Adhikarana कुष्ठनिदानम् (१-६) · Śloka ६
अथ कुष्ठनिदानम् |
विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च |
भजतामागतां छर्दिं वेगांश्चान्यान् प्रतिघ्नताम् ||१||
व्यायाममतिसन्तापमतिभुक्त्वा निषेविणाम् |
घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम् ||२||
अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम् |
नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम् ||३||
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् |
व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा ||४||
विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम् |
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च ||५||
दूषयन्ति स कुष्ठानां सप्तको द्रव्यसङ्ग्रहः |
अतः कुष्ठानि जायन्ते सप्त चैकादशैव च ||६||
(च. चि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अष्टादशसङ्ख्यारूपेण तुल्यत्वात् कुष्ठनिदानमुच्यते| विशेषेण कुष्ठजनकं निदानमाह– विरोधीनीत्यादि| विरोधीनि “न मत्स्यान् पयसाऽभ्यवहरेत्” (च. सू. अ. २६) इत्यादिनोक्तानि| भजतामिति पूर्वेण सम्बध्यते| आगतामिति उपस्थितवेगाम्| वेगांश्चान्यानिति मूत्रपुरीषादिवेगान्| व्यायाममतिसन्तापमतिभुक्त्वेति भुक्त्वा व्यायाममतियुज्य सन्तापमतियुज्य च निषेविणामिति एतयोरेव सेवनशीलानां; निषेविणामित्यनेन सह प्रथमतः सम्बन्धे कृद्योगलक्षणा षष्ठी स्यात्, ततश्च व्यायामस्यातिसन्तापस्यातिनिषेविणामिति प्रयोगः प्रसज्येत| “शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम्” इति पाठान्तरे शीतोष्णादीनां यदा येन क्रमेण सेव्यत्वमुक्तं, तद्वैपरीत्येन तान् सेव्यमानान्| शीतोष्णलङ्घनाहारानित्यनन्तरं प्रतीति द्रष्टव्यं, तेन शीतोष्णादीन् प्रति यः क्रमस्तं मुक्त्वा एतेषामेव निषेविणाम्| घर्मश्रमभयार्तानामिति घर्मादिभिरार्तत्वे सति द्रुतमविश्रम्य शीताम्बुसेविनाम्| घर्म आतपः| अजीर्णाध्यशिनामिति अजीर्णमाममन्नम्, अपक्वमिति यावत्, तद्भुञ्जानानाम्; अध्यशिनामाहारे एवापरिणते भुञ्जानानाम्| अशिनामिति अजीर्णाधिशब्दाभ्यां सह सम्बन्ध्यते| पञ्चकर्मापचारिणामिति पञ्चकर्मणि क्रियमाणे अपचारिणाम्| नवान्नदधिमत्स्यानीति अतिशब्दो नवान्नादिभिः सर्वैः सम्बध्यते| व्यवायं चाप्यजीर्ण इति विदग्धादिरूपे अजीर्णे| धर्षयतामिति अभिभवताम्| पापं कर्म च कुर्वतामित्यनेनैव विप्रादिधर्षणे लब्धे पुनस्तद्वचनं विशेषार्थम्| दोषदूष्यसङ्ग्रहमाह– वातादय इत्यादिना| वातादीनां त्रित्वे प्रतीतेऽपि त्रय इति वचनं सर्वकुष्ठेषु मिलितानामेव त्रयाणां दुष्टिप्रदर्शनार्थम्| द्रव्यसङ्ग्रह इति द्रव्यमारम्भकं कारणमुच्यते; यथा– “रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा|” (च. सू. अ. १) इति| अर्थलब्धमपि सप्तकमिति पदं सर्वत्र सप्तकनियमार्थं पुनरुक्तम्| ननु, विसर्पाणां समुत्पादे एतावत्येव सामग्री, यदुक्तम्– “रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः| विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः||” (च. चि. अ. २१) इति| लसीकया च तत्रोदकमुच्यते, तत् किन्निबन्धनः कुष्ठविसर्पयोर्भेदः? उच्यते– कुष्ठं चिरक्रियैः स्थिरैरप्रबलरक्तपित्तैर्दोषैर्जन्यते, विसर्पस्त्वचिरविसर्पणशीलैः प्रबलरक्तपित्तैः; कुष्ठे गुरुप्रधर्षणपरद्रव्यापहारादयो निमित्तं, न विसर्पे| अन्ये त्वाहुः– विसर्पा वातादिभिरेकैकशोऽपि भवन्ति, यदुक्तम्– “पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः|” (च. चि. अ. २१) इति, कुष्ठं तु त्रिदोषजमेवेति| किं त्वेतत्समाधानं त्रिदोषजत्वेऽपि विसर्पाणामेकदोषजकुष्ठवदेकदोषजत्वकीर्तनं सङ्गतमिति न मनोहरम्| अतः कुष्ठानीति अत इत्यस्मात् दोषदूष्यसमुदायात्| सप्त चैकादशैव चेति विच्छेदपाठेन सप्तानां महाकुष्ठत्वमेकादशानां क्षुद्रत्वमिति बोधयति||१-६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अष्टादशरूपसङ्ख्यातुल्यत्वात्कुष्ठनिदानमुच्यते| विशेषेण कुष्ठजनकं निदानमाह– विरोधीनीत्यादि| एतदाचरतां नृणां कुष्ठानि जायन्ते इति सम्बन्धः| विरोधीनि क्षीरमत्स्यादीनि भजतामिति सम्बध्यते| आगतामिति उपस्थितवेगां छर्दिं, तथा वेगांश्चान्यानिति मूत्रपुरीषादिवेगान्, प्रतिघ्नतां प्रतिघातं कुर्वताम्| व्यायाममतिसन्तापमतिभुक्त्वेति भुक्त्वा व्यायाममतियुज्य सन्तापमतियुज्य निषेविणामिति| एतयोरेव सेवनशीलानां, निषेविणामित्यनेन प्रथमतः सम्बन्धे कृद्योगलक्षणा षष्ठी स्यात्; तत्र व्यायामस्यातिसन्तापस्यातिनिषेविणामिति प्रयोगः प्रयुज्यते| शीतेत्यादि शीतोष्णादीनां तु यदा येन क्रमेण सेव्यत्वमुक्तं, तद्वैपरीत्येन तान् सेवमानानाम्| घर्म आतपः| अजीर्णाध्यशिनामित्यादि| अजीर्णमनग्निपक्वमन्नं, चर्वणमिति यावत्, तद्भोजिनाम्| अध्यशिनाम्, आहार एवापरिणते भुञ्जानानाम्| अशिनामिति अजीर्णाधिभ्यां सह सम्बध्यते| पञ्चकर्मापचारिणामिति