Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथेदानीं षड्विंशाध्यायरम्भः शस्त्रस्वरूपविज्ञानार्थः|
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथेदानीं षड्विंशाध्यायरम्भः शस्त्रस्वरूपविज्ञानार्थः|
Adhikarana शस्त्रविधिरध्यायः (२-३) · Śloka ३
अथातः शस्त्रविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| )|३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शस्त्रस्य विधिः शस्त्रविधिः| शेषं पूर्ववत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शस्त्रविधिमध्यायं व्याख्यातुं प्रतिजानीते-अथेति|
Adhikarana षड्विंशतिः शस्त्राणितेषामुपयोगः षव्डिशतिशस्त्राणां नामानि (१-३.५) · Śloka ३
षड्विंशतिः सुकर्मारैर्घटितानि यथाविधि| शस्त्राणि रोमवाहीनि बाहुल्येनाङ्गुलानि षट्||१|| सुरूपाणि सुधाराणि सुग्रहाणि च कारयेत्| अकरालानि सुध्मातसुतीक्ष्णावर्तितेऽयसि||२|| समाहितमुखाग्राणि नीलम्भोजच्छवीनि च| नामानुगतरूपाणि सदा सन्निहितानि च||३|| स्वोन्मनार्धचतुर्थांशफलान्येकैकशोऽपि च| प्रायो द्वित्राणि, युञ्जीत तानि स्थानविशेषतः||४|| (मण्डलाग्रं वृद्धिपत्रमुत्पलाध्यर्द्धधारके| सर्पैषण्यौ वेतसाख्यं शरार्यास्यत्रिकूर्चके||१|| कुशास्यं साटवदनमन्तर्वक्रार्धचन्द्रके (कम्)| व्रीहिमुखं कुठारी च शलाकाङ्गुलिशस्त्रके||२|| बडिशं करपत्राख्यं कर्तरी नखशस्त्रकम्| दन्तलेखनकं सूच्यः कूर्चो नाम ख्रजाह्वयम्||३|| आरा चतुर्विधाकारा तथा स्यात्कर्णवेधनी(नम्)||३.५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बाहुल्येन शस्त्राणि षडङ्गुलानि भवन्ति| तथा षड्विंशतिसङ्ख्यानि, तथा सुकर्मारैः-कर्मकुशलैर्नरैः, यथाविधि { घटितानि }-सम्यङ्निष्पादितानि, तथा रोमवाहीनि-लोमशातनसमर्थानि, तथा सुरूपाणि-शोभनाकाराणि, तथा सुधाराणि-शोभनधाराणि, तथा सुखेन गृह्यन्ते-सुग्रहाणि च, कारयेत्| क्व ? अयसि| कीदृशे ? सुष्ठु ध्मातं सुध्मातं, तथा सुतीक्ष्णं स्वावर्तितं च यदयः-शस्त्रं, तस्मिन्| कीदृशानि शस्त्राणि ? अकरालानि-सुदर्शनानि| तथा, समाहितं-सुष्ठुकृतं, मुखाग्रं-फलं, येषां तानि समाहितमुखाग्राणि| तथा, नीलोत्पलद्युतीनि| तथा, नाम्नाऽनुगतं रूपं येषां तानि-अन्वर्थनामानीत्यर्थः| तथा, सर्वकालं सन्निहितानि-समीपस्थानि| तथा, स्वं च तदुन्मानं च स्वोन्मानं-आत्मीयं प्रमाणं, तस्मात्सकाशादर्धम्, तस्य चतुर्थांशः-अष्टभागः, फलं येषां तान्येवम्| अपि चेति समुच्चये| एवंविधानि शस्त्राण्येकैकशः स्थानविशेषात् द्वित्राणि प्रयुञ्जीत| एकैकश इति "एकं बहुव्रीहिवत् " इति द्वित्वसुब्लोपौ, ततः शस्प्रत्ययः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शस्त्राणां सामान्यलक्षणमाह-षड्विंशतिरिति| सुकर्मारैः-उत्तमलोहकारैः| रोमवाहीनि-रोमच्छेदीनि| अकरालानि-आर्जववन्ति| अयसि-लोहे घटितानि, तृतीयार्थे सप्तमी| समाहितं-सम्यग्घाटितं, मुखाग्रं-फलं, येषां तानि| स्वोन्मानस्य-अङ्गुलषट्कस्य, अर्धचतुर्थांशः-अध्युष्टो भागः,- सप्तमांशद्वयसहितं यवदशकम्, तत्परिमाणं फलं येषां तानि| एकैकशो द्वित्राणि-प्रत्येकं द्वे त्रीणि वा, कारयेत्| षड्विंशतेरुपयोगमाह-युञ्जीतेति|
Adhikarana १ मण्डलाग्रं शस्त्रम् (५) · Śloka ५
मण्डलाग्रं फले तेषां तर्जन्यन्तर्नखाकृति| लेखने छेदने योज्यं पोथकीशुण्डिकादिषु||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेषां शस्त्राणां मध्ये मण्डलाग्रं नाम शस्त्रम्| कीदृक् ? फलोद्देशे तर्जन्या अन्तर्नखस्तर्जन्यन्तर्नखः तस्येवाकृतिर्यस्य तदेवम्| क्वैतद्योज्यम् ? इत्याह-लेखने छेदने च पोथक्यादिषु योज्यम्| आदिशब्देन वर्त्मरोगादयो गृह्यन्ते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मण्डलाग्रं शस्त्रमाह-मण्डलाग्रमिति| शुण्डिका-गलशुण्डिका|
Adhikarana २ वृद्धिपत्रं (६-७) · Śloka ७
वृद्धिपत्रं क्षुराकारं छेदभेदनपाटने| ऋज्वग्रमुन्नते शोफे गम्भीरे च तदन्यथा||६|| नताग्रं पृष्ठतो दीर्घह्रस्ववक्त्रं यथाश्रयम्| |७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वृद्धिपत्रं नाम शस्त्रं क्षुराकारं स्यात्| तच्च छेदनादिषु योज्यमिति प्रकृतम्| फलपरिमाणं तूक्तमेव| कीदृक् ? ऋजु-स्पष्टमग्रं यस्य तदृज्वग्रम्, तदुन्नते शोफे स्यात्| गम्भीरे तु शोफे तत्-वृद्धिपत्रमन्यथा| कथमन्यथा ? इत्याह-नतेत्यादि| पृष्ठतः-पृष्ठदेशे, नतमग्रं यस्य तन्नताग्रं भवतीति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वृद्धिपत्रमाह-वृद्धिपत्रमिति| उन्नते गम्भीरे च शोफे ऋज्वग्रम्| अन्यथाभूते शोफे पृष्ठतो नताग्रम्| स्थानवशेन दीर्घमुखं ह्रस्वमुखं च|
Adhikarana ३ उत्पलपत्रं,४ अध्यर्द्दधारं शस्त्रम् (७) · Śloka ७
| उत्पलाध्यर्धधाराख्ये भेदने छेदने तथा||७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-{ यथायथं-यथास्वं, दीर्घवक्त्रं ह्रस्ववक्त्रं च युञ्ज्यात्| } उत्पलं चाध्यर्धधारं च, ते आख्ये ययोस्त उत्पलाध्यर्धधाराख्ये शस्त्रे यथाक्रमं दीर्घह्रस्ववक्त्रे भवथः| उत्पलपत्रं दीर्घमुखमध्यर्धधारं तु ह्रस्ववक्त्रमित्यर्थः| ते भेदने छेदने च योज्ये| तथेति समुच्चये, पाटने च योज्य इत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उत्पलपत्रमध्यर्द्धधारं चेति शस्त्रद्वयमाह-उत्पलेति| एते स्वनामानुगतरूपे|
