Skip to content

२८. गुल्मनिदानम्

Adhikarana गुल्मस्य निदानभेदस्थानानि (१) · Śloka

अथ गुल्मनिदानम् | दुष्टा वातादयोऽत्यर्थं मिथ्याहारविहारतः | कुर्वन्ति पञ्चधा गुल्मं कोष्ठान्तर्ग्रन्थिरूपिणम् | तस्य पञ्चविधं स्थानं पार्श्वहृन्नाभिबस्तयः ||१||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

गुल्मेऽप्यानाहो भवतीत्यानाहानन्तरं गुल्ममाह– दुष्टा इत्यादि| पञ्चधेति वातपित्तकफसन्निपातरक्तजाः| द्वन्द्वजास्तु प्रकृतिसमसमवेतत्वान्न पृथग्गण्यन्ते, अर्शोरोगवत्| कोष्ठान्तरामाशयादिमध्ये, ग्रन्थिरूपिणं गुडकाकारम्| तस्येत्यादि| एतदेव विवृणोति– पार्श्वेत्यादि| पार्श्वे द्वे गणनीये, अन्यथा पञ्चत्वानुपपत्तिः, अत एव ‘पार्श्वे’ इति द्विवचनान्तमेव क्वचित् पठ्यते||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

गुल्मेऽप्याध्मानं भवतीत्याध्मानानन्तरं गुल्मनिदानं, तस्य सम्प्राप्तिमाह– दुष्टा इत्यादि| दुष्टाः स्वकारणैः मिथ्याहाराध्यशनादिभिः, मिथ्याविहारो बलवद्विग्रहादिः| पञ्चधेति, वातपित्तकफसन्निपातरक्तजान्येवं पञ्च, द्वन्द्वजास्तु प्रकृतिसमवेतत्वात्पृथङ् न गण्यन्ते, अर्शोरोगवत्| कोष्ठान्तः आमाशयादिमध्ये, ग्रन्थिरूपिणं गुटिकाकारम्| तेषां स्थानान्याह– तस्येत्यादि| पार्श्वे द्वे गणनीये, अन्यथा पञ्चत्वानुपपत्तिः| अन्ये पार्श्वे इति द्विवचनान्तमेव पठन्ति||१||

Adhikarana सामान्यगुल्मरूपम् (२) · Śloka

हृन्नाभ्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः | वृत्तश्चयापचयवान् स ‘गुल्म’ इति कीर्तितः ||२|| (सु. उ. तं. अ. ४२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सामान्यगुल्मरूपमाह– हृदित्यादि| नाभिशब्देन बस्तिर्बोध्यः, सामीप्यात्; यथा गङ्गायां घोष इत्याहुः; बस्तेरपि गुल्माश्रयत्वेनोक्तत्वात्| अत एव ‘हृद्बस्त्योरन्तरे’ इति पाठान्तरम्| अन्ये त्वाहुः– बस्तौ विद्रधिरेव स्यान्नतु गुल्म इति| तन्न, गुल्मलक्षणप्रतीतेः| एतत् पञ्चस्थानकथनं दोषजाभिप्रायेण, रक्तजस्य तु गर्भाशयः स्थानम्; अथवा पार्श्वस्थितत्वात् गर्भाशयस्य पार्श्वग्रहणेनैव ग्रहणम्| वृत्तो वर्तुलः| चयापचयवानिति कदाचिदुपचीयते, कदाचिदपचीयते; एतच्च सामान्योक्तमपि वातिके व्यवतिष्ठते, तल्लक्षणे तदभिधानादिति जेज्जटः; गदाधरस्तु सामान्यलक्षणमाह, सर्वगुल्मानां वातमूलत्वात्| ‘चयोपचयवान्’ इति पाठान्तरे दोषस्य चयेनोपचयवानिति| गुल्म इति लतादिपिहितसंस्थानविशेषादौ गुल्मव्यपदेशो लोके, तत्सादृश्यात् सञ्चितपरिपिण्डितदोषेऽपि गुल्मसञ्ज्ञेत्याहुः; वाप्यचन्द्रस्त्वाह– सम्पिण्डितदोषो गुडकेन मीयत इति निरुक्तिः||२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सामान्यं गुल्मरूपमाह– हृदित्यादि| हृद् हृदयं, बस्तिः मूत्राशयः| नाभिशब्देन बस्तिर्बोध्यः सामीप्यादेव, यथा गङ्गायां घोष इति; बस्तेरपि गुल्माश्रयत्वेनोक्तत्वात्| अन्ये ‘हृद्बस्त्योरन्तरे’ इत्येव पाठान्तरं पठन्ति| अन्ये तु बस्तौ विद्रधिरेव स्यान्न तु गुल्म इति| तन्न, बस्तेरपि गुल्मस्थानत्वात्, तथा च चरके– “पञ्चस्थानानि गुल्मस्य पार्श्वे हृन्नाभिवस्तयः|” इति| सञ्चारी चलनशीलः, अथवा अचलः स्थिरः, वृत्तो वर्तुलः| चयापचयवानिति कदाचित् चीयते वृद्धिं गच्छति, कदाचिदपचीयते हीनो भवति| एतल्लक्षणं सामान्योक्तमपि वातिके व्यवतिष्ठते, तल्लक्षणे तदभिधानादिति जेज्जटः| गदाधरस्तु सामान्यलक्षणमेवाह, सर्वगुल्मानां वातारब्धत्वात्| “चयोपचयवान्” इति पाठान्तरम्| तत्र दोषस्य चयः, तेन उपचयवान् वृद्धिमानित्यर्थः| स गुल्मः लतापिहितस्थानविशेषादौ गुल्मव्यपदेशो लोके, तत्सादृश्यवत्सञ्चितपरिपिण्डितदोषेऽपि गुल्मसञ्ज्ञेत्याहुः| वाप्यचन्द्रस्त्वाह– सम्पिण्डितो दोषो गुडकत्वेन मीयत इति निरुक्तिः||२||

