Adhikarana अध्यायोपक्रमः · Śloka
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स० -अन्नरक्षाध्यायादनन्तरं मात्राशितीयाध्यायारम्भो युक्तः| यतो विषादिभ्यो रक्षितमन्नपानं हीनमात्रातिमात्राभ्यवहृतं जीवितोपघाताय सम्पद्यते| मात्राभ्यवहृतं प्राणिनां प्राणाय|-
Adhikarana मात्राशितीयाध्यायोऽष्टमः (२) · Śloka २
अथातो मात्राशितीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथेत्यानन्तर्ये| यथा,-"अथाऽतो धर्मजिज्ञासा|" इत्यत्र मीमांसायां वेदाध्ययनादनन्तरं धर्मो जिज्ञासितव्य इत्यर्थः| अत इति प्रस्तुताभिसम्बन्धे| अशनं-अशितम्| भावे निष्ठा| मात्रयाऽशितं-मात्राशितम्, तस्मै हितो मात्राशितीयः| शेषं पूर्ववद्व्याख्येयम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मात्राशितीय्मध्यायं व्याख्यातुं प्रतिजानीतेअथेति| यतः पूर्वेऽध्याये "आहारो वर्णितस्तत्र तत्र तत्र च वक्ष्यते|" इत्युक्तम् (हृ. सू. अ. ७/५३)| स चासाधारणो यथास्वं वक्तव्यः| असाधारणार्थमयमध्यमध्यः| अत एव मात्राशितीयः| मात्राशब्देन सम्यम्योगो लक्ष्यते| स चासम्यग्योगस्य त्यागात्सम्भवति| स पुनः सत्पधासङ्कीर्णाशनं, विरुद्धाशनं, अमात्राशर्म,अजीर्णाशनं, समशनं, अध्यशनं, विषमाशनं चेति| तत्र निषिद्धनां गृहे निषिद्धैर्वा सह निषिद्धं चान्नं यत्र भुज्यते तत्-सङ्कीर्णा शनम्| तच्च "शत्रुसत्रगणाकीर्णगणिकापणिकाशनम्|" इत्याद्युक्तम् (हृ. सू. अ. २/४३)| विरुद्धाशनम्-अहिताशनम्| तच्च "विरुद्धमपि चाहारं" इत्याद्युक्तम् (हृ. सू. अ. ७/२९)| अमात्राशनादीन्यत्रोत्र्यन्ते| मात्रावदपि यन्नजीर्यति तत्-अजीर्णाशनम्| समशनादीन्यत्रैव लक्षयिष्यति|अ
Adhikarana मात्राशनम् (१) · Śloka १
मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका|
मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि||१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वकालं-स्वस्थ आतुरो वा, मात्राशी स्यात्-परिमिताशी भवेत्| कुतो हेतोः ? हि-यस्मात्, मात्राऽग्नेः प्रवर्तिका स्वव्यापारे| अग्निप्रवृत्तिश्च देहस्थितिहेतुः| तथा चोक्तम्-"अग्निमूलं बलं पुंसां बलमूलं हि जीवितम्|" इति| तस्मान्मात्रायाः प्राधान्यम्| अस्माच्च कारणान्मात्रायाः प्राधान्यं यतो मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघूनि च| तत्र गुरूणि-पिष्टक्षीरद्राक्षाक्षोडेक्षुमाषानूपमांसादीनि| लघूनि-दिव्योदकरक्तशालिषष्टिकमुद्गलावकपिञ्जलैणशशशम्बरादीनि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तत्र मात्रां विधत्ते-मात्राशीति| मात्रामश्नातीति मात्राशी| यद्यपि मात्राविशिष्टान्नपानस्यैव कर्मत्वम्, तथापि प्राधान्यार्थं मात्रायाः कर्मत्वव्यपदेशः| किमर्थं मात्राशी स्यात् ? हि-यस्मात्, मात्रा अग्नेः प्रवर्तिकापचन्तमग्निं प्रवर्तयति, पाचयतीत्यर्थः| ननु, द्रव्याण्यग्निमिन्धनत्वात्प्रवर्तयन्ति, न मात्रेत्यत आह-मात्रामिति| ननु, गुरूणि द्रव्याणि दुर्जरत्वान्मात्रामपेक्षन्ताम्, न पुनर्लघूनीत्यत आह-गुरूण्यपीति|
Adhikarana गुरूणां लघूनां च मात्राप्रमाणम् (२) · Śloka २
तत्र गुरूणां का मात्रा ? का(च) लघूनाम् ? इत्याह गुरूणामर्धसौहित्यं लघूनां नातितृप्तता|
मात्राप्रमाणं निर्दिष्टं सुखं यावद्विजीर्यति||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गुरूणां द्रव्याणामर्धसौहित्यं-अर्धतृप्तिः| लघूनां नातितृप्तता-नातितृप्तिः, किं तर्हि ? सौहित्यमात्रम्| एतन्मात्राप्रमाणं निर्दिष्टम्| मात्रा-ह्रस्वा मध्या बृहती च, तस्याः प्रमाणं-मात्राप्रमाणम्| तत्र मात्रा-परिमाणं मानम्, तस्यास्तु प्रमाणं-उन्मानम्| एवं चात्र मात्राशब्दस्यापौनरुक्त्यम्| हि यस्मात्, यावत् परिमाणमभ्यवहृतं सुखं-अविकृतिं कृत्वा, जीर्यति-परिणमति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- ननु गुरुभिर्लघुभिर्वा तृत्पिरेवोत्पद्यते, न तेषां विशेष इत्यत आह-गुरूणामिति| यावताऽऽहारराशिना तृप्तिरुत्पद्यते ताववोऽर्धं भुज्यत इति-अर्धसौहित्यम्| तावन्मात्रमेव-नातितृप्तता| ननु, एवं चेन्मात्राया अव्यवस्थितत्वं प्राप्नोतीत्यत आहमात्रेत्यादि| मात्राप्रमाणं-मात्रालक्षणम्, यावत्सुखं जीर्यति तावन्मात्राशब्दः वाच्यमित्यर्थः| उक्तं च खारणादिना"यदन्यवहृत सम्यग्यथाकालं जरां व्रजेत्| प्रकृत्यविकृतिं कृत्वा तन्मात्रालक्षणं विदुः||" इति| तस्माद्गुरूणामर्धसौहित्यं सुखं जीर्यति, लघूनां नातितृत्पतेति नाव्यवस्था|
Adhikarana हीनमात्रभोजने दोषाः (३) · Śloka ३
भोजनं हीनमात्रं तु न बलोपचयौजसे|
सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते||३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हीनमात्रं पुनरशनं न बलाय, नोपचयाय, न चौजसे| सर्वेषां वातरोगाणां हेतुतां-कारणतां याति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ अमात्राशने दोषाः| तच्च द्विविधम्, हीनमात्रमतिमात्रं च| तत्र हीनमात्रजान् दोषानाहभोजनमिति| बलं-शक्तिः| उपचयः-पुष्टिः| ओजः-कान्तिः|
Adhikarana अतिमात्रे दोषाः (४) · Śloka ४
अतिमात्रं त्वशनं त्रीनपि दोषान् प्रकोपयेत्|
|४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतिमात्रं त्वशनं त्रीनपि दोषान् शीघ्रमेव प्रकोपयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अतिमात्रजान् दोषानाह-अतिमात्रमिति|
Adhikarana विसूचिकालसकयोः सम्प्राप्तिः (४-६) · Śloka ६
प्रकुपिताश्च त्रयो दोषा अलसकाख्यं विसूचिकाख्यं वा व्याधिं यथा कुर्वन्ति, तथा दर्शयति |
पीड्यमाना हि वाताद्या युगपत्तेन कोपिताः||४||
आमेनान्नेन दिष्टेन तदेवाविश्य कुर्वते|
विष्टम्भयन्तोऽलसकं च्यावयन्तो विसूचिकाम्||५||
अधरोत्तरमार्गाभ्यां सहसैवाजितात्मनः|