Adhikarana ५ सर्पास्यं शस्त्रम् (८) · Śloka ८
सर्पास्यं घ्राणकर्णार्शश्च्छेदनेऽर्धाङ्गुलं फले| |८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्पवक्त्रं नाम शस्त्रं नामानुगताकारं घ्राणार्शश्च्छेदने कर्णार्शश्छेदने च योज्यम्| तच्च फलेऽर्धाङ्गुलं भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सर्पवक्त्रमाह-सर्पास्यमिति|
Adhikarana ६ अन्वेषणा एषणी भेदनार्था एषणी च शस्त्रम् (८-९) · Śloka ९
| गतेरन्वेषणे श्लक्ष्णा गण्डूपदमुखैषणी||८|| भेदनार्थेऽपरा सूचीमुखा मूलनिविष्टखा| |९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एषणी नाम शस्त्रम् गतेर्व्रणानामन्वेषणे योज्यम्| कीदृशी ? श्लक्ष्णा-कोमलस्पर्शा| तथा, गण्डूपदमुखमिव मुखं यस्याः सा गण्डूपदमुखा| द्वितीयामेषणीमाह- स०-अपरैषणी भेदनार्थे सूचीमुखा स्यात्| तथा, मूले निविष्टं-कृतं, खं-छिद्रं, यस्याः सा मूलनिविष्टखा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्वेषणार्थमेषणीमाह-गतेरिति| गतेः-नाडीव्रणस्य| आ० र०-भेदनार्थमेषणीमाह-भेदनार्थ इति| भेदनत्वं क्षाराक्तसूत्रप्रवेशनेन|
Adhikarana ७ वेतसपत्रं शस्त्रम् (९) · Śloka ९
| वेतसं व्यघने|९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- वेतसं- वेतसपत्राकारं शस्त्रम्, षडङ्गुलं पूर्वोक्तफलम्| तच्च व्यधने योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वेतसशस्त्रमाह-वेतसमिति|
Adhikarana ८ शरारिमुखं शस्त्रम्,९ त्रिकूर्चकं शस्त्रम् (९) · Śloka ९
| स्राव्ये शरार्यास्यत्रिकूर्चके||९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शरारिः-आठ्याख्यः पक्षिविशेषः| शरार्यास्यं नाम शस्त्रं त्रिकूर्चके च स्राव्ये योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शरारिमुखं त्रिकूर्चकं चेति शस्त्रद्वयमाहस्राव्य इति| स्राव्ये-प्रच्छानेन रक्तस्रुतौ| भावे कृत्यप्रत्ययः| शरारिः-पक्षिविशेषः|
Adhikarana १० कुशपत्रं शत्रम्११ आटामुखं शस्त्रम् (१०) · Śloka १०
कुशाटावदने स्राव्ये ह्यङ्गुलं स्यात्तयोः फलम्| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कुशाटा नाम शस्त्रं वदने स्राव्ये योज्यम्| तयोः-शरारिकुशाटयोः, फलं द्व्यङ्गुलप्रमाणं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कुशपत्रमाटामुखं चेति शस्त्रद्वयमाह-कुशाटेति| आटा-पक्षिविशेषः|
Adhikarana १२ अन्तर्मुखं शस्त्रम् (१०-११) · Śloka ११
| तद्वदन्तर्मुखं तस्य फलमध्यर्धमङ्गुलम्||१०|| अर्धचन्द्राननं चैतत्| |११|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्तर्मुखं नाम शस्त्रं तद्वत्-कुशाटातुल्यम्| तस्य-अन्तर्मुखस्य, फलं सार्धमङ्गुलं स्यात्| तथा-कुशाटातुल्यमेतदपि, अर्धचन्द्रास्यसंज्ञं शस्त्रम्| चः समुच्चये भिन्नक्रमे|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्तर्मुखमाह-तद्वदिति| तद्वत्-स्राव्ये|
Adhikarana १३ व्रीहिमुखं शस्त्रं (११) · Śloka ११
तथाध्यर्धाङ्गुलं फले| व्रीहिवक्त्रं प्रयोज्यं च तच्छिरोदरयोर्व्यधे||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-व्रीहिवक्त्रमप्यध्यर्धाङ्गुलं फले स्यात्| तच्च शिराव्यध उदरव्यधे च योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-व्रीहिमुखमाह-तथेति|
Adhikarana १४ कुठारी शस्त्रम् (१२) · Śloka १२
पृथुः कुठारी गोदन्तसदृशार्धाङ्गुलानना| तयोर्ध्वदण्डया विध्येदुपर्यस्थां स्थितां शिराम्||१२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कुठारी नाम शस्त्रं पृथुः-विस्तीर्णसंस्थानदण्डा| तथा, गोदन्तसदृशमर्धाङ्गुलमाननं यस्याः सैवम्| तया-कुठारिकया, ऊर्ध्वदण्डया सत्या शिरामस्थ्नामुपरि स्थितां विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कुठारीमाह-पृथुरिति| कुठार्याः कार्यमाह-तयेति|
Adhikarana १५ शलाका शस्त्रम् (१३) · Śloka १३
ताम्री शलाका द्विमुखी मुखे कुरुबकाकृतिः| लिङ्गनाशं तया विध्येत्|१३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ताम्रमयी शलाका द्विमुखी स्यात्| सा च मुखे कुरुबकाकृतिः-रक्तसहचरपुष्पमुकुलाकारा स्यात्| तया शलाकया, लिङ्गनाशं-कफोत्थपटलसंज्ञं, विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० रं०-शलाकामाह-ताम्रीति| कुरुबकं-कुरण्टकमुकुलम्|
Adhikarana १६ अङुलीशस्त्रम् (१३-१५) · Śloka १५
| कुर्यादङ्गुलिशस्त्रकम्||१३|| मुद्रिकानिर्गतमुखं फले त्वर्धाङ्गुलायतम्| योगतो वृद्धिपत्रेण मण्डलाग्रेण वा समम्||१४|| तत्प्रदेशिन्यग्रपर्वप्रमाणार्पणमुद्रिकम्| सूत्रबद्धं गलस्रोतोरोगच्छेदनभेदने||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अङ्गुलिशस्त्रकं कुर्यात्| कीदृशम् ? मुद्रिकया-ऊर्मिकया, निर्गतं-निष्क्रान्तं, मुखं यस्य तन्मुद्रिकानिर्गतमुखम्| फले तु-तस्मिन्मुखे, अर्धाङ्गुलदीर्घम्| योगतः-संस्थानेन, वृद्धिपत्रेण मण्डलाग्रेण वा तुल्यम्| कियत्प्रमाणाऽस्य मुद्रिका कार्या ? इत्याह-तत्प्रदेशिन्यग्रेत्यादि| तस्य-वैद्यस्य, या प्रदेशिनी तस्या यदग्रपर्व तस्य यत्प्रमाणं तेनार्प्यत इति तत्प्रदेशिन्यग्रपर्वप्रमाणार्पणी-भिषक्तर्जन्यग्रपर्वप्रवेशाग्रच्छिद्रा, मुद्रिका यस्मिन् तत् तत्प्रदेशिन्यग्रपर्वप्रमाणार्पणमुद्रिकम्| तथा, सूत्रेण बद्धं-सूत्रबद्धम्, सूत्रेण बद्ध्वा मणिबन्धे योज्यमित्यर्थः| गलस्रोतोरोगाणां छेदने भेदने च तद्योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अङ्गुलिशस्त्रकमाह-कुर्यादिति| मुद्रिकानिर्गतमुखं-कण्ठस्थमुद्रिकम्| योगतः-स्थानरोगयोग्यतानुसारेण विकल्प्य|