पञ्च कर्माणि वमनविरेकादीनि, तेषामपचारिणां व्यापत्त्वयोगिनाम्| नवान्नदधिमत्स्यातीति, अतिशब्दो नवान्नादिगुडान्तैः प्रत्येकं सम्बध्यते| व्यवायं चाप्यजीर्णेऽन्ने इत्यादि| व्यवायं मैथुनं, विदग्धरूपे अजीर्णे; दिवा च निद्रां भजताम्| धर्षयतामिति अभिभवताम्| पापं कर्म च कुर्वतामित्यनेनैव विप्रादिधर्षणे लब्धे पुनस्तद्वचनं विशेषार्थप्रतिपादकम्| दोषदूष्यसङ्ग्रहमाह– वातादय इत्यादि| वातादीनां त्रित्वे प्रतीतेऽपि त्रय इति वचनं सर्वकुष्ठेषु मिलितानामेव त्रयाणां दुष्टिप्रदर्शनार्थम्| द्रव्यसङ्ग्रह इति द्रव्यमारम्भकं कारणमुच्यते| यथा– “रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा|” इति| अर्थलब्धमपि सप्तकमिति पदं सर्वत्र सप्तकनियमार्थं पुनरुक्तम्| ननु, विसर्पाणामप्युत्पत्त्यादौ एतावत्येव सामग्री| यदुक्तम्– “रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः| विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः||” इति| तत्कुष्ठविसर्पयोः को भेदः? उच्यते– कुष्ठं चिरक्रियैः स्थिरैरप्रबलरक्तपित्तैर्दोषैर्जन्यते, विसर्पस्त्वचिरविसरणशीलैः प्रबलरक्तपित्तैः, कुष्ठे गुरुप्रधर्षणपरद्रव्यापहारादयो निमित्तं, न विसर्पे| अन्ये त्वाहुः– विसर्पा वातादिभिरेकैकशोऽपि भवन्ति, यदुक्तम्– “पृथक्त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः|” इति; कुष्ठं त्रिदोषजमेवेति| किन्त्वयं समाधिः त्रिदोषजत्वेऽपि विसर्पाणामेकदोषकुष्ठवदेकदोषजत्वकीर्तनं सङ्गतमिति न मनोहरम्| कुष्ठसङ्ख्यामाह– अत इत्यादि| अत इत्यस्माद्दोषदूष्यसमुदायात्सप्त तथा एकादश कुष्ठानि जायन्ते| सप्त चैकादशैवेति विच्छेदपाठेन सप्तानां महाकुष्ठत्वमेकदशानां क्षुद्रत्वमिति बोधयति||१-६||
Adhikarana कुष्ठानां त्रिदोषजत्वेऽप्युल्बणदोषेण सप्तप्रकारता (७) · Śloka ७
कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः |
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकस्त्वतः ||७||
(वा. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कुष्ठानां त्रिदोषजत्वेऽपि उल्बणदोषेण सप्तप्रकारतामाह– कुष्ठानीत्यादि| दोषैः पृथक् त्रयः, द्वन्द्वैस्त्रयः, समागतैः सन्निपातैरेक इति सप्तत्वम्| व्यपदेशोऽधिकं त्वतः इति यथा– वातेन कुष्ठं कापालमित्यादि||७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कुष्ठानां त्रिदोषजत्वेऽप्युद्रेकदोषेण सप्तप्रकारत्वमाह– कुष्ठानीत्यादि| कुष्ठानि सप्तधा सप्तप्रकाराणि, कथमित्याह पृथग्दोषैः वातेन, पित्तेन, श्लेष्मणा, त्रीणि; तथा तैरेव दोषैर्द्वन्द्वैर्वातपित्ताभ्यां, वातकफाभ्यां, कफपित्ताभ्यां त्रीणि, तथा तैरेव दोषैः समागतैः सन्निपतितैरेकम्, इति सप्तत्वम्| नन्वेवं सत्येकदोषजं द्विदोषजं कुष्ठं तत्सर्वं त्रिदोषजं स्यादित्याह– सर्वेष्वित्यादि| सर्वेष्वपि कुष्ठेषु त्रिदोषजेषु सत्स्वधिकत्वतः अधिकत्वाद्व्यपदेशो निर्देशः कार्यः, सन्निपातस्य समविषमत्वात्; यथा– वातेन कुष्ठं कापालमित्यादि||७||
Adhikarana कुष्ठपूर्वरूपम् (८-९) · Śloka ९
अतिश्लक्ष्णखरस्पर्शस्वेदास्वेदविवर्णताः |
दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिर्भ्रमः ||८||
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः |
रूढानामपि रूक्षत्वं निमित्तऽल्पेऽतिकोपनम् ||९||
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम् |
(वा. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पूर्वरूपमाह– अतिश्लक्ष्णेत्यादिना| अतिश्लक्ष्णः अतिमसृणः| खरो रूक्षः (खरः कर्कशः), अतिश्लक्ष्णो वा खरो वा स्पर्शः| स्वेदास्वेदौ स्वेदवहस्रोतोऽवरोधानवरोधकृतौ| स्वापः स्पर्शाज्ञानम्| कोठोन्नतिः वरटीदष्टसङ्काशः शोथः कोठः, तस्योन्नतिः| शीघ्रोत्पत्तिश्चिरस्थितिश्च व्रणानामेव| निमित्तेऽल्पेऽतिकोपनमिति अन्यथाऽपि दुष्टशोणितत्वाद्व्रणानां देहगतानामल्पेऽपि हेतौ कोपः| कुष्ठलक्षणमग्रजमिति कुष्ठानां पूर्वरूपमित्यर्थः||८-९||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पूर्वरूपमाह– अतीत्यादि| अतिश्लक्ष्णादिकं कुष्ठलक्षणमप्रजमिति कुष्ठानां पूर्वरूपमित्यर्थः| अतिश्लक्ष्ण इति अतिमसृणः, खरो रूक्षः, अतिश्लक्ष्णो वा खरः स्पर्शः| स्वेदाऽस्वेदाविति स्वेदवहस्रोतोवरोधानवरोधकृतौ| विवर्णता वैवर्ण्यं, दाहः सर्वाङ्गीणः, कण्डूः त्वचि, स्वापः स्पर्शाज्ञत्वं, कोठोन्नतिः वरटीदंशसङ्काशः शोफः कोठः तस्योन्नतिः, श्रमोऽनायासजः| शीघ्रोत्पत्तिश्चिरस्थितिः व्रणानामेव| अल्पेऽपि निमित्ते कोपो व्रणानाम्||८-९||–
Adhikarana कापाल-औदुम्बर-मण्डल-ऋष्यजिह्व-पुण्डरीक-सिध्म-काकणकलक्षणम् (१०-१६) · Śloka १६
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ||१०||
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् |
रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् ||११||