|६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेनापक्वेनान्नेन-आहारेण, दुष्टेन वताद्या हि-यस्मात्, पीड्यमानाः-विबध्यमानाः रुद्धमार्गत्वात्, अत एव युगपत्-एककालं सर्व एव, कोपितास्तदेव-दुष्टमन्नमाविश्य-आश्रित्यालसकं कुर्वते| किं कुर्वतः ? विष्टम्भयतः,-तदेव दुष्टमन्नं स्रोतःसु रुन्धानाः| तथा, अधरोत्तरमार्गाभ्यां सहसैव-अनुचिते देशे काले (च), च्यावयन्तः-ऊर्ध्वमधश्च निष्काशयन्तः| अजितात्मनः-असंयतचेतसः पुंसौ विसूचिकां कुर्वते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ प्रसङ्गादतिमात्रप्रकुपितदोषजानां रोगाणां निदानचिकित्सिते कथयति| तत्र विसूचिकालसकयोः सम्प्रात्पिमाह-पीड्यमाना इति| पीड्यमानाः सन्तो युगपत्कोपिताः-स्त्रोतोधात् परस्परसङ्घट्टनेन त्रयोऽप्येकदैव कोपं नीताः| केन ? तेन,-अतिमात्रेणान्नेन| अतिमात्रत्वादेवामेनपाककालातिक्रमेऽप्यपक्वेन, अत एव दुष्टेन-विकृतेन, तदेवाविश्य-तथाविधमेवान्नमधिष्ठाय, एवंभूतास्तदेवान्नं विष्टम्भयन्तोऽलसकं कुर्वते| च्यावयन्तः पुनर्विसूचिकाम्| काभ्यां च्यावयन्तः ? अधरोत्तरमार्गाभ्याम्| सहसैववेगेन| अजितात्मग्रहणमन्नलोलुपस्यैवालसद्युत्पत्तिरिति ज्ञापनार्थम्| उक्तं च सुश्रुतेन (उ. अ. ५६/५)- " न तां परिमिताहारा लभन्ते विदितागमाः| मूढास्तामजितात्मानो लभन्ते कलुषाशयाः||" इति||
Adhikarana अलसकनिर्विचनम् (६-७) · Śloka ७
|
प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते||६||
आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः|
|७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ऊर्ध्वं-मुखेनाहारो न प्रयाति, न चाधस्तात्-गुदेन प्रयाति, न चाहारः पच्यते, आमशये-"नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः|" तस्मिन्, अलसीभूत इवालसीभूतः| यथा,-अकर्मशीलः पुरुषोऽलस इत्युच्यते, तथाऽयमाहारोऽलसीभूतस्तिष्ठति| तेन हेतुना स रोगोऽलसकः स्मृतः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अलसकं निर्वक्ति-प्रयातीति| यस्मादस्मिन् व्याधावाहारः आमाशयेऽलसीभूतः, तस्मादसावलसयतीत्यलसकः| अलसत्वं-निष्क्रितत्वम्| तदेव प्रयातीत्यादिना स्पष्टीकृतम्|
Adhikarana विसूचिकानिर्वचनम् (७-८) · Śloka ८
विसूचिकाया निर्वचनमाह |
विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः||७||
सूचीभिरिव गात्राणि विध्यतीति विसूचिका|
|८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वाय्वादीनां त्रयाणामत्यन्तप्रकोपात् नानाप्रकारैर्वेदनोद्भेदैः-पीडोत्पादैः, यस्माद्गात्राणि सूचिभिरिव विध्यति, तस्माद्विसूचिकेत्युच्यते| विविधानां विकाराणां सूचिका-विसूचिकेत्युच्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विसूचिकां निर्वक्ति-विविधैरिति| विविधसूचीतुल्यत्वाद्विसूचिका| तदेव "विविधैः" इत्यादिना स्पष्टीकृतम्|
Adhikarana विसूचिकालक्षणम् (८-९) · Śloka ९
|
तत्र शूलभ्रमानाहकम्पस्तम्भादयोऽनिलात्||८||
पित्ताज्ज्वरातिसारान्तर्दाहतृट्प्रलयादयः|
कफाच्छर्द्यङ्गगुरुतावाक्सङ्गष्ठीवनादयः||९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातादधिकात् शूलादयो भवन्ति| आदिशब्देनाङ्गोद्वेष्टनमुखशोषादिपरिग्रहः| पित्ताद्दृद्धात् ज्वराद्याः स्युः| प्रलयो-मूर्च्छाप्रायः| आदिशब्देन मदादिपरिग्रहः| कफादधिकात् छर्द्यादयो भवन्ति| आदिशब्देन क्षवथ्वादीनां ग्रहणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विसूचिकालक्षणमाह-तत्रेति| तत्रविसूचिकायाम्| अनिलात् शूलादयो भवन्ति| पित्तात् ज्वरादयः| कफ़ात् छर्द्यादयः| अन्तर्दाहः-कोष्ठदाहः| प्रलयो-मूर्च्छा| अङ्गग्रहणं सर्वाङ्गदौरवार्थम्| वाक्सङ्गो-वाचः स्खलनम्| ष्ठीवनं-श्लेष्मनिःसरणम्| अनिलादिग्रहणमनिलादिकृतसमस्तविकारप्राप्त्यर्थम्| अत एवादिशब्दः प्रयुक्तः| शूलादिग्रहणं तु मन्दबुद्धिप्रबोधनार्थम्| एतेन त्रैविध्यशङ्काऽप्यपास्ता| सुश्रुतोऽपि मुर्च्छादीन्यभेदेनाह (उ. अ. ५६/६)- "मूर्च्छातिसारौ वमथुः पिपासा सूलभ्रमोद्वेष्टनजृम्भदाहाः| वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः||" इति|
Adhikarana अलसकलक्षणम् (१०-१२) · Śloka १२
विशेषाद्दुर्बलस्याल्पवह्नेर्वेगविधारिणः|
पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा||१०||
अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम्|
शूलादीन् कुरुते तीव्रांश्छर्द्यतीसारवर्जितान्||११||
सोऽलसः|
|१२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुर्बलत्वादियुक्तस्य यन्मारुतेन विशेषादन्नं पीडितम्, अन्तरा-आमाशयमध्य एव, श्लेष्मणा रुद्धं-अलसीभूतम्, तथा दोषैः क्षोभितं-आकुलितम्, अत एवातिपीडाकारित्वाच्छल्यरूपतयैव स्थितम्, तीव्रान्-दुःसहान्, शूलादीन् छर्द्यादिवर्जितान् कुरुते| छर्द्यतीसाराभ्यां हि विसूचिकोक्ता| सोऽलससंज्ञो रोगः| दुर्बलो ह्यनुपचितधातुः, स न कदाचिदाहारं सोढुं शक्तः| अल्पाग्निश्चाहारं न सम्यक् जरयति| यतो वेगधारणशीलस्य प्रतिहतो वायुर्विमार्गगः पित्तकफावपि विमार्गगौ कुरुते, इत्येतद्विशेषेण निर्देशः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अलसकलक्षणमाह-विशेषादिति| यत्रान्नं छर्द्यतीसारवर्जितान् शूलादीन् विसूचिकोक्तान् कुरुते, स व्याधिरलसकः| कीदृशमन्नम् ? मारुतेन पीडितम्,- अलब्धसञ्चारेण वायुनाऽऽक्रान्तम्, आक्रान्तत्वादूर्ध्वमधो वा अनिर्गच्छदेव अन्तरा-मध्य एव, स्लेष्मणा रुद्धं-निषिद्धनिर्गमम् अत एवालसं-निष्क्रियतां गतम्, ततो दोषैः- वातपित्तकफ़ैः क्षोभितं-सञ्चालितम्| किं सर्वेषामविशेषेण ? नेत्याह-विशेषादित्यादि| दुर्बलत्वादिविशिष्टस्य विशेषेणलस इत्यर्थः|
Adhikarana दण्डकालसकलक्षणम् (१२-१३) · Śloka १३
दण्डकालसकं लिलक्षयिषुराह- अत्यर्थदुष्टास्तु दोषा दुष्टामबद्धखाः|
यान्तस्तिर्यक्तनुं सर्वां दण्डवत्स्तम्भयन्ति चेत्||१२||
दण्डकालसकं नाम तं त्यजेदाशुकारिणम्|
|१३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चेद्यद्यर्थे| अतिशयेन दुष्टा दोषाः, तथा दुष्टामेन बद्धानि-पूर्णानि, खानि-स्रोतांसि, यैस्ते दुष्टामबद्धखाः, तथा तिर्यग्गच्छन्तः, तनुं सर्वां-शरीरं सकलं, दण्डवद्यदि स्तम्भयन्ति-प्रसारणाकुञ्चनरहितं कुर्वन्ति, तदा दण्डकालसको नाम रोगो भवति| तं-दण्डकालसकं, त्यजेत्-नोपक्रमेत्| यत आशुकारिणम्,-आशु-शीघ्रं स्वकर्म मारणं करोतीत्याशुकारी, क्षिप्रं हन्तीत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- दण्डकालसकं लक्षयति-अत्यर्थे| यद्यलसके दोषाः सर्वां तनुं दण्डवत्स्तम्भयन्ति, तमलसकं दण्डकालसकसंज्ञमाशुकरिणं त्यजेत्| कीद्दशा दोषाः ? अन्यर्थदुष्टाः,-अतिमात्रन्नसेवनेन अतिदुष्टा| दृष्टामबद्धाखाः,-चिरसञ्चयात् दिष्टेनामेन-कारणभूतेन, बद्धानिः-पूरितानि खानि-स्त्रोतांसि, यैस्ते तथा| तिर्यग्गच्छन्तः-मार्गवरोथात्तिर्यङार्गेण प्रसरन्तः|
