Adhikarana तृष्णाया निदानं सम्प्राप्तिश्च (१-२) · Śloka २
अथ तृष्णानिदानम् |
भयश्रमाभ्यां बलसङ्क्षयाद्वा ह्यूर्ध्वं चितं पित्तविवर्धनैश्च |
पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत् पिपासाम् |
स्रोतस्स्वपांवाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः ||१||
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथा ह्यामसमुद्भवा च |
भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्वशस्तु ||२||
(सु. उ. तं. अ. ४८) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
छर्देस्तृष्णोपद्रवत्वाच्छर्द्यनन्तरं तृष्णानिदानम्| तस्याः सम्प्राप्तिमाह– भयेत्यादि| पित्तविवर्धनैरिति कट्वम्लोष्णादिभिः क्रोधोपवासादिभिश्च स्वस्थान एव सञ्चितं कुपितं च पित्तं, वातश्च भयश्रमबलक्षयैः कुपितः, ऊर्ध्वं प्रसरत् पिपासां जनयति| ताल्वित्युपलक्षणं; तेन क्लोमाद्यपि बोध्यं, तस्य पिपासास्थानत्वेनोक्तत्वात्| चरकेऽप्युक्तम्– “रसवाहिनीश्च धमनीर्जिह्वामूलगलतालुकक्लोम्नः| संशोष्य नॄणां देहे कुरुतस्तृषामतिबलौ तौ तु||” (च. चि. अ. २२) इति| अन्नकफामजानां सम्प्राप्तिमाह– स्रोतःस्वित्यादि| ननु, अपांवाहिष्विति बहुवचनं विरुद्धं, ‘द्वे उदकवहे’ (सु. शा. अ. ९) इति सुश्रुतेनोक्तत्वात्| नैवं, तयोरेवानेकप्रतानयोगादिति| दोषैरिति अन्नकफामैः, दुष्टिकर्तृत्वाद्दुष्टदोषसम्बन्धाद्वाऽन्नामयोरपि दोषत्वमिति गदाधरः | तिस्र इति वातादिभिः प्रत्येकम्| क्षतजेति क्षतनिमित्ता व्रणिनां या भवति| चतुर्थीत्यनेनोक्तानां चतसृणां सुखसाध्यत्वं बोधयति, अन्यासां तु कष्टसाध्यत्वम्||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
छर्देस्तृष्णोपद्रवत्वाच्छर्द्यनन्तरं तृष्णानिदानं, तस्याः सम्प्राप्तिमाह– भयश्रमाभ्यामित्यादि| पित्तविवर्धनैः कट्वम्लोष्णादिभिः क्रोधोपवासादिभिश्च स्वस्थाने हृदि सञ्चितं पित्तं, वातश्च भयश्रमबलक्षयैः कुपितः, ऊर्ध्वं प्रसरन् पिपासां जनयेत्| तालुप्रपन्नमिति सवातं पित्तं तालुगतमित्यर्थः| ताल्वित्युपलक्षणम्; तेन क्लोमगतमपि बोद्धव्यं, तस्य पिपासास्थानत्वात्| उक्तं च चरके– “रसवाहिनीश्च धमनीर्जिह्वामूलगलतालुकक्लोम्नः| संशोष्य नृणां देहे कुरुतस्तृषामतिबलौ तौ तु” इति| अन्नकफजामजानां सम्प्राप्तिमाह– स्रोतःस्वित्यादि| ननु स्रोतःस्विति बहुवचनं विरुद्धं यदुक्तं सुश्रुते– “द्वे उदकवहे” इति| मैवं, तयोरेवानेकप्रतानयोगादिति| अन्नकफामैः, दुष्टिकर्तृत्वाद्दुष्टदोषसम्बन्धादन्नामयोरपि दोषत्वमिति गयदासः| तिस्र इति वातादिभिः प्रत्येकं, क्षतजेति क्षतनिमित्ता व्रणिनां या भवति, चतुर्थीत्यनेन चोक्तानां तिसृणां साध्यत्वं बोधयति, अन्यासां तु कष्टसाध्यत्वमिति| क्षयादन्या पञ्चमी, आमसमुद्भवा षष्ठी, भक्तोद्भवा सप्तमिकेति, क्रमेण तासां लक्षणानि जानीहि||१-२||
Adhikarana वातजतृष्णालक्षणम् (३) · Śloka ३
