातः दुर्भुग्नो दुरवचारितः| ‘शूकदुर्भगहेतुका’ इति पाठान्तरे शूकनिमित्ता, दुष्टयोनिनिमित्ता चेत्यर्थः||२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातश्लेष्मजनितां सर्षपिकामाह– गौरेत्यादि| गौरसर्षपतुल्या| शूकदुर्भुग्नहेतुकेति दुर्भुग्नशूकहेतुकेत्यर्थः| ‘पिडकादिषु उभयवचनम्’ इति परनिपातः| दुर्भुग्नो दुरवचारितः| “शूकदुर्भगहेतुकी” इति पाठान्तरम्| तत्र शूकनिमित्ता दुष्टयोनिनिमित्ता चेत्यर्थः||२||
Adhikarana अष्ठीलिकालक्षणम् (३) · Śloka ३
कठिना विषमैर्भुग्नैर्वायुनाऽष्ठीलिका भवेत् |३|
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अष्ठीलिकामाह– कठिनेत्यादि| विषमैर्भुग्नैरिति वक्ष्यमाणशूकैरित्यनेन सम्बध्यते| विषमैरिति अप्रशस्तैः| अष्ठीलिका लौहकारस्य भाण्डीविशेष, तत्तुल्यत्वादष्ठीलिका|३|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अष्टीलिकामाह– कठिनेत्यादि| विषमैर्भुग्नैरिति वक्ष्यमाणशूकैरित्यनेन सम्बध्यते| विषमैः अप्रशस्तैः, भुग्नैर्वक्रैः| अष्ठीलिका लोहकारभाण्डविशेषः, तत्तुल्यत्वादष्ठीलिका; सा च वातेन|३|–
Adhikarana ग्रथितलक्षणम् (३) · Śloka ३
शूकैर्यत् पूरितं शश्वद्ग्रथितं नाम तत् कफात् ||३||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
ग्रथितमाह– शूकैरित्यादि| शूकैर्यत् पूरितं शश्वद्ग्रथितमिति शूकैः सर्वदा पूरितं लिङ्गं यत् ग्रन्थिलं तत् ग्रथितमित्यर्थः; ग्रन्थितुल्यत्वात् ग्रथितसञ्ज्ञा||३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कफाद्ग्रथितमाह– शूकैरित्यादि| शूकैः सर्वदा पूरितं लिङ्गं यत्तद्ग्रथितमित्यर्थः| ग्रथितत्वाद् ग्रथितसञ्ज्ञा| शश्वदिति अहरहः| शूकपूरणं शेफसि, एतेनैकदिनान्तरपूरणं प्रशस्तमिच्छन्ति कामतन्त्राचार्याः| नित्यपूरणाद् ग्रथितनाम्नो रोगस्योत्पत्तिः||३||
Adhikarana कुम्भिकालक्षणम् (४) · Śloka ४
कुम्भिका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा |४|
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कुम्भिकामाह– कुम्भिकेत्यादि| कुम्भी कुम्भीलता, तस्याः फलं कुम्भी; तद्धितस्य लुक्; ‘इवे प्रतिकृतौ’ इति कन् कुम्भीफलवत् कुम्भिका| अशुभेति शुभं शुक्लं तद्विरोधे नञ्, कृष्णेत्यर्थः| ‘आशुजा’ इति पाठान्तरम्|४|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
रक्तपित्ताभ्यां कुम्भिकामाह– कुम्भिकेत्यादि| कुम्भिका कुम्भकारी, तस्याः फलं कुम्भी, तद्धितस्य लुक् “इवे प्रतिकृतौ” इति कन्, कुम्भीफलवत् कुम्भिका, तथा जाम्बवास्थिरूपा जम्बूफलास्थिसदृशी, अशुभा शुभं शुक्लं न शुभा अशुभा कृष्णेत्यर्थः| सा च रक्तपित्तजनिता| ‘आशुजा’ इति पाठान्तरम्|४|–
Adhikarana अलजीलक्षणम् (४) · Śloka ४
तुल्यजां त्वलजीं विद्याद्यथाप्रोक्तां विचक्षणः ||४||
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अलजीमाह– तुल्यजामित्यादि| तुल्यजामिति प्रमेहपिडका अलजी तत्तुल्यसम्भवा, सा च रक्ताऽसिता स्फोटचिता| तुल्यत्वमेव विवृणोति– यथाप्रोक्तामिति| अलजी यथाप्रोक्ता यादृशलक्षणा तथेयमपीत्यर्थः| एषा च कारणचिकित्साभेदात् प्रमेहं विना लिङ्ग एव सम्भवाच्च ततः पृथग्भूता ज्ञेया||४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अलजीमाह– तुल्यजामित्यादि| विचक्षणः अलजीपिडकां विद्यात्| किम्भूतां? तुल्यजामिति| प्रमेहपिडका अलजी, तत्तुल्यसम्भवा| सा च रक्तासितस्फोटचिता| तुल्यत्वमेव विवृणोति– यथाप्रोक्तामित्यादि| सा अलजी यथाप्रोक्ता यादृशलक्षणा तथेयमपीत्यर्थः| एषा च कारणचिकित्साभेदात् प्रमेहं विना लिङ्ग एव सम्भवाच्च ततः पृथग्भूता ज्ञेया| इयमपि दुष्टशूकावचारणाज्ज्ञेया||४||
