Adhikarana अध्यायोपक्रमः · Śloka
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
शिराव्यधविधेरनन्तरं शल्याहरणविधिरारभ्यते| यतः सिराव्यधविध्यध्याये शल्यरूपस्य रक्तस्य सकलकायव्यापिनः सिराव्यधोपायेन निर्हरणमुक्तम्| इदानीं प्रादेशिकस्य लोहादेः शल्यस्य प्रतिदेशस्थितस्य लक्षणं निर्हरणोपायादिश्चास्मिन्नध्याये शल्याहरणविधौ निर्दिश्यत इत्याह-
Adhikarana शल्याहरणविधिरध्यायः शल्यगतिभेदाः (२-१) · Śloka १
अथातः शल्याहरणविधिमध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|
वक्रर्जुतिर्यगूर्ध्वाधः शल्यानां पञ्चधा गतिः|
|१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वक्रादिभेदभिन्ना शल्यानां पञ्चप्रकारा गतिः-गमनम्| कदाचिच्छल्यानि वक्रं कृत्वा, तिर्यग्वा ऊर्ध्वं वा, अधो वा, गच्छन्तिः कदाचिदृजु कृत्वा| एवमुभयथा तिर्यगूर्ध्वाधोभेदगमनाच्छल्यानां पञ्चधा गतिः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सशल्यं कथं वेद्यम् ? इत्याह-शल्याहरणविधिमध्यायं व्याख़्यातुं प्रतिजानीते-अथेति| शल्यगतिभेदानाह-वक्रर्ज्विति| सङ्ग्रहे तु (सू.अ.३७)-"त्रिविधः गतिः शल्यानामूर्ध्वमधस्तिर्यक् च| सा पुनः प्रत्येकमृजुवक्रभेदेन द्विविधा|" इति|
Adhikarana अन्तःशल्यस्य लक्षणम् (१-२) · Śloka २
|
ध्यामं शोफरुजावन्तं स्रवन्तं शोणितं मुहुः||१||
अभ्युद्गतं बुद्बुधवत्पिटिकोपचितं व्रणम्|
मृदुमांसं च जानीयादन्तःशल्यं समासतः||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एवंविधं व्रणमन्तःशल्यं जानीयात्| समासतःसङ्क्षेपेण| ध्यामं-श्यामवर्णम्| तथा, शोफरुजावन्तम्| तथा, मुहुः शोणितं स्रवन्तम्| तथा, अभ्युद्गतं-आभिमुख्येनोच्छ्रितमुन्नतम्| तथा, बुद्बुदेन तुल्यं वर्तते बुद्बुदवत्| तथा, पिटकैरुपचितं-व्याप्तम्| तथा, मृदुमांसं-कोमलमांसम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-इति सामान्येनान्तःस्थितस्य शल्यस्य लक्षणमभिधाय, त्वगादिगतस्य विशेषमाह-अन्तःशल्यस्य लक्षणमाह-ध्याममिति|
Adhikarana त्वग्गतशल्यस्य लक्षणम् (३) · Śloka ३
विशेषात्त्वग्गते शल्ये विवर्णः कठिनायतः|
शोफो भवति|३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विशेषेण पुनस्त्वग्गते शल्ये शोफो विवर्णस्तथा कठिनो दीर्घश्च स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्वग्गतशल्यस्य लक्षणमाह-विशेषादिति| विशेषादिति वचनात् सामान्यलक्षणमप्यत्र ज्ञेयम्|
Adhikarana मांसगतस्य लक्षणम् (३-४) · Śloka ४
|
मांसस्थे चोषः शोफो विवर्द्धते||३||
पीडनाक्षमता पाकः शल्यमार्गो न रोहति|
|४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मांसगते शल्ये चोषः स्यात्| 'सर्वाङ्गीणस्तीव्रोऽरतिमान् दाहश्चोष उच्यते' इत्याहुः| तथा शोफो विवर्द्धते| तथा, पीडनस्याक्षमत्वं पाकश्च, शल्यमार्गश्च रोहं न याति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसगतस्य लक्षणमाह-मांसस्थ इति| चोषः-आचूषणेनेव व्यथा|
Adhikarana पेशीगतस्य लक्षणम् (४) · Śloka ४
|
पेश्यन्तरगते मांसप्राप्तवच्छ्वयथुं विना||४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पेशीमध्यगते मांसगतेन तुल्यं लक्षणम्, शोथं वर्जयित्वा| मांसावयवविशेषो दीर्घतन्त्वाकृतिः पेशीत्युच्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पेशीगतस्य लक्षणमाह-पेश्यन्तरगत इति|
Adhikarana स्नायुगतस्य लक्षणम् (५) · Śloka ५
आक्षेपः स्नायुजालस्य संरम्भस्तम्भवेदनाः|
स्नायुगे दुर्हरं चैतत्|५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्नायुगे शल्ये स्त्रायुजालस्याक्षेपाद्याः स्युः| आक्षेपः-आकर्षणम्| संरम्भः-क्षोभः| स्तम्भः-स्तब्धता| वेदनाशूलम्| एतच्च-स्त्रायुगं शल्यं, दुःखेन हर्तुं शक्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्नायुगतस्य लक्षणमाह-आक्षेप इति| एतत्-स्नायुगतमन्येभ्यो दुर्हरं च|
Adhikarana सिरागतस्य लक्षणम् (५) · Śloka ५
|
सिराध्मानं सिराश्रिते||५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सिराश्रिते शल्ये सिराणामानाहः स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिरागतस्य लक्षणमाह-शिराध्मानमिति| शिराध्मानं-शिराणां वायुर्पूर्णत्वम्|
Adhikarana स्त्रोतोगतस्य लक्षणम् (६) · Śloka ६
स्वकर्मगुणहानिः स्यात्स्रोतसां स्रोतसि स्थिते|
|६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्रोतोगते शल्ये स्रोतसां स्वकर्मगुणयोर्हानिः स्यात्| यथा,-कण्ठस्रोतःस्थिते शल्ये पानाभ्यवहरणस्य निरोधो जायते गुणोऽपि यस्तस्याप्रदुष्टत्वादिलक्षणः सोऽप्यस्य हीयत इति| एवमन्येषां स्वकर्मगुणहानिर्व्याख्येया|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्रोतोगतस्य लक्षणमाह-स्वकर्मगुणहानिरिति| स्वकर्म-प्राणादीनां यथावद्वहनम्| स्वगुणो-मार्दवादिः|
Adhikarana धमनीगतस्य लक्षणम् (६-७) · Śloka ७
|
धमनीस्थेऽनिलो रक्तं फेनयुक्तमुदीरयेत्||६||
निर्याति शब्दवान् स्याच्च हृल्लासः साङ्गवेदनः|
|७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-धमनीस्थे शल्ये वायुर्लोहितं सफेनं प्रेरयेत्| तथा सशब्दो मरुन्निर्याति, हृल्लासश्चाङ्गपीडायुक्तः स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धमनीगतस्य लक्षणमाह-धमनीस्थ इति|