क्षामास्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि |
स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ||३||
(सु. उ. तं. अ. ४८) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातजामाह– क्षामास्यतेत्यादि| क्षामास्यता शुष्कदीनमुखत्वम्| स्रोतोनिरोधो रसाम्बुवाहिधमनीनिरोधः| शीताभिरद्भिरित्यनेन वायोः शीतस्य शीताम्बुना वृद्धिरित्यनुपशयनिदर्शनम्| चकाराच्चरकोक्तनिद्रानाशस्य ग्रहणम्| यदाह चरकः– “निद्रानाशः शिरसो भ्रमस्तथा शुष्कगलतालुः|” (च. चि. अ. २२) इति||३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातजां तृष्णामाह– क्षामेत्यादि| क्षामास्यता शुष्कदीनमुखत्वं, वक्तुं चर्वितुं वाऽसामर्थ्यमित्येके| शङ्खशिरःस्विति शङ्खयोः शिरसि वा, तोदो व्यथाविशेषः; शङ्खयोर्द्वित्वेन बहुवचनत्वम्| स्रोतोनिरोधः रसाम्बुवाहिधमनीनिरोधः; अन्ये शब्दाश्रवणमिति| शीताभिरद्भिरित्यनेन वायोः शीतः स्पर्शः, तेन वृद्धिरित्यनुपशयस्य निदर्शनं; चकाराच्चरकोक्तनिद्रानाशस्य ग्रहणम्||३||
Adhikarana पित्तजतृष्णालक्षणम् (४) · Śloka ४
मूर्छान्नविद्वेषविलापदाहा रक्तेक्षणत्वं प्रततश्च शोषः |
शीताभिनन्दा मुखतिक्तता च पित्तात्मिकायां परिदूयनं च ||४||
(सु. उ. तं. अ. ४८) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पित्तजामाह– मूर्छेत्यादिना| विलापोऽत्र प्रलापः| प्रततश्च शोषः अतीव महती तृष्णा| शीताभिनन्दा शीतेच्छा, ‘गुरोश्च हलः’ इत्यकारप्रत्ययः| परिदूयनमुपतापः, ‘परिधूमनम्’ इति पाठेऽन्तःक्षोभणं, धूमनिर्गम इव वा| चकारात् पीतविण्मूत्रनेत्रत्वादयो ग्राह्याः||४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पित्तजामाह– मूर्छेत्यादि| विलापो विविधप्रकारेण भाषणं, रक्तेक्षणत्वं रक्तनेत्रत्वं, प्रततश्च शोष इति अतिमहती तृष्णा, शीताभिनन्दा शीतेच्छा, परिदूयनमुपतापः, ‘परिधूपनम्’ इति पाठान्तरं, तत्रान्तःक्षोभणं धूमस्योद्गिरणमिव ,चकारात्पीतविण्मूत्रनेत्रादयो ग्राह्याः||४||
Adhikarana श्लेष्मजतृष्णालक्षणम् (५) · Śloka ५
बाष्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेत्तथा तु |
निद्रा गुरुत्वं मधुरास्यता च तृष्णार्दितः शुष्यति चातिमात्रम् ||५||
(सु. उ. तं. अ. ४८) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
श्लेष्मजामाह– बाष्पेत्यादि| स्वकारणकुपितेन कफेनोपरिष्टादाच्छादितेऽन्तरग्नौ कफावरुद्धबाष्पेण पावकोष्मणाऽधोगतेनाम्बुवहस्रोतःशोषणात् कफजा तृष्णा भवति| ननु, कफजा तृष्णाऽनुपपन्ना? कफस्य वृद्धस्य केवलद्रवस्य पिपासाकर्तृत्वायोगात्, वातपित्तयोरेव तृष्णाकर्तृत्वेनोक्तत्वात्| यदुक्तम्– “पित्तं सवातं कुपितं नराणां” इत्यादि| चरकेऽप्युक्तम्– “नाग्नेर्विना तर्षः पवनाद्वा, तौ हि शोषणे हेतू|” (च. चि. अ. २२) इति| सुश्रुतेऽप्युक्तम्– “मद्यस्याग्नेयवायव्यगुणावम्बुवहानि