Adhikarana उदरस्य वह्निदुष्टिजन्यत्वम् (१) · Śloka १
अथोदरनिदानम् |
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि च |
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात् ||१||
(वा. नि. अ. १२) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उदरोत्सेधसाधर्म्यादुदरनिदानम्| उदरस्य विशेषेण वह्निदुष्टिजन्यत्वमाह– रोगा इत्यादि| अग्निमान्द्यं च दोषत्रयजनकम्| यदुक्तम्– “वर्षास्वग्निबले हीने कुप्यन्ति पवनादयः|” (च. सू. अ. ६) इति| मलिनैरिति अत्यर्थदोषजनकैर्विरुद्धाध्यशनादिभिः| मलसञ्चयादिति मला दोषाः पुरीषादयश्च, तेषामतिवृद्धत्वात्| तन्त्रान्तरं च– “अतिसञ्चितदोषाणां पापं कर्म च कुर्वताम्| उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः||” इति| यद्यपि मन्दाग्नित्वमलिनान्नत्वयोः प्रत्येकमपि दोषत्रयजनकत्वमस्ति, तथाऽप्यत्रोभयहेतुजनकत्वेन दोषदुष्टिप्रकर्षः ख्याप्यते, अत एव दुष्टिप्रकर्षख्यापनार्थं ‘मलसञ्चयात्’ इत्यत्र सम्पूर्वं कृतवान्||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उदरोत्सेधसाधर्म्यादुदरनिदानम्| उदरस्य विशेषेण वह्निजन्यदुष्टित्वमाह– रोगा इत्यादि| अत्रोदरस्थो रोगोऽप्युदरशब्देनोच्यते| उक्तञ्च– “ तात्स्थ्यतद्धर्मताभ्यां च तत्समीपतयाऽपि च| तत्साहचर्याच्छब्दानां वृत्तिरेषा चतुर्विधा||” इति| अग्निमान्द्यं दोषत्रयजनकम्| यदुक्तम्– “तेषामग्निबले हीने कुप्यन्ति पवनादयः|” इति| मलिनैरिति अजीर्णादत्यर्थदोषजनकैर्विरुद्धाध्यशनादिभिः| मलसञ्चयादिति| मला दोषाः पुरीषादयश्च, तेषामतिवृद्धत्वात्| उक्तं च तन्त्रान्तरे– “अतिसञ्चितदोषाणां पापं कर्म च कुर्वताम्| उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः||” इति| यद्यप्यत्र मन्दाग्नित्वमलिनान्नत्वयोः प्रत्येकमपि दोषत्रयजनकत्वमस्ति, तथाऽप्यत्रोभयहेतुजनकत्वेन दुष्टिप्रकर्षः ख्याप्यते||१||
Adhikarana उदरसम्प्राप्तिः (२) · Śloka २
रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः |
प्राणाग्न्यपानान् सन्दूष्य जनयन्त्युदरं नृणाम् ||२||
(च. चि. अ. १३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सम्प्राप्तिमाह– रुद्ध्वेत्यादि| स्वेदाम्बुवाहीनीति स्वेदवहानि अम्बुवहानि च| अनयोश्च भेदः, “उदकवहानां स्रोतसां तालुमूलं क्लोम च; स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च|” (च. वि. अ. ५) इत्यनेनोक्तो ज्ञेयः| स्रोतोरोधश्चात्र बहिरेव न पुनरन्तः| यदुक्तं चरके– “स्वेदस्तु बाह्येषु स्रोतःसु प्रतिहतगतिस्तिर्यगवतिष्ठमानस्तदेवोदकमाप्याययति|” (च. चि. अ. १३) इति| अत एवोदरपूर्णता अन्नरसेन| प्राणाग्नीति पुनरग्निदूषणाभिधानेन मन्दस्याप्यग्नेः पुनर्दोषकृतं सुतरां मान्द्यं बोधयति| दोषसञ्चयगतेनापि वायुना प्राणापानयोर्दूषणं न विरुद्धं, यतो वायुना वाय्वन्तरदुष्टिः क्रियत एव| सुश्रुते तु पूर्वरूपमस्योक्तं; तद्यथा– “तत्पूर्वरूपं बलवर्णकाङ्क्षावलीविनाशो जठरे हि राज्यः| जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पादगतश्च