Adhikarana अस्थिसन्धिगतस्य लक्षणम् (७) · Śloka ७
|
सङ्घर्षो बलवानस्थिसन्धिप्राप्तेऽस्थिपूर्णता||७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्थिसन्धिप्राप्ते शल्ये बलवान् सङ्घर्षः-क्षोभः, स्यात्| तथा, अस्थिपूर्णता च जायते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अस्थिसन्धिगतस्य लक्षणमाह-सङ्गर्ष इति| बलवान् सङ्घर्षः-दुःसहसङ्घट्टनम्|
Adhikarana अस्थिगतस्य लक्षणम् (८) · Śloka ८
नैकरूपा रुजोऽस्थिस्थे शोफः|
|८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्थिस्थे शल्ये, अनेकाकाराः (नैकरूपाः)-नानाविधाः, रुजो- भग्नरूग्णमृदितपीडितावनुन्नप्रायाः स्युः, शोफश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अस्थिगतस्य लक्षणमाह-नैकरूपा इति|
Adhikarana सन्धिगतस्य लक्षणम् (८) · Śloka ८
तद्वच्च सन्धिगे|
चैष्टानिवृत्तिश्च भवेत्|८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सन्धिगते शल्ये तद्वदेव-अस्थिस्थशल्येन तुल्यं लक्षणम्| तथा, सन्धिस्थशल्याक्रान्तावयवस्य चेष्टानिवृत्तिः-व्यापारोपरमश्च भवति| पूर्वमस्थिसन्धिगतस्य शल्यस्य लक्षणमुक्तम्| अधुना शरीरसन्धिगतशल्यस्य लक्षणम्| अन्यो हि शरीरसन्धिः| तथा च राजयक्ष्मनिदाने वक्ष्यति (हृ. नि. अ. ५|५)-"शरीरसन्धीनाविश्य" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सन्धिगतस्य लक्षणमाह-तद्वदिति|
Adhikarana कोष्ठगतस्य लक्षणम् (८-९) · Śloka ९
|
आटोपः कोष्ठसंश्रिते||८||
आनाहोऽन्नशकृन्मूत्रदर्शनं च व्रणानने|
|९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०--कोष्ठसंश्रिते-उदराश्रिते शल्ये, आटोपः-क्षोभः तथाऽऽनाहो-जठराध्मानम्, तथा व्रणमुखेऽन्नशकृन्मूत्रदर्शनं च स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कोष्ठगतस्य लक्षणमाह-आटोप इति|
Adhikarana मर्मगतस्य लक्षणम् (९) · Śloka ९
|
विद्यान्मर्मगतं शल्यं मर्मविद्धोपलक्षणैः||९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मर्मस्थं शल्यं मर्मविद्धोपलक्षणैर्विद्यात्-जानीयात्| मर्मविद्धस्य च लक्षणं सङ्ग्रहे कथितम्| यथा (शा. अ. ७) "देहप्रसुप्तिर्गुरुता सम्मोहः शीतकामिता| स्वेदो मूर्च्छा वमिः श्वासो मर्मविद्धस्य लक्षणम्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मर्मगतस्य लक्षणमाह-विद्यादिति| उपलक्षणं लक्षणम्| तच्च "विद्धेऽजस्रमसृक्स्रावो" इत्यादिना शारीरके (हृ.शा. अ. ४/४७) वक्ष्यते|
Adhikarana त्वग्गतादीनां स्त्रावतो लक्षणम् (१०) · Śloka १०
यथास्वं च परिस्रावैस्त्वगादिषु विभावयेत्|
|१०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-न केवलं सामान्यलक्षणेन-ध्यामादिना, तथा त्वगादिस्थशल्यविशेषलक्षणेन, त्वगादिस्थं शल्यं लक्षयेत्| यावत् यथास्वं परिस्रावैस्तथाऽनुरूपैर्विभावयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्वग्गतादीनां स्रावतो लक्षणमाह-यथास्वमिति| यथास्वमिति यत्र यदाश्रित्तं द्रवं तत्र तत्स्रवति| यथा,- त्वग्गते लसीका, शिरादिगते रक्तम्, अस्थिगते मज्जा इत्यादि|
Adhikarana अन्तःशल्योऽपिरुढो व्रणः (१०) · Śloka १०
|
रुह्यते शुद्धदेहानामनुलोमस्थितं तु तत्||१०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्-प्राङ्निर्दिष्टं शल्यं, रुह्यते-रोहं याति| किम्भूतानां पुंसाम् ? वमनविरेचनादिभिः शुद्धदेहानाम्| रुह्यत इति कर्मकर्तरीति केचित्, तच्च न युक्तम्| यतः कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवति| न कर्तृस्थभावकानां न च कर्तृस्थक्रियाणामित्युक्तम्| रुहिश्च कर्तृस्थक्रियः| तस्मात् रोहतीति रुट्| रुडिवाचरतीति क्यङन्तोऽयम्| रूढाभासो ह्ययम्, न तु सम्यग्रूढः| तथा च वक्ष्यति-"दोषकोप" इत्यादि| तस्मादस्य रूढाभासत्वादेषैव व्युत्पत्तिर्युक्ता|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्तःशल्योऽपि स्वगुणेनैव रूढो व्रणो भवतीत्याह-रुह्यत इति| रुह्यते स्वयमेव| कर्मकर्तर्यात्मनेपदम्| तत्-शल्यम्| शल्येन शल्यक्षतं लक्ष्यते, तस्यैवरोपणार्हत्वात्|
Adhikarana रूढमपि शल्यं बाधते (११) · Śloka ११
दोषकोपाभिघातादिक्षोभाद्भूयोऽपि बाधते|
|११|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यतस्तच्छल्यमसम्यग्रूढत्वात् भूयोऽपि बाधते| प्राक्कृतबाधमपि पुनरपि पीडां जनयति| कुतो हेतोः ? इत्याह-दोषकोपश्चाभिघातश्च, तावादी येषां धावनलङ्घनादीनां ते एवं, तैः क्षोभः-संरम्भः, तस्मात्| दोषकोपक्षोभात् अभिघातादिक्षोभात् बाधते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्वगादिनष्टे शल्ये मिथ्यारूढत्वाददृश्यतां प्राप्ते सति शल्यपरिज्ञानार्थमिदमाह-अन्तःशल्यं रूढमपि पुनर्बाधत इत्याह दोषकोपेति|
Adhikarana त्वङ्नष्टशल्यस्योपायः (११-१२) · Śloka १२
|
त्वङ्नष्टे यत्र तत्र स्युरभ्यङ्गस्वेदमर्दनैः||११||
रागरुग्दाहसंरम्भा यत्र चाज्यं विलीयते|