तु| स्रोतांसि शोषयेयातां ततस्तृष्णा प्रजायते||” (सु. उ. तं. अ. ४७) इति| अत आह– तथेति| उक्तप्रकारेण कफादग्नेर्बाष्पावरोधादिना, नतु स्वगुणेन; अत एव चरके कफजा तृष्णा न पठितैव, सुश्रुतेन तु चिकित्साभेदार्थं पठिता, हारीतेनापि सपित्तेनैव श्लेष्मणा तृष्णा पठिता न तु केवलेन| यदाह– “स्वाद्वम्ललवणाजीर्णैः क्रुद्धः श्लेष्मा सहोष्मणा| प्रपद्याम्बुवहं स्रोतस्तृष्णां सञ्जनयेन्नृणाम्|| शिरसो गौरवं तन्द्रा माधुर्यं वदनस्य च| भक्तद्वेषः प्रसेकश्च निद्राधिक्यं तथैव च|| एतैर्लिङ्गैर्विजानीयात्तृष्णां कफसमुद्भवाम्|” इति||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
श्लेष्मजामाह– बाष्पेत्यादि| स्वकारणकुपितेन कफेन संवृते उपरिष्टादाच्छादितेऽन्तरग्नौ कफावरुद्धबाष्पेण अधोगतानामम्बुवाहस्रोतसां शोषणात् कफजा तृष्णा भवति| ननु कफेन तृष्णाऽनुपपन्ना? कफस्य वृद्धस्य केवलद्रवभूतस्य पिपासाकर्तृत्वासम्भवात्, वातपित्तयोरेव तृष्णाकर्तृत्वेनोक्तत्वात्; यदुक्तम्– “पित्तं सवातं कुपितं नराणाम्” इत्यादि| चरकेऽप्युक्तम्– “नाग्नेर्विना हि तर्षः पवनाद्वा तौ हि शोषणे हेतू” इति| सुश्रुतेऽप्युक्तं “मद्यस्याग्नेयवायव्यौ गुणावम्बुवहानि च| स्रोतांसि शोषयेयातां ततस्तृष्णा प्रवर्तते” इति| अत एवाह– तथेति| उक्तप्रकारेण कफादग्नेर्बाष्पावरोधादिना न तु स्वगुणेन, अत एव चरकेण कफजा तृष्णा न पठितैव, सुश्रुते तु चिकित्साभेदार्थं पठिता, हारीतेनापि सपित्तेन श्लेष्मणैव तृष्णा पठिता न तु केवला| “स्वाद्वम्ललवणाजीर्णैः क्रुद्धः श्लेष्मा सहोष्मणा| प्रपद्याम्बुवहं स्रोतस्तृष्णां सञ्जनयेन्नृणाम्|| शिरसो गौरवं तन्द्रा माधुर्यं वदनस्य च| भक्तद्वेषः प्रसेकश्च निद्राधिक्यं तथैव च|| लिङ्गैरेतैर्विजानीयात्तृष्णां कफसमुद्भवाम्” | तया तृष्णया पीडितो मनुष्योऽतितरां कृशो भवति, धातूनामनुपचयात्||५||
Adhikarana क्षतजतृष्णालक्षणम् (६) · Śloka ६
क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु |६|
(सु. उ. तं. अ. ४८) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्षतजामाह– क्षतस्येत्यादि| शस्त्रादिक्षतयुक्तस्य|६|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
क्षतजामाह– शस्त्रादिक्षतयुक्तस्य नरस्य रुक्पीडनाच्छोणितस्रावाच्च तृष्णा जायते| सा क्षतसम्भवा चतुर्थी|६|–
Adhikarana क्षयजतृष्णालक्षणम् (६-७) · Śloka ७
रसक्षयाद्या क्षयसम्भवा सा तयाऽभिभूतश्च निशादिनेषु ||६||
पेपीयतेऽम्भः स सुखं न याति तां सन्निपातादिति केचिदाहुः |
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् ||७||