उदुम्बरफलाभासं कुष्ठमौदुम्बरं वदेत् |
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम् ||१२||
कृच्छ्रमन्योन्यसंयुक्तं कुष्ठं मण्डलमुच्यते |
कर्कशं रक्तपर्यन्तमन्तःश्यावं सवेदनम् ||१३||
यदृष्यजिह्वसंस्थानमृष्यजिह्वं तदुच्यते |
सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम् ||१४||
सोत्सेधं च सरागं च पुण्डरीकं तदुच्यते |
श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति ||१५||
प्रायश्चोरसि तत् सिध्ममलाबुकुसुमोपमम् |
यत् काकणन्तिकावर्णं सपाकं तीव्रवेदनम् ||१६||
त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिध्यति |
(च. चि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सप्तमहाकुष्ठानां लक्षणमाह– कृष्णारुणकपालाभमित्यादि| कृष्णारुणकपालाभं कृष्णारुणकपालवर्णं, कपालं खर्परशकलम्| परुषं खरस्पर्शम्| तनु तनुत्वक्, विषमं दुश्चिकित्स्यम्| औदुम्बरमाह– रुगित्यादि| रोमपिञ्जरमिति रोमभिः पिञ्जरं कपिलरोममित्यर्थः| मण्डलकुष्ठमाह– श्वेतेत्यादि| स्थिरं कठिनं, स्त्यानमार्द्रं सजलं वा| उत्सन्नमण्डलमुद्गतमण्डलम्| कृच्छ्रं कृच्छ्रसाध्यम्| अन्योन्यसंयुक्तमिति अपरापरैर्मिलितम्| ऋष्यजिह्वमाह– कर्कशमित्यादि| ऋष्यजिह्वसंस्थानमिति ऋष्यो नीलाण्डो हरिणः, ‘रोभु’ इति प्रसिद्धः, तस्य जिह्वाकारम्| पुण्डरीकमाह– सश्वेतमित्यादि| पुण्डरीकदलोपममिति पुण्डरीकं रक्तपद्मं तत्पत्रोपमं, तेन सश्वेतं रक्तपर्यन्तम्| सरागमिति सलोहितं, मध्ये श्वेतलोहितमित्यर्थः| सिध्मलक्षणमाह– श्वेतमित्यादि| श्वेतं ताम्रमिति श्वेतलोहितात्मकम्| प्रायश्चोरसीत्युरसि तद्बाहुल्येन भवति, कफप्रधानत्वात्| प्रायोग्रहणादन्यत्रापि भवति| काकणमाह– यदित्यादि| यत् काकणन्तिकावर्णमिति काकणन्तिका गुञ्जा| गुञ्जासवर्णत्वेन च मध्ये कृष्णमन्ते रक्तम्, अथवा मध्ये रक्तमन्ते कृष्णम्| कुष्ठत्वेनैव त्रिदोषलक्षणत्वे सिद्धे त्रिदोषलिङ्गमिति पुनरुक्तं प्रबलदोषत्रयलिङ्गत्वोपदर्शनार्थम्| इति सप्तमहाकुष्ठानि| महत्त्वं चैषां शीघ्रमुत्तरोत्तरधात्ववगाहनबहुदोषजत्वक्रियाभूयस्त्वयोगात्||१०-१६||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सप्तमहाकुष्ठानां लक्षणमाह– कृष्णेत्यादि| कृष्णारुणा ये स्फुटितघट्याः खण्डास्तद्वर्णम्, अन्ये कृष्णारुणकपालशर्करावर्णमाहुः| रूक्षं रूक्षस्पर्शं, परुषं खरस्पर्शम्| तनु तनुत्वक्, तोदबहुलं तोदाढ्यं, विषमं दुश्चिकित्स्यम्| औदुम्बरं कुष्ठमाह– रुगित्यादि| रुग्दाहरागकण्डूभिर्युक्तं, रोमपिञ्जरमिति रोमभिः पिञ्जरं कपिलरोम इत्यर्थः| उदुम्बरफलाभासं पक्वोदुम्बरवर्णम्| मण्डलकुष्ठमाह– श्वेतमित्यादि| एवंविधं कुष्ठं मण्डलं मण्डलसञ्ज्ञयोच्यते, श्वेतं रक्तं तदाभासं, स्थिरं कठिनं, स्त्यानं सान्द्रं सदलं वा, उत्सन्नमण्डलं उन्नतमण्डलं, कृच्छ्रं कृच्छ्रसाध्यं, अन्योन्यसंसक्तमिति, परस्परैर्मिलितम्| ऋक्षजिह्वमाह– कर्कशमित्यादि| कर्कशं खरस्पर्शम्| ऋक्षो नीलाण्डो हरिण इति, अन्ये ऋक्षः ‘रीछ’ इत्याहुः, तज्जिह्वाकारम्| पुण्डरीकमाह– सश्वेतमिति| पुण्डरीकं श्वेतकमलं, तस्योपमं, तेन सश्वेतं रक्तपर्यन्तं मध्ये श्वेतं प्रान्तेषु रक्तम्| सोत्सेधमुन्नतम्| सरागमिति प्रान्तेऽधिकरागप्रतिपादकं, सरागमित्यत्र ‘सदाहम्’ इति क्वचित्पाठः| सिध्मलक्षणमाह– श्वेतमित्यादि| श्वेतं ताम्रमिति श्वेतलोहितात्मकं, तनु अघनं, यत् घृष्टं सद्रजश्चूर्णं मुञ्चतीति| प्रायश्चोरसीत्यादि| उरसि बाहुल्येन भवति, कफप्रधानत्वात्| प्रायोग्रहणादन्यत्रापि बोद्धव्यम्| काकणमाह– यदित्यादि| काकणन्तिका गुञ्जा, तत्समवर्णत्वेन मध्ये कृष्णमन्तेऽतिरक्तम्, अथवा रक्तमन्ते कृष्णं, तथा सपाकं, तथा तीव्रवेदनं, तथा त्रिदोषलिङ्गं, तत् काकणाख्यं कुष्ठं नैव सिध्यति| कुष्ठत्वेनैव त्रिदोषलिङ्गत्वे सिद्धे त्रिदोषलिङ्गमिति पुनरुक्तं तत् प्रबलदोषत्रयलिङ्गोपदर्शनार्थम्| इति सप्त महाकुष्ठानि| महत्त्वं चैषां शीघ्रमुत्तरोत्तरधात्ववगाहनबहुलदोषजन्यत्वक्रियाभूयस्त्वयोगात्||१०-१६||–
Adhikarana एककुष्ठ-चर्माख्य-किटिभ-वैपादिक-अलसक-दद्रु-चर्मदल-पामा-कच्छु-विस्फोट-शतारु-विचर्चिकालक्षणम् (१७-२२) · Śloka २२
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम् ||१७||
तदेककुष्ठं, चर्माख्यं बहलं हस्तिचर्मवत् |
श्यावं किणखरस्पर्शं परुषं किटिभं स्मृतम् ||१८||
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम् |
कण्डूमद्भिः सरागैश्चः गण्डैरलसकं चितम् ||१९||
सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम् |
रक्तं सशूलं कण्डूमत् सस्फोटं यद्गलत्यपि |
तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते ||२०||
(च. चि. अ. ७) |
सूक्ष्मा बह्व्यः पिडकाः स्राववत्यः पामेत्युक्ताः कण्डुमत्यः सदाहाः |
सैव स्फोटैस्तीव्रदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रा स्फिचोश्च ||२१||