शोथः||” (सु. नि. अ. ७) इति||२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्याः सम्प्राप्तिमाह– रुद्धेत्यादि| दोषाः स्वेदाम्बुवाहीनि स्रोतांसि रुद्ध्वा प्राणाग्न्यपानान् सन्दूष्य उदरमुत्पादयन्ति| स्वेदाम्बुवाहीनीति, अनयोश्च भेदः– उदकवहानां स्रोतसां तालुमूलं क्लोम च, स्वेदवहानां मेदोमूलं रोमकूपाश्चेत्यनेन प्रोक्तो ज्ञेयः| स्रोतोनिरोधश्च बहिरेव न पुनरन्तः| यदुक्तं चरके– “स्वेदश्च बाह्येषु मार्गेष्वभिहतगतिस्तिर्यगवतिष्ठमानस्तदेवोदकमाप्यायति” इति| अत एवोदरपूर्णताऽन्नरसेन| प्राणाऽग्नीति प्राणो वायुरग्निश्च, अपानो वायुः, एतान्; पुनरग्निं सन्दूष्येत्यभिधानेन मन्दस्याग्नेः पुनर्दोषकृतं सुतरां मान्द्यं बोधयति| दोषसञ्चयगतेनापि वायुना प्राणापानयोर्दूषणं न विरुद्धं, यतो दुष्टेन वायुनाऽदुष्टस्यान्तर्वायोर्दुष्टिः क्रियत एव| अस्य तु पूर्वरूपं सुश्रुते पठितं, तद्यथा– “तत्पूर्वरूपं बलवर्णकाङ्क्षावलीविनाशो जठरे च राज्यः| जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पादगतश्च शोथः||” इति||२||
Adhikarana उदराणां सामान्यरूपम् (३-४) · Śloka ५
आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता |
शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः ||३||
दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि |
(सु. नि. अ. ७) |
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ||४||
सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु |५|
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उदराणां सामान्यरूपमाह– आध्मानमित्यादि| दुर्बलाग्नितेति मन्दोऽग्निर्यद्यप्यत्र हेतुस्तथाऽप्यग्नेरतिशयदौर्बल्यं लिङ्गत्वेन ज्ञेयम्| उदराण्यष्टाविति यकृद्दाल्युदरस्य प्लीहोदरेण सार्धं समानचिकित्स्यतया तथोत्पत्तिविशिष्टदकोदरात् क्रमेण भूतदकोदरस्यापि समानलिङ्गचिकित्सितत्वेनाभिन्नत्वात् अष्टावेवोदराणि भवन्ति| प्लीहोदरादीनि च यद्यपि चत्वारि दोषजानि, तथाऽपि हेतुलिङ्गचिकित्साभेदात् पृथगुक्तानि||३-४||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सर्वेषामुदराणां सामान्यलक्षणमाह– आध्मानमित्यादि| मन्दाग्निर्यद्यप्यत्र हेतुः, तथाऽप्यग्नेरतिशयदौर्बल्यं लिङ्गत्वेन ज्ञेयम्| सदनं सादः| वातपुरीषयोः सङ्ग इति अप्रवृत्तिः| तेषां सङ्ख्यामाह– पृथगित्यादि| वातपित्तकफैस्त्रयः, त्रिभिरेकः, प्लीह्ना बद्धेन क्षतेन उदकेनैकैकः, एवमष्टावेवोदराणि| यकृद्दाल्युदरस्य प्लीहोदरेण सह समानचिकित्सिततया समानलिङ्गत्वेनाभिन्नत्वात् अष्टावेवोदराणि भवन्ति, नतु यकृद्दाल्युदरं पृथक्| प्लीहोदरादीनि च यद्यपि चत्वारि दोषजानि, तथाऽपि हेतुलिङ्गचिकित्साभेदात् पृथगुक्तानि; तेषां लिङ्गानि पृथक् शृणु||३-४||–
Adhikarana वातोदरलक्षणम् (५-८) · Śloka ८
तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु ||५||
कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम् |
शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसङ्ग्रहः ||६||
