Skip to content

२७. उदावर्तानाहनिदानम्

Adhikarana उदावर्तनिदानम् (१) · Śloka

अथोदावर्तानाहनिदानम् | वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः | क्षुत्तृष्णोच्छ्वासनिद्राणां धृत्योदावर्तसम्भवः ||१||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उदावर्तेऽपि शूलं भवतीति शूलानन्तरमुदावर्तमाह– वातेत्यादि| अस्रमश्रु, इन्द्रियशब्देनात्र शुक्रं, क्षुत् बुभुक्षा| धृत्या वेगविधारणेन| एते वातादयस्त्रयोदश नियमार्थाः; तेनान्येषां क्रोधादीनां वेगविधारणं न तद्धेतुः, स्वास्थ्यहेतुत्वात्| यदाह चरकः– “लोभशोकभयक्रोधमानवेगान् विधारयेत्|” (च. सू. अ. ७) इत्यादि| सर्वोदावर्तेषु च वायुरेव कारणम्| यदाह सुश्रुतः– “सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः| वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये||” (सु. उ. तं. अ. ५५) इत्यादि| उद्भूतेन वेगविधारणेनावृतस्य वायोर्वर्तनमित्युदावर्तनिरुक्तिः; अन्ये तु वायोरूर्ध्वमावर्तो गमनमित्युदावर्तमाहुः; तन्न, अश्रुस्रावादेरव्यापकत्वात्; छत्रिणो गच्छन्तीति न्यायेन वा समाधेयम्||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उदावर्ते शूलं भवतीति शूलानन्तरमुदावर्तारम्भः| उदावर्तमाह– वातेत्यादि| एतेषां धृत्या वेगविधारणेन; अश्रु चक्षुर्जलं, क्षवश्छिक्का, इन्द्रियशब्देन शुक्रमुच्यते, क्षुत् क्षुधा, एते वातादयस्त्रयोदश नियमार्थाः, तेनान्येषामपि कोपादीनां विधारणं न तद्धेतुः, स्वास्थ्यहेतुत्वात्| यदुक्तं चरके– “लोभशोकभयक्रोधमानवेगान्विधारयेत्” इत्यादि| सर्वेषूदावर्तेषु वायुरेव कारणम्| यदाह सुश्रुताचार्यः– “सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः| वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये||” इति| उद्भूतेन वेगविधारणेनावृतस्य वायोरावर्तनमुदावर्त इति निरुक्तिः; अन्ये तु वायोरूर्ध्वमावर्तो गमनमित्युदावर्त इत्याहुः||१||

Adhikarana वातनिरोधज-पुरीषनिरोधज-मूत्रनिरोधज-जृम्भोपघातज-बाष्पनिरोधज-क्षवथुनिरोधज-उद्गारनिरोधज-छर्दिनिग्रहज-शुक्रनिरोधज-क्षुधानिरोधज-तृष्णाविघातज-निःश्वासविनिग्रहज-निद्राभिघातजोदावर्तलक्षणम् (२-१२) · Śloka १२

वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा | जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् ||२|| (च. सू. अ. ७) | आटोपशूलौ परिकर्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः | पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ||३|| (सु. उ. तं. अ. ५५) | बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा | विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ||४|| (च. सू. अ. ७) | मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः | तथाऽक्षिनासावदनामयाश्च भवन्ति तीव्राः सह कर्णरोगैः ||५|| आनन्दजं वाऽप्यथ शोकजं वा नेत्रोदकं प्राप्तममुञ्चतो हि | शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ||६|| (सु. उ. तं. अ. ५५) | मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ | इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात् ||७|| (च. सू. अ. ७) | कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथवाऽप्रवृत्तिः | उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः ||८|| (सु. उ. तं. अ. ५५) | कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः | कुष्ठवीसर्पहृल्लासाश्छर्दिनिग्रहजा गदाः ||९|| (च. सू. अ. ७) | मूत्राशये वै गुदमुष्कयोश्च शोथो रुजा मूत्रविनिग्रहश्च | शुक्राश्मरी तत्स्रवणं भवेच्च ते ते विकारा विहते च शुक्रे ||१०|| तन्द्राङ्गमर्दावरुचिः श्रमश्च क्षुधाभिघातात् कृशता च दृष्टेः | कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद्धृदये व्यथा च ||११|| श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोगमोहावथवाऽपि गुल्मः | जृम्भाऽङ्गमर्दोऽक्षिशिरोऽतिजाड्यं निद्राभिघातादथवाऽपि तन्द्रा ||१२|| (सु. उ. तं. अ. ५५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उक्तवाताद्युदावर्तानां क्रमेण लक्षणमाह– वातेत्यादि| अन्ये इति तोदशूलादयः| मेहनं शेफः| विनाम आनाहपीडया (बन्धनवत्पीडया) नतगात्रत्वम्| वङ्क्षणयोरानाहो बन्धनवत्पीडा| नेत्रोदकमश्रु, प्राप्तमागतममुञ्चतो ‘नरस्य’ इति शेषः| चकारात्तन्त्रान्तरोक्तप्रतिश्यायहृद्रोगारुचिप्रभृतीनां ग्रहणम्| अर्धावभेदोऽर्धशिरःशूलम्| कूजोऽव्यक्तभाषणमिति कार्तिकः| वायोरप्रवृत्तिरुच्छ्वासनिरोधः| घोरा विकाराः पवनजा हिक्कादयः| मूत्राशये बस्तौ, ‘मूत्रायन’ इति पाठे स एवार्थः| वैशब्दः पादपूरणे| तत्स्रवणं शुक्रस्य स्यन्दनम्| अतिजाड्यं गौरवम्| ‘शिरोगात्राक्षिगौरवम्’ इति तन्त्रान्तरे पाठः||२-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उक्तवाताद्युदावर्तानां क्रमेण लक्षणमाह– वातेत्यादि| अपानवातस्य धारणात् आध्मानं ध्मातमिवोदरे, सङ्गोऽप्रवृत्तिः, क्लमोऽनायासश्रमः, रुजा उदरे, अन्ये इति शूलतोदादयः| पुरीषावरोधजमाह– आटोपेत्यादि| पुरीषवेगे धारिते सति आटोपः सरुक् गुडगुडाशब्दः| शूलमिति पक्वाशये, परिकर्तिका कर्तनवद्व्यथा, सङ्गः पुरीषस्याप्रवृत्तिः, ऊर्ध्ववात उद्गारबाहुल्यम्, अथवा मुखात् पुरीषनिर्गमनम् ऊर्ध्ववातादेव| मूत्रनिग्रहजमाह– बस्तीत्यादि| मूत्रनिग्रहे मूत्रविधारणे सति, बस्तौ मूत्राशये, मेहने मेढ्रे, शूलं व्यथा, मूत्रकृच्छ्रमल्पमल्पं कष्टेन मूत्रप्रवर्तनं, विनामः आनाहपीडया नतगात्रत्वं, वङ्क्षणयोरूरुसन्ध्योः आनाहः पूर्णत्वम्| जृम्भाघातजमाह– मन्येत्यादि| शूलं मन्याकण्ठयोः स्तम्भः, शिरोरोगाः पवनजाः, तथाऽक्षिनासादीनां पवनजा रोगाः स्युः, तीव्रा दारुणाः, तथा कर्णरोगाः स्युर्जृम्भाविधारणात्| अश्रूदावर्तमाह– आनन्दजमित्यादि| नेत्रोदकमानन्दजनितं शोकजं वा द्विविधमपि लोचनजलं, प्राप्तमागतमुञ्चतो ‘नरस्य’ इति शेषः| शिरोगुरुत्वादयो रोगाः पीनसेन सह तीव्रा जायन्ते, चकारात्तन्त्रान्तरोक्तप्रतिश्यायहृद्रोगारुचिप्रभृतीनां ग्रहणम्| छिक्कोदावर्तमाह– मन्येत्यादि| क्षवथोः छिक्कायाः, अर्धावभेदकोऽर्धशिरःशूलम्, इन्द्रियाणां चक्षुरादीनां ग्रहणे दौर्बल्यं श्रवणनयननासानामयथार्थं विपर्ययग्रहणम्| उद्गारोदावर्तमाह– कण्ठेत्यादि| उद्गारे विधारिते सति कण्ठमुखयोः पूर्णत्वमाहारेण वेति, अतीव तोदः हृद्यामाशये वाऽतिव्यथा, कूजः अव्यक्तभाषणं, वायोरप्रवृत्तिरुच्छ्वासादिनिरोधः, घोरा विकाराः पवनजा हिक्कादयः| छर्द्युदावर्तमाह– कोठो वरटीदष्टसंस्थानः, व्यङ्गं मुखलाञ्छनं, शोफादयः प्रसिद्धाः| शुक्रोदावर्तमाह– मूत्राशय इत्यादि| मैथुनप्रवृत्तौ शुक्रविधारणात्| मूत्राशये बस्तौ; अन्ये ‘मूत्रायने’ इति पठन्ति, तत्र मूत्रमार्गे गुदमुष्कयोश्च श्वयथुः, वैशब्दः पादपूरणे, तेष्वेव पीडा| मूत्रनिग्रहो मूत्राघातः, शुक्राश्मरी रोगः, तत्स्रवणं शुक्रस्पन्दनं, ते विकारा इति वातकुण्डल्यादयः| क्षुदुदावर्तलक्षणमाह– तन्द्रेत्यादि| तन्द्रा निद्राभेदः, अङ्गमर्दोऽङ्गभङ्गः, श्रमः कर्मेन्द्रियाणामसामर्थ्यं, दृष्टेः कृशता मान्द्यं, चकारात् कार्श्यदौर्बल्यादयः तन्त्रान्तरोक्ता ग्राह्या| तृडुदावर्तलक्षणमाह– कण्ठेत्यादि| श्रवणावरोधः शब्दस्याग्रहणम् अङ्गुलिपिहित इव| श्वासोदावर्तलक्षणमाह– श्रान्तस्येत्यादि| श्रान्तस्य धावनादिना खिन्नस्य, निःश्वासविनिग्रहेण हृद्रोगादयो भवन्ति| हृद्रोगो हृदयविकारः, मोहो मूर्छा, गुल्मस्यापि सम्भवः| निद्रोदावर्तमाह– जृम्भेत्यादि| अक्ष्णोः शिरसि च जाड्यं गौरवम्| अन्ये ‘जृम्भाऽङ्गमर्दोऽक्षिशिरोभिजाड्यम्’ इति पठन्ति; तत्र शिरस्यतिगौरवम्||२-१२||

