Adhikarana अध्यायोपक्रमः · Śloka
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अनन्तरातीतेऽध्याये शृङ्गादीन् लोहितावसेचनोपायानुक्त्वा 'प्रच्छानेनैकदेशस्थं' इत्यादिवाक्येन तेषां विषयो दर्शितः| सिराव्यधस्य तु बहुवक्तव्यत्वात् पृथगध्यायौ युक्त इत्याह-
Adhikarana सिराव्यधविधिरध्यायः (२) · Śloka २
अथातः सिराव्यधविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सरत्याभी रक्तमिति सिराः, तासां व्यधः, तस्य विधिः, तमध्यायं व्याख्यास्यामः| शेषं पूर्ववत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिराव्यधविधिमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| सङ्ग्रहे तु (सू.अ. ३६)-"बहवो हि रक्तावसेचनोपायाः प्रागभिहिताः| तेषामन्येषां च विरेकादीनामुपक्रमाणां तत्साध्येष्वामयेषु शिराव्यधः प्रधानम्| अमुना हि ते समूलाः शोषमायान्ति केदारसेतुभेदेन शाल्यादय इव| तथा च| शिराव्यधश्छिकित्सार्धं सम्पूर्णं वा चिकित्सितम्| शल्यतन्त्रे स्मृतो यद्वद्बस्तिः कायचिकित्सिते|| यथा रक्तमधिष्ठानं विकाराणां विकारिणाम्| अन्यन्न हि तथा दूष्यं कर्मेदं प्रथमं ततः|| तत्राम्बु शारीरमाहारसारभूतं रसाख्यमविकृतमविकृतेन तेजसा रञ्जितं रक्तमाहुः|" इति|
Adhikarana शुद्धरक्तस्य लक्षणम् शुद्धरक्तस्यारोग्यहेतुत्वम् (१-२) · Śloka २
मधुरं लवणं किञ्चिदशीतोष्णमसंहतम्|
पद्मेन्द्रगोपहेमाविशशलोहितलोहितम्||१||
लोहितं प्रभवः शुद्धं, तनोस्तेनैव च स्थितिः|
|२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लोहितं मधुरगुणं(रसं) , तथा, ईषल्लवणं, किञ्चिच्छब्द ईषदर्थे, तथाऽशीतोष्णं-नञीषदर्थे, ईषच्छीतमीषदुष्णं, तथाऽसंहतं-द्रवं, शुद्धं स्यात्| सम्प्रति वर्णतः शुद्धलोहितलक्षणमाह-पद्मेत्यादि| इन्द्रगोपः-मृगनक्षत्रोत्पन्नः कीटकविशेषः| हेम-कनकम्| अविः-मेषः| अविशशयोर्लोहितशब्देन रक्तवाचिना सम्बन्धः| पद्मादीनां द्वन्द्वः| पद्मेन्द्रगोपहेमाविशशलोहितमिव लोहितं-रक्तवर्णं, यद्रक्तं तच्छुद्धं स्यात्| तच्च तनोः-शरीरस्य, प्रभवः-उत्पत्तिहेतुः| तेनैवरक्तेन, तनोः स्थितिः-प्रबन्धाविच्छेदलक्षणा| अनेकदृष्टान्तोपादानं च शुद्धरक्तस्यानेकवर्णदर्शनात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुद्धरक्तस्य लक्षणमाह-मधुरमिति| असंहतं-द्रवम्| हेमा-मञ्जिष्ठा| शुद्धरक्तस्यारोग्यहेतुत्वमाह-तनोरिति| सङ्ग्रहे तु (सू.अ. ३६) "तथा दूष्यम्| दोषमिति केचित्| उभयात्मकमन्ये| तच्चैवंविधमेव विधिवदाहारविहाराभ्यासाद्विशुद्धं बलवर्णसुखायुषां योनिः|" इति|
Adhikarana रक्तस्य दुष्टिकारणम् (२) · Śloka २
|
तत्पित्तश्लेष्मलैः प्रायो दूष्यते|२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तच्च-रक्तं, बाहुल्येन पित्तश्लेष्मलैर्दूष्यते| पित्तलैः-क्षारोष्णतीक्ष्णादिभिः| श्लेष्मलैः-माषतिलादिभिः| तथा पुराकृताद्दैवादपि, शरत्कालस्वभावात् कदाचिद्वातलैरपि दूष्यत इति प्रायोग्रहणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रक्तस्य दुष्टिकारणमाह-तत्पित्तश्लेष्मलैरिति|
Adhikarana दुष्टरक्तस्य कार्यम् दुष्टरक्तकार्यस्य सामान्यलक्षणम् (२-५) · Śloka ५
|
कुरुते ततः||२||
विसर्पविद्रधिप्लीहगुल्माग्निसदनज्वरान्|
मुखनेत्रशिरोरोगमदतृड्लवणास्यताः||३||
कुष्ठवातास्रपित्तास्रकट्वम्लोद्गिरणभ्रमान्|
शीतोष्णस्निग्धरूक्षाद्यैरूपक्रान्ताश्च ये गदाः||४||
सम्यक्साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः|
|५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ततो-दूषणात्कारणात्, विसर्पादीन् भ्रमान्तान् कुरुते| तथा, शीतोष्णादिभिः सम्यक्चिकित्सिताः साध्या अपि रोगा ये न सिध्यन्ति, ते च रक्तप्रकोपजाः| न केवलं विसर्पादयः, इति चार्थः| आदिशब्देन स्तम्भस्वेदनादिपरिग्रहः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दुष्टरक्तस्य कार्यमाह-कुरुत इति| दुष्टरक्तकार्यस्य सामान्यलक्षणमाह-शीतोष्णेति| चकारद्बयकरणादुक्तेष्वनुक्तेषु चेदं लक्षणं ज्ञेयम्|
Adhikarana दुष्टरक्तकार्यस्य प्रतीकारः (५) · Śloka ५
|
तेषु स्रावयितुं रक्तमुद्रिक्तं व्यधयेत्सिराम्||५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा, तेषु-विसर्पादिषु रोगेषु, उल्बणं रक्तं स्रावयितं सिरां व्यधयेत्| अदन्तत्वादत्र वृद्धेरभावः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दुष्टरक्तकार्यस्य प्रतीकारमाह-तेष्विति|
Adhikarana उनषोडशाब्दादीनां सिराव्याधनिषेधः (६-९) · Śloka ९
न तूनषोडशातीतसप्तत्यब्दस्रुतासृजाम्|
अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम्||६||
गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम्|
अतीसारोदरच्छर्दिपाण्डुसर्वाङ्गशोफिनाम्||७||
स्नेहपीते प्रयुक्तेषु तथा पञ्चसु कर्मसु|
नायन्त्रितां सिरां विध्येन्न तिर्यङ्गाप्यनुत्थिताम्||८||
नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद्गदात्|