आशु शुष्यति लेपो वा तत्स्थानं शल्यवद्वदेत्||१२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु त्वङ्नष्टादिषु शल्येषु मध्ये, त्वङ्नष्टं यत्र प्रदेशे स्यात् तत्र-तस्थाने, अभ्यङ्गादिभिर्लौहित्यशूलदाहक्षोभाः स्युः| यत्र वा स्थाने घृतं स्त्यानं योजितं विलीयते तत्स्थानं शल्यवत्-सशल्यं वदेत्| यद्वा लेपः-चन्दनादिना दत्तो, यत्राश्वेव शुष्यति, तत्स्थानं-त्वग्देशं, शल्यवज्जानीयात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ नष्टशल्यज्ञानोपायः| तत्र त्वङ्नष्टस्योपायमाह-त्वङ्नष्ट इति|
Adhikarana मांसनष्टस्योपायः (१३) · Śloka १३
मांसप्रणष्टं संशुद्ध्या कर्शनाच्छ्लतता गतम्|
क्षोभाद्रागादिभिः शल्यं लक्षयेत्|१३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मांसप्रणष्टं-मांसेनादृश्यतां प्राप्तं, संशुद्ध्या-वमनविरेचनादिकया, यत्कर्शनं-कृशत्वं कृतं, तस्मात् श्लथतां शिथिलत्वं प्राप्तं, क्षोभात्- अनेकप्रकाराद्वेदनारूपात्, तथा रागादिभिर्लक्षयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मांसनष्टस्योपायमाह शल्यस्य क्षोभाद्यत्र रागादयस्तत्र शल्यम्|
Adhikarana पेश्यादिषु नष्टस्योपायः (१३-१४) · Śloka १४
|
तद्वदेव च||१३||
पेश्यस्थिसन्धिकोष्ठेषु नष्टम्|
|१४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तद्वदिति तेन-मांसप्रणष्टेन, तुल्यं वर्तते| यथा,-शुद्ध्या कर्शनात् श्लथतां गतं क्षोभाद्रागादिभिर्लक्षयेदिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पेश्यादिषु त्रिषु नष्टस्योपायमाह-तद्वदेवेति|
Adhikarana अस्थिनष्टस्योपायः (१४) · Śloka १४
अस्थिषु लक्षयेत्|
अस्थ्नामभ्यञ्जनस्वेदबन्धपीडनमर्दनैः||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्थिषु नष्टं शल्यमस्थ्नामभ्यञ्जनादिभिर्लक्षयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अस्थिनष्टस्योपायमाह-अस्थिष्विति| 'क्षोभाद्रागादिभिः' इत्यनुवर्तते|
Adhikarana स्नावादिषु नष्टस्योपायः (१५-१६) · Śloka १६
प्रसारणाकुञ्चनतः सन्धिनष्टं तथाऽस्थिवत्|
नष्टे स्नायुशिरास्रोतोधमनीष्वसमे पथि||१५||
अश्वयुक्तं रथं ख़ण्डचक्रमारोप्य रोगिणम्|
शीघ्रं नयेत्ततस्तस्य संरम्भाच्छल्यमादिशेत्||१६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सन्धिनष्टं शल्यमस्थिनष्टशल्यवल्लक्षयेत् सं-स्नायुशिरास्रोतोधमनीषु नष्टे शल्ये, असमे पथि-विषमे मार्गे, रथमारोप्य रोगिणं-शल्यवन्तं, शीघ्रं नयेत्-आश्वेव देशान्तरं प्रापयेत्| किम्भूतं रथम् ? खण्डं चक्रम् यस्य स खण्डचक्रः, तम्| ततस्तस्य-रथस्य, संरम्भात्-क्षोभात्, शल्यमादिशेत्-लक्षयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सन्धिनष्टस्योपायमाह-प्रसारणाकुञ्चनत इति| अस्थिवत्-अभ्यञ्जनादिभिश्च| आ र०-स्नाय्वादिषु चतुर्षुनष्टस्योपायमाह-नष्ट इति| असमे पथि-उच्चनीचे मार्गे|
Adhikarana मर्मनष्टस्योपायानुक्तौ हेतुः (१७) · Śloka १७
मर्मनष्टं पृथङ्नोक्तं तेषां मांसादिसंश्रयात्|
|१७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मर्मनष्टं शल्यं पृथक् नाभिहितम्| कुतः ? तेषां-मर्मणां, मांसादिरेव प्राङ्निर्दिष्टो यतः संश्रयो, न तु पृथङ्मर्माणि विद्यन्ते| { तथा च सङ्ग्रहे(सू. अ. ३७)-"मर्मप्रणष्टेऽप्यनन्यभावान्मांसादिभ्यो मर्मणामुक्तं परीक्षणं भवति|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-एवं विशेषेण नष्टशल्यलक्षणमुक्त्वा सामान्येन नष्टशल्यदिशं लक्षयितुमाह-मर्मनष्टस्योपायानुक्तौ हेतुमाह-मर्मनष्टमिति| तेषां-मर्मणां, मांसादिगतत्वात्-मांसादिनष्टकथनेनैवोक्तत्वात्|
Adhikarana नष्टस्य सामान्यलक्षणम् (१७) · Śloka १७
|
सामान्येन सशल्यं तु क्षोभिण्य क्रियया सरुक्||१७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सामान्येन-सामान्यलक्ष्णेन, क्शेभिण्या क्रियया-संरम्भोत्पादकेन कर्मणा श्वसनप्राणायामादिकेन, यत् सरुक् स्थानं तत् सशल्यं जानीयात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नष्टस्य सामान्यलक्षणमाह-सामन्येनेति|
Adhikarana अदृश्यशल्यस्याकृतिर्व्रणाकृत्या ज्ञेया (१८) · Śloka १८
वृत्तं पृथु चतुष्कोणं त्रिपुटं च समासतः|
अदृश्यशल्यसंस्थानं व्रणाकृत्या विभावयेत्||१८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वृत्तं-वर्तुलम्| पृथु-पार्श्वापरपार्श्वाभ्यां यत्परिच्छिद्यते| चतुष्कोणं-चतुरस्रम्| त्रिपुटं-त्र्यस्रम्| समासतः-सङ्क्षेपेण|| अदृश्यस्य-अनुपलब्धस्य, शल्यस्य संस्थानं-आकृतिं, व्रणाकृत्या-व्रणसंस्थानेन, विभावयेत्-विद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अधुनैषामाकर्षणोपायं निरुपयन्नाह-अदृश्यस्य शल्यस्याकृतिर्व्रणाकृत्या ज्ञेयात्याह-वृत्तिमिति| वृत्तं-कोणरहितम्| पृथु-द्विकोणम्| त्रिपुटं-त्रिकोणम्| संस्थानं-आकृतिः|
Adhikarana शल्याहरणोपायभेदौ (१९) · Śloka १९
तेषामाहरणोपायौ प्रतिलोमानुलोमकौ|
|१९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेषां-अदृश्यानां शल्यानाम्| आकर्षणोपायौ दौ प्रतिलोमानुलोमकौ| प्रतिलोमः-शरीरान्तःप्रवेशविपर्ययः| अनुलोमः-शरीरान्तःप्रवेशानुगतः| प्रतिलोमानुलोमयोर्निर्हरणविषयमाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शल्याहरणोपायभेदाना(वा)ह-तेषामिति| यत्र प्रतिकूलमाहरणं स प्रतिलोमः, यत्रानुकूलं सोऽनुलोमः|