(सु. उ. तं. अ. ४८) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्षयशब्दस्यानेकविषयत्वात् क्षयजां विशेषयन्नाह– रसक्षयादित्यादि| पेपीयते पुनः पुनः पिबति; एतच्च विशेषपरं, सर्वतृष्णासु तथाभूतत्वात्| यदाह सुश्रुतः– “सततं यः पिबेद्वारि न तृप्तिमधिगच्छति| पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत्||” (सु. उ. तं. अ. ५८) इति| रसक्षयोक्तानि च लक्षणानि सुश्रुतोक्तानि| तद्यथा– “रसक्षये हृत्पीडा कम्पः शोषः शून्यता तृष्णा च|” (सु. सू. अ. १५) इति| तस्यां क्षयजायाम्| अशेषेण कार्त्स्न्येन||६-७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
क्षयशब्दस्यानेकविषयत्वात् क्षयजां विशेषयन्नाह– रसक्षयादित्यादि| रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत्| रसक्षयात्तृष्णा भवति, सा क्षयजा ज्ञेया| तया व्याप्तः पुमान् जलं पेपीयते पुनः पुनः पिबति, परं सुखं न लभते, जलेन तृप्तो न भवतीत्यर्थः| एतच्च विशेषपरं, सर्वतृष्णासु तथाभूतत्वात्| तां केचन सन्निपातात् कथयन्ति| यदुक्तं सुश्रुते– “सततं यः पिबेत्तोयं न तृप्तिमधिगच्छति| पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत्” इति| रसक्षयोक्तानि तु लक्षणानि सुश्रुतोक्तानि– तथा च “रसक्षये हृत्पीडा कम्पः शोषः शुष्कता तृष्णा च” इति| एतानि समस्तान्यपि भवन्ति||६-७||
Adhikarana आमजतृष्णालक्षणम् (८) · Śloka ८
त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री |८|
(सु. उ. तं. अ. ४८) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
आमजामाह– त्रिदोषेत्यादि| त्रिदोषलिङ्गा त्रिदोषलिङ्गयुक्ता| आमादजीर्णात्त्रिदोषकोपः स्यादिति|८|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
आमजामाह– त्रिदोषेत्यादि| त्रिदोषलिङ्गा त्रिदोषलिङ्गयुक्ता| सादोऽङ्गानाम्| एतानुपद्रवान् करोति| आमे हि अजीर्णात्त्रिदोषकोपः स्यादिति| उक्तं च सुश्रुते– “अजीर्णात्पवनादीनां विभ्रमो बलवान्भवेत्” इति|८|–
Adhikarana भुक्तोद्भवतृष्णालक्षणम् (८) · Śloka ८
स्निग्धं तथाऽम्लं लवणं च भुक्तं गुर्वन्नमेवाशु तृषां करोति ||८||
(सु. उ. तं. अ. ४८) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
भुक्तोद्भवामाह– स्निग्धमित्यादि| चकारात् कटु च, नतु तिक्तकषायमधुराणीत्यर्थः| गुरुशब्देन मात्रागुरु द्रव्यगुरु च गृह्यते| दृढबलेन तु पञ्च तृष्णाः पठिताः, वातपित्तक्षयामोपसर्गजाः (च. चि. अ. २२) इति; तत्र, कफजा आमजायामेवावरुद्धा; क्षतजा वातजायां; भक्तजा च वातजायां, भक्तावरणेन वातप्रकोपात्; पित्तजायां वा, विदाहेन पित्तप्रकोपात्| सुश्रुते चोपसर्गजा यथास्वं दोषजासु| ननु, मद्यजाऽपि सुश्रुतेन मदात्यये (सु. उ. तं. अ. ४७) पठिता, तत् कथं सप्तेत्युच्यते? सत्यं, तस्या वातपित्तजायामवरोधः, एवं दृढबलमतेऽपि||८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