Adhikarana १७ बडिशं शस्त्रम् (१६) · Śloka १६
ग्रहणे शुण्डिकार्मादेर्बडिशं सुनताननम्| |१६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बडिशं नाम शस्त्रं शुण्डिकार्मादेर्ग्रहणे योज्यम्| आदिशब्देन प्रतिजिह्विकादेर्ग्रहणम्| कीदृशं तत् ? सुनतं-अङ्कुशवदानतं, आननं-मुखं, यस्य तदेवम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बडिशमाह-ग्रहण इति|
Adhikarana १८ करपत्रं शस्त्रम् (१६-१७) · Śloka १७
| छेदेऽस्त्थ्नां करपत्रं तु खरधारं दशाङ्गुलम्||१६|| विस्तारे द्व्यङ्गुलं सूक्ष्मदन्तं सुत्सरुबन्धनम्| |१७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-करपत्रं नाम शस्त्रं खरधारं, तथा दशाङ्गुलं दैर्घ्येण, द्व्यङ्गुलं विस्तारेण, सूक्ष्मा दन्ता यस्य तत्सूक्ष्मदन्तम्| तथा, त्सरुः-मुष्टिः, बन्धनं-ग्रहणम्, शोभने त्सरुबन्धने यस्य तत् सुत्सरुबन्धनम्| अभिधानकोशे यद्यपि 'त्सरुः-असिमुष्टिः' इत्यभ्यधायि, तथाऽपि मुष्टिमात्रस्येहोपलक्षणार्थत्वात् मुष्टावप्युपपन्नमेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-करपत्रमाह-छेदेऽस्थ्नामिति| सुष्ठु त्सरुबन्धनं ग्रहणार्थं यस्य|
Adhikarana १९ कर्तरी शस्त्रम् (१७) · Śloka १७
| स्नायुसूत्रकचच्छेदे कर्तरी कर्तरीनिभा||१७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कर्तरी नाम शस्त्रं कर्तरीसदृशं स्नाय्वादिच्छेदे योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- कर्तरीमाह-स्रायुसूत्रकचच्छेद इति|
Adhikarana २० नखशस्त्रम् (१८) · Śloka १८
वक्त्रर्जुधारं द्विमुखं नखशस्त्रं नवाङुलम्| सूक्ष्मशल्योद्धृतिच्छेदमेदप्रच्छानलेखने||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नखशस्त्रं-नखच्छेदकं, प्रसिद्धम्| तच्च वक्त्रा ऋजुश्च धारा यस्य तदेवम्| तस्यैकं मुखं वक्त्रमन्यदृजु-स्पष्टम्| तथा, नवाङ्गुलं-नवाङुलप्रमाणम्, न तु षडङ्गुलम्| एतच्च सूक्ष्मशल्यस्य-कण्टकादेरुद्धरणदौ नखच्छेदने भेदने { प्रच्छाने लेखने } च योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नखशस्त्रमाह-वक्रर्जुधारमिति| नवाङ्गुलं न तु षडङ्गुलम्| नखच्छेदनकं-प्रसिद्धम्| वक्रर्जुधारं एकस्मिन्मुखे वक्रा धारा, अन्यस्मिन् ऋजुः|
Adhikarana २१ दन्तलेखनकं शस्त्रम् (१९) · Śloka १९
अधुना दन्तलेखनशस्त्रमाह एकधारं चतुष्कोणं प्रबद्धाकृति चैकतः| दन्तलेखनकं तेन शोधयेद्वन्तशर्कराम्||१९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एकधारं-एकस्मिन् प्रदेशे { धारा यस्य तदेवम्| } तथा, चतुष्कोणम्| तथा, एकतः-एकस्मिन्देशे प्रबद्धा आकृतिर्यस्य तत्| तद्दन्तलेखनकं नाम शस्त्रम्| तेन दन्तशर्करां शोधयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अधुना सूचीशस्त्रमाह-दन्तलेखनमाह-एकधारमिति| प्रबद्धवत्-वेष्टितवत्, आकृतिर्यस्य तत् प्रबद्धाकृति|
Adhikarana २२ सूचीत्रयं शस्त्रम् (२०-२२) · Śloka २२
अधुना सूचीशस्त्रमाह वृत्ता गूढदृढाः पाशे तिस्रः सूच्योऽत्र सीवने| मांसलानां प्रदेशानां त्र्यस्रा त्र्यङ्गुलमायता||२०|| अल्पमांसास्थिसन्धिस्थव्रणानां द्व्यङ्गुलायता| व्रीहिवक्त्रा धनुर्वक्त्रा पक्वामाशयमर्मसु||२१|| सा सार्धद्व्यङ्गुला| |२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अत्र-एषु शस्त्रेषु मध्ये, सीवने-सीवनविषये, तिस्रः सूच्यः स्युः| किम्भूताः ? वृत्ताः-वर्तुलाः, पाशे गूढास्तथा दृढाः सारत्वात्| आसां च प्रत्येकं संस्थानविशेषेण विशेषोपयोगमाह- स०-मांसलानां-बहुमांसानां, शरीरदेशानां त्र्यस्रा मुखे सूची स्यात्| सङ्ग्रहेऽप्यवोचत् (सू.अ.३४)-"त्र्यस्राग्रा" इति| त्र्यस्रेति चिन्त्यम्| तथा, त्र्यङ्गुलमायता-त्र्यङ्गुलदीर्घा| वृत्तत्वं दृढपाशत्वं चोक्तमेव सामान्यलक्षणेन| स०-अल्पमांसानां व्रणानां सन्ध्यस्थिसंश्रितानां च द्व्यङ्गुलमायता-दीर्घा| वृत्तमुखत्वं चास्याः सामान्येनोक्तम्| तृतीयामाह- स०-व्रीहिमुखा, चापवत् कुटिला, दैर्घ्येण द्वेऽङ्गुले सार्धे स्यात्| सा च पक्वाशय आमाशये मर्मसु च व्रणानां सीवने योज्या|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सूचीत्रयमाह-वृत्ता इति| पाशे-छिद्रस्थाने, गूढा दृढाश्च| आ० र०-तत्र त्र्यङ्गुलां सूचीमाह-मांसलानामिति| आ० र०-द्व्यङ्गुलां सूचीमाह-अल्पमांसेति| आ० र०-सार्द्ध्यङ्गुलां सूचीमाह-व्रीहिवक्रेति|
Adhikarana २३ कूर्चः शस्त्रम् (२२-२३) · Śloka २३
अधुना कूर्चं लिलक्षयिषुराह सर्ववृत्तास्ताश्चतुरङ्गुलाः| कूर्चो वृत्तैकपीठस्थाः सप्ताष्टौ वा सुबन्धनाः||२२|| स योज्यो नीलिकाव्यङ्गकेशशातेषु कुट्टने| |२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ताः-सूच्यः, सर्वतो वर्तुला दैर्घ्येण चतुरङ्गुलाः कूर्च इत्युच्यते| किम्भूताः ? वृत्त एकस्मिन् पीठे संस्थिताः| तथा, सप्तसङ्ख्या अष्टौ वा| तथा, शोभनं बन्धनं यासां ताः सुबन्धनाः| अत एवेदं शस्त्रं सूचीकूर्चसंज्ञं शंसन्ति| तथा चार्शश्चिकित्सिते जगाद (हृ. चि. अ. ८|२९)- "अर्शोभ्यो जलजश्शस्त्रसूचीकूर्चैः" इत्यादि| स च-सुबद्धसप्ताष्टसूचीकः कूर्चो, नीलिकादिषु च कुट्टनविषये योज्यः| उपलक्षणार्थत्वाच्चास्य(सौ) श्वित्रेन्द्रलुप्तादिष्वपि योज्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कूर्चमाह-सर्ववृत्ता इति| सर्ववृत्ताः-पाशरहिताः, ताः-सूच्यः, वृत्तएकस्मिन् पीठे निखाताः|