Adhikarana आमविषलक्षणम् (१३-१४) · Śloka १४
सम्प्रत्यामविषं निर्दिशति |
विरुद्धाध्यशनाजीर्णशीलिनो विषलक्षणम्||१३||
आमदोषं महाग़ोरं वर्जयेद्विषसंज्ञकम्|
विषरूपाशुकारित्वाद्विरुद्धोपक्रमत्वतः||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विरुद्धं-प्रागुक्तम्, "विरुद्धमम्लं" (हृ.सू.अ. ७|३१) इत्यादिना| "विद्यादध्यशनं" (हृ.सू.अ. ८|३४) इत्यादिना-अध्यशनम्| अजीर्णं च-त्रिविधं वक्ष्यति| एतानि शीलितुं शीलं यस्य तस्य पुंसो य, आमदोषो विषलक्षणः-लालादिलक्षणयुक्तो, महाग़ोरो-अतिकष्टो विषाख़्यो यो भवति, तं न चिकित्सेत्| कुतः ? विषरूपत्वादाशुकारित्वाद्विरुद्धोपक्रमत्वाच्च| विषसदृशस्वरूपत्वाद्विषे शीतोपक्रमो युक्तः, आमे चोष्णोपक्रमो युक्तः, इति विरुद्धोपक्रमत्वम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- आमविषं लक्षयति-विरुद्धेति| विरुद्धाशनादिशीलिनः पुरुवस्योत्पन्नमामदोषं-अजीर्णजं व्यधिं वर्जयेत्| विरुद्धं पयोमत्स्यादि| अध्यशनं-वक्ष्यमाणम्| अजीर्ण-अजीर्णाशनम्| कीदृशमामदोषम् ? विषलक्षणं,-देहव्यापिविषतुल्यलक्षणम्| महाघोरं-तीव्रपीडाकरम्| विषसंज्ञकं-विषाख्यम्| आमोपपदैवेयं संज्ञा| उक्तं च चरकेण (वि. अ. २/१५)-"विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरामदोषमामविषमाचक्षते" इति| कुतो वर्जयेत् ? विषरुपाशुकारित्वात्-विषरूपत्वाच्छीघ्रकारित्वाच्च| ननु, विषमपि साध्यं दृष्टम्| तत्कुतोऽस्य विषरूपत्वादसाध्यत्वम् ? इत्यत आह-विरुद्दोपक्रमत्वतः,- हेतुविपरीतव्याधिविपरीतयोरुपचारयोर्विरोधात्| हेतुर्ह्यत्रामसञ्चयः, तत्राग्नेय उपचारःव्याधिस्तु विषरूपः तत्र सौम्य उपचार इति विरोधः|
Adhikarana अलसकचिकित्सा (१५-१६) · Śloka १६
अथाममलसीभूतं साध्यं त्वरितमुल्लिख़ेत्|
पीत्वा सोग्रापटुफलं वार्युष्णं योजयेत्ततः||१५||
स्वेदनं फलवर्तिं च मलवातानुलोमनीम्|
नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत्||१६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथेत्यानन्तर्ये| पूर्वोक्तं साध्यासाध्यमवगम्यानन्तरमामं साध्यमदुष्टं सन्तं त्वरितं-द्राक्, आतुर उल्लिख़ेत्-उद्वमेदित्यर्थः| किंविधमामम् ? अलसीभूतम्,-अलसलक्षणतां गतम्| कथमुल्लिख़ेत् ? इत्याह-पीत्वेत्यादि| जलमुष्णं पीत्वा वचालवणमदनफलयुक्तं, वमेदित्यर्थः| ततोऽनन्तरं स्वेदनं योजयेत्| तथा-"विपाच्य मूत्राम्लमधूनि दन्तीपिण्डीतकृष्णाबिडधूमकुष्ठैः| वर्तिं कराङ्गुष्ठनिभां ग़ृताक्तां गुदे रुजानाहहरीं विदध्यात्||" इत्यादि फलवर्तीं च मलवातानुलोमनीं योजयेत्| तत्रामदोषे दोषवशादङ्गानि च नाम्यमानानि-सङ्कोच्यमानानि सन्ति, अत्यर्थं स्विन्नानि वस्त्रादिना वेष्टयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- उक्तानामामदोषाणां चिकित्सामाह-अथेति| अथशब्दश्चिकित्सारम्भे मङ्गलार्थः| आमं-आमदोषम्,उल्लिखेत्-वमेत्, अलसीभूतम्| यः स्वयं न प्रवर्तते बलात्प्रवर्तमानोऽपि मन्दं मन्दं वा प्रवर्तते, सोऽलसः|आमदो(वि)षोऽपि तथाभुतः| स ह्यलसकेनैव(नेव) प्रवर्तते| विसूच्यां तु मन्दं मन्दं प्रवर्तते| स द्विविधोऽप्युल्लेखनीयः| उक्तं हि खारणादिना-"विसूच्यलसकौ वाम्यौ पिप्पलीलवणाम्भसा|" इति| साध्यग्रहणमिह नियमार्थम्, साध्यमेव न त्वसाध्यमपि| द्दश्यते हि निदानेऽसाध्यत्वेनोक्तानां मांसग्रन्थ्यादीनां चिकित्सिते चिकित्सोपदेशः| आमदोषस्त्वसाध्यः, असाध्य एवेत्यर्थः| किं कृत्वोल्लिखेत् ? सोग्रापटुफ़लमुष्णं वारि पीत्वा| उग्रा-वचा| पटु-सैन्धवम्| फ़लं-मदनफ़लम्| ततो-वमनानन्तरं, स्वेदनं योजयेत् फ़लवर्ति च| कस्या वर्तेः फ़लवर्तिसंज्ञा ? इत्यपेक्षायामाह-मलवातानुलोमनीम्| विण्मूत्राधोवातानां प्रवर्तिनी वर्तिः-फ़लवर्तिरित्यर्थः| स्वेदफ़लवर्तिद्रव्याण्युक्तानि खारणादिना-"शूले तु स्तिमिते सामे स्वेदः शस्तो मुहुर्मुहुः| रूक्षोष्णैः कटुकैः पांशुकरीषसिकतादिभिः||पिप्पल्योऽगारधूमश्च मदनं सर्षपास्त्रिवृत्| हेमक्षीरी वचा किण्वं कुष्ठं दन्ती यवाग्रजः|| समूत्रलवणाभ्यक्ता फलवर्तिरियं हिता| संस्वेद्यालसके शूलविबन्धानाहनाशिनी||" इति| यद्यामदोषेणाङ्गानि नाम्यन्ते-सङ्कोच्यन्ते, तदा तान्यतिस्विन्नानि कृत्वा वस्त्रादिभिर्वेष्टयेत्|
Adhikarana विसूचिकाचिकित्सा (१७) · Śloka १७
विसूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते|
तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत्||१७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विसूच्यां-पूर्वोक्तलक्षणायाम्, अतिवृद्धायां सत्यां पार्ष्ण्योः-खुरिकयोः, अयःशलाकादिना दाहः प्रशस्यते| तदहः-विसूचिकारम्भदिवस एव, एनं-विसूचिकावन्तं, उपवास्य-लङ्घयित्वा, विरक्तवत्-पेयादिक्रमेणोपाचरेत्| सुश्रुते (?) चोक्तम् (सङ्ग्रहे सू.अ.११)-"सुच्छर्दितविरिक्तस्य गात्रायामेऽतिदारुणे| भल्लातकमधूच्छिष्टजीर्णपिण्याकनागरैः|| घृततैलं पचेत् साम्लैस्तच्च खल्लीघ्नमुत्तमम्|| त्वक्पत्ररास्नागुरुशिग्रुकुष्ठैरम्लप्रतिष्ठैः सवचाशताह्वैः| उद्वर्तनं खल्लिविसूचिकाघ्नं तैलं विपक्वं च तदर्थकारि|| शिरीषनक्ताह्वफणिज्जबीजत्रायन्त्यपामार्गफलानि वर्तिः| बस्तस्य मूत्रेण विसूचिकाघ्नी प्रलेपनस्याञ्जनधूमयोगैः||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विसूच्यां विशेषमाह-विसूच्यामिति| अतिवृद्धायां-पूर्वोक्तेन प्रकारेण अशान्तायां, विसूच्यां पार्ष्ण्योर्दाहः प्रशस्यते| प्रशब्दः प्रकर्षार्थः| सर्वेष्वामदोषेषु पार्ष्ण्योर्दाहः शस्यते, विसूच्यां तु प्रकर्षेण| यदाह सुश्रुतः (उ. अ. ५६/१२)- "साध्यासु पार्ष्ण्योर्दहनं प्रशस्तमग्निप्रतापो वमनं च तीक्ष्णम्||" इति| साध्यास्विति बहुवचनात् विसुचिकालसविलम्बिकानां ग्रहणम्| उक्तं च वङ्गसेनेन-"विलम्बिकालसकयोर्विसूच्युक्तः क्रियाक्रमः|" इति| पार्ष्णिदाहश्च पिप्पल्यादिभिः| यदाह भेडः-"विसूच्यामतिवृद्धायां पार्ष्णिदेशे च दाहयेत्| पिप्पल्या वाऽप्यरण्या वा शस्त्रेणातापितेन वा||" इति| निवृत्तामदोषस्य चिकित्सामाह-तदहश्चेति| यस्मिन्नहनि आमदोषो निवृत्तः, तदहरेनमुपवास्य| तथा च खारणादिः-"आमाशयविशुध्यर्थमथैनमुपवासयेत्| जीर्णे विरिक्तवृत्तिः स्याद्या प्रोक्ता मण्डपूर्विका||" इति| वमनाद्युपक्रमान्ते पठ्यमानेन प्रकृतपरामर्शिना तच्छब्देन आमदोषनिवृत्तिदिनमेव परामर्ष्टुं युक्तम्, न पुनरुत्पत्तिदिनम्|