Adhikarana तयोर्विषयः (१९) · Śloka १९
|
अर्वाचीनपराचीने निर्हरेत्ताद्विपर्ययात्||१९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तयोः-प्रतिलोमानुलोमयोर्विपर्ययः, तस्माद्विपर्ययात्, अनुलोमं पराचीनमानयेदित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तयोर्विषयमाह-अर्वाचीनपराचीन इति| अर्वाचीनं-अधोगतम्, तद्विपर्ययादूर्ध्वं निर्हरेत्| पराचीनं-ऊर्ध्वगतम्, तद्विपर्ययादधो निर्हरेत्| ऊर्ध्वं निर्हरणं-प्रतिलोमम्, अधः-अनुलोमम्| उक्तं च सङ्ग्रहे (सू.अ.३७)-"प्रतिलोममर्वाचीनमानयेत्, अनुलोमं पराचीनम्|" इति|
Adhikarana तिर्यग्गतं तूभयोर्विषयः (२०) · Śloka २०
सुख़ाहार्यं यतश्छित्त्वा ततस्तिर्यग्गतं हरेत्|
|२०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तिर्यग्गतं शल्यं यतो-यस्माद्देहदेशात्, छित्वा-विलुप्य, सुखाहार्यं सम्पद्यते-सुखेनाहर्तुं शक्यते, ततः-तस्माद्देहदेशात्, छित्त्वोद्धरेत्| छित्त्वेत्यत्र यद्यपि कर्म किञ्चिन्न निर्दिष्टं, तथाऽपि त्वङ्मांसादीनां योग्यत्वात्तेषामेव कर्मत्वं बोध्यम्| मांसादीनि छित्त्वोद्धरेदित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तिर्यग्गतं त्ववस्थाभेदेनोभयोर्विषय इत्याह-सुख़ाहार्यमिति| तिर्यग्गतं येनोपायेन सुख़ाहार्यं तेन हरेत्| प्रवेशपार्श्वादन्येन पार्श्वेन यदा सुख़ाहार्यं तदा छित्त्वा-शस्त्रेण द्वारं कृत्त्वा, हरेत्|
Adhikarana उरोगतादिषु शल्येषु निर्घातननिषेधः (२०-२१) · Śloka २१
|
शल्यं न निर्घात्यमुरःकक्षावङ्क्षणपार्श्वगम्||२०||
प्रतिलोममनुत्तुण्डं छेद्यं पृथुमुखं च यत्|
|२१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शल्यमुरोगतमुरःस्थं कक्षास्थं वङ्क्षणस्थं पार्श्वस्थं च न निर्घात्यं-न निर्घातनीयम्| तथा प्रतिलोमं-नानुलोमगतं, तथाऽनुत्तुण्डं वारिबुद्बुदवन्नोन्नतं, तथा छेद्यं शल्यं, तथा पृथुमुखं-विस्तीर्णाननं, च न निर्घात्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-न च सर्वमेव शल्यमाहरणीयमित्याह-उरोगतादिषु शल्येषु निर्घातनं निषेधति-शल्यमिति| प्रतिलोमं-ऊर्ध्वगतम्| अनुत्तुण्डं-अदृश्यमुखम्| छेद्यं-छेदनार्हम्|
Adhikarana अनाहरणीयं शल्यम् (२१) · Śloka २१
|
नैवाहरेद्विशल्यघ्नं नष्टं वा निरुपद्रवम्||२१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विशल्यं हन्तीति विशल्यघ्नम्| तावज्जीवति यावत्सशल्यः| शल्यापाये तु म्रियते तन्नाहरेदेव| विशल्यस्य तस्य प्राणहरणत्वात्| एतत्स्वरूपं मर्मविभागे स्पष्टं कृत्वा वक्ष्यते| नष्टं वेति वाशब्दश्चार्थे| नष्टं-अदृश्यतां प्राप्तं च, यन्निरुपद्रवं-तन्निमित्तरोगरहितं, नाहरेत्, प्रत्यवायभयात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनाहरणीयं शल्यमाह-नैवाहरेदिति| विशल्यघ्नं-"उत्क्षेपौ स्थपनी त्रीणि विशल्यघ्नानि तत्र हि|" (हृ.शा.अ. ४/५५) इत्युक्तेषु मर्मसु स्थितम्|
Adhikarana हस्ताहार्यं शल्यम् (२२) · Śloka २२
अथाहरेत्करप्राप्यं करेणैव|
|२२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-करप्राप्यं-हस्तग्राह्यं शल्यं, करणैवाहरेत्-नापरेण कङ्कमुखादिना|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हस्ताहार्यं शल्यमाह-अथेति|
Adhikarana सिंहमुखादिस्वस्तिकयन्त्राहार्यं शल्यम् (२२) · Śloka २२
इतरत्पुनः|
दृश्यं सिंहाहिमकरवर्मिकर्कटकाननैः||२२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इतरत्-अकरप्राप्यं तु शल्यं, दृश्यं सिंहमुखादिभिर्यन्त्रैराहरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सिंहमुखादिस्वस्तिकयन्त्राहार्यं शल्यमाह-इतरदिति| इतरत्-करेणाप्राप्यम्|
Adhikarana कङ्कमुखादिस्वस्तिकयन्त्राहार्यं शल्यम् (२३) · Śloka २३
अदृश्यं व्रणसंस्थानाद्ग्रहीतुं शक्यते यतः|
कङ्कभृङाह्वकुररशरारीवायसाननैः||२३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अदृश्यं पुनः शल्यं व्रणसंस्थानादाकलय्य कङ्कमुखदिभिर्ग्रहीतुं शक्यते यतस्ततस्तैर्हरेत्| यत्तदोर्नित्याभिसम्बन्धात्तदोपलम्भः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कङ्कमुख़ादिस्वस्तिकयन्त्राहार्यं शल्यमाह-अदृश्यमिति| 'इतरत्' इत्यनुवर्तते|
Adhikarana सन्दंशाहार्यम् शल्यम् (२४) · Śloka २४
सन्दंशाभ्यां त्वगादिस्थम्|
|२४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्वगादिस्थं शल्यं सन्दंशाभ्यां निर्हरेत्| आदिग्रहणान्मांसादीनां ग्रहणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सन्दंशाहार्यं शल्यमाह-सन्दंशाभ्यामिति| त्वगादीनि-त्वक्शिरास्नायुपिशितानि|
Adhikarana तालयन्त्राहार्यं शल्यम् (२४) · Śloka २४
तालाभ्यां सुषिरं हरेत्|
|२४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सुषिरं यच्छल्यं त्वगादिस्थं तत्तालयन्त्राभ्यां हरेत्,-न संदशाभ्याम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तालयन्त्राहार्यं शल्यमाह-तालाभ्यामिति| सुषिरं-सरन्ध्रम्|
Adhikarana नाडीयन्त्राहार्यं शल्यम् (२४) · Śloka २४
|
