Skip to content

. अन्नरक्षाध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

अन्नपानस्वरूपं शरीरसन्धारणार्थं प्रागुक्तम्| पथ्यमपि चान्नपानं विषाद्युपहतं रोगाय मृत्यवे वा सम्पद्यते, अतस्तद्रक्षार्थमध्यायोऽयमारभ्यते-

Adhikarana अन्नरक्षाध्यायः सप्तमः (२-३) · Śloka

अथातोऽन्नरक्षाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| )||३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अन्नस्य रक्षा-अन्नरक्षा| सोपदिष्टा यत्राध्याये, सोऽप्युपचारादन्नरक्षेत्युच्यते| यथा, शिशुपालवधः काव्यमिति| शेषं व्याख्यानमत्र पूर्ववत्कार्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अन्नरक्षाध्यायं व्याख्यातुं प्रतिजानीते-अथेति यतः पूर्वयोरध्याययोराहार उक्तः| स चारक्षितो रोगहेतुः अतो रक्षा वक्तव्या| सा चास्मिन्नध्याये, अत एवायमन्नरेक्षाख्यः|

Adhikarana राजनिकटे वैद्यस्थितिः (१) · Śloka

राजा राजगृहासन्ने प्राणाचार्यं निवेशयेत्| सर्वदा स भवत्येवं सर्वत्र प्रतिजागृविः||१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-राजा-नृपः, प्राणाचार्यं-वैद्यं, राजगृहासन्ने निवेशयेत्-आवासयेत्| एवं सति यो गुणः स्यात्तमाह-सर्वदेत्यादि| सर्वदा-सर्वकालं रात्रिदिवसमेव, नृपभवनसमीपस्थितः सः-वैद्यः सर्वत्र-अन्नपानशयनमाल्यादौ, प्रतिजागृविः-दत्तावधानो भवति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अन्नरक्षा च विषविरूद्धाविधिसेवनशयन सम्भोगेभ्यः| ते च राज्ञः प्रायेण सम्भवन्ति, तेभ्यश्च रक्षा वैद्याधीना| तस्माद्राज्ञो वैद्यसन्निधिं विधत्ते-राजेति| प्राणाचार्यं-वैद्यम्,एवं-सन्निधौ सत्याम्, सः-वैद्यः, सर्वदा-सर्वेषु कालेषु, सर्वत्र-सर्वेषु कार्येषु, प्रतिजागृविः-प्रतिपदार्थं जागरूकः सम्यगवहितो भवति|

Adhikarana वैद्येन राज्ञोऽन्नपानं विषाद्रक्ष्यम् (२) · Śloka

ननु, किमेवं क्रियते? इत्याह- अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः| योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः||२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-महीपतेः सम्बन्ध्यन्नपानं विषात्-विषसंस्पर्शात्, विशेषेण-अतिशयेन रक्षेत्| अन्नपानमित्युपलक्षणम्| शयनवस्त्रगन्धरत्नमाल्यादीनामपि परिरक्ष्यत्वात्| ननु, किमिति, नृपान्नपानादि विशेषेण रक्षेत् ? इत्याह-योगेत्यादि| योगः-अन्नवस्त्रादिभिः सम्बन्धः| क्षेमः-तेषामन्नादीनां चौराद्युपद्रवरक्षणात्| द्वावप्येतौ तदायत्तौ-नृपायत्तौ स्याताम्| क्षेमशब्दोऽर्धर्चादिः| धर्माद्या इति धर्मार्थकाममोक्षाः| यन्निबन्धनाः-योगक्षेमनिबन्धनाः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथ विषरक्ष| वैद्यस्य विषादन्नपानरक्षां विधत्ते-अन्नपानमिति| स इत्यनुवर्तते| विशेषेण-अन्यपदार्येभ्यः, अन्यनररक्षातो विशेषतो राज्ञः, अन्नपानं रक्षेत्| कुतः? यतः योगक्षेमौ तदायत्तौ,-तस्य-राज्ञोऽधीनौ| अलब्धलाभो-योगः| लब्धपरिपालनं-क्षेमः| कीदृशौ तौ? यन्निबन्धना धर्माद्याः,-धर्मार्थकाममोक्षणां यस्माद्योगक्षेमौ साधनम्,तयोश्च राजा,ततः सोऽतिशयेन विषादिभ्यो रक्षणीयः|

Adhikarana सविषान्नलक्षणम् (३-४) · Śloka

सम्प्रति विषदुष्टस्य भक्तस्य लक्षणमाह ओदनो विषवान् सान्द्रो यात्यविस्त्राव्यतामिव| चिरेण पच्यते पक्वो भवेत्पर्युषितोपमः||३|| मयूरकण्ठतुल्योष्मा मोहमूर्छाप्रसेककृत्| हीयते वर्णगन्धाद्यैः क्लिद्यते चन्द्रिकाचितः||४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विषवानोदनः सान्द्रो-विलेप्याकारः| तथा, विस्रावयितुं शक्यो-विस्राव्यः, नैवं योऽसौ-अविस्राव्यः, तस्य भावः, अविस्राव्यतामिव याति| चिरेण कालेन पच्यते| पक्वश्च पर्युषितभक्तमुपमा यस्य स पर्युषितोपमो भवेत्, निरूष्मा स्तब्धश्च सद्योऽवतारितोऽपि स्यादित्यर्थः| तस्य च भक्तस्य सम्बन्धी मयूरकण्ठतुल्योष्मा मोहादीन् करोति| मयूरकण्ठेन तुल्यो नानावर्णो मयूरकण्ठतुल्यः, स चासावूष्मा चेति| ऊष्मा-बाष्पः| तथा, असावोदनो वर्णगन्धाद्यैर्हीयते| आदि (द्य) शब्देन रसादीनां ग्रहणम्| क्लिद्यते-प्रक्लिन्नो भवति| तथा, जलमध्यक्षिप्ततैलबिन्दुसदृशैश्चन्द्रिकैराचितो भवति| इति चक्षुरादिभिः परीक्षा|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथ सविषान्नपानलक्षणम्| तत्र ओदनं लक्षयति-ओदन इति| सान्द्र इवाविस्त्राव्यतां याति-सद्रवोऽप्यद्रव इव स्त्रावयितुं न शक्यते| पव्कः पर्युषितोपमो भवेत्-सद्यस्कोऽप्यहोरात्रोषितवन्निरूष्मा स्तब्धश्च स्यात्| मयूरकण्ठतुल्योष्मा-नीलबाष्पः| मोहादिकर्तृत्वमूष्मस्म्बन्धात्, साक्षात्सम्बन्धे धोषाणां वक्ष्यमाणत्वात्| मोहो-विचाराशक्तिः,मूर्च्छान्तर्भूतस्यापि तस्य मूर्च्छावसानेऽप्यनुवृस्यर्थं पृथग्ग्रहणम्| आद्यशब्दाद्रसादयः| क्लिद्यते-सम्यक् स्त्रावितोऽपि क्लेदं धते| चन्द्रिकान्वितः- चन्द्रिकैरन्वितोभवति,- मयूरपिच्छतुल्यो जलक्षित्पतैलबिन्दुसद्यशो भवति|

Adhikarana व्यञ्जनादीनां परीक्षा (५-६) · Śloka

व्यञ्जनानां परीक्षामाह व्यञ्जनान्याशु शुष्यन्ति ध्यामक्वाथानि तत्र च| हीनाऽतिरिक्ता विकृता छाया दृश्येत नैव वा||५|| फेनोर्ध्वराजीसीमन्ततन्तुबुद्बुदसम्भवः| विच्छिन्नविरसा रागाः खाण्डवाः शाकमामिषम्||६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-व्यञ्जनानि-वार्ताकादीनि दधितक्रदाडिमादिसंस्कृतानि, आशु-क्षिप्रं शुष्यन्ति| तथा, ध्यामो-मलिनः क्वाथो येषां तान्येवम्| तत्र च-तेषु व्यञ्जनवत्सु क्वाथेषु, हीना-भुजादिहीना, अधिका, विकृता-शिरोविरहादिलक्षणविकारोपेता चात्मीया छाया-प्रतिबिम्बं, दृश्यते| नैव वा-कीदृश्यपि छाया न दृश्यते| न चेदमरिष्टम्, सनिमित्तत्वात्| तेष्वेव व्यञ्जनेषु फेनादीनां सम्भवः| तत्रेति प्रकृतव्यञ्जनोपलक्षितेषु सर्वद्रवेष्वेव| विशेषेण पुनर्लवणोल्बणद्रवे फेनमाला| ऊर्ध्वराजीसम्भवं तु रसकादिषु स्वयं दर्शयिष्यति| विच्छिन्नविरसा रागा इति| रागाः-द्राक्षादिकृताः, ऋतुचर्योक्तलक्षणाः, विच्छिन्ना विरसाश्च भवन्ति| क्वचिद्रागो दृश्यते क्वचिन्नेति विच्छिन्नत्वम्| क्वचिद्रसो दृश्यते क्वचिन्नेति विरसत्वम्| एवं खाण्डवोऽपि| शाकमामिषं च विच्छिन्नं-स्थाने स्थाने त्रुटितम्, विरसं च|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- व्यञ्जनानि लक्षयति-व्यञ्जनानीति| व्यञ्ज्नानि-सूप्यादीनि, आर्द्राण्यप्याशु विषवन्ति शुष्यन्ति-शोषंयान्ति| ध्यामव्काथानि- मलिनद्रवाणि बवन्ति| तत्र-तेषु क्वाथवत्सु व्यञ्जनेषु, हीनादिका छाया-प्रतिबिम्बं, दृश्यते नैव वा दृश्यते| हीना-बिम्बप्रमाणन्यूना| अतिरिक्ताअधिका| विकृता-तुल्यप्रमाणाप्यन्यजातीया| फेनादीनां व सम्भवः| ऊर्ध्वराजी-उपरिभागे रेखा| सीमन्तो-विच्छेदः| तन्तुः-पिच्छा| अथ व्यञ्जन विशेषाः| तत्र रागादीन् लक्षयति| विच्छिन्नेति| विच्छिन्नाः- नष्टक्षीरवत् पृथग्भूतघनद्रवभागाः| विरसाः-विकृतरसाः| रागाः खाण्डवाश्च-पानकभेदाः| एवं शाकं पाठादि| आमिषं-मांसम्| तानि सर्वाणि रागखाण्डवादीनि सविषाणि विच्छिन्नविरसानि भवन्ति|

Adhikarana मांसरसादिद्रवेषु रेषा विशेषः,फलेषुपाकविशेषः माल्यवस्त्रधात्वादिषु विशेषः (७-१२) · Śloka १२

यत्र द्रवे यादृशी राजी सम्भवति, तां विशेषतो दर्शयन्नाह नीला राजी रसे, ताम्रा क्षीरे, दधनि दृश्यते| श्यावाऽऽपीतासिता तक्रे, घृते पानीयसन्निभा||७|| मस्तुनि स्यात्कपोताभा, राजी कृष्णा तुषोदके| काली मद्याम्भसोः, क्षौद्रे हरित्तैलेऽरुणोपमा||८|| पाकः फलानामामानां पक्वानां परिकोथनम्| द्रव्याणामार्द्रशुष्काणां स्यातां म्लानिविवर्णते||९|| मृदूनां कठिनानां च भवेत्स्पर्शविपर्ययः| माल्यस्य स्फुटिताग्रत्वं म्लानिर्गन्धान्तरोद्भवः||१०|| ध्याममण्डलता वस्त्रे, शदनं तन्तुपक्ष्मणाम्| धातुमौक्तिककाष्ठाश्मरत्नादिषु मलाक्तता||११|| स्नेहस्पर्शप्रभाहानिः सप्रभत्वं तु मृण्मये| |१२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रसे-मांसरसे विषवति, नीला-नीलवर्णा, राजी दृश्यत इति प्रकृतेन सम्बन्धः| एवं चाग्रेऽपि राजी दृश्यत इति योज्यम्| क्षीरे-क्षीरमध्ये, ताम्रा-ताम्रवर्णा| दधनि-दध्निश्यावा| तक्रे आपीतासिता-आनीलपीता| घृते सलिलनिभा| मस्तुनि कपोताभा| तुषोदके-काञ्जिके, राजी कृष्णा| मद्येऽम्भसि च काली| माक्षिके हरिद्वर्णा| तैलेऽरुणोपमा-ईषल्लोहितवर्णा| उदाहरणमात्रं त्वेतत्, तेन वसागन्धस्य च तैले सम्भवः, द्रवौषधस्य कपिला, इति| तथा, आमानां फलानां पाकः| पक्वानां परिकोथनं-शातनं भवति| आर्द्रशुष्काणां यथा संख्यं म्लानता-शुष्काभासत्वम्, तथा विवर्णता-श्यावत्वादि लक्षणा| मृदूनां कठिनत्वम्, कठिनानां मृदुत्वम्, अयं स्पर्शविपर्ययः| माल्यस्य-पुष्पस्य, स्फुटितं-विशीर्णं, अग्रं-प्रान्तो यस्य तत्स्फुटिताग्रम्, तस्य भावस्तत्त्वम्| तथा, म्लान्युद्भवो-म्लानता, गन्धान्तरोद्भवः-स्वगन्धनाशोऽन्यगन्धसम्भवश्च| ध्यामानि-मलिनानि, मण्डलानि-वृत्तानि, तेषां भावो ध्याममण्डलता, वस्त्रे-आस्तरणप्रावरणादिरूपे स्यात्| शदनं-शातः पातः स्यात्| केषाम् ? तन्तुपक्ष्मणाम्,-तन्तूनां-सूत्राणां पक्ष्मणां च पार्श्ववर्तिनां, वस्त्रसम्बन्धिनामेव| धातुः-सुवर्णादिः मौक्तिकं-मुक्ता, काष्ठं-दारु, अश्मा-पाषाणः, रत्नानि-वज्रमरकतादीनि, आदिशब्देन शङ्खशुक्त्यादिपरिग्रहः, तेषु मलाक्तता-पङ्कमलोपदिग्धता| स्नेहहानिः-तेषामेव धात्वादीनां स्नेहस्य व्यपगमः| एवं स्पर्शप्रभाहानिः| मृण्मये तु भाण्डे सविषे निष्प्रभेऽपि सप्रभत्वम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मांसरसादीन् राजीविशेषेण लक्षयति-नीलेति| रसे-मांसरसे, नीलवर्णा रजी-रेखा| क्षीरे ताम्रा| दन्धि स्यावा-कपिशा| तक्रे पीताऽसिता-गौरश्यामा| धृते पानीयसन्निभा-उदकवर्णा| मद्येऽम्भसि च काली-कृष्णा| क्षौद्रे हरित्-मरकतवर्णा| तैले अरुणोपमा| फलानि लक्षयति-पाक इति| अपव्कानां फलानां विषदुष्टानां पाक उपजायते, पक्वानां परिकोथनं-पूतीभावः| आर्द्रशुष्काणि लक्षयति-द्रव्याणामिति| आर्द्राणां द्रव्याणां म्लानिः-क्रिञ्चिच्छुष्कत्वम्, शुष्कानां विवर्णता-विकृतवर्णत्वम्| मृदुकठिनानि लक्षयति-मृदूनामिति| स्पर्शविपर्ययः-मृदूनां काठिन्यं कठिनानां मृदुत्वम्| माल्यं लक्षयति-माल्यस्येति| माल्यस्य-पुष्पस्य, अग्रभागेषु शीर्णत्वम्| वस्त्रं लक्षयति-ध्याममण्डलतेति| ध्याममण्डलता-मलिनमण्डलोत्पत्तिः| तन्तूनां पक्ष्माणि-सूक्ष्मावयवाः,तेषां शदनं-शातः| धात्वादीन् लक्शयति-धातुमौक्तिकेति| धातवः-सुवर्णादयः| रत्नं-माणिक्यादि| आदिशब्देन शङ्खशुक्त्यादयः| मलाक्तता-मलिनछैत्वम्| स्नेहादीनां च हानिः,- स्त्रिग्धानां स्नेहस्य, शीतादीनां स्पर्शस्य, तेजस्विनां प्रभायाः| मृण्मयं लक्षयति-सप्रभत्वमिति| सप्रभत्वं-निष्प्रभस्यापु प्रभोत्पत्तिः|

Adhikarana विषदातृलक्षणम् (१२-१३) · Śloka १३

इदानीं यो विषं ददाति, तस्य लक्षणमाह | विषदः श्यावशुष्कास्यो विलक्षो वीक्षते दिशः||१२|| स्वेदवेपथुमांस्त्रस्तो भीतः स्खलति जृम्भते| |१३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विषं ददातीति-विषदो नरः, श्यावं-श्यामं शुष्कमास्यंमुखं, यस्यासौ श्यावशुष्कास्यः,-श्यामशुष्कवदनः| किं करोति? विलक्षो वीक्षते दिशः,- दिश इति समन्तादित्यर्थः, विलक्ष इति लज्जावान्, वीक्षते-अवलोकयति| किञ्च, स्वदोषशङ्कया स्वेदवान्, वेपथुमान्, त्रस्तः-शरीरेण जातकम्पत्वात्, भीतः-चित्तेन सोद्वेगतयोपलक्ष्यमाणत्वात्| स्तम्भकुड्यादिभिरात्मानमन्तर्धापयितुमिच्छन्नितस्ततो गच्छंश्च स्खलितगतिर्भवति, तत आह-स्खलति| पुनःपुनश्च जृम्भां करोति, तेनाह जृम्भते| उपलक्ष्णं चेदं तत्तत्कालभाविनीनां क्रियाणाम्| तद्यथा (सङ्ग्रहे सू.अ.८)-"अस्थानहासी, पृष्टोऽसम्बद्धमुत्तरं ददाति नैव वा ददाति, विवक्षुर्मुह्यति, अङ्गुलीः स्फोटयति, शिरः कण्डूयते, ओष्ठौ लेढि, भुवं विलिखति, क्रियासु त्वरते, विपरीतमाचरति, स्वभूमौ च नावतिष्ठते|" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विषप्रयोक्तारं लक्षयति-विषद इति| विलक्षः-चलदृष्टिः| दिशो वीक्षते-इतस्ततोऽवलोकयति| त्रस्तः-उद्विग्नः| भीतः-चकितः| विषदलक्षणं तत्प्रयुक्तविषविशेषप्रश्नार्थम्|

Adhikarana सविषस्यान्नस्याग्निक्षेपादिना परीक्षा (१३-१४) · Śloka १४

इदानीं सविषयस्याग्निप्रक्षेपणादिकमुपदिशन्नाह | प्राप्यान्नं सविषं त्वग्निरेकावर्तः स्फुटत्यति||१३|| शिखिकण्ठाभधूमार्चिरनर्चिर्वोग्रगन्धवान्| |१४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सविषमन्नं प्राप्याऽग्निः स्फुटत्यति-चटचटायते, अतिशयेनेत्यर्थः| एकावर्त इति एक एवावर्तो यस्य, संहतसर्वज्वालत्वादसावेकावर्तः| शिखिकण्ठाभधूमार्चिः,-शिखी-मयूरः, तस्य कण्ठः-इन्द्रायुधवदनेकवर्णः, तस्येवाभा ययोर्धूमार्चिषोस्ते शिखिकण्ठाभे, ते तादृशे धूमार्चिषी यस्याग्नेरसौ शिखिकण्ठाभधूमर्चिः इन्द्रायुधवदनेकवर्णधूमज्वाल इति यावत्| अनर्चिर्वा-अज्वाल इति वा| उग्रगन्धवानिति कुणपगन्धवान्| निदर्शनं चेदम्| धूमोऽप्यस्य प्रसेकरोमहर्षशिरोवेदनापीनसदृष्ट्या कुलता अप्युत्पादयति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथाग्निक्षेपादिना सविषान्नलक्षणम्| तत्राग्निप्रक्षेपेणाह-प्राप्यान्नमिति| एकावर्तः-वामत एव दक्षिणत एव वा चलितज्वालः| स्फुटत्यति-भृशं चटचटायते| शिखिकण्टभधूमार्चिः-नीलधूमो नीलज्वालश्च| अनर्चिर्वाअनुत्पन्नज्वालो वा|