Adhikarana पञ्चविधगुल्मविवरणम् (३) · Śloka

स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः | पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः ||३|| (सु. उ. तं. अ. ४२) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पूर्वोक्तं पञ्चविधत्वं विवृणोति– स इत्यादि| व्यस्तैरित्यनेनैकजो द्वन्द्वजोऽपि ग्राह्यः| पञ्चधा गुल्म इत्यनेन विरोध इति चेत्| न, नहि तत्रावधारणं कृतं, पञ्चधैवेति| अत एव सूत्रस्थाने चरकेण “पञ्च गुल्मा” (च. सू. अ. १९) इत्यभिधायापि “संसृष्टलिङ्गानपरांश्च गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्|” (च. चि. अ. ५) इत्युक्तं, समानचिकित्स्यत्वेन तत्रान्तर्भावात्| रक्तेन चापर इति स्त्रीणामेव| वक्ष्यति हि– “स रौधिरः स्त्रीभव एव गुल्मः|” (च. चि. अ. ५) इति| रक्तं चात्रार्तवं न धातुरूपं, धातुरूपरक्तजस्तु गुल्मो यद्यप्यन्योऽस्ति तथाऽपि नैतत्सम्प्राप्तिको भवतीति पृथगुपदिश्यते| पृथग्ज्ञानानभिधानं तु पित्तगुल्मसमाननिदानचिकित्स्यतत्वेन तत्रान्तर्भावात्, सुश्रुते रक्तातीसारवत्| विशेषलक्षणं च यदाह चरकः– “तृष्णाज्वरपरीदाहशूलस्वेदाग्निमार्दवैः| गुल्मिनामरुचौ चापि रक्तमेवावसेचयेत्||” (च. चि. अ. ५) इति| धातुरूपरक्तजः स्त्रीणां पुंसां च भवतीति भट्टारहरिचन्द्रः| तथाच क्षारपाणिः– “स्त्रीणामार्तवजो गुल्मो न पुंसामुपजायते| अन्यस्त्वसृग्भवो गुल्मः स्त्रीणां पुंसां च जायते||” इति| वाप्यचन्द्रस्त्वाह– वातादिदोषजस्यैवापचाराद्रक्ते दुष्टे रक्तजव्यपदेशः, यथा चरके– कफपित्तमेहानामतिकर्षणादुत्तरकालं वातसंसर्गे सति वातमेहत्वमुक्तम्| यदुक्तम्– “या वातमेहान् प्रति पूर्वमुक्ता वातोल्बणानां विहिता क्रिया सा| वायुर्हि मेहेष्वतिकर्षितेषु कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता||” (च. चि. अ. ६) इति| क्षारपाणेरप्येवमेवाभिप्रायः| यदि तु पृथक् स्यात्तदा तमपि नवमं लिङ्गस्थानादिभिरभिधास्यत्, न चोक्तम्| जेज्जटगयदासाभ्यां तु हरिचन्द्रमतमेवानुमतमिति| सर्वगुल्मेषु वातकारणत्वं ज्ञेयम्| यदुक्तं चरके– “गुल्मिनामनिलशान्तिरुपायैः सर्वशो विधिवदाचरितव्या| मारुते ह्यवजितेऽन्यमुदीर्णं दोषमल्पमपि कर्म निहन्यात्||” (च. चि. अ. ५) इति; सुश्रुतेऽप्युक्तम्– “कुपितानिलमूलत्वात् सञ्चितत्वान्मलस्य च| तुल्यत्वाद्वा विशालत्वाद्गुल्म इत्यभिधीयते||” (सु. उ. तं. अ. ४२) इति| न चैतावता नानात्मजत्वप्रसङ्गः, वातस्यानुबन्धरूपत्वात् ज्वरे पित्तवत्| ननु वाताव्यभिचारात् द्विदोषजस्त्रिदोषजो वा गुल्मः स्यान्न केवलं कफजः पित्तजो वेति, ततश्च पञ्चधेति विरोधः| नैतत्, अनुबन्धरूपेण वातजव्यपदेशो, न त्वनुबन्ध्यरूपेणेति||३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्य सङ्ख्यामाह– स इत्यादि| स गुल्मो व्यस्तैर्वातपित्तश्लेष्मभिः, उच्छ्रितैः प्रकुपितैस्त्रिभिरपि जायते पुरुषाणां, व्यस्तैरित्यनेन एकजो द्वन्द्वजश्च ग्राह्यः| एवं पञ्चधा गुल्म इत्यनेन वचनेन विरोध इति चेत्| न, नहि तत्रावधारणं कृतं पञ्चधैवेति; अत एव सूत्रस्थाने चरकेण पञ्च गुल्मा इत्यभिधायापि “संसृष्टलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्|” इत्यभिहितम्| ज्ञेयो रक्तेन चापरः इति स्त्रीणामेव| यदुक्तमिहैव– “स रौधिरः स्त्रीभवगुल्म एव|” इति| रक्तं चात्रार्तवं, पृथग्ज्ञानानभिधानं तु पित्तगुल्मसमाननिदानचिकित्स्यत्वेन तत्रान्तर्भावात्| चरकसुश्रुतयो रक्तातिसारवत्| विशेषलक्षणं यदाह चरकः– “तृष्णाज्वरपरीदाहशूलस्वेदाग्निमार्दवैः| गुल्मिनामरुचौ चापि रक्तमेवावसेचयेत्||” इति| धातुरूपरक्तजश्च स्त्रीणां पुंसां च भवतीति भट्टारकहरिश्चन्द्रः| तथा च क्षीरपाणिः– “स्त्रीणामार्तवजो गुल्मो न पुंसामुपजायते| अन्यस्त्वसृग्भवो गुल्मः स्त्रीणां पुंसां च जायते||” इति| वाप्यचन्द्रस्त्वाह– वातादिदोषजस्यैवापचाराद्रक्ते दुष्टे रक्तजव्यपदेशः; यथा चरके– कफपित्तप्रमेहाणामतिकर्षणादुत्तरकालं वातसंसर्गे सति वातमेहत्वमुक्तम्| यदुक्तम्– “या वातमेहान् प्रति पूर्वमुक्ता वातोल्बणानां विहिता क्रिया सा| वायुर्हि मेहेष्वतिकर्षितेषु कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता||” इति| क्षीरपाणेरप्ययमेवाभिप्रायः| यदि तु पृथक् स्यात्, तदा तस्यापि लिङ्गस्थानादिभिरभिधानं स्यात्, तच्च नोक्तं; जेज्जटगयदासाभ्यां तु हरिश्चन्द्रमतमेवानुमतमिति| सर्वगुल्मेषु वातकारणत्वं ज्ञेयम्| यदुक्तं चरके– “गुल्मिनामनिलशान्तिरुपायैः सर्वशो विधिवदाचरणीया| मारुते ह्यवजितेऽन्यमुदीर्णं दोषमल्पमपि कर्म निहन्यात्||” इति| सुश्रुतेऽप्युक्तम्– “कुपितानिलमूलत्वातत्सञ्चित्वान्मलस्य च| तुल्यवद्वा विशालत्वाद्गुल्म इत्यभिधीयते||” इति||३||