श्यावारुणत्वगादित्वमकस्माद्वृद्धिह्रासवत् |
सतोदभेदमुदरं तनुकृष्णसिराततम् ||७||
आध्मातदृतिवच्छब्दमाहतं प्रकरोति च |
वायुश्चात्र सरुक्शब्दो विचरेत् सर्वतो गतिः ||८||
(वा. नि. अ. १२) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातोदरलक्षणमाह– तत्रेत्यादि| अकस्माद्वृद्धिह्रासवदिति अनियतवृद्धिह्रासयुक्तमुदरम्| आध्मातदृतिवदिति वातपूर्णचर्मपुटवदिति||५-८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तत्र वातोदरलक्षणमाह– तत्रेत्यादि| हस्तपादादिषु श्वयथुः| कुक्ष्यादिषु च पीडा, उदरस्य वामदक्षिणभागे कुक्षिः, पर्वभेदनं सन्धिस्फुटनम्, अधो नाभेरधः पक्वाशये गुरुता, मलसङ्ग्रहः पुरीषस्याप्रवृत्तिः| त्वगादिषु श्यावारुणत्वम्, आदिशब्देन नखनेत्रग्रहणम्| अकस्माद्दृतिहासवदिति दृतिश्चर्मखल्ली, हस्ताहतवातपूर्णदृतिवत् शब्दं करोति, उदरमिति शेषः| सर्वतोगतिः सर्वकोष्ठगतो वायुः सरुक्शब्दो धावति||५-८||
Adhikarana पैत्तिकोदरलक्षणम् (९-१०) · Śloka १०
पित्तोदरे ज्वरो मूर्छा दाहस्तृट् कटुकास्यता |
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ||९||
पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते |
धूमायते मृदुस्पर्शं क्षिप्रपाकं प्रदूयते ||१०||
(वा. नि. अ. १२) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पैत्तिकमाह– पित्तेत्यादि| दह्यत इति उदरमात्रं दह्यते| दाहस्तु सकलदेहस्यैव बोद्धव्यः| धूमायते धूम इवोर्ध्वमेति| क्षिप्रपाकमिति क्षिप्रपाकाज्जलोदरतां यातीत्यर्थः| प्रदूयते व्यथते||९-१०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पैत्तिकमाह– पित्तोदरेत्यादि| तिक्तास्यता तिक्तमुखत्वं, ‘ कटुकास्यता इति पाठान्तरम्| भ्रमोऽत्र शङ्खादौ पीतज्ञानमिति, हरित् शाकवर्णनम्| दह्यत इति उदरमेव दह्यते, दाहस्त्वत्र सकलदेहस्यैव बोद्धव्यः| धूमायते धूममिवोर्ध्वमेति| क्षिप्रपाकाज्जलोदरतां यातीत्यर्थः| प्रदूयते व्यथते||९-१०||
Adhikarana श्लैष्मिकोदरलक्षणं, सन्निपातोदरलक्षणं च (११-१४) · Śloka १४
श्लेष्मोदरेऽङ्गसदनं स्वापश्वयथुगौरवम् |
निद्रोत्क्लेशोऽरुचिः श्वासः कासः शुक्लत्वगादिता ||११||
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत् |
चिराभिवृद्धं कठिनं शीतस्पर्शं गुरु स्थिरम् ||१२||
(वा. नि. अ. १२) |
स्त्रियोऽन्नपानं नखलोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः |
यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा ||१३||
तेनाशु रक्तं कुपिताश्च दोषाः कुर्युः सुघोरं जठरं त्रिलिङ्गम् |
तच्छीतवाते भृशदुर्दिने च विशेषतः कुप्यति दह्यते च ||१४||
स चातुरो मुह्यति हि प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च |
दूष्योदरं कीर्तितमेतदेव ...||