Adhikarana आमदोषिणः शमनौषधनिषेधः (१८-१९) · Śloka १९
अजीर्णिनो भेषजं निषेधति तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम्|
आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम्||१८||
निहन्यादपि चैतेषां विभ्रमः सहसाऽऽतुरम्|
|१९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अजीर्णी-अजीर्णवान्, तीव्रशूलोऽपि सन् शूलहरमौषधं न पिबेत्| वमनकरमुष्णोदकं च प्रागुपदिष्टमेव पिबेदित्यर्थः| शूलघ्नमित्युपलक्षणार्थम्| छर्द्यतीसारघ्नमपि विसूचिकायां न पिबेत्| यत आमेन सन्नो-मन्दीभूतोऽग्निर्दोषौषधाशनं पक्तुं न समर्थः| एतेषां च-दोषौशधाशनानां, त्रयाणां सम्बन्धी यो विभ्रमो-व्यापत्तिः, सहसा-कालमनपेक्ष्यैव, आतुरं हन्यात्| न केवलमिदं गुणाय सम्पद्यते, प्रत्युत दोषं करोतीति सूचनार्थमपि चेति कृतम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आमदोषिणः शमनौषधं निषेधति-तीव्रार्तिरिति| अपिषब्द उभयत्र सम्बध्यते| तीव्रार्तिरापि-किंपुनर्मन्दार्तिरनर्तिर्वा| शूलन्धमपि-किंपुनपाचनादिकम्| कुतः ? यत आमेनान्नेन सन्नो-मन्दीभूतो, अग्निर्दोषादीनि पक्तुंनालं-न समर्थः| दोषः- आमान्नक्षोभितः कफादिः| औषधंतन्निवृत्यर्थं प्रयुक्तं पाचनादि| अशनं-तद्धेतुभूतमामान्नम्| नकेवलमौषधादर्थानवाप्तिः, अपि तु अनर्थावाप्तिररपीत्याह-निहन्यादिति| एतेषां-दोषादीनाम्,व्यपत्तिः-पाकाभावजनितसङ्क्षोभः, आतुरं सहसा हन्यात्| अपि चेति प्रत्युतार्थे, रोगशमनार्थमौषधं रोगं न शमयति प्रत्युत वर्धयतीत्यर्थः|
Adhikarana आमदोषिणोऽवस्थाविशेषे औषधम् (१९-२०) · Śloka २०
कदा औषधं युञ्जीत ? इत्याह- |
जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे||१९||
दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च|
|२०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीर्णमशनं यस्य तस्मिन्नौषधं युञ्ज्याद्वैद्यः| कीदृशि ? स्तब्धं-अचलं, गुरूदरं-कोष्ठो, यस्य तस्मिन्| किमर्थमौषधं युञ्ज्यात् ? इत्याह-दोषेत्यादि| गतार्थम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अवस्थाविशेषे औषधमाह-जीर्णाशन इति| आमदोषिणो यदा जीर्णमन्नं तदा दीपनपाचनमौषधं देयम्| सङ्ग्रहे तु (सू. अ. ११)- "सद्यः सम्यग्विशुद्वशस्य शाग्यन्ति तदुपद्रवाः| शूले निरन्नकोष्ठोऽद्भिः कोष्णाभिश्चूर्णिताः पिबत्|| हिङ्गुप्रतिविषाव्योषसोवर्चलवभयाः| अथवा पिण्ण लीमूलत्रिवृतादारुसैन्धवम्|| शुण्ठीस्नुक्क्षीरलवणपिप्प लीमरिचानि च| पाठाम्लवेतसक्षारयवानीर्योकराणि च|| द्विरुत्तरं हिङ्गुवचाग्निकुष्ठसुवर्चिकाक्षारबिडाजमोदम्| शूलोदरानाहविसूचिकार्शोहृद्रोगगुल्मोर्ध्वसमीरणाघ्नम्|| मुस्ताजमोदपूतीकवचाशुण्ट्यग्निधान्यकैः| सवालकदी बिल्वैः क्वाथं तृट्शूलवान् पिबेत्|| रास्नाकटफलषड्ग्रन्थाबृहत्पीद्वयजोङ्गकैः| गुग्गुल्वतिविषाकुष्ठपत्रव्याघ्रबखाम्बुदैः|| कुर्याच्छुष्कैः समूत्रैर्वा लेपोद्वर्तनधूपनम्| सरुगानद्धमुदरमम्लपिष्टैः प्रलेपयेत्|| दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः| यवचूर्णश्च सक्षारतक्रः कोष्ठार्तिजित्परम्|| योजयेत्सैन्धवान्तैश्च वात विण्मूत्रसङ्ग्रहे| द्विक्षारजीर्णपिण्याककुष्ठारुष्कर चित्रकैः|| सशुक्तसैन्धवैस्तैलं पक्वमभ्यञ्जने हितम्| सुच्छर्दितविरिक्तस्य गात्रायामे सुदारुणे|| भल्लातकमधूच्छिष्टजीर्णपिण्याकनागरैः| घृततैलं पचेत्साम्लैरतच्च खल्लीघ्नमुत्तमम्|| त्वक्यत्ररास्नागुरुशिग्रुकुष्ठैरम्लप्रपिष्टैः सवचाशताह्वैः| उद्वर्तनं खल्लिविसूचिकाघ्नं तैलं विपक्वं च तदर्थकारि|| यः श्यावदन्तौष्ठनखोऽल्पसंज्ञः छर्द्यर्दितोऽन्तर्गतताम्रनेत्रः| क्षामस्वरःस्त्रस्तसमस्तसन्धिर्यायान्नरोऽसौ पुनरागमाय|| व्योषां कर ञ्जस्य फलं हरिद्रां मूलं समावाप्य च मातुलुङ्गयाः| छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं नयनाञ्जनेन|| शिरीषनक्ताह्वफणिज्जबीजत्रायन्त्यपामार्गफ़लानि वर्तिः| बस्तस्यमूत्रेणविसूचिकाघ्नी प्रलेपधूमाञ्जननस्ययोगैः|| यामैश्चतुभिर्द्वाभ्यं च भोज्यभैषज्ययोः समे| पाकोऽग्नौ युक्तयोर्द्राक् तु तीक्ष्णे, मन्दे पुनश्चिरात्|| सभक्तमौषधं तस्मान्मन्दाग्नेरवचारयेत्| पूर्वाह्णे भोजनं सात्म्यं लघु दीपनबृंहणम्|| प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति| अजीर्णे सायमाशे तु प्रातराशो हि दुष्यति|| दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत्| तस्मिन्विबुद्धे स्त्रोतांसि स्फुटत्वं यान्ति सर्वशः|| व्यायामाच्च विहाराच्च विक्षिप्तत्वाच्य चेतसः| न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः|| अक्लित्रेष्वन्नमासिक्तमन्यत्तेषु न दुष्यति| अविदग्धेष्विव पयःस्वन्यत् सम्मिश्रितं पयः|| रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च| यान्ति कोष्ठे परिक्लेदं संवृते देहधातवः|| क्लिन्नेष्वन्यदपक्षेषु तेष्वासिक्तं प्रदुष्यति| विदग्धेषु पयःस्वन्यत् पयस्तप्तेष्विवार्पितम्|| नैशे तस्मादजीर्णेऽन्ने नान्यद्भुञ्जीत भोजनम्| उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः|| लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम्| प्रायः प्रज्ञापराधेन रोगग्रामः प्रजायते|| नृणामशनलुब्धानां विशेषेण विसूचिका|| दोषोपनद्धं यदि लीनमामं पित्तोल्बणस्यावृणुयान्न वह्विम्| जायेत दुष्टा तु ततो बुभुक्षा सा मन्दबुद्धीन् विषवन्निहन्ति||" इति|
Adhikarana आमदोषसामान्यचिकित्सा (२०-२१) · Śloka २१
कीदृशमौषधं योज्यमित्याह |
शान्तिरामविकाराणां भवति त्वपतर्पणात्||२०||