|९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ऊनषोडशवर्षादीनां तु सिरां न व्यधयेत्| स्नेहपीते-पीतस्नेह इत्यर्थः, आहिताग्न्यादित्वात् परनिपातः| तथा, पञ्चसु-वमनादिषु, कर्मसु विहितेषु सत्सु, सिरां न व्यधयेत्| तथा, अयन्त्रितां-अबद्धां, सिरां न व्यधयेत्| तथा, न तिर्यक्, न चानुत्थितां, नातिशीते, नात्युष्णे, नातिवाते, न च मेघोदये, सिरां व्यधयेत्| आत्ययिकात्-रोहिणीविषादिकात्, अन्यत्र न व्यधयेत्| आत्ययिके तु रोगे शीतोष्णवृष्टीनां यथायथं प्रतीकारं विधाय सिरां मोक्षयेदेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ऊनषोडशाब्दादीनां शिराव्यधं निषेधति-नतूनेति| पञ्चसु कर्मसु-वमनविरेचननिरूहानुवासननस्येषु| वमनादौ स्नेहपाने यावत्तत्कृतदोषक्षोभ(भा)निवृत्तिस्तावन्निषेधः| अयन्त्रितां-अकृतवक्ष्यमाणयन्त्रणाम्| तिर्यक्-तिर्यग्गताम्| अनुत्थितां-अप्रकटाम्| सङ्ग्रहे तु (सू.अ.३६)-"तत्र स्नेहपीतादिषु सम्यग्विद्धा अपि शिरा न स्रवन्त्यतिस्रवन्ति वा| सम्यक्स्निग्धस्विन्नस्य पुनर्द्रवीभूता दोषाः शोणितमनुप्रविष्टाः सम्यक् प्रच्यवन्ते| न त्वेष निषेधो विषसंसृष्टोपसर्गात्ययिकव्याधिषु|" इति|
Adhikarana शिरोरोगे नेत्ररोगे च वेध्याः सिराः (९-१०) · Śloka १०
|
शिरोनेत्रविकारेषु ललाट्यां मोक्षयेत्सिराम्||९||
आपाङ्ग्यामुपनास्यां वा|
|१०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शिरोनयनविकारेषु ललाट्यां सिरां मोक्षयेत्| ललाटे भवा-ललाट्या, शरीरावयवाद्यत्, एवमग्रेऽपि| अपाङ्गे भवां अपाङ्ग्यां, नासिकासमीपे भवां-उपनास्यां, वा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिरोरोगे नेत्ररोगे च वेध्याः शिरा आह-शिरोनेत्रविकारेष्विति| ललाटे भवा ललाट्याः| "शरीरावयवाद्यत्" इति यत्| एवमपाङ्ग्या उपनास्याः [च]| उपनास्याः-कनीनिकाभवाः (?)|
Adhikarana कर्णरोगेषु सिराः (१०) · Śloka १०
कर्णरोगेषु कर्णजाम्|
|१०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कर्णामयेषु कर्णजां-कर्णसमीपभवां, सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कर्णरोगेषु शिरा आह-कर्णरोगेष्विति|
Adhikarana नासारोगे सिराः (१०) · Śloka १०
|
नासारोगेषु नासाग्रे स्थिताम्|१०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नासामयेषु नासाग्रे स्थितां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नासारोगेषु शिरा आह-नासारोगेष्विति|
Adhikarana पीनसे सिराः (१०-११) · Śloka ११
|
नासाललाटयोः||१०||
पीनसे|
|११|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पीनसे-प्रतिश्याये, नासाललाटमध्यस्थां सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पीनसे शिरा आह-नासाललाटयोरिति|
Adhikarana मुखरोगेषु सिराः (११) · Śloka ११
मुखरोगेषु जिह्वौष्ठहनुतालुगाः|
|११|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुखरोगेषु जिह्वादिगाः सिरा विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मुखरोगेषु शिरा आह-मुखरोगेष्विति|
Adhikarana जत्रूर्ध्वग्रन्थिषु सिराः (११) · Śloka ११
|
जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खशिरःश्रिताः||११||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जत्रूर्ध्वं-वक्षोंसयोः सन्ध्यूर्ध्वं, ये ग्रन्थयस्तेषु ग्रीवाद्याश्रिताः सिरा विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जत्रूर्ध्वग्रन्थिषु शिरा आह-जत्रूर्ध्वग्रन्थिष्विति|
Adhikarana उन्मादे सिराः (१२) · Śloka १२
उरोपाङ्गललाटस्था उन्मादे|
|१२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उन्मादे उरःस्था अपाङ्गस्था ललाटाश्रिताश्च विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उन्मादे शिरा आह-उरोपाङ्गललाटस्था इति|
Adhikarana अपस्मारे सिराः शिरोरोगादिषु सामान्यतः सिराः (१२) · Śloka १२
ऽपस्मृतौ पुनः|
हनुसन्धौ समस्ते वा शिरां भ्रूमध्यगामिनीम्||१२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अपस्मारे तु हनुसन्धौ स्थितां सिरां विध्येत्| समस्ते-सर्वस्मिन्, वा हनौ सिरां विध्येत्| भ्रूमध्यगामिनीं- भ्रूमध्यस्थां, सिरां वाऽपरस्मृतौ विध्येदिति वाशब्दोऽत्रानुवर्त्य योज्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अपस्मारे शिरा आह-अपस्मृताविति| उक्तेषु शिरोरोगादिषु समान्यतःशिरा आह-समस्ते वेति|
Adhikarana विद्रधिपार्श्चशूलयोः सिराः (१३) · Śloka १३
विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरे|
|१३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विद्रधौ पार्श्वशूले च पार्श्वस्थाः कक्षास्थाः स्तनान्तरस्थाश्च सिरा विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विद्रधिपार्श्वशूलयोःशिरा आह-विद्रधाविति|
Adhikarana तृतीयकज्वरे सिराः (१३) · Śloka १३
|
तृतीयकेंऽसयोर्मध्ये|१३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तृतीयके ज्वरेंऽसयोर्मध्ये-स्कन्धसन्धौ स्थितां सिरां, विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तृतीयकज्वरे शिरा आह-तृतीयक इति|
Adhikarana चतुर्थकज्वरे सिराः (१३) · Śloka १३
|
स्कन्धस्याधश्चतुर्थके||१३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चतुर्थके ज्वरे स्कन्धस्याधोगतां-अन्यतरपार्श्वाश्रयां, सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चतुर्थकज्वरे शिरा आह-स्कन्धस्याध इति|
Adhikarana सशूलप्रावाहिकायां सिराः (१४) · Śloka १४