Adhikarana मक्षिकाकाकादिभिः परीक्षा सविषान्नत्यागप्रकारः (१४-१८) · Śloka १८

स्नेहलवणयोगादप्यग्निरेवं स्यात्, अतः पक्षिमृगैरपि परीक्षाप्रकारान्तरं दर्शयन्नाह | म्रीयन्ते मक्षिकाः प्राश्य काकः क्षामस्वरो भवेत्|१४| उत्क्रोशन्ति च दृष्ट्वैतच्छुकदात्यूहसारिकाः| हंसः प्रस्खलति, ग्लानिर्जीवञ्जीवस्य जायते||१५|| चकोरस्याऽक्षिवैराग्यं, क्रौञ्चस्य स्यान्मदोदयः| कपोतपरभृद्दक्षचक्रवाका जहत्यसून्||१६|| उद्वेगं याति मार्जारः शकृन्मुञ्चति वानरः| हृष्येन्मयूरस्तदृष्ट्या मन्दतेजो भवेद्विषम्||१७|| इत्यन्नं विषवज्ज्ञात्वा त्यजेदेवं प्रयत्नतः| यथा तेन विपद्येरन्नपि न क्षुद्रजन्तवः||१८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सविषमन्नमित्यनुवर्तते| मक्षिकाः सविषमन्नं प्राप्यम्रियन्ते-मक्षिकाः सविषेऽन्ने न निलीयन्ते, निलीनास्तु सद्यो विपद्यन्ते| विषदुष्टाहारात् काकः क्षामस्वरो भवेत्| उत्क्रोशन्ति-उच्चैः कूजन्ति, दर्शनादेव शुकदात्यूहसारिकाः| विषदर्शनमात्रादेव च हंसगतिः स्खलति| ग्लानिर्जीवञ्जीवस्य जायते| उपलक्षणं चेदम्| मरणमपि कस्यचिन्न ग्लानिरेव, एवं जीवञ्जीवकस्य| चकोरस्य अक्षिविरक्तता| 'दृष्ट्वैतत्' इति सर्वत्र योजनीयम्| क्रौञ्चस्य मदोदयो-मदोत्पत्तिः स्यात्| कपोतपरभृद्द्दक्षचक्रवाकास्त्यजन्त्यसून्-प्राणान्विमुञ्चन्ति, चात्यर्थं मरणदुःखाभ्याहताः| उद्विजतेऽत्यर्थं मार्जारः| वानरस्तु शकृत्पुरीषं मुञ्चति| उपलक्षणं चेदम्| पृष्ठतोमुखो रोदिति च| तथा, हृष्येन्मयूरस्तद्दृष्ट्वा| तदिति सविषान्नपरामर्शः| दृष्ट्वेत्यनुवर्तमानेऽपि पुनर्दृष्ट्वेति वचनं सर्वत्र मध्ये सम्प्रत्ययार्थम्, आद्यन्ताभ्यं गृहीतत्वात्| विषं चास्य दर्शनादेव मन्दतेजस्कं भवति| इति-एवं पूर्वोक्ताभिः परीक्षाभिः, अन्नं-भक्तादि, विषवत्-विषसंसृष्टं, ज्ञात्वा त्यजेदेतत्| कथम्? प्रयत्नतः-प्रयत्नेन| तमेव प्रयत्नं दर्शयन्नाह-यथा-येन प्रकारेण त्यज्यमानेन, क्षुद्रजन्तवो-मक्षिकादयोऽपि, तेन-विषेण, न विपद्येरन् न नश्येयुः तथा त्यजेत्| क्षुद्रजन्तवोऽपि किं पुनर्महान्तः, इत्यपि शब्दार्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मक्षिकादिप्राशनेन सविषं सूचयति-त्रियन्त इति| प्राश्य-सविषमन्नं भुक्त्वा, काकः क्षामस्वरः-क्रुशस्वरो भवेत्| शुकादिदर्शनेन लक्षयति-उत्क्रोशन्तीति| शुकादयो सविषान्नदर्शनेन उत्क्रोशन्ति-उच्चैः शब्दं कुर्वन्ति| दात्यूहः-अन्धकाकः| एतत्-सविषमन्नम्| अक्षिवैराग्यं-नेत्ररागापगमः| कपोतादयः प्राणांस्त्यजन्ति| परभृत्-कोकिलः| दक्षः-कुक्कुटः| मयूरो ह्रष्येत्-हर्षं प्राप्नोति| मयूरस्य विषन्धत्वं दर्शयति-तदृष्टचेति| तदृष्टचा-मयूरावलाकनेन| मन्दतेजः-अल्पप्रभावम्| सविषान्नस्य यागप्रकारं दर्शयति-इत्यान्नमिति| यथा तेन-सविषान्नेन,क्षुद्रजन्तवोऽपि न विपद्येरन्-न म्रियेरन्, एवं त्यजेत्|

Adhikarana सविषस्यान्नस्याग्निक्षेपादिना परीक्षा (१३-१४) · Śloka १४

इदानीं सविषयस्याग्निप्रक्षेपणादिकमुपदिशन्नाह | प्राप्यान्नं सविषं त्वग्निरेकावर्तः स्फुटत्यति||१३|| शिखिकण्ठाभधूमार्चिरनर्चिर्वोग्रगन्धवान्| ||१४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सविषमन्नं प्राप्याऽग्निः स्फुटत्यति-चटचटायते, अतिशयेनेत्यर्थः| एकावर्त इति एक एवावर्तो यस्य, संहतसर्वज्वालत्वादसावेकावर्तः| शिखिकण्ठाभधूमार्चिः,-शिखी-मयूरः, तस्य कण्ठः-इन्द्रायुधवदनेकवर्णः, तस्येवाभा ययोर्धूमार्चिषोस्ते शिखिकण्ठाभे, ते तादृशे धूमार्चिषी यस्याग्नेरसौ शिखिकण्ठाभधूमर्चिः इन्द्रायुधवदनेकवर्णधूमज्वाल इति यावत्| अनर्चिर्वा-अज्वाल इति वा| उग्रगन्धवानिति कुणपगन्धवान्| निदर्शनं चेदम्| धूमोऽप्यस्य प्रसेकरोमहर्षशिरोवेदनापीनसदृष्ट्या कुलता अप्युत्पादयति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथाग्निक्षेपादिना सविषान्नलक्षणम्| तत्राग्निप्रक्षेपेणाह-प्राप्यान्नमिति| एकावर्तः-वामत एव दक्षिणत एव वा चलितज्वालः| स्फुटत्यति-भृशं चटचटायते| शिखिकण्टभधूमार्चिः-नीलधूमो नीलज्वालश्च| अनर्चिर्वाअनुत्पन्नज्वालो वा|

Adhikarana वक्त्रगे विषे लालादयः तेषामौषधम् (२१-२२) · Śloka २२

लाला जिह्वोष्ठयोर्जाड्यमूषा चिमिचिमायनम्| दन्तहर्षो रसाज्ञत्वं हनुस्तम्भश्च वक्त्रगे||२१|| सेव्याद्यैस्तत्र गण्डूषाः सर्वं च विषजिद्धितम्| |२२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वक्त्रगे-मुखप्राप्ते, लाला भवति| जिह्वोष्ठयोर्जाड्यं भवति, ऊषादयश्च स्युः| रसाज्ञत्वं-जिह्वा रसं न चेतयत इत्यर्थः| हन्वोः स्तम्भश्च स्यात्| तत्र सेव्याद्यैः-पूर्वोक्तैः, गण्डूषा हिताः| सर्वं च-अन्यदपि, यद्विषं जयति तद्धितम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- सविषान्नभक्षणजान् रोगानाह-लालेति| लाला-श्लेष्मतन्तुस्त्रावः| जिह्वौष्ठयोर्जाडचं-स्तम्भः| मुखे चिमिचिमायनं-सर्वत्र मुखे सर्षपलिप्तस्येव दुःखम्| दन्तहर्षो-दन्तरोगविशेषः| लालादीनामौषधमाह-सेव्याद्यैरिति| सेव्याद्यैः-पूर्वोक्तैः| सर्वं विषिजित्_विषतन्त्रोक्तं प्रतिसारणप्रलेपादिकम्|

