Adhikarana अरोचकनिदानम् (१) · Śloka १
अथारोचकनिदानम् |
वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः |
अरोचकाः स्युः ... |१|
(च. चि. अ. २६) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
ऊर्ध्वगविकारसाधर्म्यादरोचकमाह– वातादिभिरित्यादि| एकैकशो वातादिभिस्त्रयः, सन्निपातेनैकः, शोकादिना गन्धान्तेनागन्तुरेक एव गणनीयः, यतः पञ्चानामेकं लक्षणं वक्ष्यति; सुश्रुते चोक्तम्– “भक्तोपघातमिह पञ्चविधं वदन्ति|” (सु. उ. तं. अ. ५७) इति| शोकादिजस्तु यद्यपि वातादिजः, तथाऽपि हेतुप्रत्यनीकचिकित्साकरणार्थं पृथगुक्तः| अतिलोभोऽत्राहितस्य सततोपयोगहेतुतया दोषप्रकोपक इति दर्शयति| अरोचकाः स्युरिति छेदः|१|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
ऊर्ध्वगविकारसाधर्म्यादरोचकमाह– वातादिभिरिति| एकैकशो वातादिभिस्त्रयः, सन्निपातेनैकः, शोकभयादिनाऽऽगन्तुरेक एव गणनीयः, यतः पञ्चानामपि लक्षणं वक्ष्यति; सुश्रुते चोक्तम्– “भक्तोपघातमिह पञ्चविधं वदन्ति” इति| तन्त्रान्तरेऽपि– “अरोचको भवेद्दोषैरेको हृदयसंश्रयैः| सन्निपातेन मनसः सन्तापेन च पञ्चमः” इति| शोकादिजो यद्यपि वातजस्तथाऽपि हेतुप्रत्यनीकचिकित्सार्थं पृथगुक्तः| एतैर्हेतुभिररोचका भवन्ति| मनोघ्नाशनमुच्छिष्टकृमिक्लिन्नादिरूपं शरीरश्वयथुगतं, गन्धः पूतिः, तैः|१|–
Adhikarana वातिकारोचकलक्षणम् (१) · Śloka १
... परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन ||१||
(च. चि. अ. २६) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातिकलक्षणमाह– परीत्यादि| परिहृष्टदन्त इति अम्लभक्षणेनेव||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातिकमाह– परिहृष्टदन्त इति अम्लभक्षणेनेव, कषायवक्त्र इति लोध्रचर्वितस्येव||१||
Adhikarana पैत्तिकारोचकलक्षणम् (२) · Śloka २
कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्यात् ... |२|
(च. चि. अ. २६) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पैत्तिकलक्षणमाह– कट्वित्यादि| कटुशब्दोऽत्र तिक्तवाची| यदाह विदेहः– “पित्तेन तिक्तास्यविदाहकृत् स्यात्, स्वाद्वास्यहृल्लासकरः कफेन|” इति|२|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पित्तजमाह– कट्वित्यादि| कटुरत्र तिक्तवाचकः| यदाह विदेहः– “पित्तेन तिक्तास्यविदाहकृत्स्यात्स्वाद्वास्यहृल्लासकरः कफेन” इति| विरसमिति रोगस्वभावात्, अन्यथा वातेन विरसास्यता| पित्तेन पूति दुर्गन्धं जानीयात्| लवणं च वक्त्रमिति कफजलक्षणे पठनीयं, यतो विदग्धः श्लेष्मा लवणभावमुपैति|२|–
Adhikarana श्लैष्मिकारोचकलक्षणम् (२) · Śloka २
... लवणं च वक्त्रम् |
माधुर्यपैच्छिल्यगुरुत्वशैत्यविबद्धसम्बद्धयुतं कफेन ||२||
(च. चि. अ. २६) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
श्लैष्मिकलक्षणमाह– लवणमित्यादि| लवणं वक्त्रमिति विदग्धस्य श्लेष्मणो लवणरसत्वात्| उक्तं हि सुश्रुते– “श्लेष्मा विदग्धो लवणः स्मृतः, पित्तं विदग्धमम्लम्|” (सु. सू. अ. ४०) इति| विबद्धसम्बद्धयुतमिति विबद्धं च तत् सम्बद्धयुतं चेति विबद्धसम्बद्धयुतम्| अत्र विबद्धं बद्धमिव, भक्षणाद्यसामर्थ्यात्; सम्बद्धयुतं ‘कफस्य’ इति शेषः; भावे क्तः, कफलिप्तमित्यर्थः| ‘विदग्धसम्बद्धयुतम्’ इति पाठान्तरं सुगमम्| ‘विबद्धसन्नद्धयुतम्’ इति पाठे विबद्धः सन्नद्धः स च प्रकृतत्वात् कफस्य, सन्नद्धो बद्धः; ‘णह’ बन्धने इत्यस्माद्धातोः पूर्ववत् क्तादि| ‘विबद्धसंस्तम्भयुतम्’ इति काश्मीराः||२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
कफजमाह– लवणमित्यादि| कफेन लवणं च वक्त्रमिति योज्यं, माधुर्यादियुतमिति वक्त्रेणैव| विबद्धसम्बद्धयुतमिति निबद्धं च तत्सम्बद्धयुतं च तत्तथा; विबद्धमिव भक्षणाक्षमं, सम्बद्धयुतं कफस्येति शेषः, कफलिप्तमित्यर्थः| अन्ये विबद्धसन्नद्धयुतमिति पठन्ति, विबद्धः सन्नद्धः स च प्रकृतत्वात् कफस्य; सन्नद्धो बद्धः, ‘णह’ बन्धने, इत्यस्य धातोः प्रयोगः||२||