प्रवाहिकायां शूलिन्यां श्रोणितो द्व्यङ्गुले स्थितां|
|१४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रवाहिकायां शूलयुक्तायां श्रोणितः-कठ्याः, द्व्यङ्गुले स्थितां सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सशूलप्रवाहिकायां शिरा आह-प्रवाहिकायामिति|
Adhikarana शुक्ररोगेमेढ्ररोगे च सिराः (१४) · Śloka १४
|
शुक्रमेढ्रामये मेढ्रे|१४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुक्ररोगे मेढ्ररोगे च मेड्रस्थितां सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुक्ररोगे मेढ्ररोगे च शिरा आह-शुक्रमेढ्रामय इति|
Adhikarana गलगण्डयोः सिराः (१४) · Śloka १४
|
ऊरुगां गलगण्डयोः||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गलगण्डयोश्चोभयोरूरुस्थां सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गलगण्डमालयोः शिरा आह-ऊरुगामिति| द्विवचनसामर्थ्यात् गण्डमालाग्रहणम्|
Adhikarana गृध्रस्यां सिराः (१५) · Śloka १५
गृध्रस्यां जानुनोऽधस्तादूर्ध्वं वा चतुरङ्गुले|
|१५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गृध्रस्यां जानुनोऽधस्ताच्चतुरङ्गुल ऊर्ध्वं वा जानुनश्चतुरङ्गुले स्थितां सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गृध्रस्यां शिरा आह-गृध्रस्यामिति|
Adhikarana अपच्यां सिराः (१५) · Śloka १५
|
इन्द्रबस्तेरधोऽपच्यां द्व्यङ्गुले|१५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अपचीसंज्ञे रोगे इन्द्रबस्तेरधो द्व्यङ्गुले सिरां विध्येत्| इन्द्रबस्तिः-जङ्घान्तरे वक्ष्यमाणः (हृ. शा. अ. ४|५)
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अपच्यां शिरा आह-इन्द्रबस्तेरिति| इन्द्रबस्तिः-जङ्घामध्ये मर्म|
Adhikarana सक्थिशूले क्रोष्टुकशीर्षके च सिराः (१५-१६) · Śloka १६
|
चतुरङ्गुले||१५||
ऊर्ध्वं गुल्फस्य सक्थ्यर्तौ, तथा क्रोष्टुकशीर्षके|
|१६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सक्थिपीडायां गुल्फस्योर्ध्वं चतुरङ्गुले सिरां विध्येत्| क्रोष्टुकशीर्षाख्ये वातरोगविशेषे गुल्फस्योर्ध्वं चतुरङ्गुले विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सक्थिशूले क्रोष्टुकशीर्षके च शिरा आह-चतुरङ्गुल इति|
Adhikarana पाददाहादिषु षट्सु सिराः (१६-१७) · Śloka १७
|
पाददाहे खुडे हर्षे विपाद्यां वातकण्टके||१६||
चिप्पे च द्व्यङ्गुले विध्येदुपरि क्षिप्रमर्मणः|
|१७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पाददाहादिषु क्षिप्रममर्ण उपरि द्व्यङ्गुले विध्येत्| खुडं-वातरक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पाददाहादिषु षट्सु शिरा आह-पाददाह इति| हर्षे-पादहर्षे| चिप्पे-नखरोगे| क्षिप्रं-अङ्गुष्ठाङ्गुलिमध्ये मर्म| सङ्ग्रहे तु (सू.अ.३६)-"एतेनेतरसक्थिबाहू च व्याख्यातौ| विशेषतस्तु वामबाहावभ्यन्तरतो बाहुमध्ये प्लीहोदरे| एवमेव च दक्षिणबाहौ यकृदाख्ये| तथा कासश्वासयोरप्यादिशन्ति|" इति|
Adhikarana विश्वाच्यां सिराः (१७) · Śloka १७
|
गृध्रस्यामिव विश्वाच्याम्|१७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विश्वाच्यां गृध्रसीप्रोक्तां सिरां विध्येत्| "गृध्रस्यां जानुनोऽधस्तात् " इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विश्वाच्यां शिरा आह-गृध्रस्यामिवेति| सङ्ग्रहे तु (सू.अ.३६)-"बाहुशोषावबाहुकयोरप्येके|" इति|
Adhikarana यथोक्तसिराणामदर्शने तदासन्नाः सिराः (१७-१८) · Śloka १८
|
यथोक्तानामदर्शने||१७||
मर्महीने यथासन्ने देशेऽन्यां व्यधयेत् सिराम्|
|१८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथोक्तानां सिराणामदर्शने सति मर्मवर्जिते यथासन्ने स्थाने व्याधिवशादपरां व्यधयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यथोक्तशिराणामदर्शने तदासन्ना शिरा वेध्या इत्याह-यथोक्तानामिति|
Adhikarana सिराव्यधविधिः कण्ठोर्धसिराणां यन्त्रणम् (१८-२२) · Śloka २२
|
अथ स्निग्धतनुः सज्जसर्वोपकरणो बली||१८||
कृतस्वस्त्ययनः स्निग्धरसान्नप्रतिभोजितः|
अग्नितापातपस्विन्नो जानूच्चासनसंस्थितः||१९||
मृदुपट्टात्तकेशान्तो जानुस्थापितकूर्परः|
मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्ये गाढं निपीडयेत्||२०||
दन्तप्रपीडनोत्कासगण्डाध्मानानि चाचरेत्|
पृष्ठतो यन्त्रयेच्चैनं वस्त्रमावेष्टयन्नरः||२१||
कन्धरायां परिक्षिप्य न्यस्यान्तर्वामतर्जनीम्|
एषोऽन्तर्मुखवर्ज्यानां सिराणां यन्त्रणे विधिः||२२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथेत्यानन्तर्ये| स्निग्धा तनुर्यस्य स स्निग्धतनुः| तथा, सज्जानि-प्रगुणानि, { सर्वाणि } उपकरणानि-वस्त्रषण्डपटोदकस्नेहगैरिकादीनि, यस्य स सज्जसर्वोपकरणः| तथा, बलीपुष्टः| तथा, कृतं स्वस्त्ययनं-बलिमङ्गलहोमादिकं, यस्य स कृतस्वस्त्ययनः| तथा, स्निग्धरसयुक्तेनान्नेन प्रतिभोजितः| तथा, अग्नितापश्चातपश्च, ताभ्यां स्विन्नः| तथा, जानुतुल्ये उच्चासने, संस्थितः-समुपविष्टः| तथा, मृदुना-सूक्ष्मेण, वस्त्रपट्टेनात्तो-गृहीतो बद्धः केशान्तो यस्य स एवम्| तथा, जानुनोः स्थापितौ कूर्परौ येन स एवम्| तथा, मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्येऽतिशयेन पीडयेत्| तथा, दन्तप्रपीडनादीन्याचरेत्| एनं चातुरं पृष्ठदेशे वसनमावेष्टयन्नरो यन्त्रयेत्| कथम् ? ग्रीवायां वस्त्रं परिक्षिप्य, तथाऽन्तः-मध्ये, वामतर्जनीं न्यस्य| सिराणां यन्त्रण एष विधिः-एतद्विधानम्| किम्भूतानाम् ? अन्तर्मुखवर्ज्यानाम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिराव्यधविधिमाह-अथेति| अल्पं स्निग्धं रसान्नं-स्निग्धरसान्नप्रति| "सुप्प्रतिना मात्रार्थे" इत्य्व्ययीभावः| सङ्ग्रहे तु (सू.अ. ३६)-"व्याधिबलसात्म्याद्यपेक्ष्य स्निग्धं जाङ्गलरसं यवागूं वा पाययित्वा मुहूर्तमात्रमाश्वासितं पूर्वाह्णेऽपराह्णे वा|" इति|