Adhikarana आमाशयगते वमनादयः पक्काश्यगते वमनादयः तेषामौषधम् (२२-२६) · Śloka २६

| आमाशयगते स्वेदमूर्च्छाध्मानमदभ्रमाः||२२|| रोमहर्षो वमिर्दाहश्चक्षुर्हृदयरोधनम्| बिन्दुभिश्चाचयोऽङ्गानां, पक्वाशयगते पुनः||२३|| अनेकवर्णं वमति मूत्रयत्यतिसार्यते| तन्द्रा कृशत्वं पाण्डुत्वमुदरं बलसङ्क्षयः||२४|| तयोर्वान्तविरिक्तस्य हरिद्रे कटभीं गुडम्| सिन्दुवारितनिष्पावबाष्पिकाशतपर्विकाः||२५|| तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम्| नावनाञ्जनपानेषु योजयेद्विषशान्तये||२६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विषान्ने आमाशयं प्राप्ते स्वेदादयः स्युः| अक्षिहृदययोः रोधनं-स्तम्भः| बिन्दुभिः-नानावर्णैः, अङ्गानामाचयः-समन्ताच्चयनम्| पक्वाशयगते तु विषेऽनेकवर्णं वमति, मूत्रयति, अतिसार्यते, तन्द्रादयश्च भवन्ति| तयोः-आमपक्वाशयगतयोर्विषयोः, वर्तमानस्य पुंसो यथायोगं वान्तविरिक्तस्य हरिद्रे कटभीत्यादिकमौषधं नावनादिषु योजयेत्| तत्र मदनफलालाबुकुम्भीकोशातकीफलैर्मधुयुक्तैर्निष्पावाम्बुयुक्तैर्वमनम्| वान्तस्य स्नेहयित्वा विरेचनम्| पक्वाशयगते त्ववमितस्यैव नीलिनीफलयुक्तेन घृतेन विरेचनमेव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- सविषान्नामाशयप्रप्तिजान् रोगानाह-आमाशयगत इति| चक्षुर्हृदयरोधनं-नेत्रयोर्मनसश्च क्रियाप्रति बन्धः| बिन्दुभिरङ्गानामाचयः-जलबिन्द्वाकारस्फोटव्याप्ताङ्गत्वम्| सविषान्नपव्काशयप्रप्तिजान् रोगानाह-पव्कशयगत इति| पाण्डुत्वं-शुल्कत्वम्| उदरं_उदराख्यो रोगः| आमपव्काशयविकारयोरौषधमाह-तयोरिति| वान्तविरिक्तिस्येति क्रमाद्योज्यम्| आमाशयविकारेषु वान्तस्य| पक्वाशयविकारेषु विरिक्तस्य| हरिद्रादीनि नावनादिषु योजयेत्| हरिद्रे-हरिद्राद्वयं निशा दार्वी च| कटभी-गिरिकर्णका| सिन्दुवारितो-निर्गुण्डी| निष्पावो-वल्लः| बाष्पिका-हिङ्गुपत्री| शतपर्विका-वचा| कुक्कुटस्य पक्षिणोऽण्डम्| अवल्गुजो-बाकूची| आहारं विनापि प्रयुक्तस्य विषस्य शान्त्यर्थमयं योगः स्यादिति " इत्युक्तम्| सङ्ग्रहे तु (सू. अ. ८)-"ईश्वराणां वसुमतां विशेषेण तु भूभुजां प्रायेण मित्रेभ्योऽप्यमित्रा भूयांसो भवन्ति| ततस्तत्प्रयुक्ताः समासन्नवर्तिनोऽन्नपानादिषु विषं प्रयच्छन्ति, स्त्रियश्च तत्प्रणिधिप्रयुक्ताः सौभाग्यलोभेन| तस्माद्राजा कुलीनं स्निग्धमात्पमास्तिकमार्यमार्यपरिग्रहं दक्ष दक्षिणं निभृतं शुचिमनुद्धतमनलसमव्यसनमनहङ्कृतमकोपनमसाहसिकं वाक्यार्थावबोधकुशलं निष्णातमष्टाङ्गे यथाग्नायमायुर्वेदे सुविहितयोगक्षेमं सन्निहितागदादियोगं सात्म्यज्ञं च प्राणाचार्यं परिगृह्णीत| तमर्थमानाभ्यां यथाम्नायं सम्प्रदायानतिक्रमेण कालेऽनुकालं गुरुमिव शिष्यः पितरमिव पुत्रः पूजयेत्| प्रतिकूलमपि च तद्वचः साम्प्रतमिति मन्येत| न हि भद्रोऽपि गजपतिर्निरङ्कुशः श्लघनीयो जनस्य| तस्मात्तदायत्तमाहारविहारं प्रति चात्मनः कुर्यात्| उपात्तमपि खलु जीवितमुपायबलेन स्वसमयमधितिष्ठति| अपि च बहुपरिग्रहा नरपतयः| सन्ति चाशुकारिणः शूलसत्र्यासादयः| प्रतिक्षणं प्रत्यवेक्षणीयावस्थाश्च रोगिणो, विशेषेण राजानः| ते हि प्रमादपरिगता दुःखाहिष्णवः स्वयमप्यपथ्यरुचयः सन्निहिताहितप्रियवचनप्रायपरिवाराश्च| तस्माद्भिषजो राजा राजगृहासन्ने सन्निवेशनं कारयेत्| तथा हि स सर्वोपकरणेषु नृपतिशरीरिपयोगिष्वपरोक्षवृत्तिर्भवाति| स सम्यक्सम्पन्नमन्नं सुपरीक्षितं विशुद्धमग्नयादिषु प्रागुपनीतं शिखिना दृष्टमभिप्रोक्षितं प्रोक्षणैः पुरः स्थितो राजानं हस्तबद्धौषधिरत्नं भोजयेत्| भुञ्जानस्य चास्य दुन्दुभीनगदप्रलिप्तान् वादयेत्| दन्तकाष्ठप्रयुक्ते तु विषे कूर्चकविशरणमौषधगन्धो रूक्षता जिह्वादन्तौष्ठमांसशोफश्च| तत्र प्रच्छाय धातकीपुष्पजाम्बवास्थिहरीतकीचूर्णैः सेक्षोद्रैः सप्तच्छदकल्केन वा प्रतिसारणं कुर्यात्| दाडिमकरमर्दकभव्याम्रातककोलबदररसक्षौद्रयुक्तं गण्डूषम्| अनेन जिहानिर्लेखनकवलगण्डूषा व्याख्याताः| अञ्जनप्रयुक्तेऽश्रूपदेहदाहरागवेदना दृष्टिविभ्रमा भवन्त्यान्ध्यं च| तत्र सर्पिष्पानं योज्यम्| शृतेन पयसा सत्पकृत्वः पिप्पलीर्भावयेत्| ततस्तकल्केन सर्पिर्विपध्कं नेत्रतर्पणम्| कपित्थमेषशृङ्गीभल्लातकानां पुष्पैर्वरणनिर्यासेन चाञ्जनम्| बृहतीशिरीषबीजप्रपौण्डरीकनागबलाचूर्णं सत्पकृत्वो मधुना भावयेत्| तच्च स्रोतोञ्जनसुवर्णचूर्णचूर्णयुक्तमञ्जनम्| नस्यधूमप्रयुक्ते शिरिरुक्कफास्त्रावः खेभ्यो रुधिरागमनमिन्द्रियवैकृतं च| तत्रातिविषाश्वेताकाकमाचीमदयन्तिकाकल्कक्षीरसिद्धं सर्पिर्नस्ये पानेच विदध्यात्| मदयन्तिका-मल्लिका| अभ्यङ्गप्रयुक्ते त्वग्दाहस्वेदपाकस्फोटावदरणानि| तत्र शीताम्बुपरिपिक्तस्य चन्दनतगरोशीरकुष्ठवेणुपत्रिकाऽमृतासोमवल्लीश्वेतापद्मकालीयकैरनुलेपनम्| वेणुपत्रिका-बाष्पिका| एतान्येव च सकपित्थरसगोमूत्राणि पानम्| गिरिकर्णिकाश्वेतामूलप्रियङ्गुसारिवामधुकसर्पसुगन्धामृगैर्वारुमूलानि शेलुक्वाथपिष्टानि प्रलेपः| अनेनोद्वर्तनोद्धर्षणपरिषेकानुलेपनभूषणयानशय्यास्तरणवस्त्रकवचपादुकोपानत्पादपीठा व्याख्याताः| विशेषतस्त्वाभरणकृते विकारेऽश्वगन्धापामार्गकिणिहीखदिरशिरीषकल्कैर्गोपित्तसंयुक्तैः प्रदेहः| पादपीठकृते श्लेष्मातकसर्पसुगन्धाकल्को मधुयुक्तः| छत्रप्रयुक्ते स्फोटानां क्षिप्रपाकानां पव्कजाम्बवप्रकाशानां प्रादुर्भावः| तत्र मधुकपाटलाकपाटलाकसेरुकरोध्राञ्जनकुष्ठसर्पसुगन्धाखदिरशिरीषकल्कैर्गोपित्तप्रयुक्तैः सर्व गात्रप्रदेहः| अनेन चामरव्यजने व्याख्याते| शिरोऽभ्यङ्गप्रयुक्ते वेदनारन्थिजन्म केशच्यवनं च| तत्र श्यामापालिन्दीतन्दुलीयकचूर्णधृतर्क्षपित्तैः सुभाविता कृष्णा मृत्प्रलेपः| गोमयमालतीमूषिकपर्ण्यन्यतमरसः कल्को वाऽगारधूमो वा| श्लेष्मातकरत्वक्पाटलाशिरीषमधूकहरिद्राद्वयैरजाक्षीरालोडितैः परिपेकः| अनेन शिरःस्नानस्नपनोदककङ्कतकस्त्रगुष्णीषा व्याख्याताः| कर्णपूरणप्रयुक्ते शोफशूलपाकाः श्रोत्रवैगुण्यं च्च्| तत्र बहुपत्रास्वरसो धृतक्षौद्रयुक्तः कर्णपूरणम्, सोमवल्कलरसो वा सुशीतः| मुखालेपप्रयुक्ते मुखस्य श्यावता पद्मकण्टकाश्च भवन्त्यभ्यङ्गजाश्च विकाराः| तत्र मधुकपय स्याबन्धुजीवफञ्जीपुनर्नवाचन्दनैः सधृतैर्लेपो मधुसर्पिषोः पानं च| सविषपुष्पाध्राणात् शिरोनासाव्यथा साश्रुनेत्रता गन्धाज्ञानं च| तत्रानन्तरोक्तो विधिर्बाष्पोदितश्चेति| भवति चात्र| फलमूलच्छदादीनां दद्यात्प्रक्षालनोदकम्| भाजनव्यञ्जानां च तथा कुर्यादतन्दिर्तः|| घ्रेयाणि घ्रापयित्वा तु स्पृश्यान् संस्पृस्य तानपि| प्रतीवापं ततो दत्वा प्रतीक्ष्यैवैकनाडिकाम्|| ततो विज्ञाय शुद्धिं च भाजनस्योदकस्य च| आहारमुपयुञ्जीत यथावद्वसुधाधिपः|| मन्दं तीक्ष्णविषाभ्यासे विषमुत्तीर्यते भृशम्| तस्मात्तीक्ष्णविषं हस्ते बध्नीयात्कुशलो भिषक्|| विषसन्धारणं धन्यं रक्षोघ्नं प्रीतिवर्द्धनं| अपि च| सापिधानघटीमूटफलकस्थापितौषधम्| प्रागुदीच्योर्दिशोर्गुप्तं भैषज्यागारमिष्यते|| घठ्यादीनि-मृत्तृणकाष्ठमयानि| उच्चैः प्रशस्तदिग्देशं बहुवातायनं महत्| महानसं सुसंमृष्टं विश्वास्यजनसेवितम्|| सद्द्वाःस्थाधिष्ठितद्वारं कक्ष्यावत्सवितानकम्| सुधौतद्दढकुम्भादि परिशुद्धजलेन्धनम्|| स्वकर्मकुशला दक्षाः सूदास्तत्राप्रमादिनः| क्लुप्तकेशनखाः पित्र्या राज्ञः कृत्यैरङ्गताः|| तेषामधिपतिर्विप्रः कुलजः सिपरीक्षितः| संविभक्तश्च भक्तश्च शुचिर्वैद्यवशानुगः|| संविभक्तः-उदासीनः| सर्वेऽपि भूभृदासन्नाः शस्ताः सततमीद्दशाः| मिथो विग्रहसङ्घातरहिता भूभृते हिताः|| तान् वैद्यो गुणवानेको मनसा प्रतिजागृयात्| भूभृद्देहोपकरणसंरक्षणसमुद्यतः|| अथाभ्यमित्रं व्रजतो जिगीषोर्वैद्यः सुसजौषधशस्त्रयन्त्रः| तुङ्गध्वजाख्यातनिवासभूमिर्युद्धागतं योधजनं चिकित्सेत्|| पन्थानमुदकं छायां भक्तं यवसमिन्धनम्| दूषयन्त्यरयो यस्मात्तद्विद्याच्छोधयेत च| प्रस्थानं वा निवेशं वा नाविज्ञाय प्रयोजयेत्| भूवारितृणकाष्ठाश्ममार्गन् मार्गवनस्पतीन्|| विषेणोपहता भूमिः क्वचिद्दग्धेवलक्ष्यते| प्रम्लानतृणगुल्मादिर्मृतकीटसरीसृपा|| विशीर्यन्ते खुरनखा दाहकण्डूरुजान्विताः| छर्दिर्मूर्च्छा ज्वरो मोहः शिरोदुःखं च जायते|| तत्र सौभाञ्जनान्मूलं वल्लीं सोममुशीरकम्| मातुलुङ्गरसं हिङ्गु पाययेद्दधिमात्रया|| वल्लीप्रियङ्गुः| मूत्राण्यजाविहस्तिभ्यो मांसानि रुधिराणि च| सर्वगन्धैः समायोज्य पचेत्पक्वे च निक्षिपेत्|| सोमराजीं सुनन्दाख्यां सरलां गन्धनाकुलीम्| चारटीं त्रायमाणां च प्रोक्षयेत्तेन तां भुवम्|| सुनन्दाख्या-गोरोचना| चारटी-पद्मचारिणी| सविषं विरसं तोयं कोविष्णं राजिभिश्चितम्| फेनिलं गुरु विच्छिन्नं खगैरनभिनन्दितम्|| मृताकुलितमत्स्यं च स्पर्शात्तच्छोफकण्डुमत्| ओदनः साधितस्तेन भुक्तमात्रो विदह्याए|| विदग्धः पच्यते कृच्छ्रात्पव्को मूर्च्छाज्वरप्रदः| दर्शयेत्सर्वतो नीलपीतकर्बुरलोहितम्|| तत्र शिग्र्वादिमगदं भूमिदोषोदितं पिबेत्| अजशृङ्गीं विशालाख्यां विषघ्नीमुत्तमारणीम्|| फणिज्जकं प्रतिविषां दग्ध्वा तद्भस्म गालयेत्| बहुशो गालितं तच्च पाचयेत्तत्र च क्षिपेत्|| कल्कयेत्वा प्रतीवापं सरलां रजनीद्वयम्| एलामुदीच्यं मञ्जिष्ठां सुनन्दां बाकुचीमपि|| पात्यन्ते बिन्दवस्तस्माद्यत्र तन्निर्विषीभवेत्|| पाटलापारिभद्राश्वकर्णस्यामाक शिग्रुकान्|| कलशान्तर्गतान् द्ग्ध्वा प्रक्षिपेत्सविषेऽम्भसि| शीते घर्मो हिमश्चोष्णे मारुतो विषसंयुतः|| भ्रममूर्च्छादिकारी च शिग्र्वादिस्तत्र चेष्यते| देवदारुनतानन्तामधुकाञ्जनगैरिकम्|| वज्रकन्दं लतां रोध्रं विकिरेत् श्लक्ष्णचूर्णितम्| वृक्षाग्रेषु पताकासु दूष्येषु सुमहत्सु च|| सर्वतश्चूर्णसम्पर्कान्निर्विषो जायतेऽनिलः| विकृता भवति च्छाया पादपे विषदूषिते|| निर्गन्धमतिगन्धं वा तत्पुष्पं हृच्छिरोरुजम्| कुर्यात्, फलपलाशादि कण्डूआकातिसारकृत्|| भूमि मुद्दिश्य यत्प्रोक्तं तत्सर्वं तत्र शस्यते| न च कन्यामविदितां संस्पृशेदपरीक्षिताम्|| विविधान् कुर्वते योगान् कुशलाः खलु मानवाः| आजन्मविषसंयोगात्कन्या विषमयी कृता|| स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत्परीक्षणम्| तद्धस्तकेशासंस्पर्शान्म्लायते पुष्पपल्लवैः|| शय्यायां मत्कुणैर्वस्त्रे यूकाभिः स्नानवारिणि| जन्तुभिर्म्रियते ज्ञात्वा तामेवं दूरतस्त्यजेत्|| नाप्रोक्षितं नाविदितं भिषजा नानविक्षितम्| नाप्राशितं च सूदाद्यैः किञ्चिदाहारयेन्नृपः|| धन्यं सर्वार्थसिद्धाख्यं पात्मरक्षोविषापहम्| परं चक्षुष्यमायुष्यं शत्रुघ्नं वक्ष्यतेऽञ्जनम्|| अथ शुक्लपक्षे पुण्येऽहनि पुष्पपुनर्वसुहस्तचित्रामृगशिरः श्रवणरेवतीशतभिषक्प्राजापत्योत्तराणामन्यतमेन नक्षत्रेण योगमुपगते भगवत्योषधिपतौ प्रशस्ते मुहूर्ते सिन्धुस्त्रोतः समुत्थं स्निग्धं सप्रभं गन्धवर्णच्छेदैर्नीलित्पलाभमञ्जनमाहरेत्| तस्याष्टौ भागाः, कनकरजतोदुम्बराणामेकैको भागः, तत्सर्वं मूषायां प्रक्षीप्य, बलिमङ्गलपूर्वकमग्निमुपसमाधाय, खदिरकदरधवस्यन्दनान्यतमदारुभिर्गोमयैर्वा प्रज्वालयेत्| ततश्चार्यावलोकितेश्वरमार्यतारां ब्रह्मदक्षाश्विरुद्रेन्द्रात्यसोमवरुण- वैश्वानरवायुविष्णुजनकभरद्वाज्धन्वन्तरिसुश्रुतभवसुकन्या-स्कन्दच्यवनवैनतेयानन्याश्च यथाविध्युक्तदेवताः सुमनोऽक्षतलाजास्वस्तिकसंयावनिस्तुषयवसंस्कृतगुडधृतमिश्रपायसैरर्चयित्वा,वृद्धवैद्यब्राह्राणांश्च शुक्लवाससो महतीभिर्दक्षिणाभिः पूजयित्वा, तस्मिन्नग्नौ तदञ्जनं ध्मातं ध्मातमावर्त्य पृथक्पृथङ्गिषेचयेत्| गोशकृद्रसमूत्रघृतदधिक्षौद्रवसामज्जतैलमद्यसर्वगन्धाम्बुशर्करोदकेक्षुरसेषु, तथा हरीतक्यामलकबिभीतककाश्मर्यमृद्वीकाशृङ्गाटककसेरुकोत्पलनलिनसौगन्धिकमृणा-लिकाक्वाथेषु, तथालावकपिञ्जलैणशशहरिणकुलीररसेषु, तथा मधुकचन्दनकालानुसार्यनलदपद्मकोशीरमञ्जिष्ठानन्तागैरिककुङ्कुमोदकेषु| कालानुसार्यं-शैलेयम्| ततः शुक्ले वाससि बद्ध्वा द्वादशरात्रमान्तरिक्षेऽम्भसि वासयेत्| तत्श्छायायां विशोष्य स्फटिकमुक्ताप्रवालकालानुसार्यप्रतीवापं पुनरपि बलिमङ्गलपूर्वकमहरवाससा कन्यया द्दषदि पेषयित्वा सुवर्णरजतताम्रशङ्खशैलद्विरदरनगवलवैडूर्यस्फटिकमेषशृङ्ग्यसनसारान्यतमधटि-तायामञ्जनिकायां निधापयी| गवलं-माहिषं शृङ्गम्| अथ पुनरपि पूर्ववत्कृतस्वस्त्ययनं सावित्रेण कर्मणाऽथर्वविद्द्विजन्मना विधिवत् तदभिसंस्कुर्यात्| ततो गजस्कन्धमारोप्य पाण्डुरच्छत्रचामरवालव्यजनैरनुगतं तथा शङ्खदुन्दुभिस्वनैर्द्विजातिवरप्रयुक्तैश्च वेदवादमिश्रैः पुण्याहघोषैः कृतपुश्पोहारं वैद्यगृहान्नायकगृहमनुप्रवेशयेत्| अनन्तरं च तेन विदेहाधिपोपदिष्टेन सर्वार्थेषु सिद्धेनाञ्जनेन यथोक्तानामेवाञ्जनभाजनद्रव्यानामन्यतमया शलाकया गोब्राह्राणपूजापूर्वकं शुचिः सनियमो भूत्वा धारिणीमिमां विद्यामधीयानः पूर्वमक्षि दक्षिणमञ्जयेत्| नमश्चक्षुःपरिशोधनराजाय तथागतायार्हते सम्यक्सम्बुद्धाय| तद्याथा ऊँचक्षुःप्रज्ञाचक्षुर्ज्ञानचक्षुर्विज्ञानचक्षुर्विशोधय स्वाहा| तत् परं तामेव धारिणीमनुसंस्मरत् सायंप्रतः प्रत्यहमेतेत्परमं पवित्रमारोग्यकरमूर्जस्करं सर्व विघ्नहरमञ्जानमश्विभ्यामिन्द्रस्य वृत्रवधाभ्युद्यतस्य प्राक्प्रकल्पितम्| त स्मादेतद्राज्ञां राजमहामात्राणां च महीं विजिगीषमाणानां ब्राह्राणानां च वेदाध्ययनमन्यद्वा महच्छास्त्रमवगाहमानानां प्रसन्नमना भिषक् प्रकल्पयेदिति| भवन्ति चात्र| अथ योगाः प्रवक्ष्यन्ते बृहस्पतिकृताः| शिवाः| यान् सेवमानो नृपतिः शत्रुभ्यो नैति वञ्चनम्|| बिल्वाढकीयवक्षारपाटलाबाष्पिकोषणाः| श्रीपर्णीशल्लकीयुक्ता निष्व्काथः प्रोक्षणं परम्|| आढकी-सौराष्ट्री| सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम्| यवसेन्धनपानीयवस्नशय्यासनौदनम्|| कवचा भरणच्छत्रवालव्यजनवेश्म् च| शेलुपाटल्यतिविषाशिग्रुगोपीपुनर्नवम्|| समङ्गावृक्षमूलत्वक्कपित्थवृषशोणितम्| सहदन्तशठं तद्वत्प्रोक्षणं विषनाशनम्|| शोणितं-कुङ्कुमम्| लाक्षाप्रियङ्गुमञ्जिष्ठासमङ्गालहरेणुकाः| सयष्ट्याह्वा मधुयुता बभ्रुपित्तेन कल्किताः|| निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले| ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेर्|| संसृष्टं सविषं तेन सद्यो भवति निर्विषम्| बभ्रुः-नकुलः| मनोह्वालशमीपुष्पत्वङ्निशाश्वेतसर्षपाः|| कपित्थकुष्ठमजिष्ठाः पित्तेन श्लक्ष्णकल्किताः| शुनो गोः कपिलायाश्च सौम्या ख्योऽयं वरोऽगदः|| विषजित्परमं कार्यो मणिरत्रचपूर्ववत्| मूषिकाऽजरुहा वापि हस्ते बद्धा विपापहा|| हरेणुमांसीमञ्जिष्टारजनीमधुकं मधु| अक्षत्वक् सुरसं लाक्षा श्वपित्तं पूर्ववन्मणिः|| वादित्राणि पताकाश्च पिष्टैरेभिश्चलेपिताः| श्रुत्वा द्दष्वा तमाघ्राय सद्यो भवति निर्विषः|| त्र्यूषणं पञ्चलवणं मञ्जिष्ठां रजनीद्वयम्| सूक्ष्मैलां त्रिवृतां पत्रं विडङ्गानीन्द्रवारूणीम्|| मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत्| तस्मादुष्णाम्बुना मात्रां प्राग्भक्तां योजयेत्तथा|| विषं भुक्तं जरां याति निर्विषेऽपि न दोषकृत्| जतुसर्जरसोशीरसर्षपापात्रवालकैः|| सवेल्लारुष्करपुरैः कुसुमैरर्जुनस्य च| धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम्|| न तत्र कीटाः सविषा नोन्दुरा न सरीसृपाः| न कृत्याः कार्मणाद्यश्र धूपोऽयं यत्र दह्राते|| शिखिपिच्छं बलाकास्थि सर्षपाश्चन्दन घृतम्| धूपो विषघ्नः शयनवसनासनगेहगः|| विशालाव्योषमञ्जिष्ठायष्टीलवणपञ्चकम्| द्विनिशापत्रवेल्लैलात्रिवृच्चूर्णं समाक्षिकम्|| पूर्वोक्तं त्र्यूषणादिं च स्नानीयेऽम्भसि योजयेत्| क्वाथोऽथवाऽर्ककुसुमश्वेतापामार्गसर्षपैः|| सदध्याज्यः कृतो युक्तैः कामातानाकुलीयकैः| कल्को वा चन्दनक्षीरिपलाशद्रुमवल्कलैः|| मूर्वैलवालुसुरसानाकुलीतन्दुलीयकैः| क्वाथः सर्वोदकार्येषु काकमाचीयुतैर्हितः|| रोचनापत्रनेपालीकुङ्कुमैस्तिलकं वहन्| विषैर्न बाध्यते स्याञ्च नारीनरनृपप्रियः|| चूर्णैर्हद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः|| दिग्धं निर्विषतामेति गात्रमित्याह गौतमः|| नस्यपानासानालेपैर्युञ्ज्यात्सञ्जीवनादिकान्| अगदान् विषजग्धस्य तीक्ष्णानि दमनानि च|| अगदान्-विषतन्त्रोक्तान्| पिप्पलीमधुकक्षौद्रशर्करेक्षुरसैः सह| विरेचनं शिरामोक्षं प्रप्तं विस्रावणं यदि|| ह्रदयावरणं कार्यं प्रागेवामित्रमध्यगः| पिबेद्धृतमजेयाख्यममृतं वाऽप्यभुक्तवान्|| अजेयामृते-विषतन्त्रोक्ते| सर्पिः क्षौद्रं दधि क्षीरमन्ततः शीतलं जलम्|| अन्ततः-अन्ते सर्वाभावे, अत एव पूर्वेषु पूर्वाभावे परमित लभ्यते| सितामधुकपालिन्दीकल्कवन्मांसमिष्यते|| गोधाहरिणबभ्रूणां सकणाशुण्ठि पार्षत्तम्| सनागरं सातिविषं शिखिनः ससितोफलम्|| सुशीताः सघृताश्चैषां यथास्वं कल्पिता रसाः| इथ्यं विषगरादिभ्यो रक्षेद्वैद्यो नरेश्वरम्| स्यात्तदुच्छेद उच्छेदः प्रजानां सर्वकर्मणाम्|| आज्ञाधैर्यक्षमात्यागा मानुषत्वेऽप्यमानुषाः| यद्राज्ञः कर्मभिस्तस्मादाराध्योऽसावतीन्द्रियैः|| यत्र साक्षान्नृपस्तत्र निज्ञातः प्रविशेद्भिषक्| न सम्मतोऽप्यनुचितं यानस्थानासनं भजेत्|| उचितं पुरतो राज्ञस्तिष्ठेद्वाक्यं च नाक्षिपेत्| अहीनकालं राजार्थं, स्वार्थं प्रियहितैः सह|| देशे काले परार्थं च वदेद्धर्मार्थसंहितम्| नानुशिष्यादपृच्छन्तं महदेतद्धि साहसम्|| नाचरेदहितेनैनं मूलोच्छेदकरं हि तत्| अनुकूलं हितं वाच्यमहिताद्वारयेन्मिथः|| उदारैः सान्त्वथन्वाक्यैर्दोषश्चेत्तदुपेक्षया| तूष्णीं वा प्रतिवाक्ये स्याद्वर्जयेद्द्वेष्यसङ्कथाम्|| विपश्चिदप्यचित्तज्ञो बालशोऽपि तु भाववित्| अतिप्रियोऽपि द्वेष्योऽपि यात्याशु विपरीतताम्|| निवेद्य राज्ञे कुर्वीत कार्याणि सुलघून्यपि| न यायान्न चिरं तिष्ठेत्कोशस्थानावरोधयोः|| स्वल्पेऽपि दर्शये त्तुष्टिं लाभेऽनुद्धतमानसः| मिथः कथनमन्येन कौलीनं द्वन्द्ववादिताम्|| वस्त्रादि राज्ञः सद्दशं राजलीलां च वर्जयेत्| दत्तं यत्तु नृपेणैव तद्धार्य तुष्टिवृद्धये|| हसितव्ये स्मितं कुर्यात्प्रभोरेवानुवृत्तितः| उच्यमानेऽवलम्बेत परमर्मणि मूकताम्|| स्वमर्मणि तु बाधिर्यं धैर्यमाधुर्यसौष्ठवम्| अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रितम्|| पातो यथा हिदुःखाय नोच्छ्रायः सुखकृत्तथा| आसन्नसेवा नृपतेः क्रीडाशस्त्राहि पावकैः|| कौशलेनामहता विनीतैः सा निरुध्द्यते| प्राप्य दुष्प्रापमैश्वर्यं बहुमानं च भूपतेः|| यथोपयुञ्जीत चिरं तथास्यादप्रमादवान्| विदध्यात्परितः शय्यां रक्षामन्त्राभिमन्त्रितान्|| रात्रौ सिद्धार्थकान् भूतिमक्षतैरन्वितां शुचिम्| रक्षाशक्तिं तथोच्छीर्पे सयवाङ्कुरयावकाम्| सदूर्वं पूर्णकलशं सपुष्पफलपल्लवम्| उपहारं च सन्ध्यायां भुक्त्वा चान्ते निशासु च|| एतस्वस्त्यनं कर्म कर्तव्यं शुचिना शुचेः| आयुष्यं पौष्टिकं भूतविषकार्मणपाप्मजित्|| सङ्क्षेप एषविषपालनसाधनाय प्रोक्तस्तु विस्तरविधिः पुनरुत्तरेषु| आलोच्य सम्यगखिलं मतिपूवकारी युञ्जीत तत्परिकलय्यविकारचिह्नम्|| इति विषगररक्षोणायोपदेशं भजति नरपतिर्यो नित्यमेवाप्रमत्तः| निजपररिपुवृन्दैप्रधृष्यो महात्मा स जनयति जनानां क्षेमयोगौ चिराय|| "इति|

Adhikarana भुक्तविषस्यौषधम् (२७-२८) · Śloka २८

विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा| सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्||२७|| शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्| |२८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विषभुक्ताय पुंसे ऊर्ध्वमधश्च शुद्धाय काले सूक्ष्मं- अतिश्लक्ष्णं ताम्रचूर्णं समाक्षिकं दद्यात्| किम्भूतम्? हृद्विशोधनं,- हृदयशुद्धये इत्यर्थः| विषभुक्तायेति 'आहिताग्न्यादित्वात्' परनिपातः| काल इत्युपलक्षणम्| देशसात्म्याग्न्यादीन् व्यपेक्षेतेत्यर्थः| शुद्धे हृदे-स्वलिङ्गे ज्ञाते, ततः-अनन्तरं, हेमचूर्णस्य शाणं-कर्षचतुर्थांशं, दापयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- कृतपूर्वोक्तोपचारस्य विषशेषशङ्कानिवृत्यर्थमुपचारमाह-विषभुक्तायेति| शुद्धायेति पुनरपि कृतवमनविरेचनाय| काले-औषधकाले, संसर्जनक्रमानन्तरमित्यर्थः| हृद्विशोधनं-हृदयस्थितविषनिर्हरणं, ताम्रचूर्णं प्रयोजयेत्| ततः-कर्षचतुर्थांशम्,हेमचूर्णमद्यात्|

Adhikarana सुवर्णप्रयोगफलम् (२८-२९) · Śloka २९

हेम्नि दत्ते सति, यो गुणः स्यात्तमाह | न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम्||२८|| जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः| |२९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- हेम पिबतीति-हेमपः, तस्याङ्गे विषं न सज्जते| कथम्? पद्मपत्रे जलमिव| तस्य च हेमपस्य विस्तीर्णमायुर्जायते| एष विधिर्गरेऽपि स्मृतः, यो विष उक्तः| सज्जत इत्यत्रात्मनेपदं चिन्त्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- सुवर्णप्रयोगफलमाह-न सजत इति| हेमं पिबतीति-हेमपः, तस्याङ्गे विषं न सजते-सङ्गं न गच्छति, विपुलं चायुर्जायते| सज्जत इति पाठे सङ्गार्थकषञ्जेरात्मनेपदत्वं चिन्त्यम्| विषोक्तविधिं गेरेऽप्यतिदिषति-गरेऽप्येष इति| गरंकृत्रिमं विषम्| "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः" इति न्यायात् गरे विषविधेरप्रात्पत्वादतिदेशः|