Adhikarana २४ खजः शस्त्रम् (२३-२४) · Śloka २४
| अर्धाङ्गुलमुखैर्वृत्तैरष्टाभिः कण्टकैः खजः||२३|| पाणिभ्यां मथ्यमानेन घ्राणात्तेन हरेदसृक्| |२४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अष्टाभिः कण्टकैः खज उच्यते| कीदृशैः ? अर्धाङ्गुलप्रमाणं मुखं येषां तैः, तथा वर्तुलैः| तेन-खजेन, हस्ताभ्यां विलोड्यमानेन, नासिकातोऽस्त्रं हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-खजमाह-अर्द्धाङ्गुलमुखैरिति|
Adhikarana २५ कर्णवेव्यधनं शस्त्रम् (२४) · Śloka २४
| व्यधनं कर्णपालीनां यूथिकामुकुलाननम्||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कर्णपालीनां व्यधने यूथिका नाम शस्त्रं स्यात्| कीदृशी ? मुकुलानना|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कर्णव्यधनमाह-व्यधनमिति|
Adhikarana २६ आरा शस्त्रम् (२५-२६) · Śloka २६
आराऽर्धाङ्गुलवृत्तास्या तत्प्रवेशा तथोर्ध्वतः| चतुरस्रा, तया विध्येच्छोफं पक्वामसंशये||२५|| कर्णपालीं च बहलां| |२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अर्धाङ्गुलप्रमाणं वृत्तं आस्यं-मुखं, यस्याः साऽर्धाङ्गुलवृत्तास्या| तथा, स एव-अर्धाङ्गुलप्रमाणः प्रवेशो यस्याः सा तत्प्रवेशा| तथोर्ध्वत इति वृत्तार्धाङ्गुलादुपरिष्टात् तथैव-अर्धाङ्गुलप्रमाणैव चतुरस्रा स्यात्| सा आरानाम शस्त्रम्| तया आरया, शोफं विध्येत्| कदा ? पक्वामसंशये,-किमयं पक्वः शोफ उताम इति सन्देहे| बहलां च कर्णपलीं तया विध्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आरामाह-आरेति| तत्प्रवेशा-अर्द्धाङ्गुलप्रवेशा| ऊर्ध्वतः-वृत्तान्मुखादूर्ध्वं, चतुरस्रा| पक्वामसंशयेपक्वत्वामत्वसन्देहे| बहलां-घनाम्|
Adhikarana कर्णवेधनी सूची (२६) · Śloka २६
बहलायाश्च शस्यते| सूची त्रिभागसुषिरा त्र्यङ्गुला कर्णवेधनी||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बहलायाः-अतिमांसलायाः कर्णपाल्याश्च, सूची शस्यते,-न केवलमारा| कीदृशी सूची ? त्रिभागः-प्रान्तभागात् सुषिरो यस्याः सैवम्| तथा, त्र्यङ्गुला-दैर्घ्येण| सा च कर्णवेधनी स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बहलकर्णपालीव्यधनार्थं सूचीमाह-बहलायाश्चेति|
Adhikarana अनुशस्त्राणि (२७-२८) · Śloka २८
जलौकःक्षारदहनकाचोपलनखादयः| अलौहान्यनुशस्त्राणि, तान्येवं च विकल्पयेत्||२७|| अपराण्यपि यन्त्रादीन्वुपयोगं च यौगिकम्| |२८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जलौकःप्रभृतयोऽनुशस्त्राणि रक्तस्रावकार्यकारणात्| तानि चालौहानि-लोहवर्जितानि| आदिशब्देनायस्कान्तशाकशोफालिकादिखरपत्रादीनां ग्रहणम्| एवं चोक्तेन न्यायेनान्यान्यपि यन्त्रादीनि विकल्पयेत्| आदिशब्देन शस्त्राणां ग्रहणम्| उपयोगं च यौगिकं-साधुतरं, बुद्ध्या निरूपयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनुशस्त्राण्याह-जलौक इति| उक्तेभ्यः शस्त्रयन्त्रेभ्योऽन्यान्यपि स्वबुद्ध्या कल्प्यानीत्याह-तान्येवमिति| तानि-शस्त्रानुशस्त्राणि, यन्त्रादीनियन्त्रानुयन्त्राणि, तेशां योग्यमुपयोगं च, विकल्पयेत्|
Adhikarana शस्त्र कार्याणि (२८-२९) · Śloka २९
| उत्पाट्यपाट्यसीव्यैष्यलेख्यप्रच्छानकुट्टनम्||२८|| छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश्च तत्क्रियाः| |२९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उत्पाट्यादीनि तत्क्रियाः,-तेषां-षड्विंशतिशस्त्राणां, क्रियाः-कर्माणि, तत्क्रियाः| { तानि षड्विंशतिशस्त्राणि सङ्ग्रहोक्तानि (सू. अ. ३४)- "तद्यथा-दन्तलेखनमण्डलाग्रवृद्धिपत्रोत्पलपत्राध्यर्धधारमुद्रिकाकर्तरीसर्पवक्त्रकरपत्रकुशपत्राटामुखा-न्तर्मुखशरारिमुखत्रिकूर्चकूठारिकाव्रीहिमुखशलाकावेतसपत्राराकर्णव्यधनसूचीसूचीकुर्चखजैषणी-बडिशनखशस्त्राणि|" इति| } उत्पाट्यं-उद्धार्यम्, तत्र नखशस्त्रं प्रयोज्यम्| पाटने वृद्धिपत्रादि| सीवने सूच्यः| लेखने मण्डलाग्रादिः| प्रच्छाने नखशस्त्रादि| कुट्टने कूर्चः| छेदने उत्पलपत्रादि| भेदने एषणी सूचीमुखा| व्यधने वेतसादि| मन्थने खजः| ग्रहे सन्दंशः| दाहे शलाकादिरिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- शस्त्रदोषानाह-शस्त्रकार्याणि गणयति-उत्पाट्येति| उत्पाठ्यं-उत्पाटनम्, भावे यत्प्रत्ययः| एवं पाठ्यादिषु| सीव्यं-सीवनम्|
Adhikarana शस्त्रदोषाः (२९-३०) · Śloka ३०
शस्त्रदोशानह | कुण्ठखण्डतनुस्थूलह्रस्वदीर्घत्ववक्रताः||२९|| शस्त्राणां खरधारत्वमष्टौ दोषाः प्रकीर्तिताः| |३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्पष्टम्
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शस्त्रदोषानाह-कुण्ठखण्डेति| ते च दोषा अन्यत्र करपत्रात्|
Adhikarana शस्त्रग्रहणविधिः (३०-३२) · Śloka ३२