Adhikarana सिरोत्थापनविधिः (२३) · Śloka २३
ततो मध्यमयाऽङ्गुल्या वैद्योऽङ्गुष्ठविमुक्तया|
ताडयेत्|२३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ततो-यन्त्रणादनन्तरं, वैद्योऽङ्गुष्ठविमुक्तया वामपाणिजया मध्यमयाऽङ्गुल्या ताडयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिरोत्थापनविधिमाह-तत इति|
Adhikarana सिरालक्षीकरणविधिः सिरामोक्षणविधिः (२३-२५) · Śloka २५
|
उत्थितां ज्ञात्वा स्पर्शाद्वाऽङ्गुष्ठपीडनैः||२३||
कुठार्या लक्षयेन्मध्ये वामहस्तगृहीतया|
फलोद्देशे सुनिष्कम्पं सिरां, तद्वच्च मोक्षयेत्||२४||
ताडयन् पीडयंश्चैनां|
|२५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्पर्शेन तथाऽङ्गुष्ठपीडनैर्वोत्थितां ज्ञात्वा, ऊर्ध्वदण्डसिराया मध्ये न्यस्य फलोद्देशे सुनिष्कम्पं वामहस्तगृहीतया कुठार्या सिरां लक्षयेत्| तद्वच्च मोक्षयेत्| यथैव लक्षयेत्तथैवेत्यर्थः| व्रीहिमुखेन पुनस्ताडयन्-व्यथयन्, तथाऽङ्गुष्ठादिना पीडयन्, एनां-कुठारिकाविषयजां सिरां, विध्येत्| ननु, कुठारिकाविषये कथं व्रीहिवक्त्रस्य प्रयोगः ? यतः 'अपवादविषयं परिहृत्योत्सर्गः प्रवर्तते' इति न्यायात् व्रीहिवक्त्रस्यैव सामान्येन प्रयोगोऽनुज्ञातः| तथा चाह (हृ. सू. अ. २६|११)- "व्रीहिवक्त्रं प्रयोज्यं च तत्सिरोदरयोर्व्यधे|" इति| कुठार्याः पुनर्विशेषोऽभिहितः (हृ. सू. अ. २६|१२)-"तयोर्ध्वदण्डयाविध्येदुपर्यस्थ्नां स्थितां शिराम्|" इति| तस्मादयुक्तमेतत्| अत्रोच्यते ज्ञापकम्| कुठारिकाविषये व्रीहिवक्त्रस्य प्रयोगो न्याय्य एव| यदयमाचार्यो वक्ष्यति (श्लो.३३)-"मांसले निक्षिपेद्देशे व्रीहास्यं व्रीहिमात्रकम्|" इति| अनेन हि वचनेन ग्रन्थकार इदं प्रत्यपादयत्,- बहुमांसे शरीरावयवे व्रीहिमुखं व्रीहिमात्रं निक्षेप्यम्, अन्यत्र त्वाशयानुरोधेन व्रीहिवक्त्रस्य प्रयोगः कार्य इति| अनेनैवाभिप्रायेण शास्त्रकृता "प्रमाणपरिमाणाभ्यां सङ्ख्यायाश्चापि संशये मात्रच् वक्तव्यः इत्यनेन मात्रच् कृतः| अन्यथा तु स्पष्टं कृत्वा "व्रीहिप्रमाणं व्रीह्यास्यं मांसले निक्षिपेद्व्यधे|" इति पाठं कुर्यात्| तस्माद्युक्तो व्रीहिमुखस्य कुठारिकाविषये प्रयोग इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिरालक्षीकरणविधिमाह-उत्थितामिति| उत्थितां-स्पन्दमानां, स्पर्शेन ज्ञात्वा| गम्भीरां त्वङ्गुष्ठपीडनेन ज्ञात्वा| फलोद्देशे वामेन हस्तेन सुनिष्कम्पं गृहीतया कुठार्या मध्ये लक्षयेत्| शिरामोक्षणविधिमाह-तद्वदिति| एनां-कुठारिकां, अङ्गुष्टगृहीतया मध्यमाङ्गुल्या ताडयन्, अङ्गुष्ठोदरेण वा पीडयन्, शिरां मोक्षयेत्|
Adhikarana उपनासिकाया व्यधनम् (२५) · Śloka २५
विध्येद्व्रीहिमुखेन तु|
अङ्गुष्ठेनोन्नमय्याग्रे नासिकामुपनासिकाम्||२५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अग्रे-अग्रदेशे, नासिकामङ्गुष्ठेनोन्नमय्य, उपनासिकां- नासिकासन्नदेशस्थां सिरां, विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उपनासिकाया व्यधनमाह-विध्येदिति|
Adhikarana जिह्वाधः सिराव्यधम् (२६) · Śloka २६
अभ्युन्नतविदष्टाग्रजिह्वस्याधस्तदाश्रयाम्|
|२६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आभिमुख्येनोन्नता-उपरि तालुदेशे नीता, तथा विशेषेण दन्तैर्दष्टा-विदष्टा, अग्रे जिह्वा-अग्रजिह्वा, येनासावभ्युन्नतविदष्टाग्रजिह्वः, तस्याधः-प्रकृतत्वाज्जिह्वाया एवाधस्तात्, तदाश्रयां-जिह्वाधःस्थां सिरां विध्येत्| तदित्यनेन जिह्वाधः परामृश्यते| जिह्वाध आश्रयो यस्याः सिऱ्रायाः, ताम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जिह्वाधः शिराव्यधनमाह-अभ्युन्नतेति|
Adhikarana ग्रीवासिराणां यन्त्रणम् (२६) · Śloka २६
|
यन्त्रयेत्स्तनयोरूर्ध्वं ग्रीवाश्रितसिराव्यधे||२६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ग्रीवाश्रितानां सिराणां व्यधो-ग्रीवाश्रितसिराव्यधः, तस्मिन् स्तनयोरूर्ध्वं यन्त्रयेत्-वाससा वेष्टयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ग्रीवाशिराणां यन्त्रणमाह-यन्त्रयेदिति|
Adhikarana भुजसिराणं यन्त्रणम् (२७) · Śloka २७
पषाणगर्भहस्तस्य जानुस्थे प्रसृते भुजे|
कुक्षेरारभ्य मृदिते विध्येद्बद्धोर्ध्वपट्टके||२७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पाषाणगर्भौ हस्तौ यस्य, तस्य नरस्य भुजे जानुस्थे-जानुपृष्ठस्थिते, प्रसृते-प्रसारिते| 'भुजे' इत्येकवचनमतन्त्रम्, द्वावपि हि भुजौ गृह्येते| कुक्षेरारभ्य यावद्ग्रीवं तावन्मृदिते- मलिते| कस्मिन् ? ग्रीवाश्रितसिराव्यर्धार्हेऽङ्गे| तथा बद्ध ऊर्ध्वं पट्टको यस्मिंस्तस्मिन् विध्येत्| प्रकृतत्वात् सिराम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-भुजशिराणां यन्त्रणमाह-पाषाणगर्भहस्तस्येति|