Adhikarana विरूद्धाहारस्य विषगरीपमत्वम् (२९) · Śloka २९

| विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||२९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विरुद्धं चाहारं विषगरोपमं विद्यात्| विषगरवद्विरुद्धाहारा अपि व्याधिमृत्युहेतव इत्यर्थः| तथा चोक्तं सङ्ह्ग्रहे(सू.अ.९)-"विस्फोटगुल्ममदविद्रधिमेहयक्ष्मतेजोबलस्मृतिमतीन्द्रयचित्तनाशम्| कुर्याद्विरुद्धमशनं ज्वरमस्रपित्तमष्टौ गदांश्च महतो विषवच्च मृत्युम्|" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथ विरोधादन्नपाअनक्षा| विरुद्धान्नस्य दोषहेतुत्वमाह-विरुद्धमपीति| विरुद्धं-संयोगादिविरोधवत्| कस्यचिद्विरुद्धाहारस्य विषवत्सद्यो नाशकत्वात् कस्यचिद्गवत्कालान्तरनाशकत्वाद्रोगजनकत्वाच्चोपमानद्वयमुक्तम्| उक्तं च सङ्ग्रहे( सू. अ. ९ ) "विस्फोटगुल्ममदविदधिशोफय-क्ष्मतेजोबलस्मृत्तिमतीन्द्रियवित्तनाशान्| कुयाद्विरुद्धमशनं ज्वरमस्रपित्तमष्टौ गदांश्च महतो विषवच्च मृत्युम्|| " इति "| विरोधश्च सप्तधा,-संयोगसंस्कारमात्रादेशकालावस्थास्वभवभेदात्| संयोगस्त्रिधा,- बलवद्गुणानां साम्यत् वैषम्यात् साम्यवैषम्याभ्यां च| एवं नव भेदाः| ने च सोदाहरणाः सङ्ग्रहे दर्शिताः (सू. अ. ९)- " बलिनां मिथा गुणानां विषमतया समतयाऽप्युभयथाऽपि| संस्करदिवशादपि भवति निसर्गादपि विरोधः|| क्षीरं कुलत्थैः पनसेन मत्स्यैस्तप्तं दधि क्षौद्रघृते समांशे| वार्यूषरे रात्रिषु सक्तवश्च तोयान्तरास्ते यवकास्तथा च||" इति| ते च वक्ष्यमाणेषु स्वबुद्धया विवेचनीयाः|

Adhikarana विरूद्धभोजनम् (३०-३१) · Śloka ३१

तदेव विरुद्धभोजनमाह आनूपमामिषं माषक्षौद्रक्षीरविरूढकैः| विरुध्यते सह बिसैर्मूलकेन गुडेन वा||३०|| विशेषात्पयसा मत्स्या मत्स्येष्वपि चिलीचिमः| |३१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आमिषं-मांसं, आनूपं-महामृगवारिचरवारिशयाख्यं, माषादिभिः सप्तभिः सह विरुध्यते| आनूपेष्वपि मध्ये विशेषात्-अतिशयेन, पयसा सह मत्स्या विरुध्यन्ते| यतो मत्स्यक्षीरे स्वादुरसविपाकित्वान्महाभिष्यन्दिनी, शीतोष्णयोगाच्च परस्परविरुद्वे| मस्त्येष्वपि चिलीचिमाख्यो मत्स्यः पयसा सहात्यन्तविरुद्धः| स पुनः शकली लोहिताक्षः सर्वतो लोहितराजिः प्रायो भूमौ चरति, सोऽत्यभिष्यन्दितमत्वात्सुतरां विरुद्धः| एष चाहारोऽनिर्दिष्टविकारकारी यथोक्तान् विस्फोटादीन् करोति| कालान्तरेण च चिकित्सां विना प्राणानपि हरति| कश्चिच्च विरुद्धाहारो निर्दिष्टविकारकारी| यथा "उपोदकाऽतिसाराय" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- तत्रानूपमांसस्य भाषादिर्भिदिर्विरोधमाह-आनूपमामिषमिति| विरूढकं-अङ्कुरितं धान्यम्| माषादिष्वे केनापि विरोधो ज्ञेयः| यदाह खारणादिः-"गुडमाषतिल क्षीरविरूढबिसमूलकैः| ग्राम्यानूपौदमांसानि त्वेकेनापि विरुध्यते||" इति| विरोधश्चैकध्यमभ्यवहारे नतु क्रमेण| यदाह सुश्रुतः (यदुक्तं सङ्ग्रहे सू. अ. ९, चरके च सू. अ. २६|८६) "ग्राम्यानूपौदकपिशितानि मधुगुडतिलपयोमाषमूलकबिसविरूढकैश्च नैकध्यमद्यात्|" इति| उक्तेष्वपि मत्स्यपयसोर्विशेषाद्विरोधः| ततोऽपि पयश्चिलीचिमयोः|

Adhikarana अनूपमांसस्य माषादिभिर्विरोधः पयसोऽम्लादिभिर्विरोधः (३१-३२) · Śloka ३२

विरुद्धमम्लं पयसा सह सर्वं फलं तथा||३१|| तद्वत्कुलत्थवरककङ्गुवल्लमकुष्टकाः|३२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अम्लं द्रव्यं पयसा सह सर्वं विरुद्धम्| सर्वग्रहणं द्रवाद्रवग्रहणार्थम्| द्रवं-काञ्जिकादि, अद्रवं-चुक्रिकादिकमित्यर्थः| अन्यथा पयसो द्रवसमानजातीयत्वात् काञ्जिकाद्येव द्रवद्रव्यं विरुध्येत, न चुक्रिकादिकमपि| ननु, तृतीययैव सहार्थो लब्ध एव| यथा-"वाराहं श्वाविधा नाद्यात्" इत्यत्र| ततः किं सहशब्देन| सत्यमेतत्| सहग्रहणं तु नियमार्थम्| सहैकध्यमम्लेनोपयुज्यमानं विरुद्धम्| यदा त्वम्लेन गोरसादिना क्षीरशाकसंज्ञव्यञ्जनकरणार्थं पयः संस्क्रियते तदा तस्य द्रव्यान्तरत्वापत्तेर्विरोधो नास्ति| तथा, दधिक्षीरादिना घृतं पच्यते तत्राऽप्यविरोध एव, द्रव्यान्तरत्वात्| पूर्वस्याऽपि सहशब्दस्यैवं प्रायमेव प्रयोजनमभ्यूह्यमिति| अपि च, क्षीरे भुक्ते उत्तरकालमप्यम्लं न भोज्यमिति प्रतिपादनार्थं च सहग्रहणम्| तथा चोक्तं सङ्ग्रहे (सू.अ.)-"सर्वं चाम्लं पयसा सहैकध्यं तदुत्तरं वा विरुद्धम्" इति| फलं तथेति| फलं-अक्षोडादि च, पयसा सह विरुद्धम्| सर्वशब्दः सर्वत्र न सम्बन्धनीयः, यतो न सर्वं फलं पयसा सहाभ्यवहर्तुं विरुद्धम्| अपि तु किञ्चिदेव| तथा च मुनिः परिसंख्ययैवाऽपठत्(च.सू.अ.२६|८६)- "तथाऽऽम्राम्रातकलकुचकरमर्दमोचदन्तशठबदरकोशाम्रभव्य जाम्बवकपित्थतिन्तिडीकपालेवताक्षोडपनसनारिकेरदाडिमामलकान्येवं प्रकाराणि चान्यानि" इति| तस्मान्न सर्वं फलं पयसा सहाभ्यवहर्तुं विरुद्धम्, किन्तु मुन्युक्तमेव| तद्वदिति फलवत्, कुलत्थादयः पयसा सह विरुद्धाः| वरको-व्रीहिभेदः, "वरकोद्दालक" इति प्रागुक्तेः (हृ.सू.अ.६|९)| वल्लमकुष्टकौ शिम्बीधान्यविशेषौ| उपलक्षणं चेदम्| 'माषनिष्पावावपि' हि विरुद्धौ पयसा सहेति सङ्ग्रहे (सू.अ.९) कथितम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अम्लादिभिः पयसो विरोधमाह-विरुद्धम्म्लमिति| सर्वमम्लं-द्रवमद्रवं च, पयसा सह विरुद्धम्| सहभावोऽत्र पयस उत्तरमपि सेवितेनाम्लेन ज्ञेयः| उक्तं हि सङ्ग्रहे (सू. अ. ९)- " सर्वं चाम्लं *पयसैकध्यं तत उत्तरं वा विरुद्धम्|" इति| तथा सर्वं फलं-अम्लमनम्लं च| तद्वत्कुलत्थादयः| वरको-व्रीहिभेदः| कङ्गुः-प्रियङ्गुः| वल्लः-निष्पावः| मकुष्टः-कलायभेदः| सुश्रुतस्त्वाह (सू. अ.२०/८)- "वल्लीफलकवककरीराम्लफललवणकुलत्थपिण्याक-दधितैलानूपौदकविरोहिशुष्कशाकाजाविकमांसद्यजाम्बव-चिलीचिममत्स्यगोधवराहमाषांश्च नैकध्यमश्नीयात् पयसोऽन्ते वा|" इति|

Adhikarana पयोहरीतकयोर्विरोधः (३२) · Śloka ३२

| भक्षयित्वा हरितकं मूलकादि पयस्त्यजेत्||३२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-भक्षयित्वेति| हरितकं मूलककुठेरादि भुक्त्वा पयस्त्यजेत्, न पुनः शाकं मूलकादि स्निग्धस्विन्नं शाकसाधनेन साधितं भुक्त्वा क्षीरं न भक्षयेत्| एतस्मादेव च ज्ञापकात् मूलकादीनामुभयरूपत्वं वेद्यम्, हरितकत्वं शाकत्वं च| तथा च मूलकादीनां यदि शाकत्वप्रसिद्धिरेवाऽभविष्यत्, ततो "हरितकं मूलकादि भक्षयित्वा" इति तन्त्रकृन्नावक्ष्यत्| तस्मान्मूलकस्य हरितकत्वं शाकत्वं च ज्ञेयम्| लशुनेन सह क्षीरस्य प्रयोगो य उक्तः (हृ.चि.अ.९४|४५)-"साधयेच्छुद्धुशुष्कस्य लशुनस्य चतुःपलम्|" इति| स न विरुद्धः, अग्न्यादिसम्पर्काद्रव्यान्तरत्वापत्तेः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पयोहरितकयोर्विधमाह-भक्षयित्वेति| हरितकाख्यं शाकं भक्षयित्वा पयो न पेयम्| कस्य शाकस्य हरितकसंज्ञा? इत्यपेक्षायामाह-मूलकादि,-मूलकादारभ्य शाकवर्गोक्तं हरितकसंज्ञमित्यर्थः|

Adhikarana वराहश्वाविधोः पृषतकुक्कुटयोर्दग्धा आममांसपित्तयोः माषसूपमूलकयोः अविकुसुम्भशाकयोः बिसविरूदकयोः लकुचफलस्य माषादिभिः कदलीफलस्य तक्रदिभिः काकमाच्याः कणादिभिः (३३-३६) · Śloka ३६

वाराहं श्वाविधा नाद्याद्दध्ना पृषतकुक्कुटौ| आममांसानि पित्तेन, माषसूपेन मूलकम्||३३|| अविं कुसुम्भशाकेन, बिसैः, सह विरूढकम्| माषसूपगुडक्षीरदध्याज्यैर्लाकुचं फलम्||३४|| फलं कदल्यास्तक्रेण दध्ना तालफलेन वा| कणोषणाभ्यां मधुना काकमाचीं गुडेन वा||३५|| सिद्धां वा मत्स्यपचने पचने नागरस्य वा| सिद्धामन्यत्र वा पात्रे कामात्तामुषितां निशाम्||३६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-श्वाविधा-सेधामांसेन सह, वाराहं मांसं नाद्यात्| अग्रेऽपि नाद्यादिति क्रियायोगो यावत्त्यजेदिति क्रियान्तरम्| पृषतकुक्कुटौ दध्ना सह नाद्यात्| आमानि-अपक्वानि मांसानि पित्तेन सह| माषसूपेन सह मूलकम्| आविं-मेषं, कुसुम्भशाकेन सह| विरूढकं-अङ्कुरितधान्यं, बिसैः सह| माषसूपादीनामन्यतमेन सह लकुचफलम्| कदल्याः फलं तक्रेण सह, दध्ना वा, तालफलेन वा| कणोषणाभ्यां सह काकमाचीम्, केवलेन माक्षिकेण सह काकमाचीम्, गुडेन वा सह काकमाचीम्, मत्स्याः पच्यन्ते यस्मिन् भाण्डे तत्र वा सिद्धां काकमाचीम्, नाद्यात्| नागरस्य वा पचने-शुण्ठीपाकभाण्डे सिद्धां काकमाचीम्, तथाऽन्यत्र वा भाजने यथारुचिसिद्धां कामात्तां काकमाचीं, रत्रिमुषितां-पर्युषितां, नाद्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- वाराहश्वाविधोर्विरोधमाह- वाराहमिति| श्वावित्-सूचीसद्दशरोमा| दधिपृषतयोर्दधिकुक्कुटयोश्च विरोधमाह-दध्नेति| पित्ताममांसयोर्विरोधमाह-आममाम्सानीति| आममांसानि-अपक्वमांसानि| माषसूपमूलकयोर्विरोधमाह-माषसूपेनेति| अविकुसुम्भशाकयोर्विरोधमाह-अविमिति| बिसाङ्कुरितधान्ययोर्विरोधमाह-बिसैरिति| लकुचफलस्य माषसूपादिभिर्विरोधमाह-माषसूपेत्यादि| आज्यं-धृतम्| "फलं तथा" इति क्षीरेण सह विरोधे सिद्धे पुनः क्षीरग्रहणं प्राक्पश्चाद्वा विरोधार्थम्| तथा च सुश्रुतः (सू. अ. २०११३)- "लकुचफलं दध्ना पयसा माषसूपेनप्राक्पश्चाद्वा पयसा सह वा विरुद्धम्|" इति| कदलीफलस्य तक्रादिभिर्विरोधमाह-फलं कदल्या इति| काकमाच्याः कणादिभिर्विरोधमाह-कणोषणाभ्यामिति| पिप्पलीमरिचाभ्यां मिलिताभ्याम्, कणोषणाभ्यामिति समासकरणात्| छन्दोनुरोधात्समास इति चेत् न| "पिप्पलीमरिचाभ्यां मधुना गुडेन वा काकमाचीम्|" इति सङ्ग्रहेऽपि (सु. अ. ९)| गुडमधुभ्यां पृथक्, समासाकरणात्| पात्रविशेषसंस्कारात्काकमाच्या विरोधमाह-सिद्धां वेति| मत्स्याः पच्यन्ते यस्मिन् पात्रे तत्-मत्स्यपचनम्| नागरस्य पचने-शुण्ठीपचने| काकमाच्याः पर्युषितत्वाद्विरोधमाह-सिद्धामन्यत्र वेति| कामाता-काकमाची| अन्यत्र वा पात्र इति पात्रविशेषनिवृत्यर्थम्, यत्र क्वापि पात्रे सिद्धा सती पर्युषिता विरुद्धेत्यर्थः|

Adhikarana पिप्पल्याः मत्स्यनिस्तलनस्नेहेन सर्षिषः कांस्ये दशाहमुषितस्य उष्णारूष्करयोः (३७) · Śloka ३७

मत्स्यनिस्तलस्नेहे साधिताः पिप्पलीस्त्यजेत्| ` कांस्ये दशाहमुषितं सर्पिरुष्णं त्वरुष्करे||३७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- मत्यानिस्तल्यन्ते- भृज्यन्ते, येन स्नेहेन सह- मत्स्यनिस्तलस्नेहः, तत्र साधिताः पिप्पलीस्त्यजेत्, विरुद्धत्वात्| नाद्यादिति प्रकृतेऽपि त्यजेदिति वचनं न केवलं नाद्यात्, लेपादिकमपि न कुर्यादिति प्रतिपादनार्थम्| उत्तरत्रापि त्यजेदित्यस्यानुवृत्तावेतदेव तात्पर्यम्| कांस्यपात्रे दशरात्रमुषितं सर्पिस्त्यजेत्| दशाहादर्वागविरुद्धमेव| अरुष्करे- भल्लातकविषये, उष्णं- अन्नपानादिकं त्यजेत्| तथा, "पेयं नोष्णोपचारेण" इत्यनेन मद्यस्योष्णं निषिद्धं| तथा, "उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैः "इति माक्षिकस्य| तथा, दध्नो-"नैवाद्यान्निशिनैवोष्णं वसन्तोष्ण" इत्यादिभिः| तस्मान्मधुमद्यदधिभल्लातकेष्वप्युष्णं विरुद्धमित्यत्राचार्यो युक्त्या प्रत्यपादयत्| सङ्ग्रहे तु स्पष्टं कृत्वोक्तं (सू. अ. ९)-"मद्यमधुदधिभल्लातकेषु चोष्णं|" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- स्नेहविशेषसंस्कारात्पिप्पल्या विरोधमाहमत्स्यनिस्तलनेति| मत्स्या निस्तल्यन्ते भृज्यन्ते, येन स्नेहेन सः-मत्स्यनिस्तलनः| पात्रकालविशेषसंस्कारात्सर्पिषो विरोधमाह-कांस्ये दशाहमिति| कांस्ये-कांस्यपात्रे| दशाहं- दशाहोरात्रान्| उष्णारुष्करयोर्विरोधमाह-उष्णं त्विति| उष्णस्पर्षं द्रव्यं भल्लातके प्रयुज्यमानं विरुद्धम्|

Adhikarana भासस्य शूलसंस्कारात् कम्पिल्लस्य तक्रसंस्कारात् (३८) · Śloka ३८

भासो विरुध्यते शूल्यः कम्पिल्लस्तक्रसाधितः| |३८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- भासः-पक्षिविशेषः शूल्यो विरुध्यते, शूले संस्कृतो भासः कृतपक्तिर्विरुध्यत इत्यर्थः| शूल्य इति "शूलोखाद्यत्" इति यत्| कम्पिल्लस्तक्रसाधितो विरुध्यते| सङ्ग्रहे चातोऽधिकमप्युक्तम्| यथा (सू.अ.९)-"सौवीरेण तिलशष्कुली| क्षीरेण लवणम्| नवनीतेन शाकम्| नवपुराणमामपक्वं चैकध्यम्| तथा सलिलावगाहः सहसोष्णाभितप्तस्य त्वग्दृष्ट्यपघाताय तृष्णातिवृद्धये च| तथैव पयःपानं रक्तपित्ताय| शरीरेणाऽयस्तस्य सहसाऽऽभ्यवहारश्छर्दिषे गुल्माय वा| वाचा त्वायस्तस्य स्वरसादाय|" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- भासस्य शूलसंस्काराद्विरोधमाह-भास इति| भासः-प्रसहपक्षिविशेषः| शूल्यः-शूलप्रोतोऽङ्गरेषु पक्वः|कम्पिल्लस्य तक्रसंस्काराद्विरोधमाह-कम्पिल्ल इति| कम्पिल्लो-विरेचनद्रव्यविशेषो रोचनिकाख्यः|

Adhikarana पायसादीनां मिथः संयोगात् (३८) · Śloka ३८

| एकध्यं पायससुराकृशराः प्रिवर्जयेत्||३८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एकध्यं-एकत्र, पायससुराकृशरास्त्यजेत्| एकध्यमिति "एकाद्धो ध्यमुञ्" इति ध्यमुञ्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-पायसादीनां मिथः संयोगाद्विरोधमाह-एकध्यमिति| एकध्यं-एकत्र संयोज्य| पायसः-क्षैरेयी| कृशरा-तिलतन्दुलमाषकृता पेया |