अधुना शस्त्राणां ग्रहणविधिं दर्शयति | छेदभेदनलेख्यार्थं शस्त्रं वृन्तफलान्तरे||३०|| तर्जनीमध्यमाङ्गुष्ठैर्गृह्णीयात्सुसमाहितः| विस्रावणानि वृन्ताग्रे तर्जन्यङ्गुष्ठकेन च||३१|| तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे| मूलेष्वाहरणार्थानि क्रियासौकर्यतोऽपरम्||३२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-छेदभेदनलेख़्यार्थं तर्जनीमध्यमाङ्गुष्ठैर्मिलितैः शस्त्रं वृन्तफलान्तरे-वृन्तफलमध्यभागे, गृह्णीयात्| कीदृक् ? सुसमाहितः,-तद्गतमनाः| विस्रावणकार्याणि शरार्यास्यादीनि शस्त्राणि वृन्ताग्रे तर्जन्यङ्गुष्ठाभ्यां गृह्णीयात्| गृह्णीयादित्यनुवर्तते| तलशब्देन पाणितलमुच्यते, आदिलोपाख़्यया तन्त्रयुक्त्या| तलेन प्रच्छ्हन्नं वृन्ताग्रं यस्य तत् व्रीहिमुख़ं मुख़े गृह्णीयात्| शेषं शस्त्रं क्रियासौकर्यतो गृह्णीयात्| सुकरस्य भावः सौकर्यम्| यथा सुकरा पाटनादिका क्रिया स्यात्तथाऽऽददीतेत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शस्त्रकोशमाचष्टे-शस्त्रधारणविधिमाह-छेदभेदनेति| छेदनादिकर्मणि वृन्तफलयोर्मध्ये तर्जन्यादिभिर्मिलितैः शस्त्रं गृह्णीयात्| विस्रावणे तु तर्जन्यङ्गुष्ठाभ्यां वृन्ताग्रे गृह्णीयात्| व्रीहिमुख़ं तु पाणितलेन वृन्ताग्रं प्रच्छाद्य मुख़े ग्राह्यम्| आहारणे तु शस्त्रं मूले ग्राह्यम्| पाशस्योपरि मध्ये लग़ुसन्दंशः कर्तरी च| शेषेषु तु कर्मसु यत्र गृहीते क्रियासौकर्यं तत्र ग्राह्यम्|
Adhikarana शस्त्रकोशः (३३-३४) · Śloka ३४
शस्त्रकोशमाचष्टते स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः| क्षौ मपत्रोर्णकौशेयदुकूलमृदुचर्मजः||३३|| विन्यस्तपाशः सुस्यूतः सान्तरोर्णार्स्थशस्त्रकः| शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः||३४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नवाङ्गुलविस्तारः शस्त्रकोशः स्यात्| तथा, सुष्ठु घनोनिबिडः| तथा, द्वादशाङ्गुलप्रमाणो दैर्ध्येण| तथा, क्षौ मादिजः| तथा, विन्यस्तः-कृतः, पाशो यस्य स विन्यस्तपाशः| तथा, सुष्ठु स्यूतः| तथा, सान्तराणि-सव्यवधानानि, ऊर्णास्थानि शस्त्राणि यस्मिन् स सान्तरोर्णास्थशस्त्रकः| तथा, शलाकया पिहितं-स्थगितं, आस्यं यस्य स एवम्| तथा, शोभनः सञ्चयो यस्य स सुसञ्चयः, नापितभाण्डिकावत्| तन्त्रान्तरे चोक्तम् "निशानी तु शस्त्राणां श्लक्ष्णा शिलिका माषमुद्गप्रभा" इत्यादि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सुकुमारबालानामस्त्रविस्रावणार्थं जलौकसो निर्दिदिक्षुराह-शस्त्रस्थापनार्थं शस्त्रकोशमाह-स्यादिति| सङ्ग्रहे तु (सू.अ. ३४)-"हस्त एव चात्र प्रधानतमस्तदधीनत्वाद्यन्त्रशस्त्राणाम्| तत्र क्षारेण पायितं शस्त्रं शरशल्यास्थिच्छेदनेषु, उदकेन मांसच्छेदने, तैलेन पाटनभेदनशिराव्यधस्नायुच्छेदनेषु च प्रयुञ्जीत| धारा पुनर्भेदनानां मासूरी, लेख़नानामर्धमासूरी, व्यधनानां विस्रावणानां च कैशिकी, छेदनानामर्धकैशिकी| निशानी तु तेषां श्लक्ष्णा शिलिका माषमुद्गप्रभा| धारासंस्थापनं च शाल्मलीफलकम्| अथ योग्या| न चाधिकृतशास्त्रेऽप्यकृतयोग्यः, योग्या-अभ्यासः, सुबहुशो वाऽप्यदृष्टकर्मा शस्त्रकर्मणि प्रवर्तेत, शिरास्नायुमर्मादिव्याप्तत्वाद्देहस्य| तस्मात् सरोमचर्मपुष्पफलालाबुत्रपुसोदकपङ्कपूर्णदृतिबस्तिवध्रमांसपेशिकोत्पलनालादिषु यथार्हमाहरणादियोग्यां कुर्यात्| तथा ग़टपार्श्वस्रोतस्यम्भोभिः परिपूर्णेन नेत्रेण बस्तिपीडनयोग्याम्| मृदुमांसख़ण्डेष्वग्निक्षारावचरणयोग्याम्| पुस्तमयपुरुषाङ्गप्रत्यङ्गेषु बन्धनयोग्याम्| अपि च| युक्तकारी भिषग्बुभूषुः पुरुषं सम्पूर्णगात्रमविषहतमदीर्ग़व्याधिपीडितं निष्कृष्टान्त्रमवहन्त्यामापगायां मुञ्जबल्वजवेष्टितं पञ्जरस्थमप्रकाशे देशे कोथयेत्| तं सम्यक्प्रकुथितं चोद्धृत्यायतदेहं कृत्वोशीरवेणुकूर्चादीनामन्यतमेन शनैःशनैरवग़ृष्य त्वगादीन् सर्वानेव वाह्याभ्यन्तरानङ्गसिरास्राय्वादीनवयवानाचार्योपदर्शितेनागमेन चक्षुषा च लक्षयेत्| इति शास्त्रेण यद्दृष्टं दृष्टं प्रत्यक्षतश्च यत्| समागतं तदुभयं भूयो ज्ञानं विवर्धयेत्||" इति|
Adhikarana जलौकसां विषयः (३५) · Śloka ३५
सुकुमारबालानामस्रविस्रावणार्थं जलौकसो योजयेत् जलौकसस्तु सुखिनां रक्तस्रावाय योजयेत्| |३५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सुखिनां-सुखोचितानां, रक्तस्रावणार्थं जलौकसो योजयेत्| ताश्च द्विप्रकाराः,-सविषानिर्विषाश्च| तत्र सविषाणां सापायत्वात्ता एव तावल्लक्षयति-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जलौकसां विषयमाह-जलौकसस्त्विति|
Adhikarana वर्ज्या जलौकसः (३५-३७) · Śloka ३७
ताश्च द्विप्रकाराः,- सविषा निर्विषाश्च| तत्र सविषाणां सापायत्वात्ता एव तावल्लक्षयति | दुष्टाम्बुमत्स्यभेकाहिशवकोथमलोद्भवाः||३५|| रक्ताः श्वेता भृशं कृष्णाश्चपलाः स्थूलपिच्छिलाः| इन्द्रायुधविचित्रोर्ध्वराजयो रोमशाश्च ताः||३६|| सविषा वर्जयेत्| |३७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुष्टाम्बूद्भवाश्च जलौकसः सविषा इति वर्जयेत्| तथा मत्स्यभेकसर्पादिशवकोथोद्भवाः, तथा तेषामेव मत्स्यादीनां ये मलाः-मूत्रपुरीषादयः, तदुद्भवाश्च सविषा इति वर्जयेत्| सविषाणां लक्षणमाह-रक्ता इत्यादि| यावल्लोमशा यास्ताः सविषा यतः, ततो वर्जयेत्-ता न योजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वर्ज्यां जलौकस आह-दुष्टाम्त्र्विति| दुष्टाम्बुनि मत्स्यादिशवकोथमलेषु च जाताः|