Adhikarana रूक्षादिकुपितवातजोदावर्तस्य निदान-सम्प्राप्ति-लक्षणानि (१३-१६) · Śloka १६

वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः | भोजनः कुपितः सद्य उदावर्तं करोति हि ||१३|| वातमूत्रपुरीषासृक्कफमेदोवहानि वै | स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ||१४|| ततो हृद्बस्तिशूलार्तो हृल्लासारतिपीडितः | वातमूत्रपुरीषाणि कृच्छ्रेण लभते नरः ||१५|| श्वासकासप्रतिश्यायदाहमोहतृषाज्वरान् | वमिहिक्काशिरोरोगमनःश्रवणविभ्रमान् | बहूनन्यांश्च लभते विकारान् वातकोपजान् ||१६|| (सु. उ. तं. अ. ५५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वेगनिरोधजानुदावर्तानभिधाय रूक्षादिकुपितवातजमाह– वायुरित्यादि| उदावर्तयति आवृणोति| अतिवर्तयेत् शोषयेत्| कृच्छ्रेण लभते इति कष्टेन प्रवर्तयति| अत्र केचित् सुश्रुतोक्तमसाध्यलक्षणं पठन्ति– “तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरुपद्रुतम्| शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत्||” (सु. उ. तं. अ. ५५) इति||१३-१६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