सुषिरस्थं तु नलकैः|२४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सुषिरस्थं पुनः शल्यं नलकैः-नाडीयन्त्रैः, आकर्षेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नाडीयन्त्राहार्यं शल्यमाह-सुषिरस्थं त्विति|
Adhikarana शेषयन्त्राहार्यं शल्यम् (२४) · Śloka २४
|
शेषं शेषैर्यथायथम्||२४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शेषं शल्यं शेषैर्यन्त्रैर्यथायोगमाहरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शेषयन्त्राहार्यं शल्यमाह-शेषं शेषैरिति|
Adhikarana यन्त्रेणाहर्तुमशक्यस्यशल्यस्योपायः (२५) · Śloka २५
शस्त्रेण वा विशस्यादौ ततो निर्लोहितं व्रणम्|
कृत्वा घृतेन संस्वेद्य बद्धाऽऽचारिकमादिशेत्||२५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शस्त्रेण वा पूर्वं विशस्य-मांसादीन् छित्त्वा, ततः- अनन्तरं, अपनीतरक्तं व्रणं विधाय, सर्पिषा स्वेदयित्वा, वस्त्रपट्टादिना सर्पिमधु बद्ध्वा, आचारिकं-स्नेहविध्युक्तं "उष्णोदकोपचारी स्यात्" इत्यादिकं, आदिशेत्-कथयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यन्त्रेणाहर्तुमशक्यस्य शल्यस्योपायमाह-शस्त्रेण वेति| विशस्य-विदार्य| निर्लोहितं-स्रुतरक्तम्| आचारिकं-आहारादिनियमम्| ["भोजनं तु यथासात्म्यं" (हृ.सू.अ. २९/३४) इत्यादिवक्ष्यमाणोक्तम्|]
Adhikarana सिरास्नायुवीलग्नस्योपायः (२६) · Śloka २६
सिरास्नायुविलग्नं तु चालयित्वा शलाकया|
|२६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सिरास्नायुविलग्नं पुनः शल्यं शलाकया चालयित्वा शिथिलीकृत्य, आहरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिरास्नायुविलग्नस्योपायमाह-शिरास्नायुविलग्नमिति|
Adhikarana हृदयलग्नस्योपायः (२६-२७) · Śloka २७
|
हृदये संस्थितं शल्यं त्रासितस्य हिमाम्बुना||२६||
ततः स्थानान्तरं प्राप्तमाहरेत्तद्यथायथम्|
यथामार्गं दुराकर्षम्|२७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हृदये यदाश्रितं शल्यं तच्छीतजलेन त्रासितस्य स्थानान्तरगतं ज्ञात्वा, यथायथं-यथास्वं विशिष्टयन्त्रैः, शल्यं निर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हृदयलग्नस्य शल्यस्योपायमाह-हृदय इति| यथायथं-स्थानानुरूपेण यन्त्रेण| यथामार्गं-मार्गानुरूपेण शोधनेन| दुराकर्षं-हृदयादाक्रष्टुमशक्यम्|
Adhikarana हृदयोपायमन्यत्रादिशति (२७) · Śloka २७
|
अन्यतोऽप्येवमाहरेत्||२७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्यतोऽपि-अन्यदेशस्थमपि शल्यं, दुराकर्षं-दुःखेनाक्रष्टुं शक्यते, तत् स्वमार्गं नयेत् तदेवमेवाहरेत्, यथा हृत्स्थं शल्यम् स्थानान्तरं प्राप्तं निर्हार्यम्| तथा, यथामार्गं-मार्गानतिक्रमेण, अन्यदेशस्थमपि शल्यमाकर्षणीयम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हृदयोपायमन्यत्रातिदिशति-अन्यतोऽपीति|
Adhikarana अस्थिलग्नस्योपायः (२८) · Śloka २८
अस्थिदष्टे नरं पद्भ्यां पीडयित्वा विनिर्हरेत्|
|२८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्थिदष्टे-अस्थ्नि विदष्टे स्पृष्टे सति शल्ये, नरं बलवन्तं पद्भ्यां पीडयित्वा-आक्रम्य, तच्छल्यं विनिर्हरेत्| 'अस्थिनष्टे' इति वा पाठः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अस्थिलग्नस्योपायमाह-अस्थिदष्ट इति|
Adhikarana उपायान्तरम् (२८) · Śloka २८
|
इत्यशक्ये सुबलिभिः सुगृहीतस्य किङ्करैः||२८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इत्यशक्ये-अनेनापि प्रकारेणक्रष्टुमशक्ये शल्ये, किङ्करैः-भृत्यैः, महाबलैः सुगृहीतस्य-सुष्ठ्ववष्टब्धस्य नरस्य, शल्यं कङ्कमुखादिना निर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पूर्वोपायाशक्यस्योपायान्तरमाह-इत्यशक्य इति| सुगृहीतस्य-सशल्येऽङ्गे सम्यग्घृतस्य|
Adhikarana एवमप्यशक्यस्योपायः (२९-३१) · Śloka ३१
तथाऽप्यशक्ये वारङ्गं वक्रीकृत्य धनुर्ज्यया|
सुबद्धं वक्त्रकटके बध्नीयात्सुसमाहितः||२९||
सुसंयतस्य पञ्चाङ्ग्या वाजिनः कशयाऽथ तम्|
ताडयेदिति मूर्धानं वेगेनोन्नमयन् यथा||३०||
उद्धरेच्छल्यम्|
|३१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथाप्यशक्ये-एवमपि शल्य आहर्तुमशक्ये, वारङ्गं-शस्त्रादिमयस्य शल्यस्य शिखाकारं, वक्रीकृत्य-कुटिलतां प्रापय्य, ततो धनुर्ज्यया-स्नाय्वादिमय्या, सुबद्धं कृत्वा, अनन्तरं, वाजिनः-अश्वस्य, वक्त्रकटके बध्नीयाद्वैद्यः| किम्भूतः ? सुसमाहितः,-तद्गतमनाः| किम्भूतस्य वाजिनः ? सुसंयतस्य,-सुष्ठु-शोभनं कृत्वा, बद्धस्य| कथं सुसंयतस्य ? पञ्चाङ्ग्या, पञ्चानामङ्गानां-चतुर्णां पादानां मुखसहितानां, समाहारः पञ्चाङ्गी,-बन्धविशेषः, तया पञ्चाङ्ग्या, बद्धस्य| अनन्तरं वाजिनं कशया-चर्मयष्ट्या, इति-एवं, ताडयेत्, यथा स वाजी मूर्धानमुन्नमयन्-उत्क्षिपन्, वेगेन-बलेनाऽऽक्रान्त्या, शल्यमुद्धरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-एवमप्यशक्यस्योपायमाह-तथाऽप्यशक्य इति| वारङ्गं-शस्त्र(ल्य)मस्तके शिखाकारोऽवयवः| पञ्चाङ्गी-चतुर्षु चरणेषु मुखे च बन्धविशेषः| तं-वाजिनम्| इति शब्दस्तथार्थे| शिर उत्क्षिप्य वेगेन यथा शल्यमुद्धरेत् तथा ताडयेत्|
Adhikarana उपायान्तरम् (३१) · Śloka ३१
एवं वा शाख़ायां कल्पयेत्तरोः|