Adhikarana मृदितलक्षणम् (५) · Śloka ५
मृदितं पीडितं यच्च संरब्धं वातकोपतः |५|
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मृदितमाह– मृदितमित्यादि| पीडितमिति अधिकृतत्वात् शूकपातानन्तरं पीडितमिति ज्ञेयं, पीडितं ‘लिङ्गम्’ इति शेषः| संरब्धं सशोथम्|५|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मृदितमाह– मृदितमित्यादि| संरब्धं सशोफं तन्मृदितं मृदिताख्यं रोगाक्रान्तं ज्ञेयं, पीडितमित्यधिकृतत्वात् शूकपातानन्तरं पीडितमिति ज्ञेयम्|५|–
Adhikarana सम्मूढपिडकालक्षणम् (५) · Śloka ५
पाणिभ्यां भृशसम्मूढे सम्मूढपिडका भवेत् ||५||
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सम्मूढपिडकामाह– पाणिभ्यामित्यादि| पाणिभ्यां भृशसम्मूढे इत्यधिकारात् पातितशूके लिङ्गे पाणिभ्यां भृशसम्मूढे पिच्चितावनते, अत्रापि ‘वातकोपात्’ इत्यनुवर्तते||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सम्मूढपिडकामाह– पाणिभ्यामित्यादि| पाणिभ्यां भृशसम्मूढे इत्यत्राधिकारात् पातितशूके लिङ्गे पाणिभ्यां भृशसम्मूढे अत्यर्थं पिच्चितावनते सम्मूढपिडका स्यात्, अत्रापि वातप्रकोप इत्यनुवर्तते||५||
Adhikarana अधिमन्थलक्षणम् (६) · Śloka ६
दीर्घा बह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः |
सोऽधिमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् ||६||
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अधिमन्थमाह– दीर्घा इत्यादि| कफासृग्भ्यामिति शूकपातकृताभ्याम्| एवमन्यत्रापि सामान्येन शूकदोषाभिहिते शूकपातोऽनुक्तोऽपि ज्ञेयः| वेदनारोमहर्षकृदिति वेदनया रोमहर्षं करोति||६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अवमन्थमाह– दीर्घा इत्यादि| दीर्घा विस्तीर्णाः, बह्व्यः बहुलाः| कफासृग्भ्यामिति शूकपातकृताभ्याम्| एवमन्यत्र सर्वेष्वपि सामान्येन शूकदोषेषु शूकपातोऽनुक्तोऽपि ज्ञेयः| वेदनया रोमहर्षं करोति इति वेदनारोमहर्षकृत्| अधिमन्थ इति सञ्ज्ञा||६||
Adhikarana पुष्करिकालक्षणम् (७) · Śloka ७
पिडका पिडकाव्याप्ता पित्तशोणितसम्भवा |
पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिका तु सा ||७||
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पुष्करिकामाह– पिडेकेत्यादि||७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पुष्करिकामाह– पिडकाभिश्चितेत्यादि| या पिडकैव पिडकाभिश्चिता व्याप्ता| पद्मकर्णिकसंस्थानेति कमलकोशतुल्या, पुष्करिकेति सञ्ज्ञा पित्तशोणिताद्विज्ञेया||७||
Adhikarana स्पर्शहानिलक्षणम् (८) · Śloka ८
स्पर्शहानिं तु जनयेच्छोणितं शूकदूषितम् |८|
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
स्पर्शहानिमाह– स्पर्शहानिं त्वित्यादि|८|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
स्पर्शहानिमाह– स्पर्शहानिमित्यादि| स्पर्शहानिनामानं व्याधिविशेषं, शूकदूषितं शूकेन दुष्टिं नीतं रक्तं जनयेत्|८|–
Adhikarana उत्तमालक्षणम् (८) · Śloka ८
मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा तु या ||८||
व्याधिरेषोत्तमा नाम शूकाजीर्णनिमित्तजा |