Adhikarana मध्वादीनां मिथः संयुक्तानाम् (३९) · Śloka ३९

मधुसर्पिर्वसातैलपानीयानि द्विशस्त्रिशः| एकत्र वा समांशानि विरुध्यन्ते परस्परम्||३९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मध्वादीनि समांशानि-तुल्यप्रमाणानि, मिथो विरुध्यन्ते| कथम् ? द्वे वा, त्रीणि वा, एकत्र वा सर्वाणि| यथा-मधुसर्पिषी, मधुवसे, मधुतैले, मधुसर्पिर्वसाः, मधुसर्पिर्वसातैलानि, इत्येवमादीनि| ननु, यद्येवंविधो विरोध उच्यते तत्कथमगस्त्यलेहे (हृ.चि.अ.३|१२८)-"कुडवं च पृथग्घृतात्| तैलात्सपिप्पलीचुर्णात्सिद्धशीते च माक्षिकात्||" इति तैलघृतमधूनां तुल्यांशानां प्रयोगः ? ब्रूमः| केवलानां मध्वादीनां समांशानामुपयोगो विरुद्धः न तु द्रव्यान्तरसंयुक्तानाम्| अपि तु द्रव्यान्तरसंयुक्तानां तेषां संयोगसंस्कारादिवशाद्विशिष्टगुणान्तरोत्पत्तिर्दृष्टा| तस्मादगस्त्यलेहादौ द्रव्यान्तरसंयोगादिवशादविरुद्ध एव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मध्वादीनां मिथः संयुक्तानां मानतो विरोधमाह-मधुसर्पिरिति| द्विशस्त्रिश इत्यपलक्षणम्, तेन चतुष्पञ्चशोऽपि ज्ञेयम्| उक्तं ह्यन्यत्र_"मधुसर्पिर्वसातैलपानीयानां मानविरूद्धानां द्वित्रिचतुःपञ्चधामिलितानां षड्विंशतिर्विरुद्धप्रकारा भवन्ति|" इति|

Adhikarana मध्वाज्ययोर्दिव्यानुपानात् मधुपुष्करबीजयोः मधुमैरेयशार्कराणाम् क्षैरेयस्य मन्थानुपानात् हारिद्रकटुतैलयोः (४०-४१) · Śloka ४१

भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानतः| मधुपुष्करबीजं च, मधुमैरेयशार्करम्||४०|| मन्थानुपानः क्षैरेयो, हारिद्रः कटुतैलवान्| |४१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानेन विरुध्येते| तृतीयार्थे तसिप्रत्ययः| अपिशब्दान्न केवलं समांश इत्यर्थः| मधु-माक्षिकं, पुष्करबीजं चैकध्यं विरुध्यते| तथा, मधुमार्द्वीकं, मैरेयं-खर्जूरासवं, शार्करं-शर्करया कृतं मद्यं, एतदेकत्रोपयुक्तं विरुध्यते| क्षैरेयः-पायसो, मन्थानुपानो विरुद्धः| मन्थोऽनुपानं यस्य स एवम्| क्षैरेय इति "क्षीराड्ढञ्" इति ढञ्| हारिद्रः-कुप्रसवः शाकविशेषः सर्पच्छत्रानुकारी पीताभासः, कटुतैलवान्-सर्षपतैलभृष्टो, विरुद्धः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मध्वाज्ययोर्दिव्यानुपानाद्विरोधमाह-भिन्नांशे इति| अपिशब्दात्समांशे च| मधुपुष्करबीजयोर्विरोधमाह-मध्विति| मधु-माक्षिकम्| पुष्करबीजं-पद्मबीजम्| मध्वादीनां विरोधमाह-मधुमैरेयेति| मधु-क्षौद्रम्, 'मार्द्वीकम्' इत्यरुणदत्तः| मैरेयो-'धान्यासवः' इति चन्द्रनन्दनः, 'खर्जूरासवः' इत्यरुणदत्तः इन्दुश्च| 'मैरेयो-धातुकीपुष्पगुडधात्र्यक्षसंहितः' इति माधवकारः| 'आसवस्य सुरायाश्च द्वयोरप्येकभाजने| सन्धानं तद्विजानीयान्मैरेयमुभयात्मकम्||' इति जेज्जटो ब्रह्रादेवश्च| 'पैष्टीगुडासवमधुभिः पैष्टिमध्वासवदुडैर्वा त्रियोनिः-मैरेयः' इति डल्हणः| सर्वमेतत्प्रमाणम्, सर्वेषामाप्तत्वात् शङ्क्यमानस्यापि विरोधस्य परिहरणीयत्वाच्च| शार्करः-शर्कराकृतं मद्यम्| अत्र चकारमनुवर्त्य पद्मोत्तरिकाशाकमनुक्तमपि समुच्चेयम्, चतुर्णां संयोगस्य विरुद्धत्वात्| तथा च चरकः (सू. अ. २६|८६)- "पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्त विरुद्धं वातं चातिकोपयति|" इति| सङ्ग्रहेऽप्येवमेवोक्तम्| पद्मोत्तरिकाशाकं-कुसुम्भशाकम्| क्षैरेयस्य मन्थानुपानाद्विरोधमाह-मन्थानुपान इति| द्रवालोडिताः सक्तवो-मन्थाः| क्षैरेयः-पायसः| हारिद्रकटुतैलयोर्विरोधामाह-हारिद्र इति| हारिद्रःपीतवर्णश्छत्राकविशेषः कन्दः| कटुतैलवान्-सर्षपतैलभृष्टः|

Adhikarana उपोदकायास्तिलकल्कसंस्कारेण (४१) · Śloka ४१

| उपोदकाऽतिसाराय तिलकल्केन साधिता||४१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-उपोदका तिलकल्केन साधिताऽतिसाराय| तादर्थ्ये चतुर्थ्यत्र| अर्थो-निमित्तम्, तस्मै इदं-तदर्थम्, तदर्थमेवतादर्थ्यम्| तेनातीसारकारणमित्ययमर्थो जायते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- उपोदकायास्तिलकल्कसंस्कारेण विरोधमाह उपोदकेति|

Adhikarana बलाकाया वराहवसाभर्जनात् (४२) · Śloka ४२

बलाका वारुणियुक्ता कुल्माषैश्च विरुध्यते| भृष्टा वराहवसया सैव सद्यो निहन्त्यसून्||४२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बलाका-पक्षिजातिः, वारुण्या-प्रसन्नया युक्ता, विरुद्धा| कुल्माषैः-नातिस्विन्नमुद्गादिभिश्च सह विरुध्यते| सैव बलाका, वराहवसया भृष्टा सद्यः-तत्क्षणादेव, प्राणान् मारयति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- बलाकाया वारुणीयोगात् कुल्माषयोगाच्च चिरोधमाह-बलाकेति| अर्द्धस्विन्ना मुद्गादयः-कुल्माषाः| बलाकाया वराहवसया भर्जनादिरोधमाह-भृष्टेति|

Adhikarana तित्तिर्यादीनां संस्कारविशेषात् (४३) · Śloka ४३

तद्वत्तित्तिरिपत्राढ्यगोधालावकपिञ्जलाः| एरण्डेनाग्निना सिद्धास्तत्तैलेन विमूर्च्छिताः||४३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तित्तिर्यादय एरण्डेनाग्निना सिद्धाः, तत्तैलेन-एरण्डतैलेन, विमूर्च्छिताः-बहुशो भृष्टाः, तद्वत्-बलाकावत् सद्यो जीवितहराः| पत्राढ्यो-मयूरः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- तित्तिर्यादीनां संस्कारविशेषाद्विरोधमाह-तद्वदिति| पत्राढ्चो-मयूरः| कपिञ्जलो-गौरतित्तिरिः| एरण्डेन-एरण्डकाष्ठोत्थेन| तत्तैलेन-एरण्डतैलेन| विमूर्च्छिताः-भृष्टाः| तद्वत्-बलाकावत्, सद्यो घ्नन्ति|

Adhikarana हारीतस्य संस्कारविशेषात् (४४) · Śloka ४४

हारीतमांसं हारिद्रशूलकप्रोतपाचितम्| हरिद्रावह्निना सद्यो व्यापादयति जीवितम्||४४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हारीतस्य-पक्षिविशेषस्य, मांसं हारिद्रशूलके प्रोतं- आसक्तं, च तत्पाचितं च हारिद्राग्निना सद्यो जीवितं हन्ति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- हारीतस्य संस्कारविशेषाद्विरोधमाह-हारीतमांसमिति| हारीतः-प्रतुदपक्षिविशेषः| हारिद्रशूलकं-दारुहरिकाष्ठकृतं शूलम्| हरिद्रावह्निना-दारुरिद्राकाष्ठाग्निना|

Adhikarana हारितस्य भस्मादिसंयोगात् (४५) · Śloka ४५

भस्मपांशुपरिध्वस्तं तदेव च समाक्षिकम्| |४५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तदेव-हारीतमांसं, भस्मपांशुपरिध्वस्तं समाक्षिकं विरुद्धम्| भस्म च पांशुश्च भस्मपांशू,-भूतिरेणू, ताभ्यां परिध्वस्तं-धूसरितम्| सिद्धसारे चोक्तम्-"न जातु कटुतैलेन भृष्टामद्यादुपोदकाम्| प्रियङ्गुकल्कदिग्धाङ्गः पायसं न समाचरेत्||" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- हारीतमांसस्य भस्मादिसंयोगाद्विरोधमाहभस्मेति| भस्मना पांशुना वा परिध्वस्तं-सद्यो विलुलितम्, मधुयुक्तं तदेव-हारीतमांसं, सद्यो जीवितं व्यापादयतीत्यर्थः|

Adhikarana विरूद्धस्य सामान्यलक्षणाम् (४५-४६) · Śloka ४६

| यत्किञ्चिद्दोषमुत्क्लेश्य न हरेत्तत्समासतः||४५|| विरुद्धं| |४६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

द्रव्याणामानन्त्यात् प्रतिपदोक्त्याऽशेषविरुद्धसङ्ग्रहः कर्तुमशक्यः, इति तत्सङ्ग्रहार्थं व्यापि लक्षणमाह- स०-यत्किञ्चित्-अन्नपानमौषधं वा, दोषमुत्क्लेश्य-स्वस्थानात्सञ्चलय्य, न हरेत्-बहिर्न निष्कासयेत्, तत्र समासतः संक्षेपतो विरुद्धम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अनुक्तविरोधसङ्ग्रहार्थं विरोधसामान्यलक्षणमाह-यत्किञ्चिदिति| यक्तिञ्चिद्द्रव्यं दोषमुत्ल्केशयति न तु निर्हरति, तत्सर्वं विरुद्धम्| समासतः-सङ्क्षेपात्| विस्तरस्तु संयोगादिभेदैरनन्तः| शोधनमप्युत्ल्केशयति परं निर्हरति, शमनमपि न निर्हरति परं नोत्ल्केशयति, इति न तयोर्विरुद्धत्वम्|

Adhikarana विरूद्धजव्याधीनां प्रतीकारः (४६) · Śloka ४६

शुद्धिरत्रेष्टा शमो वा तद्विरोधिभिः| |४६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शुद्धिरत्रेष्टा| अत्र-विरुद्द्धाहारकृते विकारे, शुद्धिः वमनविरेकादिरूपा, इष्टा-श्रेष्ठा| कुपितदोषसमूहस्य वमनादिभिर्निर्हरणात्तन्निर्हारे चारोग्योत्पत्तिः| शमो वेति| न केवलं शुद्धिरिष्टा, शमश्चेष्टः| कैः? तेषां-वैरोधिककोपितदोषाणां तत्कृतानां वा विस्फोटादीनां विकाराणां, विरोधिभिः-प्रतिपक्षभूतैरोषधैः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथ विरुद्धान्नपानजानां व्याधीनां प्रतीकारः| तत्र उत्पन्नानां परतीकारमाह-शुद्दिरिति| शुद्धिः-वमनविरेचनादिका| अत्र-विरुद्धान्नजेषु व्याधिषु| ये तु शुद्धिं नार्हन्ति तेषां शमः-शमनं, प्रतीकार इष्टः| कैः? तद्विरोधिभिः,-तस्य-विरुद्धान्नस्य, विरोधिभिः-प्रतिपक्षभूतैराहारविहारौषधैः|

Adhikarana अनुत्पन्नानां प्रतिबन्धहेतुः प्रतीकारः (४६) · Śloka ४६

न च शोधनशमनरूप एवोपक्रमोऽत्रेत्याह- | द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिः||४६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तैरेव-वैरोधिककुपितदोषप्रतिपक्षभूतैर्द्रव्यैः, पूर्वं-प्रथमं, या शरीरस्याभिसंस्कृतिः, सा च विरुद्धाहारकृते विकारे प्रशस्तेति| यथा,-माक्षिकहरीतक्यादिना पित्तश्लेष्महरणौषधेन सन्ततशीलनादभिसंस्कृते देहे पित्तश्लेष्मकरं विरुद्धमुपयुक्तं सद्विकर्तुमशक्तम्| एतदुक्तं भवति,-विरुद्धप्रतिपक्षगुणवता द्रव्येण देहस्तथा दार्ढ्यं ग्राहितो यथा विरुद्धमपि द्रव्यं विकारं कर्तुं नालम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अनुत्पन्नानामुत्पत्तिप्रतिबन्धहेतुं प्रतीकारमाह-द्रव्यैस्तैरेवेति| तैरेव- विरुद्धान्नविरोधिभिरेव| पूर्वंचिरुद्धान्नसेवनात्प्राक्| अभिसंस्कृतिः- तद्गुणभावितत्वम्| तैः-विरुद्धानैरेव शरीरस्याभिसंस्कृतिरिति व्याख्याने "सात्म्यमल्पं च भोजनम्" इति वक्ष्यमाणेन सात्म्येन पौनरुक्तयम्|

Adhikarana व्यायामादीनामनुत्पत्तिहेतुत्वम् (४७) · Śloka ४७

व्यायामस्निग्धदीप्ताग्निवयःस्थबलशालिनाम्| विरोध्द्यपि न पीडायै सात्म्यमल्पं च भोजनम्||४७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-व्यायामो विद्यते येषामिति "अर्शआदित्वात्" अच्| वयःस्थाः-तरुणाः| बलेन शालितुं-श्लाघितुं शीलं येषां ते-बलशालिनः| स्निग्धाः स्निग्धवृष्याहारसात्म्याः| व्यायामिनां विरोध्यपि भोजनं न पीडायै-न रोगोत्पत्तये| एवं स्निग्धादीनां प्रत्येकं सम्बन्धः कार्यः| केचित् "व्यायामि" इति पठन्ति| तथा, विरुद्धमप्यन्नं यदभ्यासात् सात्म्यं-सात्मीभूतं, तथा, अल्पं-अल्पमात्रया च यद्भोजनं, तच्च विरुद्धमपि न पीडायै इति योज्यम्| अथ यद्यपथ्यमपि सात्म्यतां प्राप्तं तत्किं त्याज्यं न वा? कथं च त्याज्यं ? कथं च पथ्यं भोज्यं? इत्याह-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- व्यायामादीनामनुत्पत्तिहेतुत्वमाह-व्यायामीति| व्यायामिनो-व्यायामनित्याः| स्निग्धाः-स्नेहभावितशरीराः| वयःस्थाः-तरुणाः| बलशालिनः-सहजबलयुक्ताः| सहात्मना भूतं-सात्म्यम्, आत्मनः सहायभूतमनुकूलं सुखावहमित्यर्थः| तच्च द्विविधं,-कृत्रिममकृत्रिमं च| तत्र यदभ्यासेन कियते तत्-कृत्रिमम्| उक्तं च सङ्ग्रहे (सू. अ. ९)- "अहितान्यपि चान्येषामभ्यासादुपशेरते|" इति| अकृत्रिसं तु द्विविधं,-निरुपाधिकं सोपाधिकं च| तत्र दोषादिनिरपेक्षं-निरुपाधिकम्, तद्दोषसात्म्याख्यम्| यदाह चरकः-"उपशेते यदौचित्याद्दोषसात्म्यं तदुच्यते|" इति| दोषादिसापेक्षं-सोपाधिकम्| तत्र दोषादिविपरीतगुणत्वंउपाधिः| यदाह खारणादिः- "दोषप्रकृतिदेशर्तुव्याधीनां स्वगुणैः पृथक्| विपरीतगुणैः सात्म्यं तुल्यं चासात्म्यमुच्यते||" इति| असात्म्यं तु-यथायथं सात्म्यविपरीतम्| तत्तु कृत्रिमं चिरपरित्यागेन क्रियते| सोपाधिके दोषादितुल्यगुणत्वं-उपाधिः| सात्म्यासात्म्ये एव निरुपाधिके पथ्या पथ्ये उच्येते| सोपाधिके त्वौषधानौषधे| तत्र विरुद्धभोजनस्य निरुपाधिकासात्म्यस्य कृत्रिमत्वेन सोपाधिकत्वेन वासात्म्यत्वे सति न पीडाकरत्वम्| निरुपाधिकसोपाधिककृत्रिमाणामुत्तरोत्तरं बलत्वात्| किमत्र प्रमाणम् ? इति चेत्, निरुपाधिकात्सोपाधिकं बलीय इत्यर तावत्सङ्ग्रहवचनं प्रमाणम् (सू. अ. ९)- "दोषादिवैपरीत्येन हरते रोगिणां रुजम्| एकध्यं दधिदिग्धादियोजना न विरुध्यते||" इति| ताभ्यामपि कृत्रिमं बलीय इत्यत्र ऋतुचर्योक्त ऋतुसन्धिक्रमः| तत्र हि पूर्वर्तुचर्याया उत्तरर्तुसम्बन्धात्सोपाधिकमसात्म्यत्वम्| पूर्वर्तुशीलनाच्च कृत्रिमं सात्म्यत्वम्| उत्तरर्तुचर्यायास्तु तत्सम्बन्धात्सोपाधिकं सात्म्यत्वम्| पूर्वर्तावशीलनाञ्च कृत्रिममसात्म्यत्वम्| तत्र कृत्रिमाभ्यांसात्म्यासात्म्याभ्यां सोपाधिकयोरसात्म्यसात्म्ययोर्बाधं मत्वातन्निवृत्यर्थमृतुसन्धिक्रम उक्तः| देशकालप्रकृतिदोषव्याधिसात्म्यानामुत्तरोत्तरं बलवत्, उत्तरोत्तरमेवान्तरङ्गत्वात्| अल्पं-हीनमात्रम्| ननु, अल्पमप्यल्पां पीडां करोत्येव| तत्कथं न पीडायै ? सत्यम्| करोत्येव| किन्त्वसावल्पत्वेनानभिव्यक्तत्वादसद्वदुपचर्यते, अनुदरा कन्येतिवत्| असकृदुपयुज्यमाने तु तस्मिन्नभिव्यज्यत एव|