|३१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा एवं-अनेन प्रकारेण, वारङ्गं वक्रतां नीत्वा धनुर्ज्यया सुबद्धं सम्पाद्य सुसमाहितो भिषक्, वृक्षस्य शाखामानमय्य धनुर्ज्ययैव तस्यां तत् बध्नीयाच्छल्याकर्षणार्थम्| अत्र च या शाखा किङ्करहस्तादिविमुक्तमात्रैवोर्ध्वमुन्नम्यमाना शल्यमुद्धरति तादृशी कल्पनीया|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पूर्वोपायासम्भवे उपायान्तरमाह-एवं वेति|
Adhikarana दुर्बलवारङ्गस्योपायः (३१) · Śloka ३१
|
बद्धा दुर्बलवारङ्गं कुशाभिः शल्यमाहरेत्||३१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुर्बलं-तनु, वारङ्गं यस्य शल्यस्य तच्छल्यं कुशाभिः-वंशादिकम्बिकाभिः, बद्धा शल्यमाकर्षेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दुर्बलवारङ्गस्योपायमाह-बद्ध्वेति| कुशाभिः-कम्बिकाभिः|
Adhikarana शोफग्रस्तवारङ्गस्योपायः (३२) · Śloka ३२
श्वयथुग्रस्तवारङ्गं शोफमुत्पीड्य युक्तितः|
|३२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्वयथुना ग्रस्तं-आच्छादितं, वारङ्गं यस्य शल्यस्य तच्छल्यमाहरेत्| कथम् ? युक्तितः,-यथा युज्यते तथा, शोफमुत्पीड्य-ऊर्ध्वं पीडयित्वा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शोफग्रस्तवारङ्गस्योपायमाह-श्वयथुग्रस्तवारङ्गमिति| शोफोत्पीडनेन वारङ्गमुद्धाठ्य|
Adhikarana उत्तुण्डितस्योपायः (३२) · Śloka ३२
|
मुद्गराहतया नाड्या निर्घात्योत्तुण्डितं हरेत्||३२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उत्तुण्डितं शल्यं-बुद्बुदवदभिमुखीभूतं, नाड्या निर्घात्य-चालयित्वा, हरेत्| किम्भूतया? मुद्गरेणाहतया| मुद्गरग्रहणमुपलक्षणार्थम्, पाषाणादिभिरप्याहतयोत्तुण्डितं हरेदिति वेद्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उत्तुण्डितस्योपायमाह-मुद्गराहतयेति| तेनैन वा-नाडीं विना मुद्गरेणैव, निर्घात्य|
Adhikarana अमार्गोत्तुण्डितस्योपायः (३३) · Śloka ३३
तैरेव चानयेन्मार्गममार्गोत्तुण्डितं तु यत्|
|३३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तैरेव च-मुद्गरादिभिराहतैः, अमार्गैरुत्तुण्डितं-अमार्गोत्तुण्डितं, मार्गमानयेत्-मार्गं प्रापयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अमार्गोत्तुण्डितस्योपायमाह-नयेदिति| तत्तु शल्यं मार्गं नयेत्-मार्गनयनपूर्वकमाहरेत्, निर्घातनेनैव|
Adhikarana कर्णयोक्तस्योपायः (३३) · Śloka ३३
|
मृदित्वा कर्णिनां कर्णं नाड्यास्येन निगृह्य वा||३३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कर्णः कर्णौ कर्णा वा विद्यन्ते येषां ते कर्णिनः,-भल्लादयः तेषां कर्णं मृदित्वा-भङ्क्त्वा, शल्यं निर्हरेत्| अथवा नाड्यास्येन-नाडीमुखेन, निगृह्य निर्हरेत्| "नाडी पञ्चमुखच्छिद्रा" (हृ. सू. अ. २४|१३) इत्येवमादिग्रन्थनिर्दिष्टैर्नाडीयन्त्रैर्निर्हरेदित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कर्णयुक्तस्योपायमाह-मृदित्वेति| निर्गमप्रतिबन्धकः शल्यावयवः कर्णाकारत्वात्-कर्णः, तं मृदित्वा सङ्क्षोदनेन शिथिलीकृत्य, अथवा नाड्यास्येन-नाडीयन्त्रमुखेन, निगृह्य-निष्पीडनेनैकीकृत्य|
Adhikarana निष्कर्णस्योपायः (३४) · Śloka ३४
अयस्कान्तेन निष्कर्णं विवृतास्यमृजुस्थितम्|
|३४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अयस्कान्तेन-लोहाकर्षकमणिविशेषेण, निष्कर्णं शल्यं तथा विवृतमुखं ऋजु-स्पष्टं कृत्वाऽवस्थितम् निर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निष्कर्णस्योपायमाह-अयस्कान्तेनेति| अयस्कान्तो-लोहाकर्षकः पाषाणः| विवृतास्यमृजुस्थितमिति निष्कर्णस्य विशेषणम्|
Adhikarana पक्काशयगतस्योपायः (३४) · Śloka ३४
|
पक्वाशयगतं शल्यं विरेकेण विनिर्हरेत्||३४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पक्वाशयस्थितं शल्यं विरेचनेन विशेषेण निर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पक्वाशयगतस्योपायमाह-पक्वाशयगतमिति|
Adhikarana दुष्टवातादीनामुपायः (३५) · Śloka ३५
दुष्टवातविषस्तन्यरक्ततोयादि चूषणैः|
|३५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुष्टवातादीनि चूषणैर्निर्हरेत्| चूषणैरिति बहुवचननिर्देशाच्छृङ्गादिभिरिति बोध्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दुष्टवातादीनामुपायमाह-दुष्टवातेति| चूषणैः-शृङ्गादिभिः||
Adhikarana कण्ठगतस्योपायः (३५-३६) · Śloka ३६
|
कण्ठस्रोतोगते शल्ये सूत्रं कण्ठे प्रवेशयेत्||३५||
बिसेनात्ते ततः शल्ये बिसं सूत्रं समं हरेत्|
|३६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कण्ठस्रोतःस्थे शल्ये सूत्रं-कार्पासादिजं, बिसेन कण्ठे प्रवेशयेत्- बिससंलग्नं सूत्रं कृत्वा शल्यनिर्हरणाय प्रवेशयेदित्यर्थः| आत्ते-गृहीते, शल्ये बिससंलग्ने, अनन्तरं शल्यं बिससूत्रं समं-तुल्यकालं, आहरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कण्ठगतस्योपायमाह-कण्ठस्रोतोगत इति| बिसेन-मृणालेन, आत्ते-गृहीते|
Adhikarana जातुषस्योपायः (३६-३७) · Śloka ३७
|
नाड्याऽग्नितापितां क्षिप्त्वा शलाकामप्स्थिरीकृताम्||३६||
आनयेज्जातुषं कण्ठात्|