स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः |
रक्तं श्यावं सदाहार्ति शतारुः स्याद्बहुव्रणम् ||२२||
सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका |
(च. चि. अ. ७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अतः परमेकादशक्षुद्रकुष्ठान्युच्यन्ते– अस्वेदनमित्यादि| महावास्तु महास्थानम्| मत्स्यशकलोपममिति मत्स्यस्य त्वक्सदृशम्| चर्माख्यं चर्मकुष्ठम्| बहलमपत्तलम्| किटिभमाह– श्यावमित्यादि| किणखरस्पर्शमिति किणो व्रणस्थानम्| परुषं रूक्षम्| वैपादिकमिति विपादिकायाः स्वार्थेऽण्| अलसकमाह– कण्डूमद्भिरित्यादि| गण्डैरिति स्फोटैः| दद्रुमण्डलमाह– कण्ड्वित्यादि| दद्रुमण्डलमिति मण्डलरूपतयोत्पादात् दद्रुमण्डलमिति कीर्तनम्| ननु, कथमस्य चरके क्षुद्रत्वेनाभिधानं, सुश्रुते महाकुष्ठे दद्रोरुक्तत्वात्; तथा सिध्म चरके महाकुष्ठे, सुश्रुते क्षुद्रकुष्ठे दर्शितम्| उच्यते– असिता दद्रुरवगाढमूला सुश्रुते महाकुष्ठम्, असितेतरदद्रुश्चरकेऽनवगाढमूला क्षुद्रकुष्ठं, सुश्रुते असितेतरदद्र्वा विसर्पकुष्ठेऽन्तर्भावः, विसर्पणयोगात्; तथाऽवगाढं सिध्म चरके महाकुष्ठं, सिध्मपुष्पिका तु त्वङ्मात्रगता सुश्रुते क्षुद्रकुष्ठम्; असितदद्रौ असितसिध्मनोऽवरोध इति गदाधरः| जेज्जटस्त्वाह– चरकोक्तं सिध्मैव सुश्रुते दद्रुशब्दाभिहितं, नामभेदः केवलं परं न वस्तुभेदः, सन्ति ह्यर्थान्तराणि समानशब्दाभिहितानीत्यविरोधः| किन्त्वियमसाध्वी व्याख्या, लक्षणवैलक्षण्यात्; किञ्च चरकसुश्रुतयोः कुष्ठं प्रति बहुप्रकारो विरोधः, तथाहि सुश्रुतोक्तमरुणं न चरके पठ्यते, मण्डलं चरकोक्तं न सुश्रुते, क्षुद्रकुष्ठे चरकोक्तचर्माख्यालसकशतारुप्रभृतीनि न सुश्रुते, सुश्रुतोक्तक्षुद्रकुष्ठालसकादयश्च न चरके; तस्मादयं समाधिरुचितः– कुष्ठानामसङ्ख्येयत्वमिति केचित् चरके, केचित् सुश्रुते कुष्ठप्रकारा उच्यन्ते| उक्तं हि चरके– “कुष्ठं सप्तविधम्, अष्टादशविधम्, असङ्ख्येयं वा|” (च. नि. अ. ५) इति| चर्मदलमाह– रक्तमित्यादि| यद्गलत्यपीति गलति विदीर्यते| शतारुमाह– रक्तेत्यादि| शतारुरिति बहुव्रणयोगान्वितं नाम| विचर्चिकामाह– सकण्ड्वित्यादि| सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिकेति अत्र कफकार्यं कण्डूः, बहुस्रावत्वं पित्तात्, श्यावत्वं वातात्; एवं सर्वत्र दोषत्रयलिङ्गमूह्यम्| ननु, एककुष्ठमारभ्य विचर्चिकापर्यन्तेन द्वादशक्षुद्रकुष्ठानि भवन्ति, तत् कथमेकादशेति? उच्यते– विचर्चिकैव पादयोर्भवन्ती विदारणयोगाद्विपादिका भवति, तेन न सङ्ख्यातिरेकः| तथा च भोजः– “दोषाः प्रदूष्य त्वङ्मांसं पाणिपादसमाश्रिताः| पिडकां जनयन्त्याशु दाहकण्डूसमन्विताम्|| दाल्यते त्वक् खरा रूक्षा पाण्योर्ज्ञेया विचर्चिका| पादे विपादिका ज्ञेया स्थानान्यत्वाद्विचर्चिका||” इति गदाधरः| अन्ये त्वाहुः– सैव स्फोटैस्तीव्रदाहैरित्यभिधानेन पामैव तीव्रदाहबृहत्स्फोटयुक्ता कच्छूः, न ततो भिन्नेति||१७-२२||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अतः प्रभृत्येकादश क्षुद्रकुष्ठान्याह– तत्र चर्मकुष्ठमाह– अस्वेदनमित्यादि| तदेककुष्ठं नाम, अस्वेदनं स्वेदरहितं, महावास्तु महाधिष्ठानम्| मत्स्यशकलोपममिति मत्स्यत्वक्खण्डसदृशम्| चर्मकुष्ठमाह– हस्तिचर्मवत्, बहुलमपत्तलम्| किट्टिभमाह– श्यावमित्वादि| तत् किट्टिभनाम कुष्ठं स्मृतम्| श्यावं श्याववर्णं, किणखरस्पर्शमिति किणो व्रणस्थानं, तद्वत् खरस्पर्शं कर्कशं, परुषं रूक्षं, किट्टिभाख्यं कुष्ठम्| वैपादिकमाह– पाणिपादयोः स्फुटनं विदारणं, वैपादिकं कुष्ठम्| अलसकुष्ठमाह– कण्डूमद्भिरिति| गण्डैः स्फोटैः, चितं युक्तम्, अलसकाख्यं कुष्ठम्| दद्रुमण्डलमाह– सकण्डूरागाः कण्डूरागसंयुक्ताः पिडका यत्र तत् सकण्डूरागपिडिकं, तथा उद्गतमुत्सन्नम्, एवंविधं मण्डलं यत्, तद् दद्रुनाम कुष्ठम्| ननु, कथमस्याश्चरके क्षुद्रत्वेनाभिधानं, सुश्रुते महाकुष्ठत्वेनेति, तथा सिध्म चरके महाकुष्ठे, सुश्रुते क्षुद्रकुष्ठे दर्शितं? उच्यते– असिता दद्रुरवगाढमूला सुश्रुते महाकुष्ठम्, असितेतरदद्व्रा विसर्पकुष्ठेऽन्तर्भावः, विसर्पणयोगात्| तथा सिध्म चरके महाकुष्ठे, सिध्मपुष्पिका तु त्वङ्मात्रगता सुश्रुते क्षुद्रकुष्ठमित्यादि| चर्मदलमाह– रक्तमिति| दलयति विदारयति, अस्पर्शसहं च वस्त्रादिस्पर्शनाक्षमं, तच्चर्मदलनाम| पामामाह– सूक्ष्मा इति| एवंविधाः पिडकाः पामा इत्युक्ता वैद्यैरित्यर्थः| बह्व्यः प्रभूताः, स्राववत्यः स्रावयुक्ताः, कण्डूमत्यः कण्डूयुक्ताः| कच्छुमाह– सैवेति| सैव पामा पाण्योः हस्तयोः| स्फिचोः कटिप्रोथयोश्च कच्छुः कथ्यते| तीव्रदाहैः तीव्रसन्तापैः, स्फोटैरित्यर्थः| स्फोटमाह– स्फोटा इति| सुगमम्| शतारुमाह– रक्तमिति| शतारुरिति बहुव्रणयोगादन्वितं नाम| विचर्चिकामाह– सकण्डूरिति| सकण्डूः पिडका भवेत्| श्यावा वर्णतः, बहुस्रावा भूरिप्रस्रावा| अत्र कफकार्यं कण्डूः, बहुस्रावत्वं पित्तात्, श्यावत्वं वातात्, एवं सर्वत्र दोषत्रयलिङ्गमूह्यम्| नन्वेककुष्ठमारभ्य विचर्चिकापर्यन्तेन द्वाद्वश कुष्ठानि भवन्ति, तत् कथमेकादशेत्युच्यते– विचर्चिकैव पादयोर्भवन्ती विदारणयोगाद् विपादिका कथ्यते, तेन न सङ्ख्यातिरेकः| तथा च भोजः– “दोषाः प्रदूष्य त्वङ्मांसं पाणिपादसमाश्रिताः| पिडका जनयन्त्याशु दाहकण्डूसमन्विताम्|| दह्यते त्वक् खरा रूक्षा पाण्योर्ज्ञेया विचर्चिका| पादे विपादिका ज्ञेया स्थानान्यत्वाद्विचर्चिका||” इति||१७-२२||