Adhikarana गुल्मपूर्वरूपम् (४) · Śloka

उद्गारबाहुल्यपुरीषबन्धतृप्त्यक्षमत्वान्त्रविकूजनानि | आटोप आध्मानमपक्तिशक्तिरासन्नगुल्मस्य वदन्ति चिह्नम् ||४|| (वा. नि. अ. ११) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पूर्वरूपमाह– उद्गारेत्यादि| पुरीषबन्धो विड्बन्धः| तृप्तिरनन्नाभिलाषः| सुश्रुतेऽपि हि ‘द्वेषोऽन्ने’ (सु. उ. तं. अ. ४२) इति पठितम्| अक्षमत्वमसामर्थ्यम्| आटोपोऽत्र रुजापूर्वकः क्षोभः, तलतलं वा; नतु गुडगुडाशब्दः, तस्यान्त्रकूजनेनैव गृहीतत्वात्; नाप्याध्मानं, तस्योपात्तत्वात्| अपक्तिशक्तिः मन्दाग्निता; ‘अपक्तृशक्तिः’ इति पाठे स एवार्थः||४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्य पूर्वरूपमाह– उद्गारेत्यादि| उद्गारबहुलता, पुरीषबन्धो विड्विबन्धः, तृप्तिरनन्नाभिलाषः, सुश्रुते हि– ‘द्वेषोऽन्ने’ इति पठितम्| अक्षमत्वमसामर्थ्यम्| तृप्त्यक्षमत्वं सौहित्यासहिष्णुतेति केचित्| अन्त्रविकूजनमन्त्राणामव्यक्तशब्दानुकरणम्| आटोपो रुजापूर्वकः क्षोभः, न तु गुडगुडाशब्दः, तस्यान्त्रकूजनेनोक्तत्वात्| आध्मानमुपान्तयोराध्मानमिव, अपक्तिशक्तिः मन्दाग्नित्वादाहारस्यापाकः||४||

Adhikarana सर्वगुल्मसाधारणं रूपम् (५) · Śloka

अरुचिः कृच्छ्रविण्मूत्रवातताऽन्त्रविकूजनम् | आनाहश्चोर्ध्ववातत्वं सर्वगुल्मेषु लक्षयेत् ||५||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

