Adhikarana छर्द्या निदानं निरुक्तिश्च (१-४) · Śloka ४
अथ छर्दिनिदानम् |
दुष्टैर्दोषैः पृथक् सर्वैर्बीभत्सालोचनादिभिः |
छर्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ||१||
अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति |
अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ||२||
श्रमाद्भयात्तथोद्वेगादजीर्णात् क्रिमिदोषतः |
नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः ||३||
बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् |
छादयन्नाननं वेगैरर्दयेन्नङ्गभञ्जनैः |
अत्यन्तमपरीतस्य च्छर्देर्वै सम्भवो ध्रुवम् |
निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः ||४||
(सु. उ. तं. अ. ४९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
छर्द्यामप्यरुचेर्भावात्तथाऽरोचकवत्पञ्चविधत्वादरोचकानन्तरं छर्दिः, तस्या निदानं निरुक्तिं चाह– दुष्टैरित्यादि| बीभत्सालोचनं विकृतिदर्शनम्; आदिग्रहणेनानिष्टगन्धभक्षणादीनां ग्रहणम्| नार्याश्चापन्नसत्त्वाया इति गर्भिण्याः, तस्या गर्भोत्पीडनेन वातवैगुण्याच्छर्दिः| छादयन्नाननमित्यादि वेगैर्मुखं छादयन् पूरयन्, अर्दयन् पीडयन्, अङ्गभञ्जनैः अङ्गभेदैः| छादयति मुखम्, अर्दयति चाङ्गानीति छर्दिः; ‘छद अपवारणे’, ‘अर्द हिंसायां’, अनयोः पृषोदरादित्वेन रूपसिद्धिः||१-४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
छर्द्यामरुचेर्भावादरोचकानन्तरं छर्दिरुच्यते, तस्या निदानं निरुक्तिं चाह– दुष्टैरित्यादि| एतैः कारणैर्वक्ष्यमाणैर्दुष्टैर्दोषैः छर्दयः पञ्च भवन्ति| वातादिभिस्त्रयः, त्रिदोषेणैका, बीभत्सादिभिरेका, एवं पञ्च| बीभत्सं विकृतदर्शनम्, आदिशब्देनानिष्टगन्धभक्षणादीनां ग्रहणम्| निदानपूर्वां सम्प्राप्तिमाह-अतीत्यादि| नार्याश्चापन्नसत्त्वाया इति गुर्विण्याः, तस्या गर्भोत्पीडनेन वातवैगुण्याच्छर्दिः| बीभत्सैर्हेतुभिश्चान्यैरिति पूयामेध्यादिदर्शनगन्धास्वादनैर्घृणाकारिभिः| छादयन्नाननमिति दोषवेगेन मुखं पूरयन्, अर्दयन् अङ्गभञ्जनैरङ्गभेदैः; छादयति मुखमर्दयति च अङ्गानि स छर्दिरिति निरुच्यते, वेगैर्मुखं प्रति प्रधावितो दोष उदानो वायुः छर्दिं कुर्यादित्यर्थः||१-४||
Adhikarana छर्दिपूर्वरूपम् (५) · Śloka ५
हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः |
द्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम् ||५||
(सु. उ. तं. अ. ४९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पूर्वरूपमाह– हृल्लासेत्यादि| उद्गाररोध उद्गाराप्रवृत्तिः| प्रसेको मुखप्रसेकः, तस्य लवणत्वं प्रभावात्, आमाशयोत्क्लेशभवत्वेन कफविदाहाद्वा; तनुरघनोऽल्पो वा||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्याः पूर्वरूपमाह– हृदित्यादि| छर्दीनामिदं पूर्वरूपम्| उद्गाररोध उद्गाराप्रवृत्तिः, प्रसेको मुखप्रसेकः उदकस्रावः, तस्य लवणत्वं प्रभावादामाशयोत्क्लेशभवत्वेन कफविदाहाद्वा, तनुः अघनः अल्पो वा||५||
Adhikarana वातजच्छर्दिलक्षणम् (६) · Śloka ६
हृत्पार्श्वपीडामुखशोषशीर्षनाभ्यर्तिकासस्वरभेदतोदैः |
उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् |
कृच्छ्रेण चाल्पं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दुःखम् ||६||
(च. चि. अ. २३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातजाया लक्षणमाह– हृत्पार्श्वेत्यादि| शीर्षनाभ्यर्तिः मस्तके नाभौ च शूलं; तोदैरित्यनन्तरं ‘युक्त’ इति शेषः, उपलक्षणे वा तृतीया| आर्तो नरश्छर्दयतीति योज्यम्| किम्भूतं छर्दयतीत्याह– उद्गारेत्यादि| उद्गारशब्दाभ्यां प्रबलमुद्गारशब्दप्रबलम्| विच्छिन्नं सान्तरवेगमल्पद्रवं वा, वातस्य स्वतो द्रवत्वाभावात्| तनुकमघनम्| कषायं कषायरसं, कषायस्य वातकृतत्वात्||६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातजामाह– हृदित्यादि| शीर्षनाभ्यर्तिरिति मस्तके नाभौ च शूलम्| तोदैरित्यनन्तरं ‘युक्त’ इति शेषः, उपलक्षणे वा तृतीया| वातान्नरश्छर्दयतीति योज्यम्| किम्भूतं छर्दयतीत्याह– उद्गारशब्दाभ्यां प्रबलमुद्गारशब्दप्रबलम्| विच्छिन्नं विरलवेगं अल्पद्रवं वा, वातस्य द्रवत्वाभावात्| तनुकमघनम्| कषायं कषायरसं, कषायरसस्य वातकृतत्वात्| कृच्छ्रेण कष्टेन, अल्पं स्तोकं, महता वेगेन||६||
Adhikarana पित्तजच्छर्दिलक्षणम् (७) · Śloka ७
मूर्छापिपासामुखशोषमूर्धताल्वक्षिसन्तापतमोभ्रमार्तः |
पीतं भृशोष्णं हरितं सतिक्तं धूम्रं च पित्तेन वमेत् सदाहम् ||७||
(च. चि. अ. २३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पित्तजामाह– मूर्छेत्यादि| तमोऽन्धकारदर्शनमिव| ध्रूम्रं कृष्णलोहितवर्णम्||७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पित्तजामाह– मूर्छेत्यादि| मूर्ध्नि शिरसि ताल्वक्ष्णोश्च सन्तापवान्| तमोऽन्धकारदर्शनमिव, भ्रमश्चक्रारूढस्येव, पदार्थस्य अन्यथाज्ञानं वा, तैरार्तः| कीदृशं वमेदित्याह– पीतमित्यादि| भृशोष्णमत्युष्णं, हरितं शाकवर्णं, धूम्रं कृष्णलोहितवर्णं, पित्तेनेति योज्यम्||७||
Adhikarana कफजच्छर्दिलक्षणम् (८) · Śloka ८
तन्द्रास्यमाधुर्यकफप्रसेकसन्तोषनिद्रारुचिगौरवार्तः |
स्निग्धं घनं स्वादु कफाद्विशुद्धं सरोमहर्षोऽल्परुजं वमेत्तु ||८||
(च. चि. अ. २३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कफजामाह– तन्द्रेत्यादि| आस्यमाधुर्यं मुखस्य मधुररसत्वम्| सन्तोष इति सन्तोष इव सन्तोषः, अन्नानभिलाष इत्यर्थः; तृप्तो हि नान्नमभिलषति| अरुचिरभ्यवहारासामर्थ्यम्| स्वादु मधुरम्| विशुद्धमतिशुभ्रं, सुश्रुते “शुक्लं हिमं सान्द्रकफं कफेन|” (सु. उ. तं. अ. ४९) इति पाठात्||८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कफजामाह– तन्द्रेत्यादि| एतैरुपद्रवैरार्तः स्निग्धादिकं वमेत्| आस्यमाधुर्यं मुखस्य मधुररसत्वम्| सन्तोष इव सन्तोषः अन्नानभिलाष इत्यर्थः, तृप्तो हि नान्नमभिलषति| अरुचिरभ्यवहारासामर्थ्यम्| स्वादु मधुरम्| विशुद्धमिति विशुद्धं केवलं कफं; यदुक्तं सुश्रुते– “शुक्लं हिमं सान्द्रकफं कफेन|” इति| अल्परुजमिति कफस्य द्रवरूपत्वात् मुखेन निःसरणमित्यर्थः||८||
Adhikarana त्रिदोषजच्छर्दिलक्षणम् (९) · Śloka ९
शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम् |
छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात् ||९||