Adhikarana दोषत्रयनियतं कुष्ठलिङ्गम् (२३-२४) · Śloka २५
खरं श्यावारुणं रूक्षं वातात् कुष्ठं सवेदनम् ||२३||
पित्तात् प्रक्वथितं दाहरागस्रावान्वितं मतम् |
कफात् क्लेदि घनं स्निग्धं सकण्डूशैत्यगौरवम् ||२४||
द्विलिङ्गं द्वन्द्वजं कुष्ठं, त्रिलिङ्गं सान्निपातिकम् |२५|
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
दोषत्रयनियतं कुष्ठलिङ्गमाह– खरं श्यावारुणमित्यादि| श्यावारुणमिति श्यावं वा अरुणं वा भवति| चरके कुष्ठमधिकृत्य दोषविशेषकुष्ठजनकहेतूनां परस्परं ज्ञाप्यज्ञापकत्वमुक्तं; यथा– “कुष्ठविशेषैर्दोषाः दोषविशेषैः पुनः कुष्ठानि| ज्ञायन्ते ते हेतुं हेतुस्तांश्च प्रकाशयति||” (च. चि. अ. ७) इति||२३-२४||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
दोषत्रयनियतं कुष्ठलिङ्गमाह– खरमित्यादि| श्यावं अरुणं वा भवति, सवेदनं वेदनायुक्तम्, एतद्वातकुष्ठं जानीयात्| पित्ताच्च प्रक्वथितं शटितमिव| युक्तं च कफात् क्लेदि क्लिन्नतायुक्तं, घनं निबिडम्| द्वन्द्वजे कुष्ठे द्विदोषलिङ्गं, सान्निपातिके त्रिदोषलिङ्गम्||२३-२४||–
Adhikarana त्वगादिसप्तधातुगतकुष्ठस्य लक्षणानि (२५-३०) · Śloka ३०
त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यं च जायते ||२५||
त्वक्स्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्तनम् |
कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते ||२६||
बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः |
तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते ||२७||
कौण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् |
मेदःस्थानगते लिङ्गं प्रागुक्तानि तथैव च ||२८||
नासाभङ्गोऽक्षिरागश्च क्षतेषु क्रिमिसम्भवः |
स्वरोपघातश्च भवेदस्थिमज्जसमाश्रिते ||२९||
दम्पत्योः कुष्ठबाहुल्याद्दुष्टशोणितशुक्रयोः |
यदपत्यं तयोर्जातं ज्ञेयं तदपि कुष्ठितम् ||३०||
(सु. नि. अ. ५) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इदानीमुत्तरोत्तरसप्तधातुगतकुष्ठस्य लक्षणं क्रमेणाह– त्वक्स्थे वैवर्ण्यमित्यादि| त्वक्शब्देनात्र रसोऽभिधीयते, धातुप्रस्तावात्; त्वक्शब्देन रसस्याभिधानं तात्स्थ्यात्; जेज्जटस्तु त्वचमेवाह| बाह्यायास्त्वचश्चरके उदकधरत्वेनोक्ते रसग्रहणस्यानर्हत्वाद्द्वितीयाऽसृग्धराऽत्रोक्ता, उदकाच्च रसो भिन्नः; तथाह्युक्तम्– “उदकं दशाञ्जलिमितं, रसो नवाञ्जलिमितः|” (च. शा. अ. ७) इति| रसं विहाय रक्ताद्युक्तिश्च प्रागेव रसं क्रोडीकृत्य तिर्यक्सिरागतैर्दोषैः कुष्ठजननात्, सिरासु रक्तव्यवस्थितेश्चेति तस्याशयः| साक्षाद्रस इत्यनभिधानाद्बृहत्कुष्ठं रसगतं न भवतीति नाशङ्कनीयम्| यतः सुश्रुतेनैवोक्तम्– “तेषां तु महत्त्वं सर्वधात्वनुसारित्वात्|” (सु. नि. अ. ५) इति, सर्वशब्देन च रसस्यापि ग्रहणम्| भोजेऽप्युक्तम्– “प्रदुष्टाः प्रच्युता दोषा रसासृङ्मांससंश्रिताः| कुष्ठानि जनयन्त्याशु शरीरेषु शरीरिणाम्||” इति| “त्वक्स्रावो रोमहर्षश्च स्वेदस्यातिप्रवर्तनम्|” इति| एतत् केचित् शोणितगतस्यैव लिङ्गं मन्यन्ते, अन्ये रसगतस्येति| इह रौक्ष्यं स्वेदातिप्रवृत्तिर्लोमहर्षश्च कुष्ठारम्भकदोषैः स्वेदवहस्रोतोदुष्ट्या भवति| यदुक्तम्– “स्वेदवाहिषु दुष्टेषु पारुष्यं रोमहर्षणम्| अतिस्वेदनमस्वेदः परिदाहश्च जायते||” इति| विपूयक इति विशेषेण पूययोगित्वम्| कौण्यं करभङ्गः| अङ्गानां सम्भेद इति अङ्गानां भङ्गः| प्रागुक्तानि तथैव चेति रसरक्तमांसधातुगतकुष्ठलिङ्गानीत्यर्थः; एतच्चैकत्राभिहितमपि क्रमेण परापरधातुदुष्टौ पूर्वपूर्वधातुदुष्टिलिङ्गख्यापनपरं, न्यायस्य समानत्वात्| यदुच्यते– “समानेष्वर्थेष्वेकत्राभिहितो विधिरन्यत्राप्यासञ्जनीयः|” इति शुक्रगतकुष्ठलिङ्गमाह– दम्पत्योरित्यादि| कुष्ठं शुक्रगतमपत्येन व्यज्यत इत्यर्थः| अत्र शुक्रदुष्टिलक्षणप्रस्तावेन तत्तुल्यकार्या स्त्रीगताऽऽर्तवदुष्टिरप्युक्ता| तदपीत्यपिशब्दात् पूर्वोक्तान्यपि रसादिमज्जान्तर्गतकुष्ठलिङ्गानि भवन्ति| कुष्ठितमिति सञ्जातं कुष्ठमस्येति तारकादित्वादितच्| अत्र दुष्टं शुक्रमार्तवं वा सर्वथा बीजत्वानुपघातादपत्यजनकं, परन्तु विकृतं जनयतीति द्रष्टव्यम्||२५-३०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इदानीमुत्तरोत्तरसप्तधातुगतकुष्ठलक्षणं क्रमेणोच्यते– त्वगित्यादि| त्वक्शब्देनात्र रसो वाच्यः, धातुप्रस्तावात्; त्वक्शब्देन रसस्याभिधानं, तात्स्थ्यात्| बृहत्कुष्ठं