गुल्मसाधारणरूपमाह– अरुचिरित्यादि||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सर्वगुल्मानां साधारणलक्षणमाह– अरुचिरित्यादि| कृच्छ्रविण्मूत्रवातता कष्टेन विण्मूत्रवातप्रवर्तनम्| अन्त्रविकूजनं गुडगुडाशब्दः, आनाह ऊर्ध्वाधोवातनिरोधः, ऊर्ध्ववातत्वमुद्गारबाहुल्यम्||५||

Adhikarana वातिकगुल्मस्य निदानपूर्वकं लक्षणम् (६-८) · Śloka

रूक्षान्नपानं विषमातिमात्रं विचेष्टनं वेगविनिग्रहश्च | शोकोऽभिघातोऽतिमलक्षयश्च निरन्नता चानिलगुल्महेतुः ||६|| यः स्थानसंस्थानरुजां विकल्पं विड्वातसङ्गं गलवक्त्रशोषम् | श्यावारुणत्वं शिशिरज्वरं च हृत्कुक्षिपार्श्वांसशिरोरुजं च ||७|| करोति जीर्णे त्वधिकं प्रकोपं भुक्ते मृदुत्वं समुपैति यश्च | वातात् स गुल्मो नच तत्र रूक्षं कषायतिक्तं कटु चोपशेते ||८|| (च. चि. अ. ५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातिकमाह– रूक्षेत्यादि| विषमातिमात्रमिति अन्नपानविशेषणम्| विचेष्टनं विरुद्धचेष्टाः बलवद्विग्रहादि| अतिमलक्षयो विरेकादिना| निरन्नता निराहारता| विकल्पशब्दः स्थानादिभिः प्रत्येकं योज्यः| स्थानविकल्पो यथा– कदाचिन्नाभौ, कदाचित्पार्श्वयोः, कदाचिद्बस्तावित्यादिस्थानान्तरगमनम्| संस्थानविकल्पो यथा– कदाचिदल्पः, कदाचिन्महान्, वृत्तो, दीर्घो वेति| रुजाविकल्पो यथा– कदाचिदल्पा, कदाचिन्महती, तोदरूपा, भेदरूपा, अनेकरूपा वेति| न च तत्रोपशेते न सुखयति||६-८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातगुल्मस्य हेतुपूर्वकं लक्षणमाह– रूक्षेत्यादि| विषमातिमात्रमिति अन्नपानविशेषणम्| विषमं बहु स्तोकमकालभोजनम्, एवं जलपानमपि, अतिमात्रं मात्राधिकम्, एवं जलस्यापि| विचेष्टनं विरुद्धचेष्टा बलवद्विग्रहादिः, अभिघातो लगुडादिना, अतिमलक्षयो विरेकादिना, निरन्नता निराहारता| य इत्यादि| स्थानविकल्पो यथा– कदाचिन्नाभौ, कदाचिद्बस्तौ, कदाचित्पार्श्वयोरित्यादिस्थानान्तरगमनम्| संस्थानविकल्पो यथा– कदाचिद्वर्तुलः, कदाचिद्दीर्घ इत्यर्थः| रुजाविकल्पो यथा– कदाचिदल्पा रुक्, कदाचिन्महती, तोदरूपा, भेदरूपा, अनेकरूपा वेति| विड्वातसङ्गं विड्वाताप्रवृत्तिः, कण्ठवक्त्रयोः शोषः, श्यावारुणत्वं शरीरस्य, शीतज्वरः, हृत्कुक्ष्यादीनां पीडा, अंसः भुजयोरुपरिभागः| जीर्णे आहारे प्रकुप्यति, भुक्ते च शान्तिं गच्छति, स वातिको गुल्मः| रूक्ष आहारः कषायतिक्तकटुका रसाः, तत्र तस्मिन् वातगुल्मे नोपशेते न सुखयति, वातकारणत्वात्||६-८||

Adhikarana पैत्तिकगुल्मस्य निदानपूर्वकं लक्षणम् (९-१०) · Śloka १०

कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्रोधातिमद्यार्कहुताशसेवा | आमाभिघातो रुधिरं च दुष्टं पैत्तस्य गुल्मस्य निमित्तमुक्तम् ||९|| ज्वरः पिपासा वदनाङ्गरागः शूलं महज्जीर्यति भोजन च | स्वेदो विदाहो व्रणवच्च गुल्मः स्पर्शासहः पैत्तिकगुल्मरूपम् ||१०|| (च. चि. अ. ५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पैत्तिकमाह– कट्वित्यादि| आमाभिघात इति विदग्धाजीर्णजनितदुष्टरसेनाभिभवः; अन्ये तु ‘आमाभिघातौ’ इति पठन्ति, तत्राम उक्तरूपः, अभिघातो लगुडादेः रक्तदूषको ज्ञेयः| जीर्यतीति सप्तम्यन्तम्| व्रणवत् स्पर्शासह इति योज्यम्||९-१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पैत्तिकगुल्ममाह– कट्वित्यादि| विदाहि वंशकरीरादि, अतिशब्दो मद्यादिषु योज्यः| आमाभिघात इति विदग्धाऽजीर्णजनितदुष्टरसेनाभिभवः, अन्ये आमाभिघाताविति पठन्ति, तत्राम उक्तरूपः, अभिघातो लगुडादिना रक्तदूषको ज्ञेयः| एते पैत्तिकगुल्मस्य हेतवः| तस्य लक्षणमाह– ज्वर इत्यादि| ज्वरः प्रसिद्धः, पिपासा पातुमिच्छा, वदनाङ्गरागः मुखे शरीरे चारुणता, आहारे जीर्यति पच्यमाने महच्छूलं भवति, व्रणवत् स्पर्शासह इति योज्यम्| एतत् पित्तगुल्मरूपम्||९-१०||