(सु. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सन्निपातोदरमाह– स्त्रिय इत्यादि| स्त्रीग्रहणमविवेकिसन्निहितजनोपलक्षणम्| गरं संयोगजं विषम्| दुष्टमम्बु सगरप्राणितृणपर्णादिकोथयुतं, विषमेवाग्न्याद्युपहतं मन्दप्रभावं वा दूषीविषमुच्यते| यदुक्तम्– “जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा| स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति||” (सु. क. अ. २) इति| तेनाशु रक्तमिति विषस्याग्नेयत्वेन रक्तदुष्टिः| कुपिताश्च दोषा इति स्वभावात् दोषत्रयप्रकोपकं विषं भवति| तच्छीतवातादिषु कुप्यतीति| दूष्योदरं कीर्तितमेतदेवेति एतदेव सन्निपातोदरं दूष्योदरं कीर्तितं, न पुनरधिकमित्यर्थः| रक्तं दूष्यं दूषयित्वा भवतीति दूष्योदरं; किंवा परस्परं दूषयन्तीति दोषा एव दूष्यास्तैः कृतमुदरमिति||११-१४||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
श्लैष्मिकमाह– श्लेष्मेत्यादि| अङ्गसदनमङ्गसादः, स्वापः अङ्गानामेव, अन्ये आसीनप्रचलायितम्| गौरवमङ्गानाम्| निद्रा निद्राबाहुल्यम्| उत्क्लेशो हृल्लासः| स्तिमितं निश्चलम्, शुक्लसिरानद्धम्| चिराभिवृद्धिरिति चिरपाक इत्यर्थः| गुरु गौरवयुक्तम्| स्थिरं गुडगुडाशब्दरहितम्| सान्निपातिकमाह– स्त्रिय इत्यादि| स्त्रीग्रहणमविवेकिजनोपलक्षणं, स्त्रियो नखरोमादिभिर्युक्तं यस्मै अन्नपानं प्रयच्छन्ति, असाधुवृत्ताः सौभाग्यमिच्छन्त्यः कार्याकार्यविचारविमुखाः, आर्तवं रजः| शत्रवो वा यस्मै गरं संयोगजं विषम्| दुष्टमम्बु सविषकीटतृणपर्णादिकोथयुक्तम्| दूषीविषं विषमेव वाय्वग्न्याद्युपहतं यदल्पप्रभावं, विषपीतस्य वा विण्मूत्रं, तद् दूषीविषमुच्यते; दुष्टाम्बुदूषीविषयोः सेवनाद्वा| तेनाशु रक्तं दुष्टं भवति, विषस्याग्नेयत्वेन रक्तस्य दुष्टिः| कुपिताश्च दोषा इति स्वभावाद् दोषत्रयप्रकोपकं विषं भवति| सुघोरं भृशं कष्टकारि| जठरमित्युदरविकारम्| तच्छीतवातादिषु कुप्यति कोपं गच्छति, दूषीविषस्य तत्रैव कोपात्| दह्यते सन्तप्यते| मूर्छति विषयोगात्| प्रसक्तं निरन्तरम्| दूष्योदरं कीर्तितमेतदेवेति एतदेव सान्निपातोदरं कीर्तितं, न पुनरधिकमित्यर्थः| रक्तं दूष्यं दूषयित्वा भवतीति दूष्योदरम्, अथवा परस्परं दूषयन्तीति दोषा एव दूष्यास्तैः कृतमुदरं दूष्योदरम्||११-१४||-
Adhikarana प्लीहोदरलक्षणम् (१५-१७) · Śloka १७
... प्लीहोदरं कीर्तयतो निबोध ||१५||
विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च |
प्लीहाभिवृद्धिं कुरुतः प्रवृद्धौ प्लीहोत्थमेतज्जठरं वदन्ति ||१६||
तद्वामपार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र |
मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः |
सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृद्दाल्युदरं तदेव ||१७||
(सु. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
प्लीहोदरमाह– प्लीहेत्यादि| असृक्कफश्चेत्यसृग्दुष्ट्यैव तत्तुल्यकारणतया पित्तदुष्टिरप्युच्यते, विदाहिना रक्तं पित्तं च दूष्यते; अत एव पश्चात् वक्ष्यति– “कफपित्तलिङ्गैरुपद्रुतः” इति| अत्र पित्तस्य लिङ्गं मन्दज्वरः, कफस्य लिङ्गं मन्दाग्नित्वमिति गदाधरः| प्लीहोदर एव यकृद्दाल्युदरस्यावरोधं दर्शयन्नाह– सव्यान्यपार्श्व इत्यादि| सव्यान्यपार्श्वे दक्षिणपार्श्वे| तदेवेति तादृशमेव, प्लीहोदरसममेव; न विलक्षणमित्यर्थः| यकृद्दालयति दोषैर्भेदयतीति यकृद्दाल्युदरम्||१५-१७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