रसगतं न भवतीति न शङ्कनीयं, यतः सुश्रुतेनोक्तम्– “तेषां तु महत्त्वं सर्वधात्वनुसारित्वात्|” इति| अतः सर्वशब्देन रसस्यापि ग्रहणम्| भोजेऽप्युक्तम्– “प्रदुष्टाः प्रच्युता दोषा रसासृङ्मांससंश्रिताः| कुष्ठानि जनयन्त्याशु शरीरेषु शरीरिणाम्||” इति| वैवर्ण्यमङ्गानां विवर्णता| रौक्ष्यं च स्वेदातिप्रवृत्तिर्लोमहर्षश्च कुष्ठारम्भकैर्दोषैः स्वेदवहस्रोतोदुष्ट्या भवति| यदुक्तम्– “स्वेदवाहिषु दुष्टेषु पारुष्यं रोमहर्षणम्| अतिस्वेदनमस्वेदः परिदाहश्च जायते||” इति| रक्तगतमाह– कण्डूरित्यादि| विपूयक इति विशेषेण पूययोगित्वम्| मांसगतमाह– बाहुल्यमित्यादि| बाहुल्यं स्थूलमण्डलता, स्फोटः त्वचः स्फुटनं, स्थिरत्वमचलत्वम्| मेदोगतमाह– कौण्यमित्यादि| कौण्यं करभङ्गः, गतिक्षयो गमनाशक्तिः, अङ्गानां सम्भेदः अङ्गभङ्गः, क्षतप्रसरणं, प्रागुक्तानि रसरक्तमांसगतलिङ्गानि, एतच्चैकत्राभिहितमपि क्रमेण परापरधातुदुष्टौ पूर्वधातुदुष्टिलिङ्गख्यापनपरं, न्यायस्य समानत्वात्| यदुच्यते– “समानेष्वर्थेष्वेकत्राभिहितो विधिरन्यत्राप्यासञ्जनीयः” इति| अस्थिमज्जगतमाह– नासेत्यादि| नासाया भङ्गोऽवदरणम्, अक्षिरागो नेत्रलौहित्यं, क्षतेषु कृमिसम्भूतिः, स्वरहानिश्च| शुक्रगतकुष्ठलिङ्गमाह– दम्पत्योरित्यादि| दम्पत्योः स्त्रीपुरुषयोः, कुष्ठबाहुल्यात् शुक्रार्तवयोर्दुष्टिः, शुक्रगतकुष्ठमपत्येन व्यज्यत इत्यर्थः| अत्र शुक्रदुष्टिलक्षणप्रस्तावेन च तत्तुल्यकार्या स्त्रीगतार्तवदुष्टिरप्युक्ता| तदपीत्यपिशब्दात् पूर्वोक्तान्यपि रसादिमज्जान्तर्गतकुष्ठलिङ्गानि भवन्ति, अन्ये कुष्ठिलमिति पठन्ति; तत्रापि स एवार्थः| तत्र दुष्टं शुक्रमार्तवं वा सर्वथा बीजत्वानुपघातादपत्यजनकं, परं तु विकृतं जनयतीति द्रष्टव्यम्||२५-३०||
Adhikarana कुष्ठस्य साध्यासाध्यविचारः (३१-३२) · Śloka ३२
साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकं च यत् |
मेदसि द्वन्द्वजं याप्यं वर्ज्यं मज्जास्थिसंश्रितम् ||३१||
क्रिमितृड्दाहमन्दाग्निसंयुक्तं यत्त्रिदोषजम् |
प्रभिन्नं प्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम् ||३२||
पञ्चकर्मगुणातीतं कुष्ठं हन्तीह मानवम् |
(सु. सू. अ. ३३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
साध्यादिभेदमाह– साध्यं त्वग्रक्तमांसस्थमित्यादि| वातश्लेष्माधिकं च यदिति एककुष्ठकिटिभादिवर्ज्यम्| मज्जास्थिसंश्रितमिति अत्र मज्जास्थिप्रत्यासत्त्या शुक्रगतस्याप्यसाध्यत्वं बोद्धव्यम्| प्रभिन्नमिति विदीर्णम्| पञ्चकर्मगुणातीतमिति पूर्वरूपक्रियया सह रसादिधातूनां चतुर्णां क्रियाकलापाः पञ्चकर्माणि, तेषां गुणा वीर्याणि, तान्यतीतो यः स तथा, अस्थिमज्जागत इत्यर्थः; ताश्च क्रियाः पूर्वरूपे शोधनमुभयतः; त्वक्प्राप्ते शोधनालेपनादि, रक्तप्राप्ते शोधनालेपनकषायपानशोणितावसेकादि, एवं मांसमेदसोरपि द्रष्टव्यमिति| अथवा पञ्चकर्माणि वमनादीनि, तेषां गुणाः फलानि, तान्यतीतम्||३१-३२||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इदानीं धात्वनुक्रमेऽपि साध्यादिभेदमाह– साध्यमित्यादि| त्वग्रक्तमांसस्थं वातश्लेष्माधिकं च यत्तत् साध्यं, वातश्लेष्माधिकं च यदिति चर्मैककुष्ठकिटिभसिध्मालसविपादिका वातश्लेष्मजाः साध्याः, मेदोगतं द्वन्द्वजं याप्यम्, अस्थिमज्जासंश्रयं वर्ज्यम्| अत्र मज्जास्थिप्रत्यासत्त्या शुक्रस्य तद्गतस्याप्यसाध्यत्वं बोद्धव्यम्| पुनश्चासाध्यलक्षणमाह– कृमीत्यादि| प्रभिन्नं विदीर्णं, प्रस्रुताङ्गं प्रस्रावयुक्तशरीरं, हतस्वरं घर्घरस्वरं, पञ्चकर्मगुणातीतं पञ्चकर्माणि वमनादीनि तेषां गुणाः फलानि, तानि निष्फलीकृत्य जातम्||३१-३२||–
Adhikarana कुष्ठेषु प्रधानदोषव्यपदेशः (३३-३६) · Śloka ३६
वातेन कुष्ठं कापालं पित्तेनौदुम्बरं कफात् ||३३||
मण्डलाख्यं विचर्ची च ऋष्याख्यं वातपित्तजम् |
चर्मैककुष्ठं किटिभं सिध्मालसविपादिकाः ||३४||
वातश्लेष्मोद्भवाः श्लेष्मपित्ताद्दद्रुशतारुषी |
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा ||३५||
सर्वैः स्यात् काकणं पूर्वत्रिकं दद्रु सकाकणम् |
पुण्डरीकर्ष्यजिह्वे च महाकुष्ठानि सप्त तु ||३६||
(वा. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कुष्ठेषु चिकित्सार्थं प्रधानं दोषमाह– वातेन कुष्ठं कापालमित्यादि| विचर्च्यपि कफात्तथेति श्लेष्मपित्तात्, तेन दद्रुप्रभृति चर्मदलान्तं श्लेष्मपित्तजमित्यर्थः| पूर्वत्रिकमिति कापालोदुम्बरमण्डलाख्यम्| अतः सप्तमहाकुष्ठादन्यत् क्षुद्रकुष्ठम्||३३-३६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कुष्ठेषु चिकित्सार्थं दोषप्राधान्यमाह– वातेनेत्यादि| सुगमम्| अन्यदपि दोषप्राधान्यमाह– चर्मेति| दद्रुशतारुषी द्वे कुष्ठे न केवलं श्लेष्मपित्तात्, यावत्पुण्डरीकं तथा विस्फोटं तथा पामा तथा चर्मदलं जायते, तथेति श्लेष्मपित्तात्; तेन दद्रुप्रभृति चर्मदलान्तं श्लेष्मपित्ताधिकसन्निपातजमित्यर्थः| सर्वैरिति सर्वैस्त्रिभिरेव समैर्दोषैः काकणं नाम कुष्ठमुत्पद्यते| एतानि अष्टादश कुष्ठानि भवन्ति तेषां मध्ये पूर्वं त्रिकमिति कापालोदुम्बरमण्डलाख्यं दद्रु काकणं पुण्डरीकमृक्षजिह्वं चेति महाकुष्ठानि स्युः| अतः सप्तमहाकुष्ठादन्यत् क्षुद्रकुष्ठं बोद्धव्यम्||३३-३६||–