|३७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जातुषे शल्ये कण्ठस्रोतःप्रविष्टे तत् जातुषं शल्यं कण्ठादानयेत्| कथम् ? इत्याह-शलाकां कण्ठे क्षिप्त्वा| कथम् ? नाड्या-नाडीयन्त्रेण प्रक्षिप्य कण्ठदाहपरिहारार्थम्| कीदृशीं शलाकाम् ? अद्भिः स्थिरीकृतां, निर्वापणद्वारेण| तां तथाविधाम् शलाकां कृत्वा नाड्यैव जातुषं शल्यं कण्ठादानयेत्-आकर्षयेत्| जातुषमित्यत्र"त्रपुजतुनोःषुक्" इत्यण् षुगागमश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जातुषस्योपायमाह-नाड्याऽग्नितापितामिति| अग्नितापितां शलाकां नाड्या कण्ठे क्षिप्त्वा ततोऽप्स्थिरीकृतां-अपां पानेन स्थिरीकृतां, शल्यसंलग्नां कृत्वा जातुषंलाक्षामयं शल्यं, कण्ठादानयेत्|
Adhikarana अजातुषस्योपायः (३७) · Śloka ३७
जतुदिग्धामजातुषम्|
|३७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अजातुषं-दारुवेण्वादिमयं शल्यं, कण्ठस्रोतःस्थितं जतुदिग्धां-लाक्षालिप्तां, शलाकामग्नितापितां नाड्या क्षिप्त्वा पूर्ववच्छल्यमाहरेत्| जतुदिग्धामित्युपलक्षणार्थम्, सिक्थादिदिग्धामपि| यथा शलाकया हर्तुं युज्यते तथा कृत्वेति बोध्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अजातुषस्योपायमाह-जतुदिग्धामिति| जतुदिग्धां-लाक्षालिप्तां शलकां, पूर्ववच्छल्यसंलग्नां कृत्वा जातुषादन्यच्छल्यमाहरेत्|
Adhikarana मत्स्यादिकण्टकस्योपायः (३७-३८) · Śloka ३८
|
केशोन्दुकेन पीतेन द्रवैः कण्टकमाक्षिपेत्||३७||
सहसा सूत्रबद्धेन वमतः|
|३८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कण्टकं-मत्स्यादिजं, मांससङ्गेन भुक्तं कण्ठस्रोतसि स्थितं, द्रवैः-पानीयादिभिः सह, पीतेन केशोन्दुकेनाक्षिपेत्| केशानां समूहः-केशोन्दुकम्, तेन| किम्भूतेन केशोन्दुकेन ? सूत्रबद्धेन,-दीर्घसूत्रग्रथितेन| वमतः-वमनमाचरतः, कण्टकमेकदेशसक्तसूत्रं सहसैवाक्षिपेत्| एवं च वमनद्रव्यसंस्कृतैर्द्रवैः केशोन्दुकं पातव्यमित्यवतिष्ठते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मत्स्यादिकण्टकस्योपायमाह-केशोन्दुकेनेति| सूत्रबद्धेन केशोन्दुकेन-केशपुञ्जेन, द्रवैः सह पीतेन वमतः सहसा कण्टकमाहरेत्|
Adhikarana केशोन्दुकस्योपायः (३८) · Śloka ३८
तेन चेतरत्|
|३८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेन-कण्ठकेन, इतरत्-केशोन्दुकं, प्रमादपीतमाहरेत्| क्षतकण्ठश्च त्रिफलां मधुघृतसितोपेतामनुकण्ठं लिह्यात्| सुश्रुते चोक्तम् (सू. अ. २७|१९)-"अस्थिशल्यमन्यद्वातिर्यक्कण्ठासक्तमवेक्ष्य केशोन्दुकं दृढैकसूत्रबद्धं द्रवभक्तोपहितं पाययेदाकण्ठात् पूर्णकोष्ठं च वामयेत्| वमतश्च शल्यैकदेशसक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत्| मृदुना वा दन्तधावनकूर्चकेनापहरेत् प्रणुदेद्वाऽन्तः|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-केशोन्दुकस्योपायमाह-तेनेति| तेन-कण्टकेन द्रवैः सह पीतेन, इतरत्-केशोन्दुकम्, आहरेत्|
Adhikarana ऊर्ध्वमाहर्तुमशक्यस्योपायः (३८) · Śloka ३८
|
अशक्यं मुखनासाभ्यामाहर्तुं परतो नुदेत्||३८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुखनासागतं शल्यं मुखनासाभ्यामाहर्तुमशक्यं-आक्रष्टुं यन्न शक्यते, तत्परतो नुदेत्| प्रकृतत्वान्मुखात् परतो नासायाश्च परतः| तस्माद्येन केनचिदुपायेन कोष्ठं नयेदिति गम्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ऊर्ध्वमाहर्तुमशक्यस्योपायमाह-अशक्यमिति| परतो नुदेत्-कोष्ठं नयेत्|
Adhikarana ग्रासशल्यस्योपायः (३९) · Śloka ३९
अप्पानस्कन्धघाताभ्यां ग्रासशल्यं प्रवेशयेत्|
|३९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ग्रासः शल्यमिव ग्रासशल्यं कण्ठासक्तमन्तःकोष्ठाख्यं नयेत्| कथम् ? अपां पानं-अप्पानं, तेन| तथा स्कन्धघातेन, स्कन्धस्य मुष्ट्यादिना हननं-स्कन्धघातः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ग्रासशल्यस्योपायमाह-अप्पानस्कन्धघाताभ्यामिति| अप्पानं-उदकपानम्|
Adhikarana सूक्ष्माक्षिव्रणशल्यानामुपायः (३९) · Śloka ३९
|
सूक्ष्माक्षिव्रणशल्यानि क्षौमवालजलैर्हरेत्||३९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अक्षणी च व्रणश्च, तत्र शल्यानि-अक्षिव्रणशल्यानि, सूक्ष्माणि च तान्यक्षिव्रणशल्यानि च-सूक्ष्माक्षिव्रणशल्यानि, तानि क्षौ मादिभिर्निर्हरेत्| योग्यतावशात् कदाचित् क्षौ मेन-कौशेयेन, कदाचिद्वालेन, कदाचिज्जलेन च, निर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नदीतडागादिपतितस्याकस्मात् यस्य नरस्य जलमन्तरे प्रविशेत्| तच्च तोयं शल्यवदन्तःस्थितं निर्हार्यमिति तदुपायं दर्शयितुमाह-सूक्ष्माणामक्षिगतानां व्रणगतानां चोपायमाह-सूक्ष्माक्षिव्रणशल्यानीति|
Adhikarana उदकशल्यस्योपायः (४०) · Śloka ४०
अपां पूर्णं विधुनुयादवाक्शिरसमायतम्|
वामयेच्चामुख़ं भस्मराशौ वा निखनेन्नरम्||४०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अपां पूर्णं नरं विधुनुयात्| किम्भूतम् ? अवक्शिरसम्, अवाक्-अधः, शिरो-मूर्धा, यस्य तम्| तथा आयतं-दीर्घं कृत्वा, तथा तं नरं वामयेद्वैद्यः| अथवा, आमुखं-मुखं यावत्, भस्मराशौ निखनेत्-न्यसेत्| तथोक्तम्-"उदकपूर्णस्य चक्राद्यारोपणेनोदकनिःसारः कार्यः|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सर्वाङ्गगतस्योदकशल्यस्योपायमाह-अपां पूर्णमिति| विधुनुयात्-कम्पयेत्, वामयेच्च वमनद्रव्यैः| अथवा मुखपर्यन्तं भस्मराशौ निखनेत्|