प्लीहोदरमाह– अभिष्यन्दीत्यादि| दोषधातुमलस्रोतसां क्लेदप्राप्तिजननम्| असृक्कफश्चेति असृक्कफजैव तुल्यकारणतया पित्तदुष्टिरुच्यते| विदाहिना रक्तं पित्तं च दूष्यति| अत एव वक्ष्यति– ‘कफपित्तलिङ्गैरुपद्रुतः’ इति| तत्र पित्तस्य लिङ्गं मन्दो ज्वरः, कफस्य लिङ्गं मन्दाग्नित्वमिति गदाधरः| प्लीहोदर एव यकृद्दाल्युदरस्यावरोधं दर्शयन्नाह– सव्येत्यादि| सव्यान्यपार्श्वे दक्षिणे, तदेवेति तादृशमेव, तेन प्लीहोदरेण सममेव, न विलक्षणमित्यर्थः| यकृद्दालयति दोषैर्भेदयतीति यकृद्दाल्युदरम्||१५-१७||
Adhikarana प्लीहोदरे दोषसम्बन्धेन लक्षणानि (१८) · Śloka १८
उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः |
गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात् ||१८||
(वा. नि. अ. १२) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तत्र दोषसम्बन्धमाह– उदावर्तेत्यादि| उदावर्तरुजानाहैर्वातं, मोहतृड्दहनज्वरैः पित्तं, गौरवारुचिकाठिन्यैः कफं जानीयात्||१८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तत्र दोषसम्बन्धमाह– उदावर्तेत्यादि| तत्र प्लीहोदरयकृद्दाल्युदरयोः पृथग्लक्षणलक्षितान् मलान् वातादीन् क्रमेणोदावर्तादिभिर्लिङ्गैर्विद्यात्| तत्र उदावर्तरुजानाहैर्वातं, मोहतृड्दहनज्वरैः पित्तं, गौरवारुचिकाठिन्यैः कफं जानीयात्||१८||
Adhikarana बद्धगुदोदरलक्षणम् (१९-२०) · Śloka २०
यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा पिहितं यथावत् |
सञ्चीयते तस्य मलः सदोषः शनैः शनैः सङ्करवच्च नाड्याम् ||१९||
निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम् |
हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति ||२०||
(सु. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
बद्धगुदमाह– यस्यान्त्रमन्नैरित्यादि| उपलेपिभिः पिच्छिलैरन्नैः शाकशालुकादिभिः| पिहितं विबद्धम्| यथावदिति यथार्हम्| मलः पुरीषम्| सदोष इति दोषत्रयसहितः| नाड्यामित्यन्त्रनाड्याम्| सङ्करवदिति सम्मार्जनीक्षिप्यमाणतृणाद्यवकरो यथा चीयते क्रमेण तथेत्यर्थः| बद्धगुदमिति गुदोपरि अन्त्रस्य बद्धत्वाद्बद्धगुदम्| यदुक्तं चरके– “पक्ष्मबालैः सहान्नेन भुक्तैर्बद्धायने गुदे|” (च. चि. अ. १३) इति| पुरीषायतनस्य रुद्धत्वात् हृन्नाभिमध्येऽन्नपाकस्थाने वृद्धिः; गुदमात्रनिरोधे तु मलदोषैर्गुदादूर्ध्वमेवोदरवृद्धिः स्यात्||१९-२०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
बद्धगुदमाह– यस्येत्यादि| यस्य पुंसोऽन्त्रमुपलेपिभिः पिच्छिलैरन्नैः शाकादिभिर्वा, यथावदिति यथार्हं पिहितं बद्धं भवति| अथवाऽन्ने मलः पुरीषः, सदोषः दोषत्रयसहितः शनैःशनैः सञ्चीयते सम्मार्जनीक्षिप्यमाणतृणाद्यवकरो यथा वृद्धिं नीयते क्रमेण तथैवेत्यर्थः| तस्य गुदे पुरीषं निरुध्यते कृच्छ्राच्चाल्पमल्पं निरेति निःसरति| बद्धगुदमिति गुदोपरि अन्त्रस्य बद्धत्वाद्बद्धगुदम्| यदुक्तं चरके– “पक्ष्मबालैः सहान्नेन भुक्तैर्बद्धायने गुदे|” इति| पुरीषायतनस्य रुद्धत्वात्| हृन्नाभिमध्य इति अन्नपाकस्थाने वृद्धिः, गुदमात्रनिरोधे तु मलदोषैर्गुदादूर्ध्वमेवोदरे वृद्धिः स्यात्||१९-२०||