Adhikarana हस्तसिराणां यन्त्रणम् (२८-२९) · Śloka २९
विध्येद्धस्तशिरां बाहावनाकुञ्चितकूर्परे|
बद्ध्वा सुखोपविष्टस्य मुष्टिमङ्गुष्ठगार्भिणम्||२८||
ऊर्ध्वं वेध्यप्रदेशाच्च पट्टिकां चतुरङ्गुले|
|२९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हस्तसिरां विध्येत्| कथम् ? बाहावनाकुञ्चितकूर्परे,-अनाकुञ्चितः-प्रसारितः, कूर्परो यस्य बाहोस्तस्मिन्| तथा, सुखोपविष्टस्य-सुखासीनस्य| तथा, मुष्टिं बद्ध्वा| किम्भूतम् ? अङ्गुष्ठेन गर्भिणं-अङ्गुष्ठगर्भिणम्| गूढाङ्गुष्ठं मुष्टिं बद्ध्वेत्यर्थः| तथा, वेध्यस्थानादुपरि चतुरङ्गुलपरिमाणे स्थाने पट्टिकां बद्ध्वा विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हस्तशिराणां यन्त्रणविधिमाह-विध्येदिति|
Adhikarana पार्श्वसिराणां यन्त्रणम् (२९) · Śloka २९
|
विध्येदालम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम्||२९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बाहुभ्यामालम्बमानस्य-अवलम्ब्यं वस्तु भुजाभ्यामासजतः पार्श्वयोः सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पार्श्वशिराणां यन्त्रणमाह-विध्येदिति|
Adhikarana मेढ्रसिराणां यन्त्रणम् (३०) · Śloka ३०
प्रहृष्टे मेहने|
|३०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रहृष्टे-स्तब्धे, मेढ्रे तदाश्रितां सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मेढ्रशिराणां यन्त्रणमाह-प्रहृष्ट इति|
Adhikarana जङ्घासिराणां यन्त्रणम् (३०) · Śloka ३०
जङ्घासिरां जानुन्यकुञ्चिते|
|३०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जानुन्यकुञ्चिते स्पष्टे स्थिते सति, जङ्घायां सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जङ्घाशिराणां यन्त्रणमाह-जङ्घाशिरामिति|
Adhikarana पादसिराणां यन्त्रणम् (३०-३२) · Śloka ३२
|
पादे तु सुस्थितेऽधस्ताज्जानुसन्धेर्निपीडिते||३०||
गाढं कराभ्यामागुल्फं चरणे तस्य चोपरि|
द्वितीये कुञ्चिते किञ्चिदारूढे हस्तवत्ततः||३१||
बद्ध्वा विध्येत्सिराम्|
|३२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सुखं कृत्वा भूम्यादिदेशे स्थिते पादे सति पादसिरां विध्येत्| तथा जानुसन्धेरधस्तादागुल्फं-गुल्फं यावत्, कराभ्यां गाढं कृत्वा पीडिते सति, तस्य चरणस्योपरि-उपरिष्टात् द्वितीये चरण ईषत्सङ्कुचिते, तथा आरूढे-तत्कलिते सति, ततो हस्तवत्-वेध्यस्थानादुपरि चतुरङ्गुले पट्टिकां, बद्ध्वा सिरां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पादशिराणां यन्त्रणमाह-पादे त्विति| हस्तवद्वेध्यप्रदेशादूर्ध्वं चतुरङ्गुले पट्टिकां बद्ध्वा|
Adhikarana अनुक्तसिराणां यन्त्रणम् (३२) · Śloka ३२
इत्थमनुक्तेष्वपि कल्पयेत्|
तेषु तेषु प्रदेशेषु तत्तद्यन्त्रमुपायवित्||३२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इत्थं-अनेन प्रकारेण यन्त्रलक्षणोद्देशेन, अनुक्तमपि यन्त्रं तत्तद्देशमाहात्म्यात् क्रियासौकर्यार्थं तेषु तेषु शरीरावयवेषु स्वबुद्ध्या तत्तद्यन्त्रं यथायोगं कल्पयेत्, उपायज्ञो वैद्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनुक्तशिराणां यन्त्रणमाह-इत्थमिति|
Adhikarana व्रीहिमुखस्य निखननम् कुठारिकाया निखननम् (३३) · Śloka ३३
मांसले निक्षिपेद्देशे व्रीह्यास्यं व्रीहिमात्रकम्|
यवार्धमस्थ्नामुपरि सिरां विध्यन् कुठारिकाम्||३३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मांसले शरीरावयवे व्रीहिमुखं शस्त्रं व्रीहिप्रमाणं निक्षिपेत्| अस्थ्नामुपरि कुठारिकां यवार्धमात्रां निक्षिपेत्| किं कुर्वन् ? सिरां विध्यन्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-व्रीहिमुखस्य निखननमाह-मांसल इति| कुठारिकाया निखननमाह-यवार्धमिति|
Adhikarana सम्यग्विद्धालक्षणम् (३४) · Śloka ३४
सम्यग्विद्धा स्रवेद्धारां यन्त्रे मुक्ते तु न स्रवेत्|
|३४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सम्यग्विद्धे सति(द्वा सती) धारां स्रवेत्| यन्त्रे च मुक्ते सति न स्रवेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सम्यग्विद्धालक्षणमाह-सम्यग्विद्ध इति|
Adhikarana दुर्विद्धालक्षणम् अतिविद्धालक्षणम् (३४-३५) · Śloka ३५
|
अल्पकालं वहत्यल्पं, दुर्विद्धा तैलचूर्णनैः||३४||
सशब्दमतिविद्धा तु स्रवेद्दुःखेन धार्यते|
|३५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अल्पं विद्धा सती सिरा स्तोकं कालं वहति| दुर्विद्धा-असम्यग्विद्धा सती, सिरा तैलयुक्तैश्चूर्णनैः स्रवेत्| अतिविद्धा तु सिरा सशब्दं स्रवेत्| दुःखेन-कृच्छ्रेण धार्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दुर्विद्धालक्षणमाह-अल्पकालमिति| तैलचूर्णेनैः-तैलक्षारसेचनैः| अतिविद्धालक्षणमाह-सशब्दमिति|
Adhikarana रक्तावरोधकारणानि (३५-३६) · Śloka ३६
|
भीमूर्च्छायन्त्रशैथिल्यकुण्ठशस्त्रातितृप्तयः||३५||
क्षामत्ववेगितास्वेदा रक्तस्यास्रुतिहेतवः|