(च. चि. अ. २३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
त्रिदोषजामाह– शूलेत्यादि| शूलादिभिः प्रमोहान्तैः प्रबला शूलादिप्रबला| प्रसक्तं निरन्तरम्| त्रिदोषादित्यत्र ‘त्रिदोषा’ इति पाठान्तरे त्रिदोषजेत्यर्थः||९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
त्रिदोषजामाह– शूलेत्यादि| त्रिदोषात् या छर्दिः तया वमतां नृणामित्यर्थः| शूलादिभिः प्रमोहान्तैः प्रबला, प्रसक्तं निरन्तरं, त्रिदोषादित्यत्र ‘त्रिदोषा’ इति पाठस्तत्र त्रिदोषजेत्यर्थः||९||
Adhikarana त्रिदोषजच्छर्द्या असाध्यलक्षणम् (१०-११) · Śloka ११
विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति |
उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात् ||१०||
विण्मूत्रयोस्तत्समगन्धवर्णं तृट्श्वासहिक्कार्तियुतं प्रसक्तम् |
प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति ||११||
(च. चि. अ. २३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
असाध्यामाह– विडित्यादि| उत्सन्नदोषस्य उद्गतदोषस्य | दोषमिति पित्तं कफं वा, स्वेदादिकान् वा तद्दुष्टान् धातुमलान्| तदिति यस्माद्विडादिवाहिस्रोतोदुष्टिस्ततो हेतोर्विण्मूत्रयोः समगन्धवर्णं छर्दयतीति योज्यम्| इयं तु छर्दिर्विकृतिविषमसमवायारब्धा त्रिदोषजेति केचित्, अन्ये त्वाहुः– सर्वा एव छर्दयः प्रबला एवंविधाः सत्योऽसाध्याः स्युरिति||१०-११||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
असाध्यामाह– विडित्यादि| उत्पन्नदोषस्य उद्गतदोषस्य पित्तं कफं वा, वायुः कोष्ठादुद्धूय ऊर्ध्वं नीत्वेति| स्वेदादिकान् दोषान् धातुमलान् वा स्वस्थानात् सञ्चाल्य ऊर्ध्वमेत्यागच्छति| तदिति यस्माद्विडादिवाहिस्रोतोदुष्टिस्ततो विण्मूत्रयोः समगन्धवर्णं छर्दयतीति योज्यम्| इयं तु छर्दिस्त्रिदोषजेत्येके| अन्ये तु सर्वा एव छर्दयः प्रबलाः एवंविधाः सत्यः असाध्या इत्यर्थः||१०-११||
Adhikarana आगन्तुच्छर्दिलक्षणम् (१२) · Śloka १२
बीभत्सजा दौर्हृदजाऽऽमजा च ह्यसात्मजा च क्रिमिजा च या हि |
सा पञ्चमी तां च विभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ ||१२||
(सु. उ. तं. अ. ४९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
आगन्तुजामाह– बीभत्सजेत्यादि| दौर्हृदजा दौर्हृदालाभजा, आमजा अजीर्णजा, असात्म्यजा असात्म्यभक्षणादिसम्भूता, क्रिमिजा कोष्ठक्रिमिसम्भवा; बीभत्सजेत्यादिना क्रिमिजान्तेनैकत्वेनैव गणनीया, आगन्तुजत्वसामान्यात्| सा पञ्चमीति त्रिदोषजापेक्षया सामान्येनागन्तुजैव, आगन्तुज्वरवत्; यदि तु बीभत्सजापेक्षया क्रिमिजा पञ्चमीति गण्यते, तदा तां च विभावयेत्| दोषोच्छ्रयेणैवेत्यनेन क्रिमिजाया एव दोषसम्बन्धः स्यात्, ततश्च बीभत्सजादीनां चिकित्सोपयोगिदोषसम्बन्धो न लभ्यते| अन्ये तु तद्दोषपरिहारार्थं’ ‘सा पञ्चमी ताश्च’ इति बहुवचनान्तं पठन्ति, एवं सत्यन्तर्गणनया न प्रयोजनमित्यन्तर्गणनां नाद्रियन्ते| कथमत्र दोषोच्छ्रयो विभावनीय इत्याह– यथोक्तमादाविति| आदौ वातादिलक्षणे इत्यर्थः||१२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