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उत्तमामाह– मुद्गमाषेत्यादिना| एषोत्तमा व्याधिः शूकाजीर्णनिमित्तजा भवति, शूकाजीर्णं पुनः पुनर्दुरवचारितशूकविकृतिरूपमेव| “व्याधिरेषोत्तमो नाम” इति पाठान्तरे एषोत्तम इति निर्देशः पूर्वत्रासिद्धविधेरनित्यत्वात् साधुः||८||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उत्तममाह– व्याधिरित्यादि| एष उत्तमो नाम व्याधिः शूकाजीर्णनिमित्तजो भवति, शूकाजीर्णं पुनः पुनर्दुरवचारितशूकविकृतिरूपमेव, तदेव निमित्तं ततो जायत इति| ‘ व्याधिरेषोत्तम’ इति निर्देशः| पूर्वत्रासिद्धविधेरनित्यत्वात्साधुः||८||
Adhikarana शतपोनकलक्षणम् (९) · Śloka ११
छिद्रैरणुमुखैर्लिङ्गं चितं यस्य समन्ततः ||९||
वातशोणितजो व्याधिः स ज्ञेयः शतपोनकः |
(सु. नि. १४) ||११||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शतपोनकमाह– छिद्रैरणुमुखैरित्यादिना| छिद्रैरिति दुरवचारितशूकदोषजनितवातशोणितजैः, चितमुपचितम्, अत एव चिकित्सायां लेखनोपदेशः| शतपोनकश्चालनिका, तत्तुल्यत्वात् शतपोनकः||९||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
शतपोनकमाह– छिद्रैरित्यादि| यस्य लिङ्गं छिद्रैः सूक्ष्ममुखैः समन्ततः सर्वतश्चितं व्याप्तं, स व्याधिः शतपोनको ज्ञेयः| छिद्रैरिति दुरवचारितशूकजनितवातशोणितजैः| शतपोनकश्चालनिका, तत्तुल्यः शतपोनकः||९||–
Adhikarana त्वक्पाकलक्षणम् (१०) · Śloka १०
वातपित्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहकृत् ||१०||
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
त्वक्पाकमाह– वातपित्तकृत इत्यादि| शूकदोषेषु क्वचित् कस्यचित् दोषस्याभिधानं शूकविशेषादाहाराचारभेदाच्च समर्थनीयम्||१०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
त्वक्पाकमाह– वातेत्यादि| वातपित्तकृतः त्वक्पाकनामा व्याधिर्ज्ञेयः| स च ज्वरदाहौ करोति| अयं च दुरवचारितशूकदूषितवातपित्तज इत्यर्थः| शूकदोषेषु क्वचित्कस्यचिद्दोषस्याभिधानं शूकविशेषादाहारादिभेदाच्च समर्थनीयम्||१०||
Adhikarana शोणितार्बुदलक्षणम् (११) · Śloka ११
कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम् |
यस्य वास्तुरुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् ||११||
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शोणितार्बुदमाह– कृष्णैः स्फोटैरित्यादिना| पिडकाभिरिति स्वल्पाभिर्निपीडितं लिङ्गमिति बोद्धव्यम्| यस्य वास्तुरुज इति वास्तु व्रणाधिष्ठानं, तत्र रुजः, अगाधोच्छ्रितमांसशोथत्वात्| ‘बस्तिरुजश्चोग्रा’ इति पाठान्तरम्| अर्बुदं दुरवचारितशूकजशोणितकृतम्||११||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
शोणितार्बुदमाह– कृष्णैरित्यादि| पिडकाभिरिति स्वल्पाभिः निपीडितं लिङ्गमिति बोद्धव्यम्| यस्य वास्तुरुज इति वास्तु व्रणाधिष्ठानम्| तत्र उग्रा रुजः, अगाधोच्छ्रितमांसशोथत्वात्| ‘बस्तिरुजश्चोग्राः’ इति पाठान्तरम्| सर्वदा दुरवचारितशूकजशोणितकृतम्||११||
Adhikarana मांसार्बुदलक्षणम् (१२) · Śloka १२
मांसदोषेण जानीयादर्बुदं मांससम्भवम् |१२|
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मांसार्बुदमाह– मांसदोषेणेत्यादि| मांसदोषेणेति शूकपातानन्तरं प्रहारादिना कृतेन मांसदोषेण|१२|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मांसार्बुदमाह– मांसदोषेणेत्यादि| शूकपातानन्तरं प्रहारादिना कृतेन मांसदोषेण, अत्रापि शोणितं हेतुः, मांसार्बुदसञ्ज्ञा|१२|–
Adhikarana मांसपाकलक्षणम् (१२) · Śloka १२
शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः ||१२||
विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक् |