Adhikarana श्लैष्मिकगुल्मस्य निदानपूर्वकं लक्षणम् (११-१२) · Śloka १२

शीतं गुरु स्निग्धमचेष्टनं च सम्पूरणं प्रस्वपनं दिवा च | गुल्मस्य हेतुः कफसम्भवस्य सर्वस्तु दुष्टो निचयात्मकस्य ||११|| स्तैमित्यशीतज्वरगात्रसादहृल्लासकासारुचिगौरवाणि | शैत्यं रुगल्पा कठिनोन्नतत्वं गुल्मस्य रूपाणि कफात्मकस्य ||१२|| (च. चि. अ. ५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

श्लैष्मिकमाह– शीतमित्यादि| सम्पूरणं तृप्तिभोजनम्| सर्व इति वातजाद्युक्तः| निचयात्मकस्य सन्निपातजस्य| कठिनोन्नतत्वं गुल्मस्य||११-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

श्लैष्मिकमाह– शीतमित्यादि| शीतादिभिर्द्रव्यैः, अचेष्टनमव्यायामः| सम्पूरणमिति आहारादिना कोष्ठस्य तृप्तिरिव, एतत् सर्वं कफगुल्मस्य हेतुः| एतस्यैव श्लोकपादेन सान्निपातिकस्य हेतुमाह– सर्व इति| निचयात्मकस्य सान्निपातिकस्य गुल्मस्य वातजाद्युक्तहेतुः कारणं, तथा सर्वदोषोक्तलक्षणानि च भवन्ति| पुनः श्लैष्मिकस्यैव लक्षणमाह– स्तैमित्येति| स्तैमित्यं निश्चलत्वं, शीतज्वरादयः सुबोध्याः, शैत्यं शीतगात्रता, कठिनोन्नतत्वं गुल्मस्यैव||११-१२||

Adhikarana द्व्यात्मकेषु त्रिष्वेकजहेतुलक्षणातिदेशः (१३) · Śloka १३

निमित्तरूपाण्युपलभ्य गुल्मे द्विदोषजे दोषबलाबलं च | व्यामिश्रलिङ्गानपरांश्च गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम् ||१३|| (च. चि. अ. ५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

द्व्यात्मकेषु त्रिष्वेकजहेतुलक्षणातिदेशार्थमाह– निमित्तेत्यादि| निमित्तानि च रूपाणि चेति द्वन्द्वः| दोषबलाबलं चेत्यनेन समद्विदोषद्वन्द्वजत्रयेण एकोल्बणादिद्विदोषजोऽपि ग्राह्य इति दर्शयति, अन्यथा बहुत्वापत्तेः| औषधकल्पनार्थमिति एकदोषजाभिहितचिकित्सामेलकेन तान् चिकित्सेदित्यर्थः||१३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

द्वन्द्वादिकेषु त्रिष्वेकजहेतुलक्षणातिदेशार्थमाह– निमित्तेत्यादि| लिङ्गानि लक्षणानि, द्विदोषजे गुल्मे दोषाणां बलाबलं च ज्ञात्वा व्यामिश्रलिङ्गान् मिलितलिङ्गान् परान् स्त्रीन् गुल्मानौषधकल्पनार्थमादिशेत्, एकदोषजाभिहितचिकित्सामेलकेन च चिकित्सेदित्यर्थः||१३||

Adhikarana सान्निपातिकगुल्मलक्षणम् (१४) · Śloka १४

महारुजं दाहपरीतमश्मवद्घनोन्नतं शीघ्रविदाहि दारुणम् | मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् ||१४|| (च. चि. अ. ५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सान्निपातिकमाह– महारुजमित्यादि| अश्मवत् घनोन्नतं पाषाणवत् कठिनमुन्नतं च| मन इत्यादि मनोऽपहारिणं मनोवैकल्यकारिणं, शरीरापहारिणं कृशत्ववैवर्ण्यकरम्, अग्न्यपहारिणमग्निवैषम्यकरं, बलापहारिणमसामर्थ्यकरम्| ननु, असाध्यमिति विरुद्धं, “सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः|” (सु. उ. तं. अ. ४२) इति सुश्रुतवचनात्| नैवम्, अयं च विकृतिविषमसमवेतोऽसाध्यः, प्रकृतिसमसमवेतस्तु साध्य इत्याहुः| ननु, सोऽप्यसाध्यः, यदाह सुश्रुतः– “सर्वात्मके सर्वरुजोपपत्तिस्तं चाप्यसाध्यं प्रवदन्ति तज्ज्ञाः|” (सु. उ. तं. अ. ४२) इति| उच्यते– तं चापीति अपिशब्दादचिरोत्थितः साध्यो विश्वामित्रसंवादादिति गयदासः||१४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

