Adhikarana उदावर्तनिदानम् (१) · Śloka १
अथोदावर्तानाहनिदानम् | वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः | क्षुत्तृष्णोच्छ्वासनिद्राणां धृत्योदावर्तसम्भवः ||१||
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उदावर्तेऽपि शूलं भवतीति शूलानन्तरमुदावर्तमाह– वातेत्यादि| अस्रमश्रु, इन्द्रियशब्देनात्र शुक्रं, क्षुत् बुभुक्षा| धृत्या वेगविधारणेन| एते वातादयस्त्रयोदश नियमार्थाः; तेनान्येषां क्रोधादीनां वेगविधारणं न तद्धेतुः, स्वास्थ्यहेतुत्वात्| यदाह चरकः– “लोभशोकभयक्रोधमानवेगान् विधारयेत्|” (च. सू. अ. ७) इत्यादि| सर्वोदावर्तेषु च वायुरेव कारणम्| यदाह सुश्रुतः– “सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः| वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये||” (सु. उ. तं. अ. ५५) इत्यादि| उद्भूतेन वेगविधारणेनावृतस्य वायोर्वर्तनमित्युदावर्तनिरुक्तिः; अन्ये तु वायोरूर्ध्वमावर्तो गमनमित्युदावर्तमाहुः; तन्न, अश्रुस्रावादेरव्यापकत्वात्; छत्रिणो गच्छन्तीति न्यायेन वा समाधेयम्||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उदावर्ते शूलं भवतीति शूलानन्तरमुदावर्तारम्भः| उदावर्तमाह– वातेत्यादि| एतेषां धृत्या वेगविधारणेन; अश्रु चक्षुर्जलं, क्षवश्छिक्का, इन्द्रियशब्देन शुक्रमुच्यते, क्षुत् क्षुधा, एते वातादयस्त्रयोदश नियमार्थाः, तेनान्येषामपि कोपादीनां विधारणं न तद्धेतुः, स्वास्थ्यहेतुत्वात्| यदुक्तं चरके– “लोभशोकभयक्रोधमानवेगान्विधारयेत्” इत्यादि| सर्वेषूदावर्तेषु वायुरेव कारणम्| यदाह सुश्रुताचार्यः– “सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः| वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये||” इति| उद्भूतेन वेगविधारणेनावृतस्य वायोरावर्तनमुदावर्त इति निरुक्तिः; अन्ये तु वायोरूर्ध्वमावर्तो गमनमित्युदावर्त इत्याहुः||१||