Adhikarana वर्ज्याप्रयोगे दोषः वर्ज्यादोषे चिकित्सा (३७) · Śloka ३७
ताभिः कण्डूपाकज्वरभ्रमाः| विषपित्तास्रनुत्कार्यं तत्र|३७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ताभिर्हि योजिताभिः कण्ड्वादयः स्युः| उपलक्षणं चेदम्| दाहशोषमूर्च्छादयोऽपि स्युः| { तत्र- } तासु मोहाद्योजितासु, विषादिजित् कार्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वर्ज्याप्रयोगे दोषमाह-ताभिरिति| वर्ज्यादोषे चिकित्सामाह-विषपित्तास्रनुदिति|
Adhikarana ग्राह्या जलौकसः (३७-३८) · Śloka ३८
| शुद्धाम्बुजाः पुनः||३७|| निर्विषाः शैवलश्यावा वृत्ता नीलोर्ध्वराजयः| कषायपृष्ठास्तन्वङ्ग्यः किञ्चित्पीतोदराश्च याः||३८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जलौकस इत्यनुवर्तते| शुद्धजलोद्भवाः (शुद्धाम्बुजाः)-सौगन्धिकोत्पलकमलविपुलसलिलशैवालजा जलौकसो, निर्विषाः स्युः| आसां च लक्षणमाह-शैवलेत्यादि| शैवलमिव श्यावाः, तथा वृत्ताः, तथा नीलोर्ध्वराजयः, तथा कषायं-न्यग्रोधादिवल्कलसदृशवर्णं, पृष्ठं यासां ता एवम्, तथा तनुशरीराः किञ्चित्पीतवर्णजठराश्च निर्विषा वेद्याः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ग्राह्या जलौकस आह-शुद्धाम्बुसम्भवा इति|
Adhikarana ग्राह्यास्वपि मत्ता वर्ज्याः (३९) · Śloka ३९
ता अप्यसम्यग्वमनात् प्रततं च निपातनात्| सीदन्तीः सलिलं प्राप्य रक्तमत्ता इति त्यजेत्||३९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-निर्विषा अपि जलौकसो रक्तमत्ता इति त्यजेत्| न केवलं सविषा इति प्रतिपादनार्थोऽपिशब्दः| रक्तमत्तत्वे हेतुद्वयमाह-असम्यग्वमनात्, दुष्टरक्तस्येति शेषः| प्रततं च लागनात्, दुष्टरक्तवासित्वेन रक्तमत्ता इत्युक्ताः| ताश्च कथं लक्ष्यन्ते ? इत्याह-सीदन्तीरित्यादि| जलं (सलिलं) प्राप्यतोयपूर्णभाण्डमासाद्य, सीदन्तीः-न तथा चेष्टमानाः, इति ज्ञात्वा त्यजेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ग्राह्यास्वपि मत्ता वर्ज्या इत्याह-ता इति| प्रततं निपातनात्-अविश्रमय्य प्रयोगात्| सीदन्तीः-श्रममत्यजन्तीः| रक्तमत्ता इति- रक्तमत्तत्वाद्धेतोः|
Adhikarana जलौकसां प्रयोगः (४०-४१) · Śloka ४१
अथेतरा निशाकल्कयुक्तेऽम्भसि परिप्लुताः| अवन्तिसोमे तक्रे वा पुनश्चाश्वासिता जले||४०|| लागयेद्दृतमृत्स्तन्यरक्तशस्त्रनिपातनैः| पिबन्तीरुन्नतस्कन्धाश्छादयेन्मृदुवाससा||४१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथ-परिक्षातोऽनन्तरं, इतरा लागयेत्| किम्भूताः ? हरिद्राकल्कयुक्तजले परिप्लुताः, काञ्जिके कालशेये वा परिप्लुताः, पुनश्च जले समाश्वासिताः-सात्म्यभूते जले प्लवनार्हाः सोत्साहाः सतीः, योजयेत्| अलगन्तीः कथं लागयेत् ? इत्याह-घृतेत्यादि| घृतादिपातनैस्ता योजयेत्| पातनशब्दः प्रत्येकं योज्यः| शस्त्रेणाङ्गे रक्तं मोक्षयित्वा वा त योजयेत्| ताश्च पिबन्तीः सूक्ष्मवाससाऽऽच्छादयेत्| एवं हि तासां मक्षिकाद्यनुपद्रवात् सम्यग्योजना स्यात्| अथ किमेताः पिबन्त्युत नेति कथं ज्ञायते ? इत्यत्र विशेषणद्वारेण हेतुमाह-उन्नतस्कन्धा इति| उन्नतः स्कन्धो यासां ता एवम्| उन्नतस्कन्धत्वेन तासां पानं ज्ञायत इत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ननु, शुद्धरक्तदुष्टरक्तयोरेकल्कीभूतत्वात् शुद्धरक्ताकर्षणाज्जालौका दोषाय स्यादित्याह-जलौकसां प्रयोगमाह-अथेतरा इति| इतराः-अवर्ज्याः| अवन्तिसोमे-काञ्जिके| घृताद्यन्यतमेन प्रदेशमभ्यज्य शस्त्रेण वा प्रच्छाय लागयेत्|
Adhikarana जलौकाः प्रथमं दुष्टं रक्तं पिबति (४२-१) · Śloka १
सम्पृक्ताद्दुष्टशुद्धास्राज्जलौका दुष्टशोणितम्| आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकादिव||४२|| (गुल्मार्शोविद्रधीन् कुष्ठवातरक्तगलामयान्| नेत्ररुग्विषवीसर्पान् शमयन्ति जलौकसः| )||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुष्टशुद्धास्रान्मिलितादपि जलौका दुष्टरक्तमेव पूर्वमादत्ते, न शुद्धं देहधातुस्थम्, इति दृष्टान्तेन दर्शयति-हंस इत्यादि| हंसो यथा क्षीरजलान्मिश्रितात् प्राग्दुग्धमादत्ते न तु जलम्, तथा जलौकाः प्राग्शुद्धं रक्तमादत्ते पश्चादितरदिति न्याय्यमेतत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दुष्टशुद्धसम्पर्के जलौकाः प्रथमं दुष्टं पिबतीत्याह सम्पृक्तादिति|
Adhikarana जलौकसां मोक्षणकालः (४३) · Śloka ४३
दंशस्य तोदे कण्ड्वां वा मोक्षयेत्| |४३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दंशस्य तोदे सति कण्ड्वां सत्यां वा मोक्षयेत्, शुद्धरक्तरक्षार्थमतियोगभयाच्च| तामित्येकवचननिर्देशादेकैकां मोक्षयेत्, न तु सर्वाः सकृदेवेति गमयति| अथ पानलौल्यल्यादृशं, - न त्यजेत्ततो हरिद्राचूर्णं वा वदने दत्त्वा मोक्षयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जलौकसां मोक्षणकालमाह-दंशस्येति|
Adhikarana मोक्षितानां कृत्यम् (४३) · Śloka ४३
वामयेच्च ताम्| पटुतैलाक्तवदनां श्लक्ष्णकण्डनरूषिताम्||४३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मोक्षितां च जलौकसं वामयेत्| वमनविधानमाह पट्वित्यादि| सैन्धवयुतेन तैलेन रूषितास्यां तथा सूक्ष्मेण तण्डुलकण्डनेन रूषितां-अवकीर्णां, वामयेत्| तण्डुलशब्दस्यात्र लोपो ज्ञेयस्तन्त्रयुक्त्या|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मोक्षितानां कृत्यमाह-वामयेदिति| कण्डनं तुषः|
