Adhikarana अश्मरीनिदानं सम्प्राप्तिश्च (१-२) · Śloka २
अथाश्मरीनिदानम् |
वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजाऽपरा |
प्रायः श्लेष्माश्रयाः सर्वा अश्मर्यः स्युर्यमोपमाः ||१||
विशोषयेद्बस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा |
यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः ||२||
नैकदोषाश्रयाः सर्वाः... |
(च. चि. अ. २६) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
मूत्ररोधित्वसाधर्म्यादश्मरीमाह– वातेत्यादि| श्लेष्माश्रया इति श्लेष्मसमवायिकारणाः, शुक्रजां विना; तत्र शुक्रस्यैव समवायिकारणत्वात्| तथाच दृढबलः– “विशोषयेद्बस्तिगतं सशुक्रं” (च. चि. अ. २६) इत्यादि, एतच्च सामान्योक्तमपि विशेषेण सम्बध्यते| यथा– हल्ङ्यादिसूत्रे ‘दीर्घात्’ इति विशेषणं ङ्याभ्यां सम्बध्यते, न तु हला| अत एवात्र प्रायोग्रहणं कृतवान्| अन्ये तु शुक्राश्मर्यामपि कफकारणत्वमिच्छन्त्येव, विरोधाभावात्| प्रायःशब्दश्चात्र विशेषार्थः| यमोपमा इति असति चिकित्सिते अवश्यमेव मारकत्वात्| विशोषयेदित्यादि पित्तेष्विवेति वातशोषितेषु| नैकदोषाश्रय इति त्रिदोषजाः, उद्गतदोषेण व्यपदेशः||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मूत्ररोधित्वसामान्यादश्मरीमाह– वातेत्यादि| श्लेष्माश्रयाः श्लेष्मसमवायिकारणाः परं शुक्रजां विना, तत्र शुक्रस्यैव समवायिकारणत्वात्| तथा च दृढबलः– “विशोषयेद्बस्तिगतं सशुक्रं मूत्रम्” इत्यादि| अत एवात्र प्रायोग्रहणम्| अन्ये तु शुक्राश्मर्यामपि कफकारणत्वमिच्छन्त्येव, विरोधाभावात्| प्रायःशब्दश्चात्र विशेषार्थः| यमोपमाः असति चिकित्सितेऽवश्यमेव मारकत्वात्| तस्याः सम्प्राप्तिमाह– विशोषयेदित्यादि| पवनो बस्तिगतं सशुक्रं मूत्रं सपित्तं कफं वा शोषमुपनयेद्यदा तदाऽश्मरी भवति, क्रमेण शनैर्वर्धमाना यथा गोः पित्तेषु रोचना भवति| तस्यामनेकदोषाश्रयत्वमाह– नैकेत्यादि| त्रिदोषजा इत्यर्थः||१-२||
Adhikarana अश्मरीपूर्वरूपम् (३) · Śloka ३
... अथासां पूर्वलक्षणम् |
बस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक् ||३||
मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः |
(वा. नि. अ. ९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पूर्वरूपमाह– अथेत्यादि| बस्तसगन्धत्वं बस्तसमानगन्धत्वम्||३||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पूर्वरूपमाह– अथेत्यादि| बस्त्याध्मानमित्यादि| बस्त्याध्मानं वस्तेरापूरः, तदासन्नदेशेषु बस्तिशिरोमुष्कमेढ्रादिषु, परितः समन्तात्, अतिरुक् अतिवेदना| मूत्रे बस्तसगन्धत्वं बृहत्तमबस्तसमानगन्धत्वं, तथा मूत्रकृच्छ्रं ज्वरोऽरुचिश्च भवति||३||–
Adhikarana अश्मरीसामान्यलक्षणम् (४-५) · Śloka ५