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मांसपाकमाह– शीर्यन्ते यस्येत्यादि| शीर्यन्ते गलन्ति, सर्वाश्च वेदना इति वातपित्तकफजाः||१२||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मांसपाकमाह– शीर्यन्त इत्यादि| शीर्यन्ते गलन्ति| सर्वाश्च वेदनाः इति वातपित्तकफजाः, अयं त्रिदोषजः||१२||–
Adhikarana विद्रधिलक्षणम् (१३) · Śloka १३
विद्रधिं सन्निपातेन यथोक्तमिति निर्दिशेत् ||१३||
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
विद्रधिमाह– विद्रधिमित्यादि| सन्निपातेन यथोक्तमिति ‘नानावर्णरुजास्रावः’ इत्यादिना सन्निपातजविद्रधिलक्षणं विद्रधिमिह जानीयादित्यर्थः||१३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
विद्रधिमाह– यथोक्तमित्यादि| सन्निपातविद्रधिलक्षणेन जानीयात्| विद्रधिनिदानोक्तं ‘नानावर्णरुजास्रावः’ इत्यादिना||१३||
Adhikarana तिलकालकलक्षणम् (१४-१५) · Śloka १५
कृष्णानि चित्राण्यथवा शूकानि सविषाणि वा |
पातितानि पचन्त्याशु मेढ्रं निरवशेषतः ||१४||
कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः |
सन्निपातसमुत्थांस्तु तान् विद्यात्तिलकालकान् ||१५||
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तिलकालकमाह– कृष्णानीत्यादि| चित्राणीति नानावर्णानि| सविषाणीति शूकानां सविषत्वेऽपि विशेषार्थमुक्तम्| कालानीति कृष्णानि, कृष्णतिलतुल्यत्वात् तिलकालकसञ्ज्ञा| शीर्यन्ते गलन्ति||१४-१५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तिलकालकमाह– कृष्णानीत्यादि| यस्य पुंसः शूकानि कृष्णानि, अथवा चित्राणि, अथवा सविषाणि, तानि संहत्याशु शीघ्रं निरवशेषतः समग्रं मेढ्रं पचन्ति, कृष्णानि कृष्णवर्णानि, चित्राणीति शुक्लपीतनीलादिनानावर्णानि, सविषाणीति शूकानां सविषत्वेऽपि विशेषार्थमुक्तं, तथा कालानीति कृष्णानि परिणततिलफलवर्णानि भूत्वा शीर्यन्ति गलन्ति, तान् सन्निपातजान् तिलकालकान् विद्यात्, कृष्णतिलतुल्यवर्णत्वात्तिलकालकसञ्ज्ञा||१४-१५||
Adhikarana शूकदोषाणां साध्यासाध्यविचारः (१६) · Śloka १६
तत्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः |
विद्रधिश्च न सिद्ध्यन्ति ये च स्युस्तिलकालकाः ||१६||
(सु. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शूकदोषेष्वसाध्यानाह– तत्र मांसार्बुदमित्यादि| यच्चेति चकारोऽयं भिन्नक्रमः, स च न सिद्ध्यतीत्यनन्तरं द्रष्टव्यः; तेन साध्यताऽप्येषामचिरत्वादिना भवति, अत एव प्रत्याख्याय चिकित्साविधानमुपपन्नमिति गदाधरः| दुर्ज्ञानात् साध्ये एव असाध्यतारोपादसम्पूर्णावस्थायामसाध्येऽपि क्रियासिद्धेश्च मा निवर्ततां भिषगिति प्रत्याख्याय चिकित्सां कारुणिकतया आचार्य उपदिशतीति मन्तव्यम्||१६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
शूकदोषेष्वसाध्यतामाह– तत्रेत्यादि| तत्र तेषु शूकदोषेषु मध्ये यन्मांसार्बुदं, तथा यो मांसपाकः, तथा विद्रधिः, तथा ये च तिलकालकाः स्युः, एते न सिध्यन्ति| ये चेति चकारो भिन्नक्रमः, स च न सिद्ध्यतीत्यनन्तरं द्रष्टव्यः| तेन साध्यताऽप्येषामचिरत्वादिना भवति, अत एव प्रत्याख्याय चिकित्साविधानमुपपन्नमिति गदाधरः||१६||
Adhikarana पुष्पिका · Śloka ४८
इति श्रीमाधवकरविरचिते माधवनिदाने शूकदोषनिदानं समाप्तम् ||४८||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां शूकदोषनिदानं समाप्तम्||४८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यकृतायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां शूकदोषनिदानं समाप्तम्||४८||