त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्|
|२१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तुरवधारणे| यस्मादतर्पणादेवामजानां विकाराणां-आलस्यजाड्याग्निमान्द्यादीनाम्, शान्तिः-उपशमो, भवति| तस्मादतर्पणं योजयेत्| वक्ष्यति हि (हृ.सू.अ. १४|१०)-"मेहामदोषातिस्निग्ध" इत्यारभ्य यावत् "लङ्घयेन्नित्यम्" इति| तस्मादतर्पणं समीक्ष्य-देशकालाग्न्यादीन् पर्यालोच्य, त्रिप्रकारं त्रिप्रकारे दोषे वैद्यः प्रयोजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- उक्तानुक्तामदोषसङ्ग्रहार्थं सामान्यचिकित्सामाह-शान्तिरिति| आमविकाराणां-सर्वेषामजीर्णान्नजानां व्याधीनाम्| अपतर्पणात्-लङ्घनात्| अपतर्पणं विभजति-त्रिविधमिति| समीक्ष्य-बलादिकं सम्यग्ज्ञात्वा|
Adhikarana अल्पमध्यप्रभूतदोषचिकित्सा (२१-२२) · Śloka २२
सम्प्रत्येतदेव यथायोग्यमाह- |
तत्राल्पे लङ्घनं पथ्यं, मध्ये लङ्ह्घनपाचनम्||२१||
प्रभूते शोधनं, तद्धि मूलादुन्मूलयेन्मलान्|
|२२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु त्रिषु मध्ये, अल्पे दोषे, लङ्घनं-उपवासाख्यं, पथ्यम्| तेन ह्यनलानिलवृध्द्याऽल्पो दोषः शीघ्रं संशोष्य जीयते| मध्ये दोषे लङ्घनं पाचनं च पथ्यम्| अग्निः पचति, तस्य पचतो ये विबन्धहेतवः, तान्निषिध्य पाटवं पक्तुरादधतः पचेति प्रयुङ्क्त इव तत् पाचयतीति पाचनमुच्यते| हेतुमण्णिजन्तात्पचेर्बाहुलकात्कर्तरि ल्युट्| यदुपयुक्तमन्नपानौषधमपक्वानां सामानां धातूनां पाचने समर्थं तत् पाचनमित्यर्थः| प्रभूते शोधनं पथ्यम्| शोधनं तु कायाद्बहिर्दोषानीरयति| वक्ष्यति हि (हृ.सू.अ. १४|५)-"यदीरयेद्बहिर्दोषान् पञ्चधा शोधनं तु तत्|" इत्यादि| कुतः प्रभूत आमदोषे शोधनं हितम् ? इत्याह-तद्धीत्यादि| हि-यस्मात्, तत्-शोधनम्, मूलान्मलान्नाशयेत्| सङ्ग्रहेऽप्युक्तम् (सू.अ. ११)-बहुदोषाणां पुनर्दोषावसेचनमेव कार्यम्| न ह्यस्राविते पल्वलोदकौघे शाल्यादिपुष्टिर्भवति|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विभागं स्पष्टीकरोति-तत्रेति| लङ्घनमत्रोपवासः| लङ्घनपाचनं-उपवासयुक्तं पाचनौषधपानम्| प्रभूते-बहुतरे| शोधनं-वमनादि| हि-यस्मात्, तत्-शोधनम्, मलान्मूलादुन्मूलयेत्-समूलानुच्छिन्द्यात्| मलबलमूलं च विकारे प्रभूत्वम्|
Adhikarana एवमन्यव्याधिचिकित्सा,हेतुव्याधिविपर्ययचिकित्सा (२२-२३) · Śloka २३
|
एवमन्यानपि व्याधीन् स्वनिदानविपर्ययात्||२२||
चिकित्सेदनुबन्धे तु सति हेतुविपर्ययम्|
त्यक्त्वा यथायथं वैद्यो युञ्ज्याद्व्याधिविपर्ययम्||२३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथा सन्तर्पणोत्थ आमदोषो निदानविपर्ययाच्चिकित्स्यते, एवमन्यानपि ज्वरादीन् विकारान् स्वनिदानविपर्ययाच्चिकित्सेत्| सन्तर्पणोत्थोऽपतर्पणेन, शीतोत्थ उष्णेन, इत्यादि| यदि त्वेवमुपक्रम्यमाणो व्याधिरनुबध्येत-तेनोपशमं न गच्छेत्, ततो हेतुविपर्ययं त्यक्त्वा व्याधिविपर्ययं युञ्ज्यात्| किम्भूतम् ? यथायथं,-यद्यस्य ज्वरादिव्याधेर्भैषज्यं वक्ष्यमाणं तत्प्रयुञ्जीतेत्यर्थः| यथा, (सङ्ग्रहे सू.अ. १२)-"मुस्तापर्पटकं ज्वरे, रजनी यवान्नं प्रमेहे" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तुल्यन्याप्रसङ्गादन्येषामपि व्याधीनां चिकित्सामाह-एवमिति| एवं-आमविकारवत्| अन्यान्-ज्वरादीन्| यथा, आमविकाराः सन्तर्पणोत्थास्तद्विपरीतेनापतर्पणेन चिकित्स्यन्ते, तथा, अन्येऽपि विकाराः स्वनिदानविपर्ययाच्चिकित्स्याः| आमविकाराणामन्येषां च स्वनिदानविपर्यानुपशमे चिकित्सामाह-अनुबन्धे त्विति| यदि हेतुविपर्यये क्रियमाणेऽप्यनुबन्धो-अनुवर्तनं व्याधेः, तदा हेतुविपर्ययं त्याक्त्वा भिषक् व्याधिविपर्ययं भैषज्यं यथायथं युञ्ज्यात्| हेतुविपरीतादिस्वरूपमुक्तं सङ्ग्रहे (सू.१२ " तत्र हेतुविपरीतं" इत्यारभ्य यावत् "विपरीतमर्थं करोति" इति|)|
Adhikarana तदर्थकारी चिकित्सा,पक्वदोषाणां चिकित्सा (२४) · Śloka २४
न च हेतुव्याधिविपर्यययोरेव चिकित्सायामुपयोग इति दर्शयन्नाह तदर्थकारि वा, पक्वे दोषे त्विद्धे च पावके|
हितमभ्यञ्जनस्नेहपानबस्त्यादि युक्तितः||२४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्-निदानव्याधिविपर्ययसाध्यं, अर्थं-रोगोपशमलक्षणं, कर्तुं शीलं यस्य तत्-तदर्थकारि| तद्वा युञ्ज्यात्| यथा (सङ्ग्रहे सू.अ. १२)-"मदात्यये मद्यपानम्, अतिसारे विरेचनम्" इति| वाशब्दः समुच्चयार्थः| इति त्रिविधमौषधं निर्दिश्याऽऽमचिकित्सामेवानुसरन्नाह-पक्व इति| पक्वे दोषे-निरामे, दीप्ते पावके च| निरामत्वे दीप्ताग्नित्वे च समुचितमेव हितमभ्यङ्गादिकम्| युक्तितो-मात्रया, यथाऽग्निसादादि न भवतीति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पक्वदोषाणामामविकाराणां चिकित्सामाह-पक्वेदोषे इति| उक्तेनोपक्रमेण पक्वे दोषे दीत्पे चाग्नौ सत्यामदोषिणामभ्यञ्जनादि हितम्| आदिशब्दाद्रसायनवाजीकरणादि|
Adhikarana आमाजीर्णलक्षणम् (२५) · Śloka २५
अजीर्णं लक्षयितुमाह अजीर्णं च कफादामं तत्र शोफोऽक्षिगण्डयोः|
सद्योभुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम्||२५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अग्निप्रतिपक्षत्वेन कफस्याजीर्णकरणप्राधान्यादग्रे निर्देशः| कफात्सकाशादजीर्णमामसंज्ञकं भवति| तत्र-आमाख्येऽजीर्णे, अक्षिकूपयोर्गण्ड्योश्च शोफो भवति| सद्योभुक्तवदप्राप्तविदाहावस्थ उद्गारः| प्रसेकः-प्रसक्तं निष्ठीवनम्| उत्क्लेशो-दोषाणां स्थानाच्चलनम्| गौरवं-गात्राणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- महान्तमामदोषमुक्त्वा क्षुद्रमाह| तत्र कफ़जमाह-अजीर्णमिति| आमं-आमसंज्ञम्| तत्र-आमे,अक्ष्णि गण्डे च शोफः| जात्यपेक्षमेकवचनम्| सद्योभुक्त इवोद्गारः-चिरभुक्तस्यापि सद्योभुक्तवदप्राप्तविदाहावस्थ उद्गारः| उत्क्लेशो-वमनोन्मुखत्वमिव|
Adhikarana विष्टब्धाजीर्णलक्षणम् (२६) · Śloka २६
विष्टब्धमनिलाच्छूलविबन्धाध्मानसादकृत्|
|२६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनिलाद्विष्टब्धं नामाजीर्णं भवति| तच्च शूलादिकृत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अनिलजमाह-विष्टब्धमिति| विष्ठब्धं-विष्टब्धसंज्ञम्| सादः-कार्याक्षमत्वम्|