Adhikarana सप्ताहादर्वाक् जलौकसां पुनः प्रयो निषेधः (४४) · Śloka ४४
रक्षन् रक्तमदाद्भूयः सप्ताहं ता न पातयेत्| |४४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ताः-कृतवमना जलौकसो, रक्तमदाद्रक्षन् पुनः सप्ताहं न योजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सप्ताहादर्वाक् जलौकसां पुनःप्रयोगं निषेधति-रक्षन्निति|
Adhikarana जलौकसां सम्यग्वमनलक्षणम् (४४) · Śloka ४४
| पूर्ववत् पटुता दार्ढ्यं सम्यग्वान्ते जलौकसाम्||४४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जलौकसां सम्यग्वान्ते सति पूर्ववत्-अलागितानामिव, पटुतादि भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जलौकसां सम्यग्वमनलक्षणमाह-पूर्ववदिति|
Adhikarana अतिवान्ते लक्षणम् (४५) · Śloka ४५
क्लमोऽतियोगान्मृत्युर्वा| |४५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतियोगाद्वमनस्य क्लमो मृत्युर्वा स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अतिवान्ते लक्षणमाह-क्लम इति|
Adhikarana दुर्वान्ते लक्षणम् (४५) · Śloka ४५
दुर्वान्ते स्तब्धता मदः| |४५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुर्वान्ते सति स्तब्धता मदश्च स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दुर्वान्ते लक्षणमाह-दुर्वान्त इति|
Adhikarana जलौकसां पालनविधिः (४५-४६) · Śloka ४६
| अन्यत्रान्यत्र ताः स्थाप्या घटे मृत्स्नाम्बुगर्भिणि||४५|| लालादिकोथनाशार्थं, सविषाः स्युस्तदन्वयात्| |४६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ताश्चान्यस्मिन्नन्यस्मिन् घटे त्र्यहात् पञ्चाहाद्वा स्थाप्याः| किम्भूते ? मृत्स्नापृक्तेन जलेन गर्भिणि, तद्युक्त इत्यर्थः| प्रशस्ता मृत्-मृत्स्ना, "सस्नौ प्रशंसायाम्" इति स्नप्रत्ययः| अनेकभाजनस्थापने कोऽर्थः ? इत्याह-लालादिकोथनाशार्थम्| आदिशब्देन मूत्रपुरीषादीनां ग्रहणम्| लालादीनां_जलौकःसम्बन्धिनां, कोथः-कुथितत्वं क्लिन्नता, तन्नाशाय| तदन्वयात्-लालादियोगात्, ताः सविषाः स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जलौकसां पालनविधिमाह-अन्यत्रान्यत्रेति|
Adhikarana दंशापरिस्रावे स्त्रावणौषधम् (४६) · Śloka ४६
| अशुद्धौ स्रावयेद्दंशान् हरिद्रागुडमाक्षिकैः||४६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अशुद्धौ-अशुद्धलिङ्गानुमिते रक्ते सति, दंशान् हरिद्रादिभिः स्रावयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दंशापरिस्रावे स्रावणौषधमाह-अशुद्धाविति|
Adhikarana दंशस्त्रावानन्तरं कृत्यम् (४७) · Śloka ४७
शतधौताज्यपिचवस्ततो लेपाश्च शीतलाः| |४७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनन्तरं शतधौतघृतसम्पृक्ताः पिचवो 'योज्याः' इति शेषः| शतशब्दोऽनेकपर्यायः, बहुकृत्वो धौतमित्यर्थः| तथा, शीतला लेपाः-यष्टीचन्दनोशीरादिजाः, योज्याः| दंशस्थितचलितरक्तप्रसादनायेति भावः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दंशस्त्रावानन्तरं कृत्यमाह-शतधौतेति|
Adhikarana स्रावफलम् (४७) · Śloka ४७
| दुष्टरक्तापगमनात्सद्यो रागरुजां शमः||४७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुष्टरक्तस्यापगमनात्-निःसरणात्, सद्यो-द्रागेव, रागपीडाशान्तिर्भवति| उपलक्षणं चेदम्| श्वयथुशैथिल्यदाहशमोऽपि हि भवत्येव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्रावफलमाह-दुष्टरक्तापगमनादिति|
Adhikarana द्वितीयेऽह्नि पुनःस्रावः (४८) · Śloka ४८
अशुद्धं चलितं स्थानात्स्थितं रक्तं व्रणाशये| व्यम्लीभवेत्पर्युषितं तस्मात्तत्स्रावयेत्पुनः||४८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अशुद्धं रक्तं स्वाशयाच्चलितं व्रणस्थाने स्थितं पर्युषितं सत् व्यम्लीभवेद्यतः, तस्मात् तत्-रक्तं, भूयः स्रावयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-द्वितीयेऽह्नि पुनः स्रावमाह-अशुद्धमिति| अम्लीभवेत्-पाकोन्मुखं भवेत्|
Adhikarana अलाबुघटिकयोरविषयः (४९) · Śloka ४९
युञ्ज्यान्नालाबुघटिका रक्ते पित्तेन दूषिते| तासामनलसंयोगात्|४९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्ते पित्तेन दूषिते सति, अलाबुघटिका न लागयेत्| तासां-अलाबूनां घटिकानां च, अग्निसंयोगात् पित्तरक्तकोपोपपत्तेरिति भावः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अलाबुधघटिकयोरविषयमाह-युञ्ज्यान्नेति|
Adhikarana अलाबुघटिकयोर्विषयः (४९) · Śloka ४९
| युञ्ज्यात्तु कफवायुना||४९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तास्तु कफवातेन दुष्टेऽसृजि युञ्ज्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अलाबुघटिकयोर्विषयमाह-युञ्ज्यात्त्विति|
Adhikarana शृङ्गस्याविषयः (५०) · Śloka ५०
कफेन दुष्टं रुधिरं न शृङ्गेण विनिर्हरेत्| स्कन्नत्वात्|५०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफेन दुष्टं रक्तं सत् शृङ्गेण नाकर्षेत्| स्कन्नत्वात्स्त्यानत्वाद्धेतोः| शृङ्गस्य चाग्निसंयोगाभावेन कफविलयने सामर्थ्याभावात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शृङ्गस्याविषयमाह-कफेन दुष्टमिति|