Adhikarana सात्म्यीकरणे क्रमः (४८) · Śloka ४८

पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत्| निषेवेत हितं तद्वदेकद्वित्र्यन्तरीकृतम्||४८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अपथ्यं-अहितमन्नं पानं वा यल्लङ्घनप्लवनजागरणस्वप्नादिकं वा चेष्टितमहितमभ्यस्तं तत् पादेन-चतुर्थांशेन त्यजेत्, अहितफलत्वात्| तद्धि शरीरोचितमप्यपथ्यत्वादुदर्के दोषाय सम्पद्यते, न गुणाय| यदि तु तदपथ्यमभ्यस्तं तथा सात्म्यीभूतं यस्मिंश्चतुर्थाशेनाऽपि त्यज्यमानेन शरीरबाधा शङ्क्यते वह्निमान्द्याद्वा, तदा पादपादेन-षोडशांशेन वा त्यजेत्| इति वाशब्दार्थः| तेन तुल्यं वर्तते-तद्वत्,-तेनैव क्रमेण पादेन पादपादेन वा, हितं निषेवेत-शीलयेत्| कथमेतद्द्वयमप्यपथ्यपथ्यरूपं त्याज्यं निषेव्यं च ? इत्याह-एकेत्यादि| एकश्च द्वौ च त्रयश्च तैरन्तरीकृतम्| एकद्वित्रिभिरन्नकालैर्व्यवधानं कृत्वा [यथा भवति तथा] अपथ्यं पादेन पादपादेन वा त्यजेत्| तद्वत् हितं सेवेत| एकद्वित्र्यन्तरीकृतमिति क्रियाविशेषणत्वादत्र नपुंसकलिङ्गत्वम्| अधुनैतदेव स्पष्टीकृत्योच्यते| अपथ्यात्पाटलव्रीह्यादेरभ्यस्तात्पादमेकं त्यक्त्वाऽनुचितात्पथ्याद्रक्तशाल्यादेस्तमेव पादं दत्त्वा चतुष्पात्त्वं सम्पाद्य योज्यम्| एवमन्नकालमेकमतिवाहयेत्| एवं पादेनापथ्यमभ्यस्तं त्यक्तं भवति| पथ्यं चानुचितं निषेवितं भवति| ततो द्वितीयेऽन्नकाले सर्वमपथ्यं योजनीयम्| एवमेकेनान्नकालेनापथ्यपादोऽन्तरीकृतः| ततस्तृतीयेऽप्युचितादपथ्यात् पादद्वयमपास्यानुचितात्पथ्यात् पादद्वयमुपयुज्य, ततश्चतुर्थे सर्वमपथ्यं भोज्यं पञ्चमे च| एवमन्नकालद्वयेन पथ्यपादद्वयसहितमपथ्यपादद्वयमन्तरीकृतम्| ततः षष्ठेऽन्नकाले पादमुचितादपथ्यात् पादत्रयमनुचितात्पथ्याद्भुक्त्वा, सप्तमाष्टमनवमान्नकालेषु सर्वमपथ्यं भोज्यम्| एवमन्नकालत्रयेणापथ्यमन्तरीकृतम्| ततो दशमेऽन्नकाले सर्वं पथ्यं सेवनीयम्| एवं पादपादेनाप्ययमेव क्रमः| स्पष्टार्थं च दिक्प्रदशर्यते| यथा-यवकादेः षोडशांशं त्यक्त्वाऽनुचिताच्छाल्यादेः पथ्यात्षोडशांशमेव दत्त्वा चतुष्पात्त्वं सम्पाद्य भोज्यम्| एवमपथ्यमभ्यस्तं पादपादेन त्यक्तं भवति पथ्यं चानुचितं निषेवितं भवति| द्वितीयेऽन्नकाले सर्वमपथ्यं सेव्यम्| एवमेके (नान्नकाले) नापथ्यषोडशांशोऽन्तरीकृतः| ततस्तृतीयेऽप्युचितादपथ्यात् पादपादद्वयमपास्यानुचितात्पथ्यात् पादपादद्वयं दत्त्वा चतुष्पात्त्वं सम्पाद्य सेव्यम्| ततश्चतुर्थे पञ्चमे चान्नकाले सर्वमपथ्यं भोज्यम्| एवं कालद्वयेन पादपादद्वयमपथ्यस्यान्तरीकृतम्| ततः षष्ठेऽन्नकालेऽनुचितात्पथ्यात् पादपादत्रयमुचितादपथ्यात् पादपादास्त्रयोदशेति भोज्यम्| ततः सप्तमाष्टमनवमान्नकालेषु सर्वमपथ्यं भोज्यम्| एवं कालत्रयेणान्तरीकृतम्| ततो दशमेऽन्नकाले पथ्यादनुचितात् पादपादाश्चत्वारः, अपथ्यपादपादा द्वादशेति भोज्यम्| तत एकादशेऽन्नकाले सर्वमपथ्यं भोज्यम्| तत एकेनान्नकालेनान्तरीकृतम्| एवमन्नकालद्वयत्रयान्तरितं च तावद्योज्यम्, यावत्पथ्यस्य षोडशपादाः सेव्यतया सम्पद्यन्ते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विरुद्धमपि सात्म्यं न बाध्यते, किं पुनरविरुद्धम्? अतः सात्म्यीकरणमाह| तत्र सात्म्यीकरणे क्रममाह-पादेनेति| अभ्यस्तं-अभ्यासात्सात्म्यतां यातं, यदपथ्यं तत् पादेन-चतुर्थांशेन, पादपादेन-षोडशांशेन वा त्यजेत्| तद्वत्-अपथ्यवत्, हितं-पथ्यं, निषेचेत-यावतांऽशेनापथ्यं त्यक्तं तावतांऽशेन पथ्यं भजेत्, नित्यसेव्यस्याहारराशेर्यदपथ्येन न्यूनत्वं तत्पथ्येन पूरयेदित्यर्थः| कथं त्यजेत् ? एकद्वित्र्यन्तरीकृतमिति,-एकद्वित्रिभिर्दिवसैरन्तरीकृतं-विजाती-यभोजनेन व्यवहितम्| एतदुक्तं भवति,-यदा पादेन त्यागः क्रियते तदा प्राथमेऽहन्यपथ्यस्य पादास्त्रयः, पथ्यस्यैकः| द्वितीयेऽहनि चत्वारोऽप्यपथ्यस्य| तृतीये प्रथमवत्| इत्येकान्तरीकरणम्| चतुर्थेऽहनि द्वौ पादावपथ्यस्य, द्वौ पथ्यस्य| पञ्चमषष्ठयोस्तृतीयवत्| सप्तमे चतुर्थवत्| इति व्द्यन्तरीकरणम्| अष्टमे त्वपथ्यस्यैकः, पथ्यस्य त्रयः| नवमदशमैकादशेषु सप्तमवत्| द्वादशेऽष्टमवत्| इति त्र्यन्तरीकरणम्| त्रयोदशे चत्वारोऽपि पथ्यस्य| चतुर्दशे द्वादशवत्| पञ्चदशे त्रयोदशवत्| इति पुनरेकान्तरीकरणम्| व्द्यन्तरत्र्यन्ररीकरणपुनर्नास्ति, चतुर्णामपि पादानां पूर्णत्वात्| षोडशांशपक्षे त्वेकद्वित्र्यन्तरीकरणस्य पञ्चकृत्व आवृत्तिः| तत एकमेकान्तरीकरणम्| एवं त्रिषष्ट्या दिवसैः षोडशांशाः पूर्यन्ते| अत्र यद्यपि व्यवधायकविशेषो नोक्तः, तथाऽपि पूर्वस्मिन्नन्तरे यव्द्यवधेयं, तदेवोत्तरस्मिन्र् व्यवधायकं ज्ञेयम्| एवमपथ्यत्यागे पथ्यसेवायां च क्रम आद्दतो भवेत्| यदि त्वपथ्यमेव वा सर्वत्र व्यवधायकं क्रियते, तदा न क्रम आद्दतो भवेत्| क्रमश्चात्र प्रधानम्| अन्तरं च दिनैरेव, न भोजनकालैः| उक्तं च तन्त्रान्तरे-"अपथ्यं सात्म्यप्यन्नं चेष्टां वा पादशस्त्यजेत्| भजेच्च पादशः पथ्यमेकद्वित्रिदिनान्तरम्||" इति| चतुर्भागषोडशभागयोरधरोत्तरकल्पनानिषेधपरत्वात् पञ्चषट्सत्पभागादिकल्पनानां न निषेधः| अतस्ता अप्यवस्थानुसारतः स्वयमूह्याः| यद्यप्यत्र वाक्ये भट्टारकहरिश्चन्द्रादिभिर्बहवः पक्षा दर्शिताः, तथाप्यमेव पक्षो ज्यायानित्यस्माभिर्दर्शितः| ज्यायस्त्वं त्वस्य वाक्यस्यार्जवेनैव प्रतीयमानत्वात् चतुर्दशाहर्तुसन्धिकरणेनाचार्यस्याभिप्रेतत्वाच्च|

Adhikarana अक्रमेण सात्म्यीकरणे दोषः (४१) · Śloka ४१

एवमनेन क्रमेणापथ्यदोषास्त्यक्ताः पीडायै न भवन्ति, पथ्यगुणाश्च संवर्धिताः स्थिरतां प्राप्नुवन्ति| इत्यत आह अपथ्यमपि हि त्यक्तं शीलितं पथ्यमेव वा| सात्म्यासात्म्यविकाराय जायते सहसाऽन्यथा||४१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हि-यस्मात्, सहसा-क्रममिममनालोच्य, अन्यथा उक्तविध्यतिक्रमेण, अपथ्यमपि त्यक्तं सात्म्यविकाराय जायते| पथ्यमेव वा सहसा शीलितमसात्म्यविकाराय जायते| सात्म्यासात्म्याभ्यां विकारः-सात्म्यासात्म्यविकारः, तस्मै "क्ल्ऱ्पिसम्पद्यमाने" इति चतुर्थी|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अक्रमेण सात्म्यीकरणे दोषमाह-अपथ्यमपीति| हि-यस्मात्, अन्यथा-उक्तक्रामादन्येन प्रकारेण, त्यक्तमपथ्यमपि, शीलितं पथ्यमपि, सहसा विकाराय- विकारकारणाय जायते| कुतः ? सात्म्यासात्म्यम्,- यतः अपथ्यं हि सात्म्यम्, पथ्यं ह्यसात्म्यम्, अतस्तयोरक्रमेण त्यजनभजने रोगाय भवत इत्यर्थः|

Adhikarana क्रमेण सात्म्यीकरणे गुणाः (५०) · Śloka ५०

क्रमेण त्वपथ्यत्यागपथ्यशीलने विधीयमाने गुणाय स्यातामिति दर्शयति क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः| सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च||५०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दोषाः अपथ्याभ्यासजाः, क्रमेण-पूर्वोक्तेन, अपचिताः-क्षयं नीताः, गुणाश्च-पथ्योपयोगजाः, क्रमेण-पूर्वोक्तेनैव, उपचिताः-वृद्धिं नीताः सन्तः, पुरुषाणां यथासङ्ख्यमपुनर्भावं यान्ति दोषाः| गुणाश्चाप्रकम्प्याः-स्थिरा भवन्ति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- क्रमेण सात्म्यीकरणे गुणमाह-क्रमेणेति| सन्तो यान्त्यपुनर्भावमिति| गुणो द्विविधः,-दोषापचयो गुणोपच्चयश्च| तत्र क्रमेण- सात्म्यीकरणक्रमेण, दोषा अपचीयन्ते गुणाश्चोपचीयन्ते| तत्र दोषाः क्रमापचिताः सन्तोऽ पुनर्भावं यान्ति,-यथा पुनर्नोत्पद्यन्ते तथा नश्यन्तीत्यर्थः| गुणास्तु क्रमेणोपचिताः सन्तोऽप्रकम्प्या भवन्ति, यथा पुनर्न क्षीयन्ते तथा वर्द्धन्त इत्यर्थः|

Adhikarana अपथ्यस्य सात्म्यीकरणनिषेधः (५१) · Śloka ५१

साम्प्रतमहिताहारसेवनं सदा त्याज्यमिति सद्युक्तिं दर्शयति अत्यन्तसन्निधानानां दोषाणां दूषणात्मनाम्| अहितैर्दूषणं भूयो न विद्वान् कर्तुमर्हति||५१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दोषाणामहितैः-आहारादिभिः दूषणं कर्तुं विद्वान्-पण्डितो, नार्हति-न युज्यते| किम्भूतानाम्? अत्यन्तं-अतिशयेन, सन्निधानं-निकटत्वं, येषां दोषाणां त एवं तेषाम्| तथा, दूषणात्मनां-दूषणस्वभावानाम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अपथ्यस्य सात्म्यीकरणं निषेधति-अत्यन्तेति| यद्यपि सात्म्यीभूतमपथ्यं दोषान्न दूषयति, तथापि यावता कालेन तत्सात्म्यीभवति तावन्तं कालं दूषयत्येव| दूषणं च दोषाणामल्पमपि विद्वान्-आत्महितज्ञः पुमान्, अहितैः- विरुद्धैः कारणभुतैः, कर्तु नार्हति| कथम्? भूयः-पुनः, ते हि दोषाः प्रागेव दूषणात्मानो-दूषकत्वस्वभावा अत्यन्तसन्निधानश्च,-दूष्यस्य-शरीरस्यात्यन्तं सन्निहिताः| तस्माच्छरीरं रक्षता विरुद्धं न सात्म्यीकर्तव्यम्|

Adhikarana युक्तिप्रयोजितैराहारादिभिः शरीरधारणम् (५२) · Śloka ५२

एतत्प्रसङ्गेन चेदमाह आहारशयनाब्रह्मचर्येर्युक्त्या प्रयोजितैः| शरीरं धार्यते नित्यमागारमिव धारणैः||५२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आहारः-अन्नपानसेवा| शयनं-स्वप्नः| अब्रह्मचर्यं स्त्रीणां सेवा| आहारादीनां द्वन्द्वः| एतैर्युक्त्या प्रयोजितैः शरीरं सततं धार्यते| किमिव कैः? आगारं-गृहमिव, धारणैः स्तम्भैर्यथा|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अविधिसेवनादिभ्योऽन्नपानं रक्षेदित्याह-आहारेति| आहारः-अन्नपानसेवा, शयनं-निद्रा,अब्रह्माचर्ये-सम्भोगः, तैर्नित्यं युक्त्या प्रयोजितैः शरीरं धार्यते| धारणैः-स्तम्भैरागारमिव| युक्तिः-शास्त्रोक्तप्रकारः धारणं च-अन्नपानसुखपरिणामद्वारेण|

Adhikarana तत्राहारस्यातिदेशः (२) · Śloka

आहारो वर्णितस्तत्र तत्र तत्र च वक्ष्यते| ||२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र-तेषु त्रिषु मध्यात्, आहारो वर्णितः-ऋतुचर्यायां द्रवान्नस्वरूपविज्ञानीययोश्च| तत्र तत्र च-शास्त्रभागे ज्वरचिकित्सादौ च, वक्ष्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- तत्राहारमतिदेशेनाह-आहार इति| तत्राहारः, तत्र तत्र- ऋतुचर्यादौ वर्णितः| वक्ष्यते च-मात्राशितीयादौ|

Adhikarana निद्रायत्तं सुखदुःखादिकम् (५३-५४) · Śloka ५४

शयनाब्रह्मचर्ययोस्त्विहैव विधिं वक्तुकाम आह- | निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्||५३|| वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च| |५४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-निद्रायत्तं-निद्राधीनम्| सुखं-आरोग्यम्| दुःखं-रोगः| तथा, पुष्ट्यादि च| जीवितं न च जीवितमिति सम्बन्धः| अजीवितेन-मरणेन योगो भवतीत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथाविधिशयनादन्नपानरक्षा| तत्र निद्रां स्तौति-निद्रायत्तमिति| निद्रायत्तं-निद्राधीनम्| वृषता-शुक्रवृद्धिः| क्लीबता-शुक्रक्षयः| न चेति नञो जीवितेन सम्बन्धः, अजीवितं मरणमित्यर्थः|

Adhikarana निद्रायाश्चतुर्विधत्वम् (५४-५५) · Śloka ५५

साम्प्रतं दुष्टनिद्रां निर्दिशति- | अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता||५४|| सुखायुषी पराकुर्यात् कालरात्रिरिवापरा| |५५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अकाले निषेविताऽति च निषेविता न च निषेविता निद्रा सुखं-आरोग्यलक्ष्णम्, आयुश्च-जीवितम्, ते सुखायुषी पराकुर्यात्-नाशयेत्| केव? अपरा कालरात्रिरिव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- एकस्या निद्रायाः परस्परविरुद्धसुखदुःखादिहेतुत्वायोगादौपाधिकभेदमाश्रित्य विभादमाह-अकाल इति| अकाले सेविता-मिथ्यायोगरूपा, अतिप्रसङ्गात्सेविता-अतियोगरूपा, न च सेविता-हीनयोगरूपा, निषेविता-नियतत्वेन सेविता सम्यग्योगरूपा चेति चतुर्धा निद्रा| तत्र परा-चतुर्थी निद्रा, सुखायुषी कुर्यात्| अपरा-त्रिविधा असम्यग्योगरूपा, कालरात्रिरिव-संहारप्रवृत्तमहाकालीव, सुखायुषी हन्यादिर्त्यर्थः| सुखायुषोराद्यन्तयोर्ग्रहणात् पाणिनिप्रत्याहारवत् सुखपुष्टिबलवृषताज्ञाजीवितानि ग्रुह्रान्ते| "कालस्वभावामयचित्तदेहखेदैः कफागन्तुतमोभवा च| निद्रा बिभर्ति प्रथमा शरीरं पाप्माऽन्तगा व्याधिनिमित्तमन्याः||" इति सङ्ग्रहोक्तानां (सू. अ. ९) सप्तानां चतसृष्वेवान्तर्भावः|

Adhikarana चतुर्विधायाः स्वरूपम् (५५-५६) · Śloka ५६

अथ निद्रागुणप्रसङ्गेन तत्प्रतिपक्षभूतस्य जागरणस्यापि गुणमाह | रात्रौ जागरणं रूक्षं, स्निग्धं प्रस्वपनं दिवा||५५|| अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्| |५६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अपिशब्दावत्र सामर्थ्यलब्धौ बोद्धव्यौ| तेन रात्रावपि जागरणं रूक्षम्, दिवा त्वाग्नेयमत्यर्थं रूक्षं कालेनाहितबलत्वात्| तथा, प्रस्वपनं दिवाऽपि स्निग्धम्, रात्रौ तु सौम्ये कालेऽतिशयेन स्निग्धमित्यवतिष्ठते| अपिशब्दाभ्यामन्तरेण तु रात्रावेव जागरणं रूक्षम्, दिवा तु स्निग्धमित्यर्थो जायते| व्यवच्छेद्यफलत्वाद्वाक्यानाम्| एवं दिवस एव स्निग्धं प्रस्वपनम्, रात्रौ तु रूक्षमिति| न चैतद्युज्यते| यदि जागरणं सदा रूक्षं नाभविष्यत्, तत्कथमिदमुपपत्स्यते ? "बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि| विषार्तः कण्ठरोगी च नैव जातु निशास्वपि||" इति| एषां ह्यापतर्पणमेव हितम्| यच्चापतर्पणं तदवश्यं रूक्षम्| तस्मादेतैरपतर्पणस्वभावं जागरणमेव सेव्यम्| तथा, "ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः| दिवास्वप्नोहितोऽन्यस्मिन् कफपित्तकरो हि सः|| मुक्त्त्वा तु भाष्ययानाध्वमद्यस्त्रीभारकर्मभिः| क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः|| वृद्धबालाबलक्षीणक्षततृट्शूलपीडितान्| अजीर्ण्यभिहितोन्मत्तान् दिवा स्वप्नोचितानपि||" तदेतेषां सन्तर्पणार्हत्वात्सन्तर्पणमेव हितम्| यच्च सन्तर्पणं तदवश्यं स्निग्धम्| तस्मादेतैः सन्तर्पणस्वभावमेव सदा प्रस्वपनं सेव्यम्| एवं च पूर्वमेव व्याख्यानं युक्तम्| प्रस्वप्नजागरणक्रिययोरद्रव्ययोरपि रूक्षस्निग्धत्वमुपचारादुपपन्नम्| यथा,-रूक्षं द्रव्यं गुग्गुल्वादि कफमेदःप्रभृतीन् सौम्यान् भावान् क्षपयति, तथैव यदा जागरणमपि तत्क्षपयद्दृष्टं तदा तद्रूक्षकार्यकरणादरूक्षमपि रूक्षमित्युपचर्यते| तथा, प्रस्वपनादर्वाक् कफमेदःप्रभृतीनां सोम्यानां भावानां स्वहेतोरुत्पादस्तथा नोपलभ्यते, यथा प्रस्वपनादनन्तरम्| तस्मात्प्रस्वपनमस्निग्धमपि स्निग्धमित्युपचर्यते| प्रचल इवाचरतीति क्यङन्तान्निष्ठा| आसीनस्य उपविष्टस्य, प्रचलायितं-अवघूर्णितं,-आसीनप्रचलायितम्, न तु प्रस्वपनं सर्वसर्विकया| येन स्नेहनहेतुः स्यात्| रूक्षकार्या करणादरूक्षम्| अनभिष्यन्दि तु विशेषेण| आसीनप्रचलायितं पुनरीदृग्रूपमित्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- चतुर्विधायाः स्वरूपमाह-रात्राविति| रात्रौजागरणं-कालेऽप्यशयनं,हीनयोगाख्यम्| तद्रूक्षं-वातव्याधिहेतुः| दिवा प्रस्वपनं-अकाले शयनम्| तच्च कालेऽतिसुप्तस्यातिरोगाख्यम्, अकाले सुप्तस्य मिथ्यायोगाख्यम्, तदुभयमपि स्निग्धं-कफपित्तव्याधिहेतुः| आसीनप्रचलायितं-काले शयनं, सम्यग्योगाख्यम्| तद्ध्यासीनप्रचलायितस्य भवति| स हि सिस्वोपविष्टः शयनं यदैव चल इवाचरितुमारभते, तदैवस्वपिति| न त्वनुदीर्णां निद्रामुदीरयति, नाप्युदीणां धारयति| तच्च न रूक्षम्, नापि स्निग्धम्| उक्तं च खारणादिना-"इन्द्रियातिश्रमाद्रूक्षो वातलो जागरो निशि| तदालस्याद्दिवास्वप्नः स्निग्धः पित्तकफोल्बणः|| आसीनप्रचलः स्वप्नो निरभिष्यन्दिबृंहणः|" इति| प्रचलायित इति प्रचलप्रातिपदिकात्कण्ड्वादियगन्तादादिकर्मणि निष्ठायां रूपम्| अन्ये त्वासीनप्रचलायितशब्देनोपष्टस्यैव शयनमाहुः| ते च दिवेत्यनिवर्त्य दिवैव तत्कार्यमित्याहुः| यदाह भेडः-स्वप्नकामो दिवा काममुपविष्तः शयीत वा| प्रस्तीर्णाङ्गस्य जन्तोर्हि श्लेष्मा कोष्ठे प्रवर्तते||" इति|