सामान्यलिङ्गं रुङ्नाभिसेवनीबस्तिमूर्धसु ||४||
विशीर्णधारं मूत्रं स्यात्तया मार्गे निरोधिते |
तद्व्यपायात् सुखं मेहेदच्छं गोमेदकोपमम् ||५||
तत्सङ्क्षोभात् क्षते सास्रमायासाच्चातिरुग्भवेत् |
(वा. नि. अ. ९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तासां सामान्यलक्षणमाह– सामान्येत्यादि| रुक् शूलं, बस्तिमूर्धा नाभेरधोदेशः| विशीर्णधारं सविच्छेदधारम्| तया अश्मर्या| मार्गो मूत्रवाहिस्रोतः| तद्व्यपायात् वायुना कदाचिदश्मरीकृतमार्गरोधव्यपगमात्| मेहेत् मूत्रयेत्| अच्छमनाविलम्| गोमेदकोपममिति गोमेदको लोहितमणिस्तद्वर्णम्| तत्सङ्क्षोभात् निरुद्धमार्गमूत्रेण पीडनादश्मरीसम्पाताद्वा क्षते जाते मूत्रवहादौ, सास्रं सरक्तं मूत्रं प्रवर्तते| आयासात् प्रवाहणादिजनितक्लमात्||४-५||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तासां सामान्यलक्षणमाह– विशीर्णेत्यादि| विशीर्णधारं सविच्छेदं, तथा अश्मर्या, मार्गनिरोधने मूत्रवाहिस्रोतस आवरणे सति| बस्तिमूर्धा नाभेरधोदेशः, तस्मिन् रुद्धे सति रुक् शूलम्| पुनः स्वलक्षणान्तरमाह– तद्व्यपायादित्यादि| तद्व्यपायात् वायुना कदाचिदश्मरीकृतमार्गनिरोधव्यपगमात्| मेहेत् मूत्रयेत्| अच्छमनाविलम्| गोमेदकोपममिति गोमेदक आलोहितपीतमणिस्तद्वर्णम्| तत्सङ्क्षोभात् निरुद्धमार्गमूत्रपीडनादश्मरीसङ्घट्टनाद्वा क्षते जाते सति मूत्रवहस्रोतसि सास्रं सरक्तं मूत्रं प्रवर्तते| आयासात् प्रवाहणादिकजनितात्, प्रवाहणं कण्ठबलेन शब्दम्, मूत्रस्याजननं निकुन्थनमिति लोके||४-५||–
Adhikarana वातजाश्मरीलक्षणम् (६-७) · Śloka ७
तत्र वाताद्भृशं चार्तो दन्तान् खादति वेपते ||६||
गृह्णाति मेहनं नाभिं पीडयत्यनिशं क्वणन् |
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः ||७||
श्यावारुणाऽश्मरी चास्य स्याच्चिता कण्टकैरिव |
(वा. नि. अ. ९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातजामाह– तत्रेत्यादि| क्वणन् आर्तनादं कुर्वन्| सानिलं सशब्दं मूत्रप्रवृत्त्यर्थं कृतातिकुन्थनात्| मेहति बिन्दुश इति बिन्दुं बिन्दुं मूत्रयति, “बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्” इति अल्पार्थे शस्प्रत्ययः| श्यावेत्यादि| अश्मर्या आकारकथनम्; एतच्चाकृष्टानां प्रत्यक्षसंवादेन शास्त्रप्रामाण्यख्यापनार्थमित्याहुः, आकृष्टासु दोषोचितचिकित्सार्थमित्यन्ये||६-७||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातजाश्मरीमाह– तत्रेत्यादि| भृशमत्यर्थमार्तः पुमान् दन्तैर्दन्तान् खादति कटकटायते, वेपते कम्पते, मेहनं लिङ्गं, मृद्नाति मथ्नाति, अनिशं क्वणन् क्रन्दयन् नाभिदेशं पीडयति| शकृत्पुरीषं, सानिलं सशब्दं मुञ्चति, मुहुर्वारंवारं, बिन्दुशः बिन्दुं बिन्दुं, मेहति मूत्रयेत्| श्यावेत्यादि| श्यावा अरुणा किञ्चित् श्यामा, अरुणा किञ्चिद्रक्ता, एतच्चाश्मर्या वर्णाकारकथनमाकृष्टानां प्रत्यक्षसंवादेन शास्त्रस्य प्रामाण्यख्यापनार्थमित्याहुः, आकृष्टासु दोषोचितक्रियार्थमित्यन्ये, कण्टकैरन्वितेव||६-७||–