Adhikarana कर्णगतोदकशल्यस्योपायः (४१) · Śloka ४१
कर्णेऽम्बुपूर्णे हस्तेन मथित्वा तैलवारिणी|
क्षिपेदधोमुख़ं कर्णं हन्याद्वाऽऽचूषयेत वा||४१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कर्णेऽम्बुना पूर्णे सति तैलवारिणी क्षिपेत्| किं कृत्वा ? हस्तेन मथित्वा-करेण विलोड्य| तथाऽधोमुखं कर्णं हन्यात्| वा-अथवा, चूषयेत् नाड्या वा शृङ्गादिभिः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कर्णगतस्योदकशल्यस्योपायमाह-कर्णेऽम्बुपूर्ण इति| आचूषयेत्-शृङ्गादिभिः|
Adhikarana कर्णगतकीटशल्यस्योपायः (४२) · Śloka ४२
कीटे स्रोतोगते कर्णं पूरयेल्लवणाम्बुना|
सुक्तेन वा सुख़ोष्णेन मृते क्लेदहरो विधिः||४२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कीटे-पिपीलिकाशतपद्यादौ, स्रोतःस्थिते (स्रोतोगते)-तोदगौरवमेदादिभिरनुमिते, कर्णं लवणाम्बुना पूरयेत्| अथवा सुक्तेन पूरयेत्| किम्भूतेन? सुखोष्णेन| मृते पुनस्तस्मिन् कीटे क्लेदहरो विधिः कार्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कर्णगतस्य कीटशल्यस्योपायमाह-कीटे स्रोतोगत इति| लवणाम्बुना-लवणयुक्तेनाम्बुना|
Adhikarana जातुषादिशल्यं देहोष्मणैव विलीयते (४३) · Śloka ४३
जातुषं हेमरूप्यादिधातुजं च चिरस्थितम्|
ऊष्मणा प्रायशः शल्यं देहजेन विलीयते||४३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जातुषादिशल्यं देहजेनोष्मणा चिरस्थितं प्रायशो विलीयते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जातुषादिशल्यं देहोष्मणैव विलीयत इत्याह-जातुषमिति| विलीयते-विनश्यति|
Adhikarana मृदादिशल्यं चिरादपि न चिलियते,विलयनाभावे हेतुः (४४-४५) · Śloka ४५
मृद्वेणुदारुशृङ्गास्थिदन्तवालोपलानि न|
विषाणवेण्वयस्तालदारुशल्यं चिरादपि||४४||
प्ऱयो निर्भुज्यते तद्धि पचत्याशु पलासृजी|
|४५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मृद्वेणुदार्वादिशल्यं देहोष्मणा न विलीयते| उपलशब्स्य नपुंसकत्वं चिन्त्यम्| विषाणादिशल्यं प्रायो देहजेनोष्मणा चिरादपि न विलीयते| अपि तु निर्भुज्यते-पृथग्भवति| चिरादपि न पच्यते कुतः ? इत्याह-तद्धीत्यादि| हि-यस्मात्, तत्-विषाणादिशल्यं, शीघ्रमेव पलासृजी पचति| अतो मांसरक्तपाकाद्देहजेन चोष्मणा प्रायो निर्भुज्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मृदादिशल्यं देहोष्मणा न विलीयत इत्याह-मृद्वेण्विति| विषाणादिशल्यं चिरादपि न विलीयत इत्याह-विषाणेति| एतेन मृदादिशल्यं चिराद्विलीयत इत्युक्तं भवति| विषाणवेण्वोरुभयत्रोपादानं विलयनाविलयनदर्शनार्थम्| विलयनाभावे हेतुमाह-प्राय इति| निर्भुज्यते-वक्रीभवति| तत्-अविलयनं शल्यम्, कुटिलीभावकृतेन क्षोभेण यो मांसरक्तपाकस्तेन बहिरेव निर्याति, न तु विलीयत इत्यर्थः| प्रायोग्रहणात् सूचितं हेतुं विनाऽप्यविलयनं दर्शयति|
Adhikarana विदाहोपायः (४५-४७) · Śloka ४७
|
शल्ये मांसावगाढे चेत्स देशो न विदह्यते||४५||
ततस्तं मर्दनस्वेदशुद्धिकर्षणबृंहणैः|
तीक्ष्णोपनाहपानान्नघनशस्त्रपदाङ्कनैः||४६||
पाचयित्वा हरेच्छल्यं पाटनैषणमेदनैः|
|४७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मांसावगाढे-मांसान्तर्निगूढे शल्ये सति, यदि स देशो न विदह्यते-न पच्यते, यत्र तत् तिष्ठति शल्यम्| ततस्तं मर्दनेन स्वेदनेन वा, कदाचित् शुद्ध्या-वमनादिकया, कदाचित्कर्षणेन, कदाचिद्बृंहणेन, कदाचित्तीक्ष्णोपनाहेन, कदाचित्तीक्ष्णान्नपानेन, तीक्ष्णशब्दस्य हि प्रत्येकं सम्बन्धः, कदाचिद्धनशस्त्रपदाङ्कनैः, शस्त्रस्य पदानि-शस्त्रपदानि, घनानि संहितनि, च तानि शस्त्रपदानि च, तेषामङ्कनं-लक्षणं, तैः| मर्दनादिभिरेकेन द्वाभ्यां सर्वैर्वा यथाक्रमं पूर्वं शल्यं पाचयित्वा ततः पाटनैषणभेदनैर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विदाहोपायमाह-शल्ये मांसावगाढ इति|
Adhikarana अनुक्तशल्यसङ्ग्रहार्थंमुपायः (२८) · Śloka २८
|
शल्यप्रदेशयन्त्राणामवेक्ष्य बहुरूपताम्||४७||
तैस्तैरुपायैर्मतिमान् शल्यं विद्यात्तथाऽऽहरेत्|
४७ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शल्याहर- णविधिर्नामाष्टाविंशोऽध्यायः||२८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शल्यानि-धातुविषाणवेण्वादिजानि, प्रदेशाः-त्वङ्मांसादयः, यन्त्राणि-स्वस्तिकादीनि, तेषां बहुरूपतामवेक्ष्य- नानाकारतां ज्ञात्वा, तैस्तैरुपायैः-उक्तानुक्तैर्विज्ञानसाधनकारणैः, मतिमान्-भिषक्, शल्यं जानीयात् तथाऽऽकर्षेदिति| सङ्ग्रहे चोक्तम् (सू. अ. ३७)-"व्रणे प्रसन्ने प्रान्तेषु नातिस्पर्शासहिष्णुषु| अल्पे शोफे च तापे च निःशल्यमिति निर्दिशेत्|" इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने शल्याहरण- विधिर्नामाष्टाविंशोऽध्यायः समाप्तः|| २८||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनुक्तशल्यसङ्ग्रहार्थमुपायमाह-शल्यप्रदेशयन्त्राणामिति| इति हेमाद्रिटीकायामायुर्वेदरसायने| शल्याहृतिप्रकरणं सामस्त्येन निरूपितम्|| २८||