|३६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भीमूर्छादयो रक्तस्यास्रवणहेतवः| भीः-भयम्| मूर्च्छा-मोहस्तमसीव प्रवेशः| यन्त्रशैथिल्यम्-अगाढं कृत्वा यन्त्रपीडनम्| तथा, कुण्ठं-भग्नं शस्त्रम्| तथा, अतितृप्तिः-अतिसौहित्यम्| क्षामत्वं-निर्बलता| वेगिता-सञ्जातवेगत्वम्| अस्वेदः-स्वेदायोगः| यतश्चैते रुधिरस्यास्रुतिहेतवस्ततो रक्तस्रुतावेते परिहार्याः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रक्तावरोधकारणान्याह-भीमूर्च्छेति| वेगिता-मूत्रितत्वादिः| अस्वेदो-असम्यक्स्वेदः|
Adhikarana सम्यक्स्रावार्थमौषधम् (३६-३७) · Śloka ३७
|
असम्यगस्त्रे स्रवति वेल्लव्योषनिषानतैः||३६||
सागारधूमलवणतैलैर्दिह्याच्छिरामुखम्|
|३७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-असम्यगस्त्रे स्रवति वेल्लादिभिः सिरावदनं दिह्यात् प्रलेपयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सम्यक्स्रावार्थमौषधमाह-असम्यगस्र इति|
Adhikarana सम्यक्स्रावनिर्वाहार्थमौषधम् (३७) · Śloka ३७
|
सम्यक्प्रवृत्ते कोष्णेन तैलेन लवणेन च||३७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सम्यक्प्रवृत्ते रक्ते सिरामुखं कोष्णाभ्यां तैललवणाभ्यां दिह्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सम्यक्स्रावनिर्वाहार्थमौषधमाह-सम्यक्प्रवृत्त इति| दिह्यादित्यनुषज्यते|
Adhikarana दुष्ठास्रमेवाग्रे सिराः स्रवन्ति (३८) · Śloka ३८
अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका|
|३८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथा रागपीतिकामिश्रीभूतात् कुसुम्भादग्रे-पूर्वं, पीतिका स्रवति, एवं दुष्टादुष्टरक्तादेकलोलीभूतात् पूर्वं दुष्टमस्रं स्रवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अग्रग्रहणात् पश्चाददुष्टमपि रक्तमवश्यं स्रवतीत्याशङ्क्येदमाह-स्वभावाद्दुष्टास्रमेवाग्रे शिराः स्रवन्तीत्याह अग्र इति|
Adhikarana स्वयं स्थितं रक्तं नाहरेत् (३८) · Śloka ३८
|
सम्यक्स्रुत्वा स्वयं तिष्ठेच्छुद्धं तदिति नाहरेत्||३८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथावत्प्रस्रुत्य स्वयं-यत्नेन विना, यत् तिष्ठेत्-न स्रवेत्, शुद्धं तदिति नाहरेत्-न स्रावयेत्, जीवितहेतुत्वात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सम्यक्स्रुत्वा यत्स्वयं स्थितं रक्तं तच्छुद्धत्वान्नाहरेदित्याह-सम्यक्स्रुत्वेति|
Adhikarana मूर्च्छायां प्रतीकारः (३९) · Śloka ३९
यन्त्रं विमुच्य मूर्च्छायां वीजिते व्यजनैः पुनः|
स्रावयेन्मूर्च्छति पुनस्त्वपरेद्युस्त्र्यहेऽपि वा||३९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूर्च्छायां सत्यां यन्त्रं विमुच्य व्यजनैर्वीजिते-समाश्वस्तेनरे सति, पुनरस्रं स्रावयेत्| पुनर्मूर्च्छति त्वातुरेऽशुद्धमपि रक्तं तस्मिन्नहनि न स्रावयेत्| कदा तर्हि स्रावयेत् ? इत्याह-अपरेद्युः,-अन्यस्मिन् दिने, त्र्यहेऽपि वा-तृतीये वाऽह्नि, स्रावयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मूर्च्छायां प्रतीकारमाह-यन्त्रमिति| पुनर्मूर्च्छायामपरदिनादौ स्रावयेदित्याह-स्रावयेदिति|
Adhikarana वातदुष्टरक्तस्य लक्षणम् (४०) · Śloka ४०
वाताच्छ्यावारुणं रूक्षं वेगस्राव्यच्छफेनिलम्|
|४०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातात् श्यावादिलक्षणं रक्तं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वातदुष्टरक्तस्य लक्षणमाह-वातादिति|
Adhikarana पित्तदुष्टरकस्य लक्षणम् (४०) · Śloka ४०
|
पित्तात् पीतासितं विस्रमस्कन्द्यौष्ण्यात्सचन्द्रिकम्||४०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तात् पीतादिलक्षणमस्रं स्यात्| अस्कन्दि-अस्त्यानम्, उष्णत्वात्| सचन्द्रिकं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पित्तदुष्टरक्तस्य लक्षणमाह-पित्तादिति| औष्ण्यादस्कन्दि-घनीभावरहितम्|
Adhikarana कफदुष्टरक्तस्य लक्षणम् (४१) · Śloka ४१
कफात् स्निग्धमसृक्पाण्डु तन्तुमत्पिच्छिलं घनम्|
|४१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफात् स्निग्धादिलक्षणमसृक् स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कफदुष्टरक्तस्य लक्षणमाह-कफादिति| घनंस्रावरहितम्|
Adhikarana द्वन्द्वदुष्टरक्तस्य लक्षणम् (४१) · Śloka ४१
|
संसृष्टलिङ्गं संसर्गात्|४१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-संसर्गाद्दोषाणां संसृष्टलिङ्गं रक्तं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-द्वन्द्वदुष्टरक्तस्य लक्षणमाह-संसृष्टलिङ्गमिति|
Adhikarana त्रिदोषदुष्टरक्तस्य लक्षणम् (४१) · Śloka ४१
|
त्रिदोषं मलिनाविलम्||४१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिदोषरक्तं मलिनं-कलुषं, आविलं-घनं च| एतच्च दोषत्रयसंसर्गलक्षणादधिकं लक्षणं मन्तव्यम्| न चैतावदेव त्रिदोषलक्षणं मन्तव्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्रिदोषदुष्टरक्तस्य लक्षणमाह-त्रिदोषमिति| मलिनं-नीलम्| आविलं-कलुषम्| सङ्ग्रहे तु (सू.अ. ३६)-"कषायरसं लोहगन्धि शीतं च रक्तं वातात्| गृहधूमाञ्जनोदककृष्णं हरितं मत्स्यगन्धि कटुत्वान्मक्षिकानिष्ठं गोमूत्राभं च पित्तात्| कोविदारपुष्पगैरिकोदकपाण्डु शीतं स्कन्दि व्रणद्वारा वसादिलवणरसं वसागन्धि च कफात्| कांस्यनीलं दुर्गन्धि च सन्निपातात्|" इति|