Adhikarana शृङ्गस्य विषयः (५०) · Śloka ५०
| वातपित्ताभ्यां दुष्टम् शृङ्गेण निर्हरेत्||५०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातपित्ताभ्यां दुष्टं रुधिरं शृङ्गेण निर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शृङ्गस्य विषयमाह-वातपित्ताभ्यामिति|
Adhikarana प्रच्छानविधिः प्रच्छानस्य विषयः जलौकसां विषयः शृङ्गालाबुघटिकानां विषयः शिराव्यधस्य विषयः (५१-५३) · Śloka ५३
गात्रं बद्धोपरि दृढं रज्ज्वा पट्टेन वा समम्| स्नायुसन्ध्यस्थिमर्माणि त्यजन् प्रच्छानमाचरेत्||५१|| अधोदेशप्रविसृतैः पदैरुपरिगामिभिः| न गाढघनतिर्यग्भिर्न पदे पदमाचरन्||५२|| प्रच्छानेनैकदेशस्थं ग्रथितं जलजन्मभिः| हरेच्छृङ्गादिभिः सुप्तमसृग्व्यापि शिराव्यधैः||५३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गात्रं रज्ज्वा पट्टेन वा दृढं समं बद्धोपरि प्रच्छनीयप्रदेशस्य, तथा स्नाय्वादि परिहरन्, प्रच्छानं कुर्यात्| कथम् ? अधोदेशात्प्रविसृतैः-प्रवृत्तैः, पदैरुपरिगामिभिः-ऊर्ध्वप्रसारिभिः| किम्भूतैः पदैः ? न गाढैः-न खरैः, न घनैः-न निरन्तरैः, न च तिर्यग्भिः-तिरश्चीनैः| तथा, पदे पदं नाचरन्-पदस्योपरि पदमकुर्वन्नित्यर्थः| एकदेशस्थितं रक्तं प्रच्छानेनाकर्षेत्| ग्रथितं ग्रन्थ्यर्बुदादिषु रक्तं जलौकाभिरपहरेत्| सुप्तं-निश्चेतनं सत् स्थाने प्रसुप्त्यादिविकारि, शृङ्गादिभिर्हरेत्| व्यापि-सर्वशरीरस्य, लोहितं शिराव्यधैराकर्षेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रच्छानविधिमाह-गात्रमिति| पदैः-शस्त्रकृतैः| अधोदेशप्रविसृतैः-अधस्तादाकृष्टशस्त्रैरधोदेशमारभ्योर्ध्वमूर्ध्वं क्रियमाणैः| प्रच्छानस्य विषयमाह-प्रच्छानेनेति| जलौकसां विषयमाह-ग्रथितमिति| ग्रथितं-ग्रन्थीभूतम्| शृङ्गालाबुघटिकानां विषयमाह-शृङ्गादिभिरिति| सुप्तं अज्ञातस्पर्शम्| शिराव्यधस्य विषयमाह-व्यापीति| व्यापि-सर्वदेहस्थम्|
Adhikarana प्रच्छानस्य विषयान्तरम् (५४) · Śloka ५४
प्रच्छानं पिण्डिते वा स्यात्| |५४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिण्डिते रक्ते प्रच्छानं वा स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रच्छानस्य विषयान्तरमाह-प्रच्छानमिति| पिण्डिते-घने|
Adhikarana जलौकसां विषायान्तरम् (५४) · Śloka ५४
अवगाढे जलौकसः| |५४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अवगाढे रक्ते जलौकसः स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जलौकसां विषयान्तरमाह-अवगाढ इति| अवगाढे-गम्भीरे|
Adhikarana अलाब्वादीनां विषयान्तरम् (५४) · Śloka ५४
| त्वक्स्थेऽलाबुघटीशृङ्गम्|५४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्वक्स्थे-उत्ताने रक्ते, अलाबुघटीशृङ्गाणि स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अलाब्वादीनां विषयान्तरमाह-त्वक्स्थ इति|
Adhikarana शिराव्यधस्य नियतत्वम् (५४) · Śloka ५४
| शिरैव व्यापकेऽसृजि||५४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वशरीरव्यापके रक्ते शिरैव भवति| शिरायां मतविकल्पो नास्त्येवेत्येवशब्दार्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिराव्यधस्य नियतत्वमाह-शिरैवेति|
Adhikarana शृङ्गादीनां विषयान्तराणि (५५) · Śloka ५५
वातादिधाम वा शृङ्गजलौकोलाबुभिः क्रमात्| |५५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- अथवा वातादिस्थानस्थितं रक्तं यथाक्रमं शृङ्गादिभिर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शृङ्गादीनां विषयान्तराण्याह-वातादिधामेति|
Adhikarana स्रुतरक्तस्य शीतोपचारातिशये दोषः (२६) · Śloka २६
स्त्रतासृजः प्रदेहाद्यैः शीतैः स्याद्वायुकोपतः||५५|| सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत्| ५५ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शस्त्रवि- धिर्नाम षङ्विंशोऽध्यायः||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्रुतरक्तस्य नरस्य शीतलैः प्रलेपादिभिस्थोदकण्डूयुतः शोफो वातकोपात् स्यात्| तं-तादृशं शोफं, घृतेनोष्णेन सेचयेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीका- यां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने शस्त्रविधिर्नाम षड्विंशोऽध्यायः समाप्तः|| २६||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्रुतरक्तस्य शीतोपचारातिशये दोषमाहस्रुतासृज इति| उक्तदोषे प्रतीकारमाह-तमिति| सङ्ग्रहे तु (सू.अ. ३५)-"सर्वासां च परं प्रमाणमष्टादशाङ्गुलानि| तत्र चतुष्पञ्चषडङ्गुला नृषु योजयेत्| गजवाजिष्वपराः| तासु सुकुमारास्तनुत्वचोऽल्पशिरस्का बृहदधरकायाश्च स्त्रियः| विपरीताः पुमांसोऽर्द्धचन्द्राकृतिपुरोवृत्ताश्च| तत्र बहुदोषेषु चिरोत्थितेशु चामयेषु पुमांसो योजयितव्याः| स्त्रियो विपरीतेषु| जलौकसस्त्वार्द्रचर्माद्युपायैर्गृहीत्वा सुरभिपङ्कगर्भे नवे घटे स्थापयेत्| शृङ्गाटककसेरुकशालूकशैवालमृणालवल्लूरमृत्स्रापुष्करबीजचूर्णं स्वादुशीतं स्वच्छं च तोयमन्नपानार्थे ताभ्यो दद्यात्| लालादिकोथपरिहारर्थमेव च त्र्यहान्त्र्यहात् पुर्वमन्नपानमपनीयान्यद्दद्यात्| पञ्चाहाच्च तद्विध एव घटान्तरे ताः सञ्चारयेत्|" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| शस्त्रप्रकरणं नाम सामस्त्येन निरूपितम्|| २६||