त्रिदोषजस्यासाध्यत्वमाह– महारुजमित्यादि| महारुजं तीव्रपीडाकरं, दाहपरीतदेहं सन्तापेन व्याप्ताखिलदेहं, शीघ्रेण विदाहकरं, दारुणं मारणात्मकम्, अश्मवद् घनोन्नतं पाषाणवत् कठिनोन्नतम्| मन इत्यादि मनोपहारिणं मनोवैकल्यकरं, शरीरापहारिणं कृशत्ववैवर्ण्यकरम्, अग्न्यपहारिणमग्नेर्वैषम्यादिकरं, बलापहारिणमसामर्थ्यकरम्| एतल्लक्षणं विकृतिविषमसमवेतस्य, प्रकृतिसमसमवेतस्तु साध्यः||१४||

Adhikarana रक्तगुल्मस्य निदानपूर्वकं लक्षणम् (१५-१६) · Śloka १६

नवप्रसूताऽहितभोजन या या चामगर्भं विसृजेदृतौ वा | वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम् | पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध ||१५|| (सु. उ. तं. अ. ४२) | यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूलः समगर्भलिङ्गः | स रौधिरः स्त्रीभव एव गुल्मो मासे व्यतीते दशमे चिकित्स्यः ||१६|| (च. चि. अ. ५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

रक्तगुल्ममाह– नवेत्यादि| आमगर्भं विसृजेदिति नवममासादर्वाक् प्रसूते| ऋतौ आर्तवप्रवृत्तिकाले, अहितभोजनेति सम्बन्धः| एतच्चोपलक्षणार्थं, तेनाहाराचारादिकं ज्ञेयम्| यदाह चरकः– “ऋतावनाहारतया भयेन विरूक्षणैर्वेगविधारणैश्च| संस्तम्भनोल्लेखनयोनिदोषैर्गुल्मः स्त्रियं रक्तभवोऽभ्युपैति||” (च. चि. अ. ५) इति| पैत्तस्य पैत्तिकगुल्मस्य| विशेषणं पैत्तिकगुल्माद्विशेषलक्षणम्| पिण्डितः समुदितः| एवकारोऽत्र अवधारणे| एतदेव स्फुटयति– नाङ्गैर्नावयवैश्चिरात् स्पन्दत इति सम्बन्धः| समगर्भलिङ्ग इति आर्तवादर्शनमुखस्रवणस्तनमुखकृष्णत्वदोहदादिगर्भलक्षणयुक्तः, एतच्च व्याधिप्रभावात्; यथा– क्षयार्शसोः स्त्रीरिरंसाकृष्णत्वङ्नखादयः| अन्ये तु समगर्भलिङ्गोऽविकृतगर्भलिङ्ग इत्याहुः| उक्तविशेषणैरेव स्त्रीभवत्वे लब्धे स्त्रीग्रहणेन कुमारीमतिवृद्धां च निषेधयति, अनुद्भूतक्षीणरजस्कत्वात्तयोः| व्यतीतेऽतिक्रान्ते| गर्भसमानलिङ्गत्वेन संशयः– गर्भो वा, रक्तगुल्मो वा, इति; तच्छङ्कानिरासार्थं दशमे मासे व्यतीते इत्युक्तं; नवमदशमयोः प्रसवकालत्वादित्येके| तन्न, ‘यः स्पन्दते पिण्डित एव नाङ्गैः’ इत्यादिनैव विशेषदर्शनेन संशयस्य निवर्तितत्वात्| गर्भो हि निरन्तरं प्रत्यङ्गैर्निःशूलं स्पन्दते, गुल्मस्तु एतद्विपरीतेन| किञ्च नवमे दशमे प्रसूत इत्युत्सर्गः, नतु नियमः, तदधिककालेऽपि प्रसवदर्शनात्, आगमाच्च| उक्तं हि चरके– “तं स्त्री प्रसूते सुचिरेण गर्भं पुष्टो यदा वर्षगणैरपि स्यात्|” (च. शा. अ. २) इति| तस्मान्नेदं दशममासव्यतिक्रमे चिकित्साविधानस्य प्रयोजनं, किन्तु व्याधिमहिम्ना तावतैव कालेन तस्य चिकित्सया सुखोच्छेदनमिति| यथा ज्वरे पुराणे एव क्षीरपानविरेचने| उक्तं हि तन्त्रान्तरे– “रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्|” इति| पुराणता चास्य दशममासव्यतिक्रमेणैव भवति| जेज्जटेनाप्युक्तम्– यद्यर्वाक् रक्तभेदनं क्रियते तदा गर्भशय्यां क्षिणाति, तल्लीनत्वाद्रक्तस्य; एकादशमासे तु परिपिण्डितगुल्मे स्नेहादिनोपस्कृतदेहाया न गर्भशय्याया विकृतिमादधाति रक्तभेदनमिति||१५-१६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