Adhikarana स्रावप्रमाणम् (४२) · Śloka ४२
अशुद्धौ बलिनोऽप्यस्रं न प्रस्थात्स्रावयेत्परम्|
अतिस्रुतौ हि मृत्युः स्याद्दारुणा वा चलामयाः||४२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अशुद्धमस्रं बलिनोऽपि-किं पुनरबलिनः, प्रस्थात् परं-अधिकं, न स्रावयेत्| { कस्मात् ? इत्याह- } अतिस्रावे हि रक्तस्य, मृत्युर्भवेत्| अथवा वातरोगाश्च कृच्छ्राः स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्रावप्रमाणमाह-अशुद्धाविति| अशुद्धौ-किं पुनः शुद्धौ| बलिनोऽपि-किं पुनरबलस्य| प्रस्थोऽत्र सार्द्धत्रयोदशपलः|
Adhikarana अतिस्रावे भेषजम् (४३) · Śloka ४३
तत्राभ्यङ्गरसक्षीररक्तपानानि भेषजम्|
|४३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-रक्तातिस्रुतौ, अभ्यङ्गादीनि भेषजम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अतिस्रावे भेषजमाह-तत्रेति|
Adhikarana स्रुतरक्तस्यानन्तरं कृत्यम् (४३-४४) · Śloka ४४
|
स्रुते रक्ते शनैर्यन्त्रमपनीय हिमाम्बुना||४३||
प्रक्षाल्य तैलप्लोताक्तं बन्धनीयं सिरामुखम्|
|४४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्रुते रक्ते सति यन्त्रं शनैर्विमुर्च्य-मन्दं मन्दमपनीय, सिरामुखं शीतोदकेन प्रक्षाल्य, तैलप्लोतेनाक्तं सद्बन्धनीयम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्रुतरक्तस्थानन्तरं कृत्यमाह-स्रुत इति| प्लोतं-वस्त्रखण्डम्|
Adhikarana असम्यक्शुद्धौपुनः स्रावकालः (४४-४५) · Śloka ४५
|
अशुद्धं स्रावयेद्भूयः सायमह्न्यपरेऽपि वा||४४||
स्नेहोपस्कृतदेहस्य पक्षाद्वा भृशदूषितम्|
|४५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अशुद्धं-वातादिदुष्टरुधिरलक्षणेन दुष्टं ज्ञात्वा, भूयः-पुनः, स्रावयेत्| कदा ? सायं-अपराह्ने, तस्मिन्नेव दिने| अथवा, अपरेऽह्नि-द्वितीये दिने| अथवा स्नेहेनोपस्कृतोभावितो, देहो यस्य तथाविधस्य भृशदूषितं-अतिशयेन दुष्टं रक्तं, पक्षादूर्ध्वं पुनः स्रावयेत्| एवमशुद्धं रक्तं यथायोगं सायमह्न्यपरे पक्षादूर्ध्वं वा प्रस्थपरिमाणमेव स्रावयेन्न ततोऽधिकमिति रक्तस्रुतौ क्रमः| प्रस्थपरिमाणं च तन्त्रान्तरे गदितम् "वमने च विरेके च रक्तातीसारयोरपि| सार्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-किञ्चिच्छेषं दुष्टरक्तं स्थापयेदुत सर्वं स्रावयेत् ? इति संशयापनोदार्थमिदमाह-[प्रथमस्रावेणासम्यक् शुद्धौ] पुनः स्रावकालमाह-अशुद्धमिति| भृशदूषितं तु पुनः स्नेहयित्वा पक्षात् स्रावयेत्|
Adhikarana किञ्चिद्दुष्टरक्तशेषेऽपि न स्रुतिः (४५-४६) · Śloka ४६
|
किञ्चिद्धि शेषे दुष्टास्रे नैव रोगोऽतिवर्तते||४५||
सशेषमप्यतो धार्यं न चातिस्रुतिमाचरेत्|
|४६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्मात् किञ्चिच्छेषे दुष्टरक्ते नैव रोगो-दुष्टरक्तोद्भवो व्याधिः, अतिवर्तते-क्रियापथमतिक्रम्य मार्गान्तरमसौ नासादयति| अतो दुष्टमपि रक्तं सशेषं धार्यम्| नास्य दुष्टरक्तस्यातिस्रुतिमाचरेत्, प्राणायतनत्वात्| सुश्रुतोऽप्यध्यगीष्ट (?) "सशेषं दुष्टरुधिरमपि कुर्याद्विचक्षणः| न चातिप्रस्रुतं कुर्याच्छेषं संशमनैर्जयेत्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ किञ्चिच्छेषं रक्तमुपेक्षणीयमुत प्रतिक्रिया काचित्तत्र कार्याः ? इत्याह-दुष्टेऽप्यनेनैव क्रमेण स्रुतिः कार्या| न त्वतिस्रुतिरित्याह-किञ्चिद्धीति| अतिवर्तते-बाधते|
Adhikarana दुष्टरक्तशेषस्य शृङ्गादिभिर्हरणम् (४६) · Śloka ४६
|
हरेच्छृङ्गादिभिः शेषम्|४६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्रुतशेषं दुष्टरक्तं शृङ्गतुम्बघटिकादिभिर्हरेत्, न तु सिरया|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिराव्यधेऽतिस्रुतिशङ्कायां शृङ्गादिभिर्हरेदित्याह-हरेदिति|
Adhikarana अथवा तस्य शीतोपचारादिभिः प्रसादनम् (४६-४७) · Śloka ४७
|
प्रसादमथवा नयेत्||४६||
शीतोपचारपित्तास्रक्रियाशुद्धिविशोषणैः|
दुष्टं रक्तमनुद्रिक्तमेवमेव प्रसादयेत्||४७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा शीतोपचारेण, पित्तास्रक्रियया, शुद्ध्या-वमनविरेचनादिरूपया, विशोषणेन-लङ्घनरूपेण, तद्दुष्टं रक्तं प्रसादयेत्-कलुषतां परित्यज्य तस्य प्रसन्नत्वमुपपादयेत्| न तु केवलं स्रुतशेषं रुधिरं शीतोपचारेण (चारादिना) प्रसादयेत्| यावदनुद्रिक्त-अप्रवृद्धं दुष्टं रुधिरं, एवमेव-अनेनैव शीतोपचारादिना, प्रसादं नयेत्| न तु तन्निर्हरणे सिराव्यधादिना यतनीयम्, अनुद्रिक्तरक्तनिर्हरणस्य सापायत्वात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शृङ्गादिभिरप्यतिस्रुतिशङ्कायां शमयेदित्याह-प्रसादमिति| पित्तास्रक्रिया-रक्तपित्तचिकित्सा| अकृतशिराव्यधस्याप्येतदेव रक्तप्रसादनमित्याह-दुष्टं रक्तमिति| अनुद्रिक्तं-उद्रेकाभावात् स्रावायोग्यम्|
Adhikarana अतिस्रावे स्तम्भनम् (४८) · Śloka ४८
रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत्क्रियाम्|
|४८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्ते त्वतिष्ठति-स्थितिमलभमाने, त्वरितमेव स्तम्भनीं क्रियां-वक्ष्यमाणां, कुर्यात्, रक्तस्य प्राणायतनत्वात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तदेव स्तम्भनमाह-अतिस्रावे स्तम्भनमाह-रक्ते त्विति|