Adhikarana पित्तजाश्मरीलक्षणम् (८) · Śloka ८
पित्तेन दह्यते बस्तिः पच्यमान इवोष्मवान् ||८||
भल्लातकास्थिसंस्थाना रक्तपीताऽसिताऽश्मरी |
(वा. नि. अ. ९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पित्तजामाह– पित्तेनेत्यादि| पच्यमानः क्षारेणेव| ऊष्मवान् उष्णस्पर्शः| असिता कृष्णा||८||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पित्तजामाह– पित्तेनेत्यादि| पित्तेन याऽश्मरी तया बस्तिर्मूत्रकोशो दह्यते, पच्यमानः क्षारेणेव, ऊष्मवान् उष्णस्पर्शः, भल्लातकास्थिसंस्थाना भल्लातकमज्जाकारा, असिता कृष्णा||८||–
Adhikarana श्लेष्मजाश्मरीलक्षणम् (९) · Śloka ९
बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ||९||
अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता |
(वा. नि. अ. ९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
श्लेष्मजामाह– बस्तिरित्यादि| श्लक्ष्णा मसृणा| मधुवर्णा ईषत् पिङ्गलशुक्ला||९||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
श्लेष्मजामाह– बस्तिरित्यादि| बस्तिर्निस्तुद्यत इव शूलेनेव, शीतस्पर्शः, गुरुर्गौरवयुक्तः, महती कुक्कुटाण्डतुल्या, श्लक्ष्णा मसृणा, मधुवर्णा ईपत्पीतशुक्ला, सिता शुभ्रा||९||–
Adhikarana पूर्वोक्ताश्मरीणां सुखसाध्यलक्षणम् (१०) · Śloka १०
एता भवन्ति बालानां तेषामेव च भूयसा ||१०||
आश्रयोपचयाल्पत्वाद्ग्रहणाहरणे सुखाः |
(वा. नि. अ. ९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
एता इति त्रिदोषजा बालानां स्युः, तेषां तन्निदानाभ्यासात्| भूयसा प्रायेण, तेन महतामपि त्रिदोषजा भवन्ति| तेषामेव बालानां ग्रहणाहरणे सुखा इति सम्बन्धः| आश्रयोपचयाल्पत्वादिति आश्रयो बस्तिः, उपचयः स्थौल्यं, तयोरल्पत्वं; तच्च तद्देहाल्पत्वात्| आहरणं पाटनादिपूर्वकमाकर्षणं, ग्रहणं तदर्थमेवाङ्गुलिभ्यां धारणम्| उक्तं हि सुश्रुते– “प्रायेणैतास्तिस्रोऽश्मर्यो दिवास्वप्नसमशनाध्यशनशीतस्निग्धमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति, तेषामेवाल्पबस्तिकायत्वादल्पमांसोपचयाच्च बस्तेः सुखग्रहणाहरणा भवन्ति|” (सु. नि. अ. ३) इति||१०||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