Adhikarana क्षतोदरलक्षणम् (२१) · Śloka २२
शल्यं तथाऽन्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा |
तस्मात्स्रुतोऽन्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः ||२१||
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम् |
एतत् परिस्राव्युदरं प्रदिष्टं ... |२२|
(सु. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्षतोदरमाह– शल्यमित्यादि| शल्यं कण्टकशर्करादि| अन्नोपहितमन्नयुक्तम्| भुक्तमागतमिति अर्थतः पाकाशयात्; विलोमेनागतमन्त्रं भिनत्ति, ऋज्वागतं हि शल्यमपि नान्त्रभेदकम्| अन्यथा वेति जृम्भणात्यशनाभ्यामन्त्रं भिद्यते| यदुक्तं चरके– “शर्करातृणलोष्टास्थिकण्टकैरन्नसंयुतैः| भिद्येतान्त्रं यदा भुक्तैर्जृम्भयाऽत्यशनेन वा||” (च. चि. अ. १३) इति| स्रुत इति गलितः| ‘स्रावः स्रवेद्वै गुदतस्तु भूयः’ इति भूयो बहु यथा भवति तथाऽन्त्रात् स्रुतः; दोषजेषु पुनरुपस्नेहन्यायेनाल्प एव स्रावो भूयः पुनः पुनः गुदतश्च स्रवेत्| तुशब्दश्चार्थे, भूयःशब्दोऽत्रावर्तनीयः; तेनोक्ता व्याख्या साध्वी भवति| ननु, भिन्नान्त्रात्तिर्यगत्र स्रावनिर्गमः; तत् कथं “स्रावः स्रवेद्वै गुदतस्तु भूय” इत्युपपद्यते? नैवं, सच्छिद्रान्त्रमार्गेण बहिर्गतस्यातिवृद्धस्य पुनरागमनात् उपस्नेहन्यायाद्वा गुदतः स्राव उपपन्न एव| चरकेऽप्युक्तम्– “पूरयन् गुदमन्त्रं च जनयत्युदरं नृणाम्|” (च. चि. अ. १३) इति| तेन स्रावेण द्रवस्य निम्नगत्वान्नाभेरधो जठरं वृद्धिमेति; एतच्छिद्रोदरं जलोदरमिति भण्यते इति गदाधरः| यतश्चरकेणोक्तम्– “तदधो नाभेः प्रायोऽभिनिर्वर्तमानं जलोदरं स्यात्|” (च. चि. अ. १३) इति| तदन्ये नानुमन्यन्ते, यतश्छिद्रोदरं शीघ्रं जलोदरतां यातीत्यभिप्रायेण चरकेणोक्तम्, अन्यथा दकोदरं पृथङ्न स्यात्||२१||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
क्षतोदरमाह– शल्यमित्यादि| शल्यं कण्टकशर्करास्थिकाष्ठादिकम्| अन्नोपहितमन्नयुक्तं, भुक्तमागतमित्यर्थतः पक्वाशयात्, विलोमेन निर्गतमन्त्रं भिनत्ति विदारयति, ऋज्वागतं शल्यमपि नान्त्रभेदकम्| अन्यथा वेति जृम्भणेनात्यशितस्यान्त्रं भिद्यते| यदुक्तं चरके– “शर्करातृणलोष्टास्थिकण्टकैरन्नसंयुतैः| भिद्यतेऽन्त्रं यदा भुक्तैर्जृम्भयाऽत्यशनेन च||” इति| स्रुत इति गलितः| स्रावः स्रवेद्वै गुदतस्तु भूय इति भूयो बहु यथा भवति तथाऽन्त्रात् स्रुत इति ननु, भिन्नान्त्रात् तिर्यगत्र स्रावो युक्तः, तत्कथं स्रावः स्रवेद्वै गुदतस्तु भूय इत्युपपद्यते? नैवं, सच्छिद्रान्त्रमार्गेण स्रावस्य निर्गमत्वाद्बहिष्कृतस्यातिवृद्धस्य पुनर्गमनादुपस्नेहन्यायाद्वा गुदतः स्राव उपपद्यत एव| चरकेऽप्युक्तम्– “पूरयन् गुदमन्त्रं च जनयत्युदरं नृणाम्|” इति| तेन स्रावेण द्रवस्य निम्नगत्वान्नाभेरधो जठरं वृद्धिमेति, निस्तुद्यते शूलेन दाल्यत इव| एतत् परिस्राव्युदरमन्ये एतस्येव छिद्रोदरमाहुः||२१||