Adhikarana स्तम्भन विशेषः (४८-५०) · Śloka ५०
|
रोध्रप्रियङ्गुपत्तङ्गमाषयष्ट्याह्वगैरिकैः||४८||
मृत्कपालाञ्जनक्षौ ममषीक्षीरित्वगङ्कुरैः|
विचूर्णयेद्व्रणमुखं पद्मकादिहिमं पिबेत्||४९||
तामेव वा सिरां विध्येद्व्यधात्तस्मादनन्तरम्|
सिरामुखं वा त्वरितं दहेत्तप्तशलाकया||५०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रोध्रादिभिः सिराव्रणमुखं विचूर्णयेत्| पद्मकादिहिमं-शीतकषायं, पिबेत्| तामेव-प्राग्विद्धां, सिरां तस्मात्प्राग्व्यधादनन्तरं, अव्यवहितं विध्येत्| अथवा सिराद्वारं क्षिप्रं कृत्वाऽग्निनोपतप्तया शलाकया दहेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रक्तस्य स्रावणादनन्तरं यद्विधेयं तदाह-स्तम्भनविशेषमाह-रोध्रप्रियङ्ग्विति| मृत्कपालं-खर्परम्| क्षौममषी-वस्त्रभस्म| विचूर्णयेत्-चूर्णं विकिरेत्| पद्मकादिहिमं-पद्मकादिगणस्य शीतकषायम्| सङ्ग्रहे तु (सू.अ. ३६)-"अतिष्ठति तु रक्ते शिरामुखं संधातुं चूर्णैरवचुर्ण्याङ्गुल्यग्रेण पीडयेत्| शाल्मल्युपोदकापिच्छां वा व्रणमुखे दत्त्वा गाढं बध्नीयात्| मधूच्छिष्टप्रलिप्तं वा पट्टकम्| शीताम्बुना वा सिञ्चेत्| शीतमधुरकषायान्नपानसेकप्रदेहप्रवातवेश्मभिर्वा स्कन्दनायोपचरेत्| पद्मकादिक्वाथं शर्करामधुमधुरं क्षीरमिक्षुरसमेणहरिणाजोरभ्रमहिषवराहाणामन्यतमस्य वा सिरां विद्ध्वा रुधिरमामं घृतभृष्टं वा पानं दद्यात्| तेनैव वा दर्भपादमृदितेनानुवासयेत्| स्निग्धैश्च यूषरसैर्भोजयेत्| सर्वथा चानवतिष्ठमाने पाचनाय क्षारं दद्यात्| न च क्षणमप्युपेक्षेत| क्षीणरक्तस्य हि वायुर्मर्माण्युपसङ्गृह्य मूर्च्छासंज्ञानाशशिरःकम्पभ्रममन्यास्तम्भापतानकहनुभ्रंशहिध्मापाण्डुत्वबाधिर्यधातुक्षयाक्षेपकादीन् करोति, मरणं वा| प्राणाः प्राणभृतां रक्तं तत्क्षयात्क्षीयतेऽनलः| वर्द्धते चानिलस्तस्माद्युक्त्या बृंहणमाचरेत्|| दुर्व्यधातिव्यधकुट्टिततिर्यग्व्यधादेर्व्यधदोषाव्द्यापदो याः स्युस्ता यथास्वं साधयेदिति|" इति|
Adhikarana स्रुतरक्तस्य पथ्यनियमकालावधिः (५१) · Śloka ५१
उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत्|
दोषाः प्रदुष्टा रुधिरं प्रपन्ना स्तावद्धिताहारविहारभाक् स्यात्||५१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यन्त्रनिपीडनेनोन्मार्गगाः-स्वमार्गमुल्लङ्घ्य मार्गान्तरसमाश्रयणेनोत्पथं प्रतिपन्नाः| किंभूता दोषाः? प्रदृष्टाः, तथाविधं रक्तं प्राप्ता |ते पुनर्यावत्स्वाश्रयं न प्रतिपद्यन्ते तावद्धिताहारविहारभाक् स्यात्-हितावाहारविहारौ भजेत्| "भजो ण्विः इति ण्विः| इन्द्रवज्रावृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्रुतरक्तस्य पथ्यनियमकालावधिमाह-उन्मार्गगा इति|
Adhikarana पथ्यम् उक्ते पथ्ये युक्तिः (५२) · Śloka ५२
नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्|
तदा शरीरं ह्यनवस्थितासृ गग्निर्विशेषादिति रक्षितव्यः||५२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्ते स्रावितेऽन्नपानं नात्युष्णशीतं हितम्| अत्युष्णं ह्यन्नपानं रक्तं प्रदूषयेत्| अतिशीतं त्वग्निं सादयेत्| तथा, लघु-स्वभावतो मात्रासंस्कारादिना वा, तथा दीपनीयम्| कुत एवमन्नपानं हितम् ? इत्याह-यस्मात्तस्मिन् काले शरीरमनवस्थितं-चलितवृत्ति, रक्तं यस्य शरीरस्य तदेवंभूतं भवति| तच्चासृक् शरीरस्याधारो, रक्तस्य च पित्तं, पित्तं च वह्निः| तथा च वक्ष्यति (हृ. शा. अ. ३|९०)- "पित्तं वह्निः" इति| तस्माद्विशेषात्-महता यत्नेन, वह्निर्नात्युष्णशीतादिनाऽऽहारविहारेण रक्षितव्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कृतसिराव्यधस्य पुरुषस्य लक्षणमन्तरेणोन्मार्गगामिनां दोषाणां स्वस्थानप्रतिपत्तौ कालो नावगम्यते, न च निर्हृतदुष्टरक्तः पुरुषो लक्षणं विना ज्ञायते, इति द्वयस्यापि परिज्ञानार्थमाह-पथ्यमाह-नात्युष्णशीतमिति| उक्ते पथ्ये युक्तिमाह-तदा शरीरमिति| इति-अतो हेतोः|
Adhikarana विशुद्धरक्तस्य लक्षणम् (२७) · Śloka २७
प्रसन्नवर्णेन्द्रियमिन्द्रियार्था- निच्छन्तमव्याहतपक्तृवेगम्|
सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति||५३||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शिराव्यधविधिर्नाम सप्तविंशोऽध्यायः||२७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वर्णश्चेन्द्रियाणि च वर्णेन्द्रियाणि, प्रसन्नानि वर्णेन्द्रियाणि यस्य तं प्रसन्नवर्णेन्द्रियम्| तथा, इन्द्रियार्थान् शब्दादीन् स्वभावाभिप्रेतान्, इच्छन्तं-अभिलषन्तम्| तथा, पक्तुर्वेगः-सामर्थ्यम्, अव्याहतः-अनभिभूतः, पक्तृवेगो यस्य तमव्याहतपक्तृवेगम्| तथा, सुखान्वितं-आरोग्ययुक्तं प्रकृतिमापन्नम्| तथा पुष्टिबलाभ्यां युक्तम्| एवंविधं विशुद्धरक्तं पुरुषं वदन्ति, इति शरीरस्य लक्षणमुक्तम्| "मधुरं लवणं" इत्यादिना तु रक्तस्यैव विशुद्धलक्षणमभिहितमिति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने शिराव्यधविधिर्नाम सप्तविंशोऽध्यायः समाप्तः|| २७||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विशुद्धरक्तस्य लक्षणमाह-प्रसन्नवर्णेति| पक्ताअग्निः| वेगो-विण्मूत्रादिप्रवृत्तिः| इति हेमाद्रिटीकायामायुर्वेदरसायने| शिराव्यधप्रकरणं सामस्त्येन निरूपितम्|| २७||