एताः प्रायेण शिशूनां भवन्तीत्याह– एता इत्यादि| त्रिदोषजा बालानां भवन्ति, तेषामेव तन्निदानाभ्यासात्| भूयसा प्रायेणेति, तेन महतामपि हेतुना त्रिदोषजा भवन्ति, तेषामेव बालानां ग्रहणाहरणे सुखा इति सम्बन्धः| अत्रैव हेतुमाह– आश्रयोपचयाल्पत्वादिति| आश्रय आधारो बस्तिः, उपचयः स्थौल्यं, तयोरल्पत्वं; तच्च तद्देहाल्पत्वात्| अतस्ता ग्रहणाहरणे सुखाः सुखेनाहर्तुं शक्याः| महतां तु यथोक्तहेत्वभावाद्ग्रहणाहरणे ता दुःखावहा इति| ग्रहणं बडिशादिना, आहरणं पाटनादिपूर्वं कर्माकर्षणं, तदर्थमेवाङ्गुलीभ्यां धारणं ग्रहणम्| उक्तं हि सुश्रुते– “प्रायेणैतास्तिस्रोऽश्मर्यो दिवास्वप्नसमशनाध्यशनशीतस्निग्धगुरुमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति, तेषामेवाल्पबस्तिकायत्वान्मांसोपचयाल्पत्वाच्च बस्तेः सुखग्रहणाहरणा भवन्ति|” इति||१०||–
Adhikarana शुक्राश्मर्या निदानसम्प्राप्तिपूर्वकं लक्षणम् (११-१३) · Śloka १३
शुक्राश्मरी तु महतां जायते शुक्रधारणात् ||११||
स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः |
शोषयत्युपसङ्गृह्य शुक्रं तच्छुक्रमश्मरी ||१२||
बस्तिरुङ्मूत्रकृच्छ्रत्वमुष्कश्वयथुकारिणी |
तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते ||१३||
पीडिते त्ववकाशेऽस्मिन्... |
(वा. नि. अ. ९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शुक्राश्मरीमाह– शुक्रेत्यादि| तुशब्दोऽवधारणे; तेन महतामेव नतु बालानां, तेषां वक्ष्यमाणसम्प्राप्तेरभावात्; न तु शुक्राभावात्, अन्यथा षड्धातुकत्वं स्यात्| शुक्रधारणादुपस्थितशुक्रवेगस्य मैथुनाकरणात्| मुष्कयोरन्तरे ‘मेढ्रेण सह’ इति शेषः| सुश्रुते हि ‘मेढ्रवृषणयोरन्तरे’ (सु. नि. अ. ३) इत्येवोक्तम्| मेढ्रवृषणमध्यगतबस्तिमुख इत्यर्थः, तत्रैव शुक्रवहस्रोतसो बस्तिमुखेन सह सम्बन्धात्| तथाभूतं शुक्रमेवाश्मरीति| बस्तिरुक् बस्तिशूलं, मुष्कश्वयथुकारिणी वृषणयोः शोथकारिणी| तस्यां शुक्राश्मर्याम्| एति वर्तते| तुशब्दोऽवधारणे| अवकाशेऽस्मिन्निति मेढ्रवृषणयोरन्तरे| अस्मिन्नेव पीडिते सति विलीयते प्रविलयमापद्यत इत्यर्थः| अत एव सुश्रुतः– “पीडितमात्रे च तस्मिन्नेवावकाशे प्रविलयमापद्यते|” (सु. नि. अ. ३) इति||११-१३||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
शुक्राश्मरीमाह– शुक्रेत्यादि| शुक्राश्मरी तु महतामेव जायते नतु बालानां, तुशब्दोऽवधारणे, तेषां वक्ष्यमाणसम्प्राप्तेरभावात्, न तु शुक्राभावात्| अन्यथा षड्धातुकत्वं स्यात्| च्युतममुक्तामिति मैथुनादुपस्थितवेगस्य शुक्रस्य धारणादित्यर्थः| अमुक्तं धृतमित्यर्थः| मुष्कयोरन्तरे मेढ्रवृषणमध्यगतबस्तिमुख इत्यर्थः| तथाभूतं शुक्रमनिलः एकीकृत्य शोषयति, सा शुक्राश्मरीति| तस्या लक्षणमाह– बस्तिरुगिति| बस्तिरुगित्यादि सुगमम्| उत्पन्नमात्रायां तस्यां यदा सा कथमपि विलीयते विलयं याति, तदा शुक्रमेति मूत्रपथादागच्छति, परमवकाशे छिद्रे पीडिते सति||११-१३||–
Adhikarana शर्करालक्षणम् (१४) · Śloka १४
...अश्मर्येव च शर्करा |१४|