Adhikarana किलासलक्षणम् (३७-३९) · Śloka ३९
कुष्ठैकसम्भवं श्वित्रं किलासं वारुणं भवेत् |
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ||३७||
वाताद्रूक्षारुणं, पित्तात्ताम्रं कमलपत्रवत् |
सदाहं रोमविध्वंसि कफाच्छ्वेतं घनं गुरु ||३८||
सकण्डूरं क्रमाद्रक्तमांसमेदःसु चादिशेत् |
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ||३९||
(वा. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
त्वग्दुष्टितुल्यत्वादत्रैव किलासमाह– कुष्ठैकसम्भवमित्यादि| कुष्ठेन सह एकं समानं विरुद्धाशनपापकर्मादि सम्भवो निदानं यस्य तत्तथा, कुष्ठेन सह समानचिकित्सितत्वं च बोद्धव्यं, “कुर्याच्चास्मै कुष्ठोक्तं विधानम्” इति वचनात्| चरके त्वस्य हेतुविशेषोऽपि पठ्यते, यथा– “वचांस्यतथ्यानि कृतघ्नभावो निन्दा गुरूणां गुरुधर्षणं च| पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्||” (च. चि. अ. ७) इति| किलासमेव मांसमेदःसमाश्रयणयोगत्वादरुणं श्वित्रं च भण्यते| त्वग्गतमेव किलासं, तस्य लक्षणं निर्दिष्टमपरिस्रावीति| स्रावो हि रक्तादिदुष्ट्या भवति, तेनास्य त्वग्गतत्वेन स्रावाभावः| उक्तं च– “त्वग्गतं च यदस्रावि तत् किलासं प्रकीर्तितम्|” इति| त्रिधातूद्भवसंश्रयमिति त्रिधातुस्त्रयो दोषास्तथा रक्तमांसमेदांसि संश्रयोऽधिष्ठानं यस्य तत्तथा; अथवा त्रिधातुः रक्तमांसमेदांसि उद्भवाय संश्रयो यस्य तत्तथा, दोषास्तु सर्वसाधारणत्वात् लभ्यन्त एव| ननु, यदि धातुत्रयाश्रितं किलासं, तत् कथं “यदा त्वचमतिक्रम्य तद्धातूनवगाहते| हित्वा किलाससञ्ज्ञां च कुष्ठसञ्ज्ञां लभेत्तदा||” इति विश्वामित्रवचनं किलाससञ्ज्ञाप्रतिक्षेपकं न विरुध्यते? तथा “त्वग्गतमेव किलासं” (सु. नि. अ. ५) इति सुश्रुतेऽवधारणं विरुद्धम्? उच्यते– विश्वामित्रवचनस्य तावदयमर्थः प्रत्येतव्यः– यदोक्तरक्तादिगतसमस्तकुष्ठलक्षणजनकतया धातूनवगाहते तदा न तत् किलासं, किं तर्हि कुष्ठजनकहेत्वन्तरबृंहितदोषोपप्लवात् धातून् दूषयेत्, तथा हेतुलक्ष्यलक्षणमरुणादिकुष्ठं तत्; अन्यदितररक्तादिगतकुष्ठलिङ्गव्यतिरिक्तमुत्पादसमकालभाविरक्तताम्रादि-वर्णतामात्रकारकं रक्तादिगतदोषजन्यं किलासमेव, अन्यथा रक्तादिगतकिलासलक्षणेन चरकोक्तेन विरोधः स्यात्| स यदाह– “दोषे रक्ताश्रिते रक्तं, ताम्रं मांससमाश्रिते| श्वेतं मेदःस्थिते श्वित्रं, गुरु तच्चोत्तरोत्तरम्||” (च. चि. अ. ७) इति| चरके हि किलासस्यैव धातुत्रयसम्बन्धकृतवर्णेन दारुणादिसञ्ज्ञान्तरमात्रं कृतं, सुश्रुतेऽपि त्वग्गतमेवेत्यनेन रक्तादिदुष्ट्या विशिष्टरक्तादिगतमहाकुष्ठलिङ्गरहितत्वं, तथा क्षुद्रकुष्ठवद्युगपद्रक्तलसीकात्वङ्मांससन्दूषकत्वविरहः ख्याप्यते; अथवा एवकारोऽयोगव्यवच्छेदे, यथा– नीलं सरोजं भवत्येवेति| उक्तप्रकारेण धातुत्रयमात्रगतत्वेनैकदोषजत्वेन चास्य कुष्ठाद्भेदः; “श्वित्रसञ्ज्ञां लभेत्तदा” इति जेज्जटपाठे तु श्वित्रसञ्ज्ञामात्रव्यवहारः किलासस्य, न पुनरर्थभेदः कश्चिदिति| भालुकिना तु धातुभेदेन किलासस्य सञ्ज्ञान्तरं दर्शितम्– “वारुणं तत्तु विज्ञेयं मांसधातुसमाश्रयम्| मेदःश्रितं भवेच्छ्वित्रं, दारुणं रक्तसंश्रयम्||” इति| तथा चरकेऽपि– “दारुणं वारुणं श्वित्रं किलासं नामभिस्त्रिभिः|” (च. चि. अ. ७) इति| तेनेहापि तथा बोद्धव्यम्| क्रमाद्रक्तमांसमेदःसु चादिशेद्वर्णेनैवेदृगुभयमिति ईदृशमेव वर्णेनारुणं ताम्रं श्वेतं च किलासं रक्तमांसमेदःसु यथाक्रमेणादिशेत्| उभयमिति व्रणजं दोषजं च तच्छ्वित्रं भवति, तथाच भोजः– “श्वित्रं तु द्विविधं विद्याद्दोषजं व्रणजं तथा| तत्र मिथ्योपचाराद्धि व्रणस्य व्रणजं स्मृतम्|| दोषजं च द्विधा प्रोक्तमात्मजं परजं तथा| परसंस्कारसंस्पर्शाद्यत्तत् परजमुच्यते| तदात्मजं विजानीयाद्यद्देहेष्वनिलादिजम्||” इति| रक्तादिधातुत्रयगतस्य च किलासस्य दूष्यप्रभावाद्यस्य कस्यापि दोषस्य सम्बन्धनियता एवारुणादयो वर्णा बोद्धव्याः, यदि तु तत्र दोषनियतो वर्णः कल्प्यते तदा वर्णातिदेशो व्यर्थः स्यात्, वाताद्रूक्षारुणमित्यादिनैव सिद्धत्वात्| यद्येवं दोषेणात्र वर्णाभिधानं विफलं, निर्विषयत्वात्; नैवं, त्वङ्मात्रगते किलासे दोषवर्णस्य चरितार्थत्वात्| हन्त तर्हि कथं रक्तादिगतत्वमस्य निश्चेतव्यं? त्वग्गते स्वभावेनारुणादिवर्णस्य सद्भावेन सन्दिग्धत्वात्| उच्यते– क्रमेणारुणादिवर्णोत्पादाद्रक्तादिगतत्वं निश्चेतव्यम्, उत्पत्तिमात्रे त्वरुणादियोगात्त्वग्गतत्वमिति||३७-३९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