आगन्तुजामाह– बीभत्सजेत्यादि| बीभत्सजा पूयामेध्यादिदर्शनगन्धस्वादजा, आपन्नसत्त्वाया स्त्रिया दौर्हृदालाभजा, आमजा अजीर्णजा, असात्म्यजा असात्म्यभोजनजा, क्रिमिजा कोष्ठक्रिमिसम्भवा, बीभत्सजेत्यादिना क्रिमिजान्ता एकैव गणनीया| एवं सर्वाभिरेकैवागन्तुजत्वसामान्यात्, आगन्तुज्वरवत्| पञ्चमीति त्रिदोषजापेक्षया| आगन्तुजां दोषोच्छ्रयेणैव जानीयात्| यथोक्तमादाविति यथा वातादिलक्षणेन आदाविति पूर्वोक्तेन||१२||
Adhikarana क्रिमिजच्छर्दिलक्षणम् (१३) · Śloka १३
शूलहृल्लासबहुला क्रिमिजा च विशेषतः |
क्रिमिहृद्रोगतुल्येन लक्षणेन च लक्षिता ||१३||
(सु. उ. तं. अ. ४९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्रिमिजाया लक्षणमाह– शूलेत्यादि| क्रिमिहृद्रोगतुल्येन लक्षणेन लक्षितेति क्रिमिहृद्रोगे क्रिमिलक्षणात् यत् पीडादिकं तदस्यां भवतीत्यर्थः||१३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
क्रिमिजाया विशेषलक्षणमाह– शूलेत्यादि| कृमिजाया अयं विशेषः– हृच्छूलहृल्लासाधिका क्रिमिजहृद्रोगतुल्यलक्षणेन च लक्षितेति; यथा– “उत्क्लेदः ष्ठीवनं तोदः शूलं हृल्लासकस्तमः| अरुचिः श्यावनेत्रत्वं शोषश्च क्रिमिजे भवेत्|” इति||१३||
Adhikarana असाध्यच्छर्दिलक्षणम् (१४) · Śloka १४
क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्रवा शोणितपूययुक्ता |
सचन्द्रिकां तां प्रवदेदसाध्यां साध्यां चिकित्सेन्निरुपद्रवां च ||१४||
(च. चि. अ. २३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
असाध्यलक्षणमाह– क्षीणस्येत्यादि| सचन्द्रिकामिति मेदःप्रभृतिधातूनां स्नेहः प्रवर्तमानो मयूरपिच्छचन्द्रिकावत् प्रतिभाति| निरुपद्रवामिति कासाद्युपद्रवरहिताम्| तदुक्तम्– “कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्त्यमेव च| हृद्रोगस्तमकश्चैव ज्ञेयाश्छर्देरुपद्रवाः||” इति||१४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
असाध्यां साध्यां चाह– अतिप्रसक्ता अतिशयेन निरन्तरा, सोपद्रवा वक्ष्यमाणोपद्रवयुक्ता| सचन्द्रिकमिति| मेदःप्रभृतिधातूनां स्नेहः प्रवर्तमानो मयूरपिच्छचन्द्रिकावत्प्रतिभाति| इत्थं पञ्चविधामपि छर्दिमसाध्यां प्रवदेत् वर्जयेदित्यर्थः| निरुपद्रवां कासाद्युपद्रवरहितां साध्यां चिकित्सेत् ‘भिषक्’ इति शेषः||१४||
Adhikarana छर्द्या उपद्रवाः (१५) · Śloka १५
ताल्वोष्ठकण्ठास्यविशोषदाहसन्तापमोहभ्रमविप्रलापाः |
पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकाले तु विशेषतो हि |
कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्त्यमेव च |
हृद्रोगस्तमकश्चैव ज्ञेयाश्छर्देरुपद्रवाः ||१५||
Show commentary
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्या उपद्रवमाह– कास इत्यादि| वैचित्त्यं विमतचित्तता||१५||
Adhikarana पुष्पिका · Śloka १५
इति श्रीमाधवकरविरचिते माधवनिदाने छर्दिनिदानं समाप्तम् ||१५||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां छर्दिनिदानं समाप्तम्||१५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानटीकायामातङ्कदर्पणाख्यायां छर्दिनिदानम्||१५||