स्त्रीणां रक्तजगुल्मस्य सम्प्राप्तिमाह– नवेत्यादि| या स्त्री नवप्रसूता सती अहितभोजना भवति, या चामगर्भं विसृजेदिति नवमासादर्वाक् प्रसूते, ऋतावार्तवप्रवृत्तिकाले अहितभोजनेति सम्बन्धः| अन्यथा ऋतौ तदसम्भवात्| एतच्चोपलक्षणं, तेनानाहारादिकमपि ज्ञेयम्| यदाह चरकः– “ऋतावनाहारतया भयेन विरूक्षणैर्वेगविधारणैश्च| संस्तम्भनोल्लेखनयोनिदोषैर्गुल्मः स्त्रियं रक्तभवोऽभ्युपैति||” इति| तस्य लक्षणमाह– पैत्तस्येत्यादि| पैत्तिकगुल्मस्यास्यैवापरं विशेषणं, तदेव स्फुटयति– चिरात् पिण्डीभूत इव स्पन्दते हस्तपादादिभिरित्यर्थः| सशूलः पीडायुक्तः| समगर्भलिङ्ग इति आर्तवादर्शनमुखपाण्डुस्तनकृष्णत्वदोहदादिलक्षणयुक्तः, एतच्च व्याधिप्रभावात्, यथा– क्षयार्शसोः स्त्रीरिरंसाकृष्णत्वङ्नखादयः| अन्ये तु समगर्भलिङ्ग इति अविकृतगर्भलिङ्ग इत्याहुः| स स्त्रीभव एव रक्तजो गुल्मो दशमे मासे व्यतीते सति चिकित्स्यः स्यात्| रौधिर इत्यनेन विशेषणेनार्तवायुक्तां कुमारीमतिवृद्धां च निषेधयति, अनुद्भूतक्षीणरजस्कत्वात्तयोः| व्यतीतेऽतिक्रान्ते| गर्भसमानलिङ्गत्वेन संशयः– गर्भो वा रक्तगुल्मो वेति, तच्छङ्कानिरासार्थं मासे व्यतीते दशमे इत्युक्तं, नवमदशमयोः प्रसवकालत्वादित्येके; तन्न, “यः स्पन्दते पिण्डित एव नाङ्गैः” इत्यादिनैव संशयस्य निवर्तितत्वात्| गर्भो ह्यङ्गेन निरन्तरं निःशूलं स्पन्दते, गुल्मस्तु एतद्विपरीतेनेति| किञ्च नवमे दशमे प्रसूयत इति सामान्यं न तु नियमः, तदधिककालेऽपि प्रसवदर्शनात्, आगमाच्च| यदुक्तं चरके– “तं स्त्री प्रसूते सुचिरेण गर्भं पुष्टो यदा वर्षगणैरपि स्यात्|” इति| तस्मान्नेदं दशमासव्यतिक्रमे चिकित्साभिधानस्य प्रयोजनं, किन्तु व्याधिमहिम्ना तावता कालेन तस्य चिकित्सया सुखोच्छेद्यत्वात्| यथा ज्वरे पुराण एव क्षीरपानविरेचने; उक्तं हि तन्त्रान्तरे– “रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्|” इति| पुराणता चास्य दशमासातिक्रमेणैव भवति| यदुक्तं जेज्जटेन– यद्यर्वाक् रक्तभेदनं क्रियते, तदा गर्भाशयं क्षिणोतीति, तल्लीनत्वाद्रक्तस्य, दशमासादूर्ध्वं पिण्डिते गुल्मे स्नेहादिनोपस्कृतदेहाया न गर्भाशये क्षतिमादधाति रक्तभेदनमिति||१५-१६||

Adhikarana गुल्मिनोऽसाध्यलक्षणानि (१७-२०) · Śloka २०

सञ्चितः क्रमशो गुल्मो महावास्तुपरिग्रहः | कृतमूलः सिरानद्धो यदा कूर्म इवोत्थितः ||१७|| दौर्बल्यारुचिहृल्लासकासच्छर्द्यरतिज्वरैः | तृष्णातन्द्राप्रतिश्यायैर्युज्यते स न सिध्यति ||१८|| गृहीत्वा सज्वरं श्वासच्छर्द्यतीसारपीडितम् | हृन्नाभिहस्तपादेषु शोथः कर्षति गुल्मिनम् ||१९|| (च. चि. अ. ५) | श्वासः शूलं पिपासाऽन्नविद्वेषो ग्रन्थिमूढता | जायते दुर्बलत्वं च गुल्मिनो मरणाय वै ||२०|| (सु. सू. अ. ३३) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