त्वग्दुष्टितुल्यत्वादत्रैव किलासमाह– कुष्ठैकसम्भवमिति| कुष्ठेन सह एकः समानः विरुद्धाशनपापकर्मादि सम्भवो निदानं यस्य तत्तथा, कुष्ठतुल्यनिदानमित्यर्थः| कुष्ठेन सह समानचिकित्सितत्वं च बोद्धव्यम्| “कुर्याच्चास्मै कुष्ठदुष्टं विधानम्|” इति वचनात्| चरके त्वस्य हेतुविशेषोऽपि पठ्यते| यथा– “वचांस्यतथ्यानि कृतघ्नभावो निन्दा गुरूणां गुरुधर्षणं च| पापक्रिया पूर्वकृतं च कर्म हेतुः किलासस्य विरोधि चान्नम्||” इति| किलासमेव मांसमेदःसमाश्रयेण योगित्वाद्दारुणं श्वित्रमिति भण्यते| त्वग्गतमेव किलासं, तस्य लक्षणं निर्दिष्टम्– अपरिस्रावीति| स्रावो हि रक्तादिदुष्ट्या भवति, तेनास्य त्वग्गतत्वेन स्रावाभावः| उक्तञ्च– “त्वग्गतं तु यदस्रावि तत्किलासं प्रकीर्तितम्|” इति| त्रिधातूद्भवसंश्रयमिति त्रिधातुशब्देन पृथग्दोषाः, त्रिधातुः संश्रयो यस्य तत्तथा, अथवा त्रिधातुः रक्तमांसमेदांसि, तेन वातादिना पृथगुद्भव उत्पादस्तथा रक्तमांसमेदांसि संश्रयोऽधिष्ठानं यस्य तत्तथा| वातादिना धातुसंश्रयभेदेन वर्णभेदमाह– वातादित्यादि| वातात् श्वित्रं रूक्षं स्पर्शतः, अरुणं रक्तं वर्णतः| पित्तादित्यादि| पित्तात् श्वित्रं कमलपत्रवत् पद्मदलमिव ताम्रं वर्णेन भवेत्| तथा सदाहं दाहयुक्तम्| रोमविध्वंसि रोमघाति| कफादिति कफात् श्वित्रं श्वेतं शुक्लं, घनं सान्द्रं, तथा गुरु अङ्गेनानुभूयते, तथा सह कण्ड्वा वर्तते इति सकण्डु कण्डुयुक्तम्| क्रमाद्रक्तमांसमेदस्सु चादिशेत् वर्णेनैवेदृगुभयमिति ईदृशमेव वर्णेनारुणताम्रश्वेतेन किलासं रक्तमांसमेदस्सु यथाक्रमेणादिशेत्| उभयमिति व्रणजं दोषजमिति तत् श्वित्रं भवति| तथा च भोजः– “श्वित्रं तद्द्विविधं विद्याद्दोषजं व्रणजं तथा| तत्र मिथ्योपचाराद्धि व्रणस्य व्रणजं स्मृतम्|| दोषजं द्विविधं प्रोक्तमात्मजं परजं तथा| परसंस्कारसंस्पर्शाद्यत्तत्परजमुच्यते|| तदात्मजं विजानीयाद्यद्देहेष्वनिलादिजम्|” इति||३७-३९||
Adhikarana किलासस्य साध्यासाध्य विचारः (४०-४१) · Śloka ४१
अशुक्लरोमाऽबहुलमसंश्लिष्टमथो नवम् |
अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा ||४०||
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम् |
वर्जनीयं विशेषेण किलासं सिद्धिमिच्छता ||४१||
(अ. सं. नि. अ. १४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तस्य साध्यत्वमसाध्यत्वं चाह– अशुक्लेत्यादि| अशुक्लरोम कृष्णरोम, अबहुलं तनु, असंश्लिष्टं परस्परमसंयुक्तम्, अनग्निदग्धजं अग्निदग्धजं यन्न भवति, एतत् साध्यम्| अतोऽन्यथा अतोऽन्यथोक्तसर्वप्रकारमसाध्यं, चरकेऽप्येवंविधस्यासाध्यत्वमुक्तम्| यथा– “यच्छुक्लरोम बहुलं यत् संलग्नं परस्परम्| यच्च वर्षगणोपेतं तच्छ्वित्रं नैव सिध्यति||” (च. चि. अ. ७) इति| गुह्यपाणितलौष्ठेष्विति तलमत्र पादतलं सुश्रुते ‘अन्ते जातम्’ इति सामान्येन निर्देशात्||४०-४१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्य साध्याऽसाध्यत्वमाह– अशुक्लेत्यादि| अशुक्लरोम यावन्न रोमाणि शुक्लानि भवन्ति, अबहुलं तनु, असंश्लिष्टं मिथः परस्परमसंयुक्तम्, अग्निदग्धजं यन्न भवति; एतत्साध्यम्| अतोऽन्यथा उक्तप्रकारविपरीतमसाध्यम्| यदुक्तं चरके– “यत् शुक्लरोम बहुलं यत्संलग्नं परस्परम्| यच्च वर्षगणोपेतं तच्छ्वित्रं नैव सिद्ध्यति||” इति| असाध्यमाह– गुह्येत्यादि| एषु स्थानेष्वनवमपि त्याज्यम्| गुह्यं लिङ्गं, तलमत्र पादतलम्||४०-४१||
Adhikarana कुष्ठादीनां संसर्गजत्वम् (४२-४३) · Śloka ४३
प्रसङ्गाद्गात्रसंस्पर्शान्निःश्वासात् सहभोजनत् |
एकशय्यासनाच्चैव वस्त्रमाल्यानुपलेनात् ||४२||
कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च |
औपसर्गिकरोगाश्च सङ्क्रामन्ति नरान्नरम् ||४३||
(सु. नि. अ. ५) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कुष्ठस्य संसर्गजप्रसङ्गेन सर्वानेव संसर्गजान् रोगानाह– प्रसङ्गादित्यादि| प्रसङ्गो मैथुनम्, अथवा प्रसङ्गः सातत्यं; तेन कृतात् गात्रसंस्पर्शादेः| औपसर्गिकरोगा इति औपसर्गिकाः पापरोगादयो भूतोपसर्गजाश्च| सङ्क्रामन्ति आविशन्ति| रोगसङ्क्रान्तिश्च कुष्ठिप्रभृतिपापिजनसंसर्गेण पापसङ्क्रान्तेर्विकारप्रभावाद्वा बोद्धव्या||४२-४३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कुष्ठस्य संसर्गजत्वप्रसङ्गेनैव संसर्गजान् रोगानाह– प्रसङ्गादित्यादि| प्रसङ्गो मैथुनम्, अथवा प्रसङ्गो नैरन्तर्यं, तेन कृतात् गात्रस्पर्शादेः| औपसर्गिकरोगादयो भूतोपसर्गजा रोगाः| सङ्क्रामन्ति आविशन्ति| रोगसङ्क्रान्तिश्च कुष्ठिप्रभृतिपापिजनसंसर्गेण पापसङ्क्रान्तेर्विकारप्रभावाद्वा बोद्धव्या||४२-४३||
Adhikarana पुष्पिका · Śloka ४९
इति श्रीमाधवकरविरचिते माधवनिदाने कुष्ठनिदानं समाप्तम् ||४९||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां कुष्ठनिदानं समाप्तम्||४९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यप्रणीतायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां कुष्ठनिदानम्||४९||