Adhikarana दिवास्वप्नस्यापवादः (५६-५९) · Śloka ५९

यदि स्निग्धत्वादभिष्यन्दी दिवास्वप्नः, तत्किं कदाचिदपि न कार्यः? इत्याह- ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः||५६|| दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः| मुक्त्वा तु भाष्ययानाध्वमद्यस्त्रीभारकर्मभिः||५७|| क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः| वृद्धबालाबलक्षीणक्षततृट्शूलपीडितान्||५८|| अजीर्ण्यभिहतोन्मत्तान् दिवास्वप्नोचितानपि| धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति||५९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ग्रीष्मकाले दिवास्वप्नो हितः| यतस्तस्मिन् काले पवनच्चयो भवति| आदानस्य च परिपुष्टत्वादतिरौक्ष्यं भवति| रात्रयश्चनिद्रासमाप्त्ययोग्या अल्पा भवन्ति| दिवास्वप्नश्च सन्तर्पकः| ग्रीष्मादपरस्मिन् काले कफपित्तकरः| सोऽचिन्त्यत्वाद्धेतुप्रभावस्य| भाष्यादिक्लान्तादीन् मुक्त्वा-वर्जयित्वा| तेनैतदुक्तं भवति,-ग्रीष्मादपरस्मिन्नपि काले स्वप्न एषां हित एव| यानं अश्वादि| क्षतः-खड्गादिच्छिन्नः| अभिहतो-लगुडादिना| दिवास्वप्नोचिताः-शीलितदिवास्वप्नाः| तत्र भाष्यादिक्लान्तानां पवनकोपात् स्वप्नोऽनुज्ञातः| श्वासहिध्मादीनां वेगविस्मरणार्थम्| वृद्धादीनां यथायथं सन्तर्पणार्थं वेगविस्मरणार्थं च| अजीर्णिनां दिवास्वप्नोचितानां च धातुवैषम्यपरिहारार्थं दिवास्वप्नोऽनुमतस्तन्त्रकृता| तथा चोक्तम्-"उचितो हि दिवास्वप्नो येषां नित्यं शरीरिणाम्| वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा||" इति| ननु, अजीर्णिनां दिवास्वप्नो न युक्तः, दिवास्वप्नस्य कफवृद्धिकरत्वात्| कफवृद्ध्या चाग्निमान्द्यम्| अग्निमान्द्यादजीर्णान्नस्यापाक इत्यनुक्तस्तेषां दिवास्वप्नः| अत्रोच्यते| दिवास्वप्नेनाजीर्णिनां धातुसाम्यं भवति| धातुसाम्ये च सतिस्वस्थानस्थितैर्दोषैरनुपहतो वह्निः पचनक्षमो भवति| कफस्तु वृद्धोऽपि नैतेषामग्निमान्द्यं विधत्ते| अपि त्वङ्गानां पुष्टिमादधाति| अत एवानन्तरमेवोवाच शास्त्रकारः-"धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति|" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- दिवास्वन्पस्यासम्यग्योत्वमपत्रदति-ग्रीष्म इति| ग्रीष्मे वायुचयादीनां स्द्भावात् दिवास्वप्नो हितः| आदानग्रहणं शिशिरदिनादारभ्य प्रतिदिनवृद्ध्याऽतिशयितस्य रौक्ष्यस्य रात्र्यल्पभावस्य च प्राप्त्यर्थम्| अन्यथा वायुचयवत्तयोरपि ग्रीष्ममात्रहेतुकयोः प्राप्तिः| तत्र दिवास्वप्नः स्निग्धत्वाद्वायुचयं रौक्ष्यं च हन्ति, मात्रापूरणाद्रात्र्यल्पत्वकृतं हीनयोगं च| ननु, वातघ्नोऽपि दिवास्न्पः कफपित्तकरत्वादहितः| वक्ष्यति हि (हृ. सू. अ. १३/१६)- "प्रयोगः शमयेव्द्याधिं योऽन्यमन्यमुदीरयेत्| नासौ विशुद्धः, शद्धस्तु शमयेद्यो न कोपयेत्||" इति| अत आह-अन्यस्मिन्नित्यादि| हि-यस्मात्, सः-दिवास्वप्नो, ग्रीष्मादन्यस्मिन्नृतौ भाष्यक्लान्तदीन् मुक्त्वा कफपित्तकरः| न च ग्रीष्मे, न च भाष्यक्लान्तादीन्| तत्र ग्रीष्मे कालस्वभावात्| उक्तं च चरकेण (सू. अ. ८९/४४)- "ग्रीष्मवर्ज्येषु कालेषु दिवास्वन्पात्प्रकुप्यतः| श्लेष्मपित्ते दिवास्वन्पस्तस्मात्तेषु न शस्यते||" इति| भाष्यक्लान्तादीनां तु कुतः ? इत्याह-धात्वित्यादि| हि-यस्मात्, एषां-भाष्यक्लान्तादीनाम्, तथातेनप्रकारेण,धातुसाम्यं भवति| समीभूतः श्लेष्मा शिरःकरचरणादीण्यङ्गानि पुष्णानि| धातवो-वातादयो रसादयश्च| धातुसाम्यहेतुत्वान्न कफपित्तकरत्वम्| कफपित्तवृद्धेः साम्यार्थत्वान्न विकारारम्भकदोषहेतुत्वम्| भाष्यं-वाग्व्यापारः| यानं-अश्वादिना गमनम्| अध्वा-पद्भयां गमनम्| मद्यं-मद्यपानम्| स्त्री-सम्भोगः| भारः-शिरः स्कन्धादिभिर्गुरुवस्तुवहनम्| कर्म-कायव्यापारः| क्षतः-क्षाकासी| अभिहतः-शस्त्रप्रहारादिपीडितः| दिवास्वप्नोचितः-सात्म्यीभूतदिवास्वप्नः| अयं च दिवास्वप्नो मुहूर्तमेव कर्तव्यः| यदाह सुश्रुतः (शा. अ. ४/३८)- "प्र्तिषिद्धेष्वपि बालवृद्ध" इत्यादि यावत् "मुहूर्तमात्रं स्वपनम्" इति|

Adhikarana दिवास्वप्नस्यासम्यग्योगत्वम्,रात्रिस्वप्नस्यापवादः (६०) · Śloka ६०

बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि| विषार्तः कण्ठरोगी च नैव जातु निशास्वपि||६०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तथा, बहुमेदःश्लेष्माणः स्निग्धाहारादिशीलिनश्च ग्रीष्मेऽप्यहनि न स्वप्युः| विषार्तः कण्ठरोगी च रात्रिष्वपि कदाचिदपि न स्वप्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- दिवास्वन्पस्यासम्यग्योगत्वं प्रतिप्रसवति-बहुमेद इति| बहुमेदःप्रभृतयो ग्रीष्मेऽपि भाष्यक्लान्तादित्वेऽपि न दिवा स्वप्युः| रात्रिस्वप्नस्य सम्यग्योगत्वमपवदति-विषार्त इति| जातुकदाचित्|

Adhikarana अकालशयनान्मोहादयः (६१) · Śloka ६१

अकालशयनान्मोहज्वरस्तैमित्यपीनसाः| शिरोरुक्शोफहृल्लासस्रोतोरोधाग्निमन्दताः||६१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अकाले शयनं-स्वप्नः,-अकालशयनम्, तस्मादकालशयनात् मोहादयः स्युः| स्तैमित्यं-गात्राणां निरुत्साहत्वम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथासम्यग्योगजा रोगाः| तत्र मिथ्यायोगातियोगजान् रोगानाह-अकालशयनादिति| अकालशयनात्-द्विविधात्प्रागुक्तात्| स्तैमित्यं-आर्द्रपटावनद्धाङ्गत्वम्| सङ्ग्रहे (सू. अ. ९)- "कण्डूसकोठपिटिकाः कासतन्द्रागलामयाः| हलीमकार्द्धावभेदशोफारोचकगौरवम्|| विषवेगप्रवृत्तिश्च भवेदहितनिद्रया||" इति|

Adhikarana तत्र चिकित्सा (६२-६३) · Śloka ६३

अत्र च का चिकित्सा? इत्याह तत्रोपवासवमनस्वेदनावनमौषधम्| योजयेदतिनिद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम्||६२|| नावनं लङ्घनं चिन्तां व्यवायं शोकभीक्रुधः| एभिरेव च निद्राया नाशः श्लेष्मातिसङ्क्षयात्||६३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र-तेष्वकालस्वप्नजेषु रोगेषु, उपवासाद्यौषधं योजयेत्| निद्रायाश्च बाहुल्येन रात्रिः कालः| तथा चोक्तम् (सङ्ग्रहे सू.अ.९)-"लोकादिसर्गप्रभवा तमोमूला तमोमयी| बाहुल्यात्तमसो रात्रौ निद्रा प्रायेण जायते||" इति| अतिनिद्रायां सत्यां तीक्ष्णानि वमनाञ्जननस्यानि योजयेत्, लङ्घनादि च| एभिरेव च-तीक्ष्णवमनादिभिर्निद्राया नाशो भवति| श्लेष्माख्यस्य धातोरतिशयेनापचयात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अकालशयनजानामौषधमाह-तत्रेति| अतियोगस्यौषधमाह-योजयेदिति| स द्विविधः,-वेगोदीरणजे निद्राधिक्यजश्च| तत्राद्य उक्तो रोगानुत्पादनीये, इह द्वितीयः| तस्य हेतुरुक्तः सङ्ग्रहे (सू. अ. ९)-"अपच्यमानो बाहुल्यात्स्त्रोतांस्यावृणुते कफः| ततः स्त्रोतःसु रुद्धेषु जायते गात्रगौरवम्|| गुरुगात्रस्य चालस्यमालस्यादतिनिद्रता|" इति| लङ्घनं-द्वादशविधम्| वमननावनयोस्तु ग्रहणमतिशयार्थम्| व्यवायं-सम्भोगम्| हीनयोगस्य हेतुमाह-एभिरेवेति| स द्विविधः,- निद्राविधारणजो निद्राविनाशजश्च| तत्राद्य उक्तो रोगानुत्पादनीये, इह द्वितीयः| एभिः-अतिनिद्रौषधैः| श्लेष्मातिसङ्क्षयादिति हेतुकथनमन्येषामपि श्लेष्मक्षपणानां निद्रानाशहेतुत्वख्यापनार्थम्|

Adhikarana निद्रानाशजन्यविकाराः (६४) · Śloka ६४

सम्प्रति निद्रानाशजान् विकारानाचष्टे निद्रानाशादङ्गमर्दशिरोगौरवजृम्भिकाः| जाड्यग्लानिभ्रमापक्तितन्द्रा रोगाश्च वातजाः||६४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-निद्रानाशादङ्गमर्दादयो वातोत्थाश्च रोगाः स्युः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- निद्रानाशजान् रोगानाह-निद्रानाशादिति| जाड्यं-ज्ञानभ्रंशः| अपक्तिः-आहारस्याविपाकः| वातजा रोगाः- आक्षेपकादयः|

Adhikarana यथाकालं रात्रौ निद्रा रात्रावनिद्रितस्य दिवास्वन्पः (६५) · Śloka ६५

यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः| असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान्||६५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यतश्च सम्यक् सेविताया निद्राया असम्यक् सेवितायाश्चाऽनन्तरोक्ता गुणदोषाः| अतः-अस्माद्धेतोः, कालानतिक्रमेण सात्म्यतो-यामद्वयं त्रयं वा, निशि निद्रां भजेत्| असात्म्याज्जागरादर्द्धेन प्रातः स्वप्यात्| अभुक्तवान्-अभुक्ते सति| असात्म्यग्रहणेनैतत् द्योतयति,-न सर्वस्य रात्रावसुप्तस्य जागरणकालादर्धेन दिवास्वप्न इष्यते, किं तर्हि ? यो यावन्तं कालमुचितं स्वपिति तस्मात्कालाद्यावन्तं कालं निशि जागृयात्तावतोऽर्धेनासौ प्रातः स्वप्यात्| केचिद्धि स्वल्पनिद्राः स्वभावतो भवन्ति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- असम्यग्योगं निषिध्य सम्याग्योगं विधत्तेयथाकालमिति| निद्रां रात्रौ सेवेत, न दिवा| रात्रावपि यथाकालं-प्रवृत्तिकालानतिक्रमेण, यस्य यस्मिन् रात्रिविभागे निद्रा प्रवर्तते स तस्मिन्नेव सेवेतेत्यर्थः| सत्म्यतः-यामद्वययामत्रयादिसात्म्यानुरोधेन| रात्रावनिद्रितस्य दिवा स्वन्पं विधत्ते-असात्म्येति| प्रातः पूर्वाह्णे स्वप्यात्| अभुक्तवान्-अकृतभोजनः| असात्मियारात्रिजागरणकालादर्द्धकालम्| सात्म्यश्चेद्रात्रिजागरस्तदा प्रातर्नैव स्वप्यात्| अर्द्धमित्यसात्म्यजागरजनितदोषनिवर्तकनिद्रापर्याप्तकालोपलक्षणम्| अत एवाह खारणादिः-" असुप्तानां तथा रात्रौ तन्मात्रं स्वपनं दिवा||" इति| भेदोऽपिरात्रौ स्वप्यान्न यामांस्त्रिंस्तान्स्वप्याद्द्विर्दिवा नरः| एतदप्याहुरारोग्यं नात्र दोषोऽस्ति कश्चन||" इति|

Adhikarana मन्दनिद्रस्य क्षीरादिसेवनम् (६६-६८) · Śloka ६८

शीलयेन्मन्दनिद्रस्तु क्षीरमद्यरसान् दधि| अभ्यङ्गोद्वर्तनस्नानमूर्धकर्णाक्षितर्पणम्||६६|| कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता| मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः||६७|| ब्रह्मचर्यरतेर्ग्राम्यसुखनिःस्पृहचेतसः| निद्रा सन्तोषतृप्तस्य स्वं काले नातिवर्तते||६८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यो मन्दनिद्रः स क्षीरादीन् शीलयेत्| कान्ताबाहुलताश्लेषादयो निद्रासुखहेतवः| कान्ताबाहुलताश्लेषग्रहणमाश्लेषमात्रमेव निद्रासुखहेतुः, न तु ग्राम्यधर्मसेवेति दर्शनार्थम्| अत एवानन्तरमाह-"ब्रह्मचर्यरतेर्निद्रा स्वं कालं नातिवर्तते|" इति| ब्रह्मचर्यरतस्याप्यनुरागतो मैथुनाभिलाषो निद्रां नाशयेदित्याह-ग्राम्यसुखे निःस्पृहं चेतो यस्य स तस्य| तथा, सन्तोषतृप्तस्य|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथ सम्यग्योगहेतुः| स त्रिविधः,-जघन्यमध्यमोत्तमभेदात्| तत्र जघन्यमाह-शीलयेदिति| मन्दामूढा स्वकालानभिज्ञा, निद्रा यस्य सः-मन्दनिद्रः| रसान्मांसरसान्| मूर्द्धतर्पणं-मूर्द्धतैलम्| कर्णतर्पणं-कर्णपूरणम्| अक्षितर्पणं-प्रसिद्धम्| मध्यममाह-कान्तेति| निर्वृतिः-सिखम्| कृतकृत्यतापूर्णमनोरथत्वम्| विषयाः-शब्दादयः| मध्यममाह-कान्तेति| निर्वृतिः-सुखम्| कृतकृत्यतापूर्णमनोरथत्वम्| विषायाः-शब्दादयः| कामं-अत्यन्तम्| उत्तममाह-ब्रह्मचर्यरतेरिति| ब्रहाचर्यरतेः-ब्रह्मचर्यासक्तस्य| ग्राम्यसुखं सम्भोगः, तत्र निःस्पृहं-ततो निवृत्तं, चेतो यस्य| संतोषतृप्तस्य- यथालाभतुष्टस्य| स्वं कालं नातिवर्तते-उचित एव काले आयातीत्यर्थः|

Adhikarana मैथुने निषिद्धानि (६९-७२) · Śloka ७२

यदा तु ग्राम्यधर्मेण विना न रतिः, अपत्यार्थिता वा, तदा तदधिकारार्थमुच्यते ग्राम्यधर्मे त्यजेन्नारीमनुत्तानां रजस्वलाम्| अप्रियामप्रियाचारां दुष्टसङ्कीर्णमेहनाम्||६९|| अतिस्थूलकृशां सूतां गर्भिणीमन्ययोषितम्| वर्णिनीमन्ययोनिं च गुरुदेवनृपालयम्||७०|| चैत्यश्मशानाऽऽयतनचत्वराम्बुचतुष्पथम्| पर्वाण्यनङ्ह्गं दिवसं शिरोहृदयताडनम्||७१|| अत्याशितोऽधृतिः क्षुद्वान् दुःस्थिताङ्गः पिपासितः| बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रोगी च मैथुनम्||७२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ग्राम्यधर्मे-स्त्रीपुंसंयोगविषये, अनुत्तानं स्त्रियं त्यजेत्, उत्तानां- भजेदित्यर्थः| तथा, रजस्वलत्वादियुतां त्यजेत्| दुष्टं व्याधिमलादिभिः, सङ्कीर्णं-सङ्कटं च, मेहनं-योनिर्यस्यास्ताम्| तथा, वर्णिनीं-ब्रह्मचारिणीम्| अन्ययोनिं-अजामहिष्यादिं च त्यजेत्| गुर्वित्यादि| ग्राम्यधर्मे निर्वर्तने सति गुरुदेवनृपालयांस्त्यजेत्| तथा, चैत्यादींस्त्यजेत्| तेषु स्त्रियं न सङ्गच्छेदित्यर्थः| चैत्यादीनां पर्याया दिनचर्यायामुक्ताः| आयतनं-दुष्टानां निग्रहस्थानम्| पर्वाणि-रविसङ्क्रान्त्यादीनि त्यजेत्, तेषु कामं न सेवेतेत्यर्थः| तथा, अनङ्गं,-अङ्गं-जघनम्, नाङ्गं-अनङ्गमङ्गसदृशं जघनकार्यनिर्वर्तनयोग्यं मुखादिकमुच्यते| दाक्षिणात्या हि मुखेन तत् कुर्वन्ति, तन्निषिध्यते| दिवसं च त्यजेत्, दिने रतं न कुर्वन्ति, तन्निषिध्यते| दिवसं च त्यजेत्, दिने रतं न कुर्वीतेत्यर्थः| मूर्धवक्षोऽभिघातं च त्यजेत्| तथा, अत्याशितादयः सुरतं त्यजेयुः| अत्याशितःअतिसुहितः| अधृतिः-दुर्मनाः| अन्यवेगार्तः-पुरीषादिवेगातुरः| ननु, क्षुद्वेगार्त उच्यते| ततोऽन्यवेगार्त इत्यनेनैवास्यार्थस्य लब्धत्वात् किं क्षुद्वानित्यनेन? सत्यमेतत्| अतिशयार्थं त्वेतत्| यथा क्षुद्वेगार्तः स्त्रियं गच्छन्नतिशयेन पीडया बाध्यते, न तथाऽन्यवेगार्त इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथाविधिसम्भोगादाहाररक्षा| तत्र सम्भोगनिषिद्धान्याह- ग्राम्येत्यादि| ग्राम्यधर्मे-सम्भोगे, अनुत्तानत्वादिविशिष्टं नारीं त्यजेत्| अप्रियां-अनभीष्टाम्| अप्रियारां-अनिष्टाचरणाम्| दोषमेहनां-दोषदूषितयोनिम्| सक्रीर्णमेहनां-सङ्कुचितयोनिम्| अतिस्थूलामतिकृशां च| सूतां-असम्पूर्णाध्यर्द्धमासप्रसूतिम्| अन्ययोषितं- परस्त्रियम्| वर्णिनीं-ब्रहाचारिणीम्| अन्ययिनिं-विजातीयामजामहिष्यादिम्| गुर्वालयादींश्च त्यजेत्| चैत्यादयो दिनचर्यायां व्याख्याताः| अम्बु-जलाशयः| आयतनं-वधस्थानम्| पर्वाणि-पुण्यकालाः| अनङ्गं-हस्तमुखादि| दिवसंअपर्वण्यपि| शिरस्ताडनं हृदयताडनं च-मुष्त्यादिना| दिनचर्यायां सामान्यतो निषिद्धस्यापि देवालयादेः पुनर्निषेधः सम्भोगे देषभूयस्त्वख्यापनार्थः| अत्याशितादेः सम्भोगं निषेधति-अत्याशित इति| अत्याशितः-अतितृप्तः| अधृतिः-अहृष्टः| क्षुद्वान्-क्षुधितः| दुःस्थिताङ्गः-विषमस्थितगात्रः| पिपासितः-तृषितः| अन्यवेगार्तः-शुक्रेतरवेगपीडितः| क्षुत्तृषोर्वेगत्वेऽपि पृथग्ग्रहणमल्पयोरपि तयोर्निषेधार्थम्|