त्रयोदशवेगावरोधजानुदावर्तानभिधायेदानीं रूक्षादिभोजनजनितवातजमाह– वायुरित्यादि| कोष्ठानुगः कोष्ठशब्देन समस्तमुदरमध्यमुच्यते, रूक्षादिभिश्चणकराजमाषादिभिः, तथा कषायादिभिः रसैः कुपितः| तस्य सम्प्राप्तिमाह– वातेत्यादि| ततः स्वैः कारणैः कुपितो वायुः वातमूत्रादीनां स्रोतांस्युदावर्तयति ऊर्ध्वमावृणोति पुरीषं चातिवर्तयेत्| हृद्बस्तिशूलैः तथा हृल्लासादिभिः पीडितः कृच्छ्रेण कष्टेन वातमूत्रपुरीषाणि लभते, वैद्यप्रयत्नात् प्राप्नोतीत्यर्थः| श्वासादीनन्यांश्च वातप्रकोपजान् गदान् लभते| मनोविभ्रमः स्थाणौ पुरुषज्ञानमित्यादि, श्रवणविभ्रमो विपरीतश्रवणम्| अत्र केचित् सुश्रुतोक्तमसाध्यलक्षणं पठन्ति– “तृष्णार्दितं परिक्लिष्टम्” इत्यादि||१३-१६||

Adhikarana आनाहलक्षणम् (१७-२०) · Śloka २०

आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन | प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति ||१७|| तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः | आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनं च ||१८|| स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्छा शकृतश्च छर्दिः | शोथश्च पक्वाशयजे भवन्ति तथाऽलसोक्तानि च लक्षणानि ||१९|| (सु. उ. तं. अ. ५६) | तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् | शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् ||२०|| (सु. उ. तं. अ. ५५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इदानीं विगुणानिलजत्वेन समानचिकित्स्यत्वेनानाहमाह– आममित्यादि| नेति पूर्वेण सम्बध्यते| एवं छर्दिरित्येक एव छकारश्छन्दोऽनुरोधात्| स्तम्भशब्दः कट्यादेः स्तब्धतावाची, मूत्रपुरीषयोश्चाप्रवृत्तिवाची| अलसोक्तानीति आध्मानवातनिरोधादीनि||१७-२०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विगुणानिलजत्वेन समानचिकित्स्यत्वेनानाहमाह– आममित्यदि| प्रवर्तमानं नेति पूर्वेण सम्बध्यते, तेनाप्रवर्तमानमित्यर्थः| यथास्वं स्वं मार्गमित्यर्थः| एवमामं निचितं विगुणानिलेन विबद्धं सन्तं स्वमार्गे न प्रवर्तमानं शकृद्वा एवम्भूतमानाहविकारमुदाहरन्तीति पिण्डार्थः| आमजमानाहमाह– तस्मिन्नित्यादि| तस्मिन्नानाहे आमसमुद्भवे तृष्णा सञ्चितामजाता, गुरुत्वमामाशय एव, उद्गारविघातनम् उद्गाराप्रवृत्तिः, शेषं सुगमम्| शकृत्सञ्चयजमाह– स्तम्भ इति| स्तम्भशब्दः कट्यादेः स्तब्धभाववाची, पुरीषमूत्रयोश्चाप्रवृत्तिवाचीति| शूलोऽत्र कट्यादिष्वेव| छर्दिरित्येक एव छकारः छन्दोनुरोधात्| पक्वाशयजे पक्वाशयोत्थे आनाहे इति व्याख्यानयन्ति, ते च पक्वाशयोद्भवाः आनाहाः पुरीषाद्भवतीतीच्छन्ति, तथाऽपि स पूर्वोक्त एव परिफलितोऽर्थः| अलसोक्तानीति आध्मानवातनिरोधादीनि||१७-२०||

Adhikarana पुष्पिका · Śloka २७

इति श्रीमाधवकरविरचिते माधवनिदाने उदावर्तानाहनिदानं समाप्तम् ||२७||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामुदावर्तानाहनिदानं समाप्तम्||२७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानटीकायामातङ्कदर्पणाख्यायामुदावर्तानाहनिदानम्||२७||