(वा. नि. अ. ९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सैवावस्थाभेदादश्मरी शर्करा, पञ्चमी न भवतीत्याह– अश्मर्येव चेति| चकारात् सिकताऽपि भवतीति मन्तव्यम्| अत एव ‘शर्करा सिकतान्विता’ इति वक्ष्यति| शर्करासिकतयोश्च महत्त्वाल्पत्वाभ्यां भेदः|१४|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
चतुर्थपादेन शर्करालक्षणम्|१४|–
Adhikarana अश्मर्युपद्रवाः (१४-१६) · Śloka १६
अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे ||१४||
निरेति सह मूत्रेण प्रतिलोमे निरुध्यते |
(वा. नि. अ. ९) |
मूत्रस्रोतःप्रवृत्ता सा सक्ता कुर्यादुपद्रवान् ||१५||
दौर्बल्यं सदनं कार्श्यं कुक्षिशूलमथारुचिम् |
पाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम् ||१६||
(सु. नि. अ. ३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
कथमश्मरी शर्करा भवतीत्याह– अणुश इत्यादि| अणुशोऽल्पशः| अत्रार्थे सुश्रुतः– ‘पवनेऽनुगुणे सा तु निरेत्यल्पा विशेषतः| सा भिन्नमूर्तिर्वातेन शर्करेत्यभिधीयते||’ (सु. नि. अ. ६) इति| मूत्रस्रोतःप्रवृत्ता सा सक्तेति मूत्रमार्गगा सती संलग्नेत्यर्थः||१४-१६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अणुश इत्यादि| सैवाश्मरी अणुशो वायुना भिन्ना विदारिता शर्करा कथ्यते| सा शर्करा अनुलोमगे मूत्रस्रोतसाऽधःप्रवृत्ते तस्मिन्वायौ मूत्रेण सह एति, प्रतिलोमगे ऊर्ध्वं प्रवृत्ते वायौ विबध्यते बन्धं प्राप्नोति, न बहिर्मूत्रेण निष्क्रामति, अश्मरी त्वनुलोमगे मारुते न निरेति, शर्करा तु मूत्रेण सह निष्क्रामतीत्यनयोर्भेदः| साऽश्मरी मूत्रमार्गप्रवृत्ता सक्ता निर्गता दौर्बर्ल्यादीनुपद्रवान् कुर्यात्| तानेवाह– दौर्बल्यमिति| दौर्बल्यमिन्द्रियाणां, सदनं ग्लानिः, कार्श्यमङ्गानां, कुक्षिशूलं हृदयशूलम्, उष्णवातं मूत्राघातनिदानोक्तं, शेषं सुगमम्||१४-१६||
Adhikarana अश्मर्या असाध्यलक्षणम् (१७) · Śloka १७
प्रशूननाभिवृषणं बद्धमूत्रं रुजातुरम् |
अश्मरी क्षपयत्याशु सिकता शर्करान्विता ||१७||
(सु. सू. अ. ३३) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
असाध्यलक्षणमाह– प्रशूनेत्यादि| रुजातुरं शूलपीडितमित्यर्थः||१७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्या असाध्यत्वमाह– प्रशूनेत्यादि| प्रशूननाभिवृषणं श्वयथुयुक्तनाभिवृषणं पुरुषमश्मरी क्षपयति विनाशयति, सिकता वालुका तत्सदृशी या शर्करा तया सहिता अश्मरीत्यर्थः||१७||
Adhikarana पुष्पिका · Śloka ३२
इति श्रीमाधवकरविरचिते माधवनिदानेऽश्मरीनिदानं समाप्तम् ||३२||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामश्मरीनिदानं समाप्तम्||३२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायामश्मरीनिदानम्||३२||