Adhikarana ऋतुविशेषे सम्भोगनियमः (७३) · Śloka ७३

सम्प्रति ऋतुविशेषेषु निधुवनं नियमयति सेवेत कामतः कामं तृप्तो वाजीकृतां हिमे| त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षानिदाघयोः||७३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तृप्तो-वाजीकरणैः सञ्जातसन्तर्पणः सन्, कामतो- यथेच्छया, हिमे-हेमन्तर्तौ शिशिरे च, कामं-यथेच्छं, सेवेत| वाजीकृतामिति सम्पदादित्वात्क्विप्| तृप्त इति क्तोऽधिकरणे च ध्रौव्येत्यादिनाऽधिकरणे क्तः| अधिकरणवाचिनश्चेति षष्ठी| वसन्ते शरदि च त्र्यहात्-त्रयहमतिक्रम्य, मैथुनं निषेवेत| वर्षाग्रीष्मयोः पक्षात् कामं भजेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- ऋतुवशात्सम्भोगं विधत्ते-सेवेतेति| हिमेहेमन्तशिशिरयोः| कामं-सम्भोगम्| कामतः-स्वेच्छया| वसन्ते शरदि च व्द्यहात्-व्द्यहमन्तरं कृत्वा| वृष्टिनिदाधयोः पक्षात्-पक्षमन्तरं कृत्वा| "सप्तमीपञ्चम्यौ कारकमध्ये " इति पञ्चमी| वाजीकृतां तृप्त इति सर्वत्र सम्बध्यते| वाजीकृतां-वाजीकरणानाम्| "करणे सुहितार्थानाम्" इति षष्ठी| अयं च विधिरुत्तमबलापेक्षः| हीनबलानां मैथुनं तु समाचरेत्| वर्षासु नवरात्रात्तु दशाराताच्छरद्यपि|| पञ्चाहाच्छीतसमये सत्पाहाच्छिशिरे तथा| पक्षाद्वसन्ते, ग्रीष्मे तु मासि मासि समाचरेत्|| निदाघे पश्चिमे मासि मैथुनं न समाचरेत्||" इति|

Adhikarana अन्यप्रकारेण स्त्रीगमने भ्रमादयः (७४) · Śloka ७४

भ्रमक्लमोरुदौर्बल्यबलधात्विन्द्रियक्षयाः| अपर्वमरणं च स्यादन्यथा गच्छतः स्त्रियम्||७४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अन्यथा-उक्ताद्विधेरन्येन प्रकारेण, स्त्रियं गच्छतो भ्रमादयः स्युः| अपर्वणि-अकाले मरणं-अपर्वमरणम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- उक्ताविध्यतिक्रमे दोषमाह-भ्रमेति| ऊरुदौर्बल्यं-सक्थिशैथिल्यम्| बलादीनां क्षयः| अपर्वमरणंअकालमृत्युः| अन्यथा स्त्रियं गच्छतः-उक्तप्रकारादन्येन प्रकारेण सम्भोगं भजतः| उक्तं च रसायुर्वेदे-"विपरीतरतप्राप्त्या लिङ्गे दाहः प्रजायते| कार्श्यं च सर्वगात्रेषु, तत्प्रतीकार उच्यते|| प्रत्यग्बस्तिं निबध्यैव लिङ्गाचूषणमाचरेत्| क्षरणे तस्य सञ्जाते स्नापयेच्छीतलाम्बुना|| कोलनिर्यासमादाय पाययेत्तं सशर्करम्| शाल्मलीदूर्वयोर्मूलरसं पायसमाशयेत्||" इति|

Adhikarana सम्यक्सम्भोगाचरणे फलम् (७५) · Śloka ७५

स्मृतिमेधायुरारोग्यपुष्टीन्द्रिययशोबलैः| अधिका मन्दजरसो भवन्ति स्त्रीषु संयताः||७५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्त्रीषु संयताः-स्त्रीः सम्यक् सेवमानाः, स्मृत्यादिभिरधिका अल्पजराश्च भवन्ति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विध्याचरणे फलमाह-स्मृतीति| स्त्रीषु संयताःविधिना स्त्रीः सेवमानाः, स्मृत्यादिभिरधिका मन्दजरसश्च भवन्ति| इन्द्रियं-शुक्रम्| मन्दजरसः-चिरस्थायियौवनाः|

Adhikarana सम्भोगावसाने सेव्याः (७६) · Śloka ७६

स्नानानुलेपनहिमानिलखण्डखाद्य शीताम्बुदुग्धरसयूषसुराप्रसन्नाः| सेवेत चानु शयनं विरतौ रतस्य तस्यैवमाशु वपुषः पुनरेति धाम||७६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रतान्ते यथौचित्येन स्नानादीन् सेवेत| खण्ड्दखाद्यं खण्डकृतं कणिकेत्यादि(?)| रसो-मांसरसः| चानुशयनमिति| अनु-पश्चाच्च, स्वप्नं सेवेत| तस्य-स्नानादिसेविनः शरीरस्य, एवं-अस्मिन्कृते, धाम-तेजो, भूय आगच्छति| त्मौ जौ वसन्ततिलकं गुरुकद्वयं च| सङ्ग्रहे चोक्तम् (सू.अ.९)- "स्नानाङ्गरागव्यजनेन्दुपादयूषासवक्षीररसान् रसालाम्| भक्ष्यान् सिताढ्यान् सलिलं सुशीतं सेवेत निद्रां च रतान्ततान्तः||" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ रं- सम्भोगावसाने सेव्यानाह-स्नानेति| हिमानिलः- शिशिरमारुतः| खण्डखाद्यं-शर्कराप्रचुरं भक्षयम्| शीताम्बु-शीतोदकम्| रसो-मांसरसः| प्रसन्ना-अच्छसुरा| शयनं-निद्रा| एतानि रतस्य विरतौ, अनु-समनन्तरमेव सेवेत| एवं कृते, तस्य-रतक्षीणतेजसः, वपुषोधाम-शारीरं तेजः, पुनरप्याशु-शीध्रम्, एति-प्राप्नोति|

Adhikarana वैद्याधीने देहरक्षणे फलम् (७) · Śloka

एतञ्च सर्वं पूर्वोक्तं हिताहितं वैद्य एव वेत्ति| तस्माद्वैद्यस्य सर्वथा शरीरं राज्ञा निवेद्यमिति दर्शयन्नाह श्रुतचरितसमृद्धे कर्मदक्षे दयालौ भिषजि निरनुबन्धं देहरक्षां निवेश्य| भवति विपुलतेजःस्वास्थ्यकीर्तिप्रभावः स्वकुशलफलभोगी भूमिपालश्चिरायुः||७७|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्नरक्षा नाम सप्तमोऽध्यायः||७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-भिषजि शरीररक्षणं निरनुबन्धं-निर्विकल्पमाधाय, पृथ्वीशो बहुकालमात्मीय श्रेष्ठफलभोगवान् भवति| तथा, तेजश्च स्वास्थ्यं च कीर्तिश्च प्रभावश्च, त एवम्, विपुलाः विस्तीर्णाः, तेजःस्वास्थ्यकीर्तिप्रभावा यस्य स एवंविधः| कीदृशो भिषजि ? श्रुतं-शास्त्रावबोधः, चरितं-आचारः, ताभ्यां समृद्धे-सम्पूर्णे| तथा, क्रियाचतुरे| तथा, कृपालौ| वसुमुनिविरतिश्चेन्मालिनी नौ मयौ यः| इति श्रीमृगाङ्कदतपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थानेऽन्नरक्षाध्यायः सप्तमः समाप्तः|| ७||

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अध्यायार्थमुपसंहरति-श्रुतेति| उक्तप्रकारान्नक्षाद्वारेण देहरक्षां भिषजि निवेश्य, भूमिपालश्चिरायुर्भवति| कीदृशे भिषजि ? श्रुतचरितसमृद्धे-शास्त्रशास्त्रोक्तानुष्ठानसम्पन्ने, कर्मदक्षे-उपचारकुशले, दायालौ-कारुणिके| निरनुबन्धं-निःशङ्कम्| तेजः-कान्तिः| स्वास्थ्यं-आरोग्यम्| कीर्तिः-यशः| प्रभावः-प्रतापः| स्वकुशलफभोगी-स्वोपार्जितपुण्यफलोपभोगक्षमः| चिरायुः-दीर्घायुः| सङ्ग्रहे तु (सू. अ. ९)- "मनःशरीरस्थितिमात्रमेव व्यवायं सेवेत| न तु तत्परः स्यादिति| भवति चात्र| विश्रब्धहृष्टो रहसितत्कामस्तरुणः पुमान्| समस्थिताङ्गः सुरभिर्मुक्तमूत्रादिरव्यथः|| नानाशितो नात्यशितो वृष्याणां तर्पितस्त्र्यहम्| नारीं नारीगुणैर्युक्तां सहपूर्वगुणां व्रजेत्|| (स्त्रीसंसर्गाद्धि सद्यः स्यात् क्लीबता बलिनामपि| एवं चाप्याय्यते शीघ्रं तेषां शुक्रं च धाम च||) द्दष्ट्यायुरोजः शुक्राणां क्षयं मेढ्राश्रयान् गदान्| वायोः कोपमधर्मं च मूढः प्रान्पोत्यतोऽन्यथा|| उत्तानो वेगरोधी च वृद्धिमेहाश्मशर्कराः| तिमिरा दिगदोत्पत्तिर्मूर्द्धाद्याहननाद्धुवम्|| न चार्वाक् षोडशाद्वर्षात् सप्ततेः परतो न च| आयुश्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति|| अतिबालो ह्रासम्पूर्णसर्वधातुः स्त्रियं व्रजन्| उपरप्येत सहसा तडागमिव काजलम्|| शुष्कं रूक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम्| स्पृष्टमाशु विशीर्येत तथा वृद्धः स्त्रियं व्रजन्|| कायस्य तेजः परमं हि शुक्रमाहारसारादपि सारभूतम्| जितात्माना तत्परिरक्षणीयं ततो वपुः सन्ततिरप्युदारा|| अप्रमत्तो भजेद्भावांस्तदात्वसुखसंज्ञकान्| सुखोदर्केषु सज्जेत देहस्यैतदलं हितम्|| प्रज्ञापराधोऽसात्म्यार्थसंयोगः कालवैकृतम्| हितेऽपि रतमाहारे योजयन्त्यामयैर्नरम्|| नापथ्यसेविनं सद्यः प्रबाधन्ते तदा मलाः| प्रकोपं प्रतिविघ्नन्ति भिन्नैर्दूष्यादिभिर्यदा|| न च सर्वोऽपचारोऽपि सर्वदा सर्वदोषकृत्| न हिसर्वाण्यपथ्यानि तुल्यदोषाणि नैव च|| सर्वे तुल्यबला दोषा न सर्वाणि वपूंषि च व्याधिक्षमत्वे शक्तानि यतोऽपथ्यं तदेव तु|| गच्छत्यपथ्यतमतां तुल्यदूष्यादिवर्द्धितम्| त एव च पुनर्दोषा हेतुभिर्बहु भिश्चिताः|| मिथो विरुद्धा बलिनो दीर्घकालानुवर्तिनः| सर्वे समं प्रक्रुपिताः प्राप्याल्पमपि कारणम्|| प्राणायतनमाश्रित्य गम्भीराः सर्वमार्गगाः| देहे हितोचिते ते स्युश्चिरादप्याशुकारिणः|| अहितान्यपि चान्ये पामभ्यासादुपशेरते| दोषास्चैव क्षायं यान्ति कर्मवातातपादिभिः|| अथ बहूनामेकरोगोत्पत्तिः| भिन्नाहारवयः सात्म्यप्रकृतीनां समं भवेत्| एको विकृतवाय्वादियुगपत्सेवनाद्गदः|| वातादीनां तु विकृतिर्विकृतादग्रहचारताः भौमान्तरिक्षदिव्येभ्य उत्पातेभ्यश्च जायते|| सम्भवः पुनरेतेषां कर्मणः सासुदायिकात्| दुष्टो वायुरभिश्यन्दी स्तिमितोऽत्युष्णशीतलः|| कुण्डली भैरवरवः परुषोऽनार्तवो बली| अन्योन्यव्याहतगतिः पांशुबाष्पविषान्वितः|| रसवर्णादिविकृतमपक्रान्तविहङ्गमम्| निन्दितप्रभवं तोयमुपक्षीणजलेशयम्|| मक्षिकामूषिकव्यालबहूत्पातप्रदूषिताः|देशोऽप्थ्यान्नबहुलो नष्टधर्ममहौषधिः|| कालश्च विपरीतातिहीनलिङो यथायथम् | एते दुष्परिहारत्वादहितायोत्तरोत्तरम्|| येषामनियतं कर्म तस्मिन् काले सुदारुणे| कर्म पञ्चविधं तेषां योज्यं तद्वद्रसायनम्|| शस्यते देहवृत्तिश्च भेषजैः पूर्वमुद्धृतैः| ब्रह्राचर्यं दया दानं जितात्मनाम्| देशानामविपन्नानां साधूनां च निषेवणम्|| दैवव्यपाश्रयं चेष्टं कर्म दीवितरक्षणम्| हेमन्तादिषु कुर्वीत स्वं स्वं चाकालिकेष्वपि|| विधिं तच्छीलनं यस्माच्छीतादिद्वन्द्वकारितम्| ऋतुचर्या हि शीतोष्णवृष्टिदोषप्रतिक्रिया|| अत एव च चर्यायां हेमन्तशिशिरौ समौ| अथाकालमृत्युः| सर्वप्राणभृतां नित्यमायुर्युक्तिमपेक्षते| दैवे पुरुषकारे च स्थितं ह्यस्य बलाबलम्|| अन्यजन्मकृतं कर्म दैवं पौरुषमैहिकम्| विद्यात्ते कर्मणी त्रेधा श्रेष्ठमध्यावरत्वतः|| तयोरुदारयोर्युक्तिर्दीर्घस्य सुसुखस्य च| नियतस्यायुषो हेतुर्विपरीतस्य चावरा|| मध्या मध्यस्य, मिश्रस्य सङ्कीर्णा, शृणु चापरम्| दैवं पुरुषकारेण दिर्बलं ह्रापहन्यते|| तथा दैवेनबलिना पौरुषं कर्म दुर्बलम्| द्दष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः|| कर्म किञ्चित् क्वचित्काले विपाकनियतं महत्| किञ्चित्वकालनियतं प्रत्ययैः प्रतिबोध्यते|| एवं च द्विविधो मृत्युः कालाकालविभेदतः| उपदिष्टस्ततश्चैष हिताहितविधिक्रमः|| एकोत्तरं मृत्युशतं ब्रुवते वेदवादिनः| तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः|| श्येनाजिरादियागेन भ्रातृव्यस्य तथा च तैः| दैर्ध्यश्रवससोमाद्यैर्विहितस्त्वात्मनो वधः|| आयुष्कामस्य तत्प्राप्तिस्तत्रेष्ट्या मित्रविन्दया| सर्वस्मादेव चात्मानं गोपायेदीद्दशी स्मृतिः|| तथा मरणमुद्दिष्टं सौगतानां चतुर्विधम्| विषमापरिहारेण जायते नियतायुषाम|| ध्रुवं रोगित्वमन्येषां मृत्युरेव त्वपर्वणि| अकाण्डे शस्त्रधाराद्यैः प्रत्यक्षो मृत्युरन्यथा|| उद्भ्रा न्तचण्डमातङ्गतुरङ्गादिसमागमम्| अरातिदुष्टवातादिसाहसाहितभोजनम्|| वर्जयेदिति न ब्रूयुर्मुनयो दिव्या चक्षुषः| दैवव्यपाश्रयादीश्च रसायनविधिं विना|| न वा तेऽपि यथाकाममायुषः स्थितिमाप्नुयुः| अहिसिंहगजादिभ्यो विदुषां न भयं भवेत्|| मिथ्या प्राकारदुर्गाणि मिथ्या मारणरक्षणम्| आयुष्कामस्य मिथ्यैव परदारादिवर्जनम्|| मन्त्रदेवतयाऽऽहूता नाचक्षीरन् महाहयः| विषसुत्पप्रबुद्धस्था भावाभावौ तदायुषः| संन्यासरोहिणीकादिग्रस्तस्य सहसा भवेत्| उपेक्षया न मरणं जीवितं वा चिकित्सया|| प्रत्यहं नृसहस्त्रस्य युद्धेऽन्योन्यमभिघ्नतः| साधुवृत्तस्य चातुल्या न भवेदातुषः स्थितिः|| नायुधैर्द्विषमिन्द्राद्या नौषधैरार्तमश्विनौ| उपक्रमेरन्न भवेदकालामरणं यदि|| घटानामामपक्वानां पालनापरिपालनैः| चिराल्पकालवर्तित्वं चित्रस्थानां च द्दश्यते| इत्यत्यन्तप्रसिद्धेऽपि सिद्धे सर्वागमैरपि| द्दष्टेऽप्यकालमरणे विचिकित्सेत् कथं बुधः|| गुणवद्भिषगादीनां सम्भवे सम्भवेत्तु यः| मृत्युस्तं कालजं प्राहुरितरं तद्विपर्यये|| यथा रथो वाह्यमानो न्यायेन क्रमशः क्षयम्| यायादात्मवतामायुस्तथाऽन्येषां विपर्ययः|| शुचितैलदशोदीपः कीटवाताद्यपीडितः| दीप्तिमान् वर्तते सम्यक् यथैव स्नेहसङ्क्षयात्|| स एवातो यथा च स्याद्विपरीतो विपर्यये| हिताहितोपचारेण तथैव पुरुषो ध्रुवम्|| सर्वमन्यत् परियज्य शरीरं पालयेदतः| तदभावे हि भावानां सर्वाभावः शरीरिणाम्|| नगरी नगरस्येव रथस्येव रथी सदा| स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्|| आहारकल्पनाहेतून् स्वभावादीन् विशेषतः| समीक्ष्य हितमश्नीयाद्देहोह्यहारसम्भवः|| भीलज्जायन्त्रणालोभहर्षशोकवशंगतः| न जातु धारयेद्वेगांस्तद्धि सर्वापदां पदम्|| हितमभ्यस्यतः पुंसो नाकाले कालदंष्ट्रया| सञ्जायते परामर्शो बलोत्साहेन्द्रियायुषाम्||अहितानि च सन्त्यज्य दोषमप्याप्नुयाद्यदि| तथाऽप्यानृण्यमायाति साधूनामात्मवानिति|| यच्च रोगसमुत्थानं न शक्यमिह केनचित्| परिहर्तुं न तत्प्राप्य शोचितव्यं मनीषिणा|| हिताहारविहाराणां सदाचारनिषेविणाम्| लोकद्वयव्यपेक्षणां जीवितं ह्रामृतायते|| गृध्नुर्ग्राम्यसुखे वश्यः क्लेशानां हतसत्पथः| मूढो जीवत्यनर्थाय दुर्गतिं परिबृंहयन्|| विदुषाऽन्तःशरीरस्थान्नित्यं सन्निहितानरीन्| जित्वा वर्ज्यानि चिरं जीवितुमिच्छता|| तदात्वे चानुबन्धे वा तस्मात् कर्माशुभोदयम्| स्मरन्नात्रेयवचसो न धीमान् कर्तुमर्हति|| इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| अन्नरक्षाप्रकरणं सामस्त्येन निरूपितम्|| ७||