Adhikarana विदग्धाजीर्णलक्षणम् (२६) · Śloka २६
|
पित्ताद्विदग्धं तृण्मोहभ्रमाम्लोद्गारदाहवत्||२६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्ताद्विदग्धं नामाजीर्णमुत्पद्यते| तच्च तृडादियुक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पित्तजमाह-पित्ताद्विदग्धमिति| विदर्ग्धंविदग्धाख्याम्|
Adhikarana आमाजीर्णादीनां चिकित्सा (२७) · Śloka २७
त्रिविधस्यैवास्य चिकित्सामाह लङ्घनं कार्यमामे तु, विष्टब्धे स्वेदनं भृशम्|
विदग्धे वमनं, यद्वा यथावस्थं हितं भवेत्||२७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तुरवधारणे| आमाख्येऽजीर्णे लङ्घनमेव कार्यम्, न वमनविरेचनादि| विष्टब्धे स्वेदनं भृशं कार्यम्| भृशशब्देनैतत् द्योतयति,-पूर्वत्रापि स्वेदनं कार्यमत्र त्वत्यर्थमिति| विदग्धे-विदग्धनाम्न्यजीर्णे, वमनं कार्यम्| यद्वा लङ्घनस्वेदनवमनानां यथावस्थं-यथादोषोद्रेकं, हितं भवेत्तदेव कार्यम्| आमाजीर्णेऽपि स्वेदनवमने, विदग्धेऽपि लङ्घनस्वेदने, इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- आमादीनां चिकित्सासाह-लङ्घनमित्यादि भृशमिति त्रिष्वपि योज्यम्| लङ्घनादिविभागस्त्वतिशयार्थः यदाह खारणादिः-विष्टब्धे स्वेदनं वर्त्यो लवणोष्णाम्बु शस्यते| विदग्धे वमनं शस्तमुपवासो विरेचनम्||" इति| यद्वा-अथवा| यथावस्थं हितं-यस्याजीर्णस्य यस्यामवस्थायां यद्धितं, तस्य तस्यामवस्थायां तष्कार्यमित्यर्थः| विभागनियमस्तु बाहुल्याभिप्रायेण|
Adhikarana विलम्बिकालक्षणं चिकित्सा च (२८) · Śloka २८
गरीयसो भवेल्लीनादामादेव विलम्बिका|
कफवातानुबद्धाऽऽमलिङ्गा तत्समसाधना||२८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गरीयसः-प्रभूतात्, आजीर्णादेव विलम्बिका स्यात्| कीदृशात् ? लीनात्-अत्यर्थं स्रोतःसु श्लिष्टत्वात्| लीनादिति लीङ् श्लेषण इत्यस्य क्तप्रत्यये स्वादय ओदित इत्योदितश्चेति निष्ठानत्वम्| सा च श्लेष्मवायुभ्यामनुबद्धा-युक्ता भवति| आमं नाम यदजीर्णं तत्सदृशलक्षणा| यथा-"शोफोऽक्षिगण्डयोः| अद्यो भुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम्||" इति| तेन-आमेन, समं-तुल्यं, साधनं-चिकित्सा, यस्याः सैवम्| "लङ्घनं कार्यमामे" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विलाम्बिकालक्षणमाह-गरीयस इति| बिलम्बिकानामाजीर्णं भवेत्| कस्मात् ? लीनादामादेव,-आमशब्द आमाद्यजीर्णसामान्यवचनः, तयोत्पन्नस्य निःशेषमनिवर्तनाल्लीनत्वम्| एवं पुनः पुनर्लीनत्वाद्गरीयस्त्वम्| पुनः पुनरुत्पादो दुष्टबुभुक्षायां भोजनात्| सा तूक्ता सङ्ग्रहे (सू. अ.११)-"दोषोपनद्धं" इत्यादि (श्लो १९ टी)| एवकारेणैवं द्योतयति,-विसूच्यलसकावप्यजीर्णाद्भवतः, किन्तु तावन्यतोऽपि सद्योऽतिमात्रभोजनादेः| विलम्बिका त्वजीर्णदेवेति| यदाह सुश्रुतः (उ. अ. ५६|३)- "अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम्| विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका||" इति| सा च कफवातानुबद्धा|तदनुबन्धेन दीर्घकालविलम्बनात् विलम्बिकेत्युच्यते| गरीयस्वात् पतनयोग्यमप्यामं कफवातानुबद्धत्वान्नोर्ध्वं नाप्यधः पतति, लीनमेव चिरमवतिष्ठते इत्यर्थः| तथा च सुश्रुतः (उ.अ. ५६/९)- "दुष्टं हि भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य| विलम्बिकां तां च विविर्जनीयामाचक्षते शास्त्रविदः पुराणाः||" इति| कफवातानुबद्धत्वादेवमितरेष्वपि पित्तारब्धत्वं विदग्धत्वं च लक्ष्यते| अन्येन ह्यारब्धामन्येनानुबध्यते| पित्तं च विदग्धादेव प्रवर्तते| तथा च भेडः (चि. अ. ११)- "यदा भुक्तं विदग्धं च नोर्ध्वं नाधः प्रवर्तते|| तां विलम्बीं विगर्हन्ति विषकल्पां विसूचिकाम्||" इति| विषमल्पामिति पित्तोल्बणत्वं द्योत्यते| विसूकामिति विसूचिकाविशेष्यत्वेन सान्निपातिकत्वम्| आमलिङ्गा-अजीर्णतुल्यलक्षणा, विशेषानुपादानात् त्रयाणामप्यामादीनां लिङैर्युक्ता| तथा च खारणादिः-"एतान्युक्तानि लिङ्गानि त्वामाजीर्णे विनिर्दिशेत्|" इति| एतानि-अजीर्णत्रयसम्बन्धीनि| आमात्-अजीर्णादन्नात् जातमजीर्णं-आमाजीर्णम्,विलम्बिका, न तु कफजमामम्| "यथाक्रमेण वातादि सन्निपातार्मकं वदेत्|" इति तेनैव सान्निपातिकस्योक्तत्वात्| तत्समसाधना,-तेषांत्रयाणामजीर्णानां, समं-साधारणं, साधनं-चिकित्सितं, यस्याः सा तथा| तथा च खारणादिः-"आमे त्वामप्रशमनं विमाने द्विविधं मतम्|" इति| विमाने-विमानस्थाने, द्विविधं-विसूच्यलसकभेदेन| वङ्गसेनोऽपि-"विलम्बिकालसकयोर्विसूच्युक्तः क्रियाक्रमः|" इति| युत्तु सुश्रुतेनविवर्जनीयत्वमुक्तं तत्प्रत्याख्यायोपचरणीयत्वं (त्वात्) न त्वनुपक्रमत्वात्| अत एव "विलम्बिकां तां भृशदुश्चिकित्स्याम्" इति माधवकरः (मा. नि. अग्निमान्द्यादौश्लो.२१) पठति| इयं च विलम्बिका चरकाचार्येणान्नविषसंज्ञयोक्ता (चि.अ.१४/३९)- "अभोजनादजीर्णातिभोज्नाद्विषमाशनात्| असात्म्यगुरुशीतातिरूक्षसंदुष्टभोजनात्| विरेकवमनस्नेहविभ्रमाव्द्याधिकर्षणात्| देशकालर्तुवैषम्याद्वेगानां च विधारणात्|| दुष्यत्यग्निः स दुष्टोऽन्नं न तत् पचति लध्वति| अपच्यमानं शुक्तत्वं यात्यन्नं विषतां च तत्|| तस्य लिङ्गमजीर्णस्य विष्टम्भः सदनं क्लमः| शिरोरुक्शोफमूर्च्छाश्च भ्रमः पृष्ठकटिग्रहः|| जृम्भाऽङ्गमर्दस्तृष्णा च ज्वरः च्छर्दिः प्रवाहणम्| अरोचकाविपाकौ च घोरमन्नविषं च तत्|| पित्तेन सह संसृष्टं दाहतृष्णामुखामयान्| जनयत्यम्लपित्तं च पित्तजांश्चापरान् गदान्|| यक्ष्मपीनसमेहादीन् कफ़जान् कफ़सङ्गतम्| करोति वातसंसृष्टं वातजांश्चमयान् बहून्|| मूत्ररोगांश्च मूत्रस्थं कुक्षिरोगान् शकृद्गतम्| रसादिभिश्च संसृष्टं कुर्याद्रोगान् रसादिजान्|" इति| यत्तूक्तं जैज्जटेन 'इयं विलम्बिका तन्त्रान्तरे दण्डकालसकसंज्ञयोक्ता' इति| तदसत्| भेडादिवचनपर्यालोचनया विलमिकाया विदग्धमूलत्वात्| दण्डकालसकस्यालसकभेदत्वेन विष्टब्धमूलत्वात्| दण्डकालसकस्याल सकभेदत्वेन विष्टब्धमूलत्वात्| आमाद्यजीर्णलक्षणाधीनलक्षणत्वाद्विलम्बिकाया इहाभिधानम्|
Adhikarana रसशेषलक्षणं चिकित्सा च अजीर्णिनो दिवास्वप्रभोजने चिकित्सा (२९-३०) · Śloka ३०