चिरजस्यावस्थायामसाध्यत्वमाह– सञ्चित इत्यादि| महावास्तुपरिग्रहः सकलोदरव्यापी| कृतमूलो धात्वन्तरावगाही| सिरानद्धः सिराजालवान्| गृहीत्वेत्यादि| हृदयादौ गृहीत्वा शोथो गुल्मिनं कर्षति, ‘मरणाय’ इति शेषः| श्वासेत्यादि| ग्रन्थिमूढता ग्रन्थिरूपस्य गुल्मस्याकस्माद्विलयनमिति| ननु च, अन्तर्विद्रधिगुल्मयोः को भेदः? समानस्थानसम्भवत्वात्| उच्यते– विद्रधिः पच्यते, गुल्मो न पच्यते निराश्रयत्वात्| यदाह सुश्रुतः– “न निबन्धोऽस्ति गुल्मस्य विद्रधिः सनिबन्धनः| गुल्मस्तिष्ठति दोषेषु विद्रधिर्मांसशोणिते|| विद्रधिः पच्यते तस्माद्गुल्मः क्वापि न पच्यते|” (सु. नि. अ. ९) इति| ननु, गुल्मोऽपि पच्यत एव| यदाह चरकः– “विदाहशूलसङ्क्षोभस्वप्ननाशारतिज्वरैः| विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत्||” (च. चि. अ. ५) इति| उच्यते– गुल्मो न पच्यते निराश्रयत्वात्; यदा तु कारणवशादाश्रयं मांसादिकमासादयति, वातोपशमनार्थं कृतस्वेदादिभिर्वा रक्तदुष्टिर्भवति, तदा पच्यमानो विदाहनिमित्तकं विद्रधित्वमाप्नोति| उक्तं हि– “ स वै शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते|” (च. सू. अ. १७) इति| न हि यस्मात् विकारात् यदुत्पद्यते विकारान्तरं तत् स एव भवतीति; माभूत् प्लीहैव उदरम्, अश्मर्येव शर्करा, इत्यादिशास्त्रोक्तविरोधविस्तरः| तस्माद्विद्रधिः पच्यते, गुल्मो न पच्यते इति सिद्धान्तो निरपवादः| ये तु अन्तर्विद्रधिं न पठन्ति तेषामयमभिप्रायः– गुल्मे पक्वे विद्रधौ च पाटनशोधनरोपणादेः, अपक्वे च विरेकलेपविम्लापनादेश्चिकित्सितस्य प्रायो विशेषाभावादलं पृथग्विकारस्वीकारेणेति||१७-२०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

चिरजस्यावस्थायामसाध्यत्वमाह– सञ्चित इत्यादि| अनुपक्रान्तत्वात् चिरकालानुबन्धित्वात्, क्रमशः क्रमेण, सञ्चितो वृद्धिं गतो, गुल्मो महावास्तुपरिग्रहः सकलोदरव्यापी, कृतमूलो धात्वन्तरावगाही| सिरानद्धः सिराजालवान्, यदा कूर्मवदुन्नतः स्यात्, दौर्बल्यादिभिरुपद्रवैर्युक्तो भवति, तदा न सिद्ध्यतीत्यर्थः| पुनरसाध्यलक्षणमाह– गृहीत्वेत्यादि| हृल्लासादिषु गृहीत्वा शोफो गुल्मिनं गुल्मयुक्तं रोगिणं, कर्षति मारयतीत्यर्थः| सज्वरश्वासं ज्वरश्वासाभ्यामुपद्रुतम्| पुनश्चासाध्यलक्षणमाह– श्वासेत्यादि| श्वासादय उपद्रवाः गुल्मिनो मरणाय भवन्ति, ग्रन्थिमूढता ग्रन्थिरूपस्यैव गुल्मस्याकस्माद्विलयनमदर्शनमिति| ननु, वातविद्रधिगुल्मयोः को भेदः, समानस्थानसंस्थानत्वात्? उच्यते, विद्रधिः पच्यते, गुल्मो न पच्यते, निराश्रयत्वात्| यदाह सुश्रुतः– “न निबन्धोऽस्ति गुल्मस्य विद्रधिः सनिबन्धनः| गुल्मस्तिष्ठति दोषे स्वे विद्रधिर्मांसशोणिते|| विद्रधिः पच्यते तस्माद्गुल्मः क्वापि न पच्यते|” इत्यादि| ननु, गुल्मोऽपि पच्यत एव| यदाह चरकः– “विदाहशूलसङ्क्षोभस्वप्ननाशारुचिज्वरैः| विदह्यमानं जानीयाद्गुल्मं तमुपनाहयेत्||” इति| उच्यते– गुल्मो न पच्यते निराश्रयत्वात्, यदि तु कारणवशादाश्रयं मांसादिकमासादयति, वातोपशमनार्थं कृतस्वेदादिभिर्वा रक्तदुष्टिर्भवति, तदा पच्यमानो विदाहनिमित्तकं विद्रधित्वमेवाप्नोतीति| उक्तं हि– “स वै शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते|” इति| यद्येवं, तदा यस्माद्विकारान्तरमुत्पद्यते तत्स एव भवति| माभूदेवं तदा प्लीहैव उदरं जठर एव शोफः, एवं शास्त्रविरोधः, तस्माद्विद्रधिः पच्यते, गुल्मो न पच्यत इति सिद्धान्तः| ये तु अन्तर्विद्रधिं न पठन्ति, तेषामयमभिप्रायः– गुल्मापेक्षया विद्रधौ च पाटनशोधनरोपणादेः अपक्वे च विरेकलेपनविम्लायनादेश्चिकित्सितस्य प्रायो विशेषाभावादलं पृथग्विकारस्वीकारेणेति||१७-२०||

Adhikarana पुष्पिका · Śloka २८

इति श्रीमाधवकरविरचिते माधवनिदाने गुल्मनिदानं समाप्तम् ||२८||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां गुल्मनिदानं समाप्तम्||२८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां गुल्मनिदानम्||२८||