भक्तोद्भवामाह– स्निग्धमित्यादि| चकारात् कटु च, न तु तिक्तकषायमधुराणीत्यर्थः| गुरुशब्देन मात्रागुरु द्रव्यगुरु च गृह्यते| दृढबलेन तु पञ्च तृष्णा उक्ताः वातपित्तक्षयामोपसर्गजनिता इति| तत्र कफजायामामजाऽन्तर्भूता, वाताजायां क्षतजा; भक्तजाऽपि वातजायां, भक्तावरणेन वातकोपात्, पित्तजायां वा विदाहेन पित्तकोपात्| सुश्रुते चोपसर्गजा यथास्वं दोषजासु| ननु, मद्यजाऽपि सुश्रुते मदात्यये पठिता, तत् कथं सप्तेत्युच्यते? तस्या वातजायामन्तर्भावात्; एवं दृढबलमतेऽपि||८||
Adhikarana उपसर्गजतृष्णालक्षणं, तृष्णोपसर्गाश्च (९) · Śloka ९
दीनस्वरः प्रताम्यन् दीनः संशुष्कवक्त्रगलतालुः |
भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा ||९||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तत्रोपसर्गजामाह– दीनेत्यादि| दीनस्वरः क्षामवचनः, प्रताम्यन् मुह्यन्, दीनः क्लान्तः| उपसर्गादिति उपद्रवाद्रोगात्; उपद्रवशब्दश्च सामान्येन रोगमात्रेऽपि वर्तते, यथा– “निरूहोपद्रवचिकित्सितं व्याख्यास्यामः|” (सु. चि. अ. ३८) इत्यत्र| कष्टा कष्टसाध्या, व्याधिकर्षितदेहत्वात्||९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तत्रोपसर्गजामाह– दीनेत्यादि| दीनस्वरः क्षामवचनः, प्रताम्यन् मुह्यन्, दीनः क्लान्तः, उपसर्गादिति उपद्रवात् रोगात्, उपद्रवशब्दस्तु सामान्येन रोगमात्रेऽपि वर्तते| यथा– “निरूहोपद्रवचिकित्सितं व्याख्यास्यामः” इति| शोषिणी धातुशोषणात्मिका| सा कष्टा कष्टसाध्या, व्याधिकर्षितदेहत्वात्||९||
Adhikarana तृष्णोपसर्गरोगाः (१०) · Śloka १०
ज्वरमोहक्षयकासश्वासाद्युपसृष्टदेहानाम् |१०|
(च. चि. अ. २२) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तानेवोपसर्गानाह– ज्वरेत्यादि| आदिशब्देनातीसारादीनां ग्रहणम्|१०|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तानेवोपसर्गानाह– ज्वरेत्यादि| आदिशब्देनातीसारादीनां ग्रहणम्| एतैर्व्याधिभिर्गृहीतदेहानां नृणाम्; अत्र पूर्वलक्षणानुरोधः|१०|–
Adhikarana असाध्यतृष्णानां लक्षणम् (१०) · Śloka १०
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रयुक्तानाम् |
घोरोपद्रवयुक्तास्तृष्णा मरणाय विज्ञेयाः ||१०||
(च. चि. अ. २२) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
असाध्यानां लक्षणमाह– सर्वास्त्वित्यादि| सर्वा वातजादयः, अतिप्रसक्ता अतिप्रवृद्धाः| घोरोपद्रवयुक्ता मुखशोषादिभिर्बलवद्भिरुपद्रवैः समन्विता इति जेज्जटः||१०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
असाध्यलक्षणमाह– सर्व इत्यादि| अतिप्रसक्ता अतिप्रवृद्धा, वमिप्रसक्तानामिति शरीरश्लेष्मशोधनाय वमनशीलानाम्, घोरोपद्रवयुक्ताः श्वासशोषादिभिर्बलवद्भिरुपद्रवैर्युक्ता इति जेज्जटः| ता मरणकारिका इत्यर्थः||१०||
Adhikarana पुष्पिका · Śloka १६
इति श्रीमाधवकरविरचिते माधवनिदाने तृष्णानिदानं समाप्तम् ||१६||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां तृष्णानिदानं समाप्तम्||१६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानटीकायामातङ्कदर्पणाख्यायां तृष्णानिदानम्||१६||