Adhikarana आगन्तुजारोचकलक्षणम् (३) · Śloka ३
अरोचके शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात् |
स्वाभाविकं चास्यमथारुचिश्च ... |३|
(च. चि. अ. २६) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
आगन्तुजमाह– अरोचक इत्यादि| अहृद्यगन्धो घ्राणोद्वेजको गन्धः| स्वाभाविकं चास्यमिति अविकृतमुखरसत्वं, न तु वातादिवत् कषायत्वादि|३|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
आगन्तुजमाह– अहृद्यः प्राणोद्वेजको गन्धः, अशुचिः उच्छिष्टं, स्वाभाविकं चास्यमिति अविकृतमुखरसत्वं न तु वातादिवद्वक्त्रकषायत्वादिकम्, अथ अरुचिरिति विशेषत्वम्|३|–
Adhikarana त्रिदोषजारोचकलक्षणम् (३) · Śloka ३
... त्रिदोषजे नैकरसं भवेत्तु ||३||
(च. चि. अ. २६) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
त्रिदोषजमाह– त्रिदोषज इत्यादि| त्रिदोषजे नैकरसमिति वातजाद्युक्तकषायाद्यनेकरसत्वम्||३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
त्रिदोषजमाह– अनेकरसमास्यमित्यर्थः||३||
Adhikarana वातजादिभेदेनारोचककृताऽन्यदेशविकृतिः (४) · Śloka ४
हृच्छूलपीडनयुतं पवनेन, पित्तात्तृड्दाहचोषबहुलं, सकफप्रसेकम् |
श्लेष्मात्मकं, बहुरुजं बहुभिश्च विद्याद्वैगुण्यमोहजडताभिरथापरं च ||४||
(च. चि. अ. २६) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातजादिभेदेन मुखविकृतिमभिधायान्यदेशविकृतिमाह– हृच्छूलेत्यादि| हृदि शूलेन पीडनम् | चोषश्चूषणवत् पीडा| बहुभिरिति त्रिदोषैः| वैगुण्यमोहजडताभिरथापरमिति उपलक्षणे तृतीया, वैगुण्यं मनसो व्याकुलत्वम्| अपरमिति दोषजादन्यमागन्तुजमित्यर्थः| सत्यामपि बुभुक्षायामभ्यवहारासामर्थ्यमरुचिः, अभिलषितमप्यन्नं दीयमानं नाभ्यवहरतीत्यन्नानभिनन्दनम्, अन्नस्य श्रवणस्मरणदर्शनगन्धस्पर्शनैर्यत्रोद्विजते स भक्तद्वेषः; एवं त्रिविधोऽपि रोगश्चरकसुश्रुताभ्यामरोचकशब्देन सङ्गृहीतः| उक्तं हि वृद्धभोजेन– “प्रक्षिप्तं तु मुखे चान्नं जन्तोर्न स्वदते मुहुः| अरोचकः स विज्ञेयो, भक्तद्वेषमतः शृणु|| चिन्तयित्वा तु मनसा दृष्ट्वा श्रुत्वाऽपि भोजनम्| द्वेषमायाति यो जन्तुर्भक्तद्वेषः स उच्यते|| कुपितस्य भयार्तस्य यश्च भक्तनिरोधजः” इति||४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातादिभेदेन मुखे विकृतिमभिधायान्यदेशविकृतिमाह– हृच्छूलेत्यादि| हृदि शूलेन पीडनं हॄच्छूलपीडनं तेन युक्तं, चोषः चूषणवत्पीडा| अरोचकमिति शेषः| श्लेष्मात्मकं सकफप्रसेकं स्यात्| बहुभिरिति त्रिदोषैः, बहुरुजमनेकपीडाकरम्| वैगुण्यमोहजडताभिरथापरं चेति उपलक्षणे तृतीया, वैगुण्यं मनसो व्याकुलत्वम्, अपरमिति दोषजादन्यत् आगन्तुजमित्यर्थः| अरोचकलक्षणम्– सत्यां बुभुक्षायामभ्यवहारासामर्थ्यमिति अरुचिः, अभिलषितमप्यन्नं दीयमानं नाभ्यवहरतीति नान्नाभिनन्दनम्, अन्नस्य श्रवणस्मरणदर्शनस्पर्शनगन्धैर्यत्रोद्विजते स भक्तद्वेषः| एवं त्रिविधोऽपि रोगश्चरकसुश्रुताभ्यामरोचकशब्देन सङ्गृहीतः| उक्तं हि वृद्धभोजेन– “प्रक्षिप्तं तु मुखे चान्नं जन्तोर्न स्वदते मुहुः| अरोचकः स विज्ञेयो भक्तद्वेषमतः शृणु|| चिन्तयित्वा तु मनसा दृष्ट्वा श्रुत्वा च भोजनम्| द्वेषमायाति यो जन्तुर्भक्तद्वेषः स उच्यते|| कुपितस्य भयार्तस्य अभिचाराभिभूतये| यस्यान्ने न भवेच्छ्रद्धा स भक्तद्वेष उच्यते” इति||४||
Adhikarana पुष्पिका · Śloka १४
इति श्रीमाधवकरविरचिते माधवनिदाने अरोचकनिदानं समाप्तम् ||१४||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामरोचकनिदानं समाप्तम्||१४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानटीकायामातङ्कदर्पणाख्यामरोचकनिदानम्||१४||