Adhikarana दकोदरस्य निदानसम्प्राप्तिपूर्वकं लक्षणम् (२२-२४) · Śloka २४
... दकोदरं कीर्तयतो निबोध ||२२||
यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः |
पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दूष्यन्ति हि तद्वहानि ||२३||
स्नेहोपलिप्तेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति |
स्निग्धं महत्तत्परिवृत्तनाभिसमाततं पूर्णमिवाम्बुना च |
यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् ||२४||
(सु. नि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उत्पत्तिविशिष्टं दकोदरमाह– यः स्नेहपीत इत्यादि| स्नेहपीत इति कर्तरि क्तः, तेन स्नेहं पीतवानित्यर्थः| दूष्यन्तीति स्वकर्मसु दुष्टानि भवन्ति| तद्वहानि उदकवहानि| तेष्विति उदकवहस्रोतःसु| पूर्ववदिति यथा पूर्वमुक्तम्| अन्नरस उपस्नेहन्यायेन बहिर्निःसृत्योदरं जनयतीत्यर्थ इति जेज्जटः| गदाधरस्त्वाह– क्षतान्त्रोदरे यथा अधोनाभेरुदराभिवृद्धिर्गुदस्रावश्च तथा जलोदरेऽपि भवतीति| ननु, सर्वेषामेव उपस्नेहन्यायेन बहिर्निःसृतान्नरसमूलत्वात् कथमनुदकत्वं? नैवं, तेषु हि प्रथमतो नातिमन्दत्वादग्नेरन्नरसस्याल्पत्वाच्चानुदकत्वम्, अल्पत्वेन तद्व्यपदेशात्; अत्र तु प्रागेव भूरिजलोत्पत्तिरिति विशेषः| समाततं वेदनया विस्तार्यमाणमिवोदरं भवति| यथा दृतिः क्षुभ्यतीति दृतिरिव जलपूर्णा क्षुभ्यतीति, अन्तर्जलचलनमिव धत्ते| शब्दायते गुडगुडायते||२२-२४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
दकोदरमाह– दकोदरमित्यादि| स्नेहपीत इति कर्तरि क्तः; तेन स्नेहं पीतवानित्यर्थः| तस्य तद्वहानि स्रोतांसि दूष्यन्तीति स्वकर्मण्यसमर्थानि भवन्ति| तद्वहानीति उदकवहानि| अथवा स्नेहोपलिप्तेषु तेष्वेव उदकवहस्रोतःसु, पूर्ववदिति क्षतान्त्रोदरे यथा नाभेरधः उदराभिवृद्धिः, गुदस्रावस्तथा जलोदरे भवतीति| ननु सर्वेषामेव बहिर्निःसृतान्नरसमूलत्वात्कथमनुदकत्वं? उच्यते– तेषु हि प्रथमतो नातिमन्दत्वादग्नेरन्नरसस्याल्पत्वाच्चानुदकत्वं, स्वल्पत्वेनाव्यपदेशात्; अत्र तु प्रागेव जलं भवतीति विशेषः| तदुदरं स्निग्धं भवति, तथा महत्, तथा परिवृत्तनाभि उच्छलितनाभि, समाततं वेदनया विस्तीर्णमिवोदरं भवति| यथा दृतिः क्षुभ्यतीति दृतिरिव जलपूर्णा क्षुभ्यतीति, अन्तर्जलचालनमिव धत्ते, कम्पते वेति कम्पनमतिशयेन चलनं, शब्दायते गुडगुडायते||२२-२४||
Adhikarana उदरस्य साध्यासाध्यविचारः (२५-२६) · Śloka २७
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् |
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ||२५||
पक्षाद्बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा |
प्रायो भवत्यभावाय छिद्रान्त्रं चोदरं नृणाम् ||२६||
(च. चि. अ. १३)० |२७|