जीर्णेऽप्याहारे कदाचिदाहारसारो रसोऽजीर्णः स्यात्|
तल्लक्षणार्थमाह अश्रद्धा हृद्व्यथा शुद्धेऽप्युद्गारे रसशेषतः|
शयीत किञ्चिदेवात्र सर्वश्चानाशितो दिवा||२९||
स्वप्यादजीर्णी, सञ्जातबुभुक्षोऽद्यान्मितं लघु|
|३०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रसशेषे अश्रद्धा-अन्नानभिलाषः| हृद्व्यथा-हृदयशूलं गौरवं च| शुद्धेऽप्युद्गारे-अन्नसम्बन्धिनि| तेनाजीर्णादर्थान्तरभूत एवायं रसशेषः| अतश्च रसस्य रुधिरादिहेतोरसम्यक्परिपाक इत्यर्थः| तच्चिकित्समाह-शयीतेत्यादि| अत्र-रसशेषे, किञ्चिदेव-स्तोकमात्रमेव स्वप्यात्, नाजीर्ण इव प्रभूतम्| सर्वश्चाजीर्णी, अनाशितो दिवा शयीत, आलाघवात्| यदा चोत्पन्नक्षुत् स्यात्तदा स्तोकं लघु चाद्यात्| आशः कृतो येन सः-आशितः| न आशितो-अनाशितः, अभुक्तवानित्यर्थः| ननु, "अजीर्ण्यभिहतोन्मत्तान्" इत्यनेनैव वाक्येनाजीर्णिनां दिवास्वप्नोऽनुज्ञात एव| तत्किं पुनरुक्तेन ? ब्रूमः| विशेषार्थं वाक्यमिदम्-"अभुक्तो दिवा स्वप्यादजीर्णी" इति| तत्र तु सामान्यम्, अशितानाशितचिन्ता न कृतेति युक्ता पुनरिहोक्तिः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- रसशेषं लक्षयति-अश्रद्धेति| अश्रद्धा-भोजनानभिलाषः| ननु, एतदामादिष्वप्यस्ति,त आह्-शुद्धेऽप्युद्गारे इति| तेषु पुनर्दुष्ट उद्गारः| रसस्य शेषो-रसशेषः| रसशब्देन रसहेतुभूताहारराशिर्लक्ष्यते| न हि रसधातोरपक्वस्याजीर्णत्वम्| स ह्यपक्व एव रसशब्देनोच्यते, पक्वस्तुरुधिरशब्धेन| दृष्टत्वादजीर्णत्वमिति चेत् न, तस्यामत्वात्| वक्ष्यति हि (हृ.सू.अ. १३/२४)- "ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसामामं प्रचक्षते|" इति| रसेशेषस्योषधमाह-शयीतेति| किञ्चिदेव-मुहूर्तमेव| ननु,मुहूर्तमनुमानतः सिद्धामेव| मैवम्| अजीर्णिनामधिकं दिवास्वप्नं विधास्यति| स्वप्नविधिश्चयं प्रधान्यात्| उष्णाम्बुपानाद्यपि कार्यम्| यदाह खारणादिः-"रसशेषे हितः स्वप्नो घर्माम्बु लघुबोजनम्|" इति| अजीर्णिनो दिवास्वप्नं विधत्ते-सर्वश्चेति| अनाशितो-अभुक्तवान्| सर्वग्रहणं प्रकृतविसूचिकाद्यजीर्णसङ्ग्रहार्थम्| "मुक्त्वा तु भाष्य" इत्यादिना प्राप्ते दिवास्वप्ने पुनर्विधानं यथेष्टस्वपनार्थम्| अजीर्णिनो भोजनं विधत्ते-सञ्जातबुभुक्ष इति| सञ्जातबुभुक्षो-अभ्युदीर्णान्नाभिलाषः| मितग्रहणं लघूनामपि गुरूक्तार्धसौहित्यप्राप्त्यर्थम्|
Adhikarana अजीर्णसामान्यलक्षणाम् (३०-३१) · Śloka ३१
साम्प्रतमजीर्णलक्षणं सामान्येन ब्रूते- |
विबन्धोऽतिप्रवृत्तिर्वा ग्लानिर्मारुतमूढता||३०||
अजीर्णलिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः|
|३१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विबन्धो-मूत्रपुरीषयोरप्रवृत्तिलक्षणः| अतिप्रवृत्तिः-तयोरेव| ग्लानिः-शरीरस्य म्लानता| मारुतमूढता-वातस्य प्रतिलोमता| विष्टम्भः-कुक्षेराध्मानम्| गौरवं-गुरुगात्रत्वम्| भ्रमो-मोहः| एतत्सामान्यमजीर्णलक्षणम्| उक्तं च-"सीदत्यङ्गं भ्रमो मोहः कोष्ठे मुह्यति मारुतः| सर्वेषामप्यजीर्णानामविसंवादि लक्षण्म्||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उक्तानुक्ताजीर्णविशेषसङ्ग्रहार्थंमजीर्णसामान्यलक्षणमाह-विबन्ध इति| विबन्धो-मालानामप्रवृत्तिः| मारुतमूढता-वायोर्विमार्गगतिः| विष्टम्बो-विशेषेण स्तम्भोगात्राणाम्|
Adhikarana अजीर्णस्यान्यकारणानि (३१-३३) · Śloka ३३
साम्प्रतमजीर्णस्यान्यान्यपि कारणान्याह- |
न चातिमात्रमेवान्नमामदोषाय केवलम्||३१||
द्विष्टविष्टम्भिदग्धामगुरुरूक्षहिमाशुचि|
विदाहि शुष्कमत्यम्बुप्लुतं चान्नं न जीर्यति||३२||
उपतप्तेन भुक्तं च शोकक्रोधक्षुदादिभिः|
|३३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतिमात्रमेव भुक्तमन्नं न केवलमामदोषाय, किं तर्हि ? द्विष्टादि चान्नं न जीर्यति| द्विष्टं-अप्रियम्| विष्टम्भि-कुक्ष्याध्मानकारि| हिमं-अतिशीतम्| अशुचि-उच्छिष्टं केशादिदूषितं च, एतच्चाचिन्त्यप्रभावत्वादामदोषहेतुः| विदाहि-प्रागुक्तम्| शुष्कं-अद्रवप्रायम्| अत्यम्बुप्लुतं-अतिजलेन प्लावितम्| चः समुच्चये| न केवलं द्विष्टाद्यन्नं भुक्तं न जीर्यति, यावत् शोकादिभिश्चोपतप्तेन भुक्तं न जीर्यति| शोकः-इष्टविपत्त्यादिना मनोदौस्थ्यम्| क्रोधो-रोषः| क्षुत्-बुभुक्षा| आदिशब्देन लोभभयादिपरिग्रहः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अजीर्णाशनं लक्षयति- न चेति| न केवलमतिमात्रमेवान्नमामदोषय| किं तर्हि? द्विष्टादिकमप्यन्नं न जीर्यति,-आमदोषाय भवति| द्विष्टं-अप्रियम्| विष्टम्भिवातावरोधकारि| दग्धं-अतिपक्वम्| आमं-अपव्कम्| अशुचि-मलिनम्| शुष्कं-नीरसम्| अयम्बुप्लुतं-अत्यम्बुपानात्| शोकदिभिरुपतप्तेन भुक्तम्| क्षुत्-बुभुक्षा,तदुपतप्तत्वं-कालातिक्रमात्| आदिशब्दादुद्वेगादयः|
Adhikarana समशनलक्षणम् अध्यशनलक्षणम् विषमाशनलक्षणम् समशनादीनां दोषः (३३-३५) · Śloka ३५
सम्प्रत्यपरमप्यन्नमामक्षोभकरमाह- |
मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम्||३३||
विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम्|
अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम्||३४||
त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्सृजन्ति वा|
|३५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पथ्यं-शाल्यादि| अपथ्यं-यवकादि| तन्मिश्रं-एकीकृत्य, भुक्तं समशनं मतम्, अस्मिन्वैद्यकतन्त्रे| विद्यादित्यादि| भुक्तस्य-अभ्यवहृतस्योपरि यदन्यद्भोजनं तदध्यशनं जानीयात्| ननु, एवं प्रातराशे कृते यः सायमाशः, तस्याध्यशनत्वं प्रसज्येत्| अध्यशनं च विवर्ज्यमेव| यतोऽनन्तरमेव पठिष्यति-"त्रीण्यप्येतानि मृत्युं वा" इत्यादि| वैद्यकतन्त्रेषु च नराणां द्विराहार उपदिष्टः| भगवान् व्यासोऽप्यवोचत्-"सायंप्रातर्मनुष्याणां भोजनं विधिनिर्मितम्|" इति| तस्मादध्यशनस्यैवं तदसमीचीनं लक्षणम्| अत्र सञ्चक्ष्महे| प्राग्भुक्तस्योपरि समनन्तरेमेव वह्नावविभक्ते यदशनं तदेवाध्यशनम्, नान्यत्| अत एव सुश्रुतो ब्रूते (सू.अ. ४६|४९१)-"प्राग्भुक्ते त्वविभक्तेऽग्नौ द्विरन्नं न समाचरेत्|" इति| तस्मात् प्रातराशे कृते सत्यग्नौ विभक्ते यः सायमाशः स न परिहार्यः, अपि तु कार्य एव, गुणावहत्वात्| एतदेव प्रतिपादयितुं सङ्ग्रहेऽध्यगीष्ट (सू.अ. ११)-"प्रातराशे त्वजीर्णेऽपि सायमाशो न दुष्यति| अजीर्णे सायमाशे तु प्रातराशो हि दुष्यति|| दिवा प्रबोध्यतेऽर्केण हृदयं पुण्डरीकवत्| तस्मिन्विबुद्धे स्रोतांसि स्फुटत्वं यान्ति सर्वशः|| व्यायामाच्च विचाराच्च विक्षिप्तत्वाच्च चेतसः| न क्लेदमुपगच्छन्ति दिवा तेनास्य धातवः|| अक्लिन्नेष्वन्नमासक्तमन्यत्तेषु न दुष्यति| अविदग्धेष्विव पयःस्वन्यत्सम्मिश्रितं पयः|| रात्रौ तु हृदये म्लाने संवृतेष्वयनेषु च| परिक्लेदं यान्ति कोष्ठे संवृते देहधातवः|| क्लिन्नेष्वन्यदपक्वेषु तेष्वासिक्तं प्रदुष्यति| विदग्धेषु पयःस्वन्यत् पयस्तप्तेष्विवार्पितम्|| नैशे तस्मादजीर्णेऽन्ने नान्यद्भुञ्जीत भोजनम्|" इति| अधिशब्दोऽत्रोपरिशब्दार्थः| यथा-'प्रासादमधिरोहति|' इति| अकाले बहु चाल्पं वा भुक्तं त्वशनं विषमाशनसंज्ञं विद्यात्| कः पुनरकालो भोजनस्य ? इति चेत्, ब्रूमः| "प्रसृष्टे विण्मूत्रे" (श्लो. ५५) इत्यादिनाऽऽहारकालं वक्ष्यति| तद्वैपरीत्येनाकालो वेद्यः| त्रीण्यप्येतानि-समशनाध्यशनविषमाशनानि, मृत्युं वा सृजन्ति-जनयन्ति, घोरान् व्याधीन्-गुल्मादीन् वा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- समशनं लक्षयति-मिश्रमिति| पथ्यं-शाल्यादि, अपथ्यं-यवकादि, तद्द्वयं मिश्रीकृत्य भुक्तं-समशनाख्यम्| यत्तु केवलमपथ्यं तद्विरुद्धाख्यम्| अध्यशनं लक्षयति-विद्यादिति| भुक्तस्योपरि पुनर्भोजनं-अध्यशनाख्यम्| भुक्तस्य-प्रागभ्यवह्रतस्यान्नस्य पाकाभावादामाशय एव स्थितस्य, उपरि-ऊर्ध्वमन्यदन्नमाधीयते यत्तत्-भुक्तस्योपरि भोजनम्, पूर्वान्नशेषे भुक्तमित्यर्थः| तथा च चरकः (चि.अ. १४/२३३)- "पूर्वान्नशेषे तु पुनर्भुक्तमध्यशनं मतम्|" इति| सुश्रुतोऽपि (सू.अ. ४६/५०८)- "अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते|" इति| कथम्? भूयो-बाहुल्येन| अनेन क्वचिदन्नशेषे भुक्तमपि नाध्यशनम्| यथा (सङ्ग्रहे सू.अ. ११)- "प्रातराशे त्वजीर्णेऽपि सायमाशो नदुष्यति|" इति| तथा, अत्यग्नौ (हृदये चि. अ. १०/८४)- "मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपकल्पयेत्|" इति| ननु, एतदप्रात्पकालाशनत्वाद्विषमाशनादभिन्नम्| मैवम्| जीर्णे पूर्वान्ने यदप्राप्तकालं तद्विशमाशनम्, अध्यशनं तजीर्णे इति भेदः| ननु,"प्रसृष्टे विण्मूत्रे" (श्लो ५५) इत्यादिना जीर्णान्नत्वस्यैव कालत्वं वक्षयति| तत्कथमप्रात्पकालत्वम् ? मैवम्| यो हि यदा प्रत्यहं भुङ्क्ते स तस्य भोजनकालः| प्रसृष्टविण्मूत्रवादिकं तु तस्यैव विशेषणम्| तद्विशिष्टस्यैव तस्य कालत्वार्थम्| तस्मात् प्रसृष्टविण्मूत्रत्वादिविशिष्टे स्वकाले भोजनं-कालभोजनम्| प्राप्तेऽपि पूर्वान्नस्याजीर्णत्वादनुत्पन्नेषु प्रसृष्टविण्मूत्रत्वादिषु भोजनं-अध्यशनम्| पूर्वान्नस्य जीर्णत्वादुत्पन्नेष्वपि तेष्वप्रात्पे स्वकाले भोजनं-विषमाशनम्| अवश्यं चैतदभ्युपगन्तव्यम्| अन्यथा हि (हृ. सू. अ. १६/१८)- "ह्यस्तने जीर्ण एवान्ने स्नेहोऽच्छः शुद्धये बहुः| शमनःक्षुद्वतोऽनन्नो मध्यमात्रश्च शस्यते||" इति कालभेदो न स्यात्| विषमाशनं लक्षयति-अकाल इति| अकाले भुक्तं विषमाशनम्| तद्द्विविधम्,-अप्रात्पकालमतीतकालं च| अमात्राशनमप्यकाले भुक्तं विषमाशनमेवेत्याह-बहु चाल्पं वेति| तस्मात् काले यदमात्रया भुज्यते तदमात्राशनम्| यच्चाकाले मात्रया अमात्रया वा तद्विषमाशनम्| समशनादीनां दोषमाह-त्रीणीति| एतानि-समशन-विषमाशनाध्यशनानि, अनियतायुषां मृत्युं, नियतायुषां घोरान् व्याधीन् सृजन्ति|
Adhikarana भोजनस्य सम्यग्योगप्रकारः (३५-३८) · Śloka ३८
|
काले सात्म्यं शुचि हितं स्निग्धोष्णं लघु तन्मनाः||३५||
षड्रसं मधुरप्रायं नातिद्रुतविलम्बितम्|
स्नातः क्षुद्वान् विविक्तस्थो धौतपादकराननः||३६||
तर्पयित्वा पितॄन् देवानतिथीन् बालकान् गुरून्|
प्रत्यवेक्ष्य तिरश्चोऽपि प्रतिपन्नपरिग्रहान्||३७||
समीक्ष्य सम्यगात्मानमनिन्दन्नब्रुवन् द्रवम्|
इष्टमिष्टैः सहाश्र्नीयाच्छुचिभक्तजनाहृतम्||३८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-काले-वक्ष्यमाणे| तन्मनाः-भोजनगतचित्तः| क्षुद्वान्-बुभुक्षितः| विविक्तस्थः-एकान्तस्थितः| तथा, प्रक्षालितचरण्हस्तमुखः| अनिन्दन्-भोजनमगर्हमाणः| अब्रुवन्-अभाषमाणः| इष्टं-मनोरुचितं भोजनम्| तथा, द्रवं-द्रवप्रायम्| इष्टैः-प्रियैः, सहाश्नीयात्| 'क्षुद्वान्' इत्यत्र प्रशंसायां मतुप्, उत्पन्नप्रशस्तबुभुक्षः| तेन किञ्चिदपि यदा दुष्टबुभुक्षा स्यात्तदा नाद्यादित्यर्थः| दुष्टबुभुक्षाया लक्षणम् (सङ्ग्रहे सू.अ. ११)- "दोषोपनद्धं यदि लीनमन्नं पित्तोद्धतस्यावृणुयान्न वह्निम्| जायेत दुष्टा तु तदा बुभुक्षा या मन्दबुद्धीन् विषवन्निहन्ति||" इति| किम्भूतं भोजनम् ? सात्म्यम्| तच्च सात्म्यं द्विधा,-एकं स्वल्पकालाभ्यस्तं सुखावहम्, अन्यच्च जन्मनः प्रभुति सहात्मनाभ्यस्तं सुखावहं च| एतदेवैकं सात्म्यमुच्यते| तथा, शुचि-अनुच्छिष्टं केशाद्यनुपहतं च| हितं-पथ्यम्| स्निग्धं च तदुष्णं च-स्निग्धोष्णम्| तथा, लघु-लघुप्रायम्. न तु लघ्वेव| अत एवेदमुपपन्नम् "षड्रसं मधुरप्रायम्" इति| मधुररसो हि गुरुः| तथा च वक्ष्यति (हृ.सू.अ. १०|३८)- "पटोः कषायस्तस्माच्च मधुरः परमं गुरुः|" इति| तद्यदि लघ्वेव स्यात् (तर्हि) मधुरप्रायमिति न घटते| तस्माल्लघुप्रायमिति व्याख्येयम्| कथमद्यात् ? तदाह-नातिद्रुतविलम्बितम्| किं कृत्वा ? पित्रादींस्तर्पयित्वा| तथा, तिरश्चोऽपि-अश्ववृषादीन्, प्रतिपन्नपरिग्रहान्-कृतस्वीकारान्, प्रत्यवेक्ष्य-तदाहारचिन्तां कृत्वेत्यर्थः| तथा, आत्मानं समीक्ष्य-यथा ममेदं सात्म्यमिदमसात्म्यमिति नित्यमप्रमत्तः सन् पर्यालोच्य| खरनादेनोक्तम्-"अतिद्रुताशी त्वाहारगुणदोषान्न विन्दति| उन्मुह्यत्यल्पमश्नाति च्छर्दयेद्वाऽनवस्थितः|| विलम्बितं तु भुञ्जानो न तृप्तिमधिगच्छति| खादन् बह्वपि शीतत्वाद्याति भोज्यमहृद्यताम्|| जल्पतो हसतश्चापि भुञ्जानस्यान्यचेतसः| त एव दोषा मन्तव्या ये विलम्बितभोजने||" इत्यादि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ भोजनसम्यग्योगः| तत्