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उदररोगस्य साध्यत्वादिलक्षणमाह– जन्मनैवेत्यादि| जन्मनैवोदरमिति उत्पन्नमात्रेणैव| अजातोदकस्योदरस्य लक्षणं चरकेऽवगन्तव्यं; तद्यथा– “अशोथमरुणाभासं सशब्दं नातिभारिकम्| सदा गुडगुडायन्तं सिराजालगवाक्षितम्|| नाभिं विष्टभ्य पायौ तु वेगं कृत्वा प्रणश्यति| हृद्वङ्क्षणकटीनाभिगुदप्रत्येकशूलिनः|| कर्कशं सृजतो वातं नातिमन्दे च पावके| लालया विरसे चास्ये मूत्रेऽल्पे संहते विशि|| अजातोदकमित्येतैर्युक्तं विज्ञाय लक्षणैः|” (च. चि. अ. १३) इति| अत्र कर्कशमिति वेगवन्तम्| जातोदकलक्षणं च चरके यथा– “कुक्षेरतिमात्रं वृद्धिः सिरान्तर्धानगमनम् उदकपूर्णदृतिसमानक्षोभस्पर्शनं च भवति|” (च. चि. अ. १३) इति| पक्षादित्यादि| बद्धगुदमुदरं पक्षादूर्ध्वं विनाशाय भवतीति| जातोदकं पक्षात्| प्रायोग्रहणेन कदाचित् पक्षादूर्ध्वमपि न विनाशाय, तथा शल्यशास्त्राभिमतया चिकित्सया कदाचिज्जातोदकं छिद्रान्त्रं बद्धगुदं च सिध्यतीति दर्शयति| जातोदकं छिद्रान्त्रं च विनाशाय पक्षादूर्ध्वमिति सम्बन्ध इति केचित्||२५-२६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उदरस्यासाध्यत्वमाह– जन्मनेत्यादि| उत्पत्तिमात्रेणैव कष्टसाध्यं तदुदरं बलिनः पुरुषस्य अजाताम्बु अजातोदकं सत् यत्नतः साध्यं कृच्छ्रत्वादिति| उदराणां विशेषेणासाध्यत्वमाह– पक्षादित्यादि| बद्धगुदमुदरं पक्षादूर्ध्वं विनाशाय भवति| जातोदकं पक्षात्, जातोदकलक्षणं चरके– “कुक्षेरतिमात्रं वृद्धिः सिरान्तर्धानमुदकपूर्णं सक्षोभस्पर्शनं भवति” इति| प्रायोग्रहणेन कदाचित्पक्षादूर्ध्वमपि छिद्रान्त्रं बद्धगुदं च सिद्ध्यतीति||२५-२६||
Adhikarana अवस्थाविशेषेणोदरस्यासाध्यत्वम् (२७-२८) · Śloka २८
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम् |
बलशोणितमांसाग्निपरिक्षीणं च वर्जयेत् ||२७||
(च. चि. अ. १३) |
पार्श्वभङ्गान्नविद्वेषशोथातीसारपीडितम् |
विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत् ||२८||
(सु. सू. अ. ३३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
साध्यतयाऽभिहितानामप्यवस्थाविशेषेणासाध्यतामाह– शूनाक्षमित्यादि| ‘उदरिणम्’ इति शेषः| कुटिलोपस्थमिति वक्रमेहनम्| उपक्लिन्नतनुत्वचमिति उपक्लिन्ना तन्वी त्वक् यस्य तम्| अग्निपरिक्षीणमिति अग्निक्षयश्च यद्यप्युदरे पूर्वमेव भवति, तथाऽप्यत्र विशेषेणाग्निक्षयो लक्षणान्तरयुक्तश्चासाध्यतालिङ्गं सम्भवतीति ज्ञेयम्||२७-२८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पुनरप्यसाध्यमाह– शूनेत्यादि| अत्रोदरेणेति शेषः| कुटिलोपस्थं कुटिलमेहनम्| उपक्लिन्नतनुत्वचमिति उपक्लिन्ना तन्वी त्वग्यस्य तम्| तथाऽग्निपरिक्षीणमग्निक्षयश्चाप्युदरे पूर्वमेव भवति, तथाऽप्यत्र विशेषेणाग्निक्षयो लक्षणान्तरयुक्तश्चासाध्यतालिङ्गं भवतीति ज्ञेयम्| पुनरप्यसाध्यलक्षणमाह– पार्श्वेत्यादि| भग्नं पार्श्वे| विरिक्तमपि पूर्यमाणोदरमित्यर्थः||२७-२८||
Adhikarana पुष्पिका · Śloka ३५
इति श्रीमाधवकरविरचिते माधवनिदाने उदरनिदानं समाप्तम् ||३५||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीकण्ठदत्तविरचितायां मधुकोशव्याख्यायामुदरनिदानं समाप्तम्||३५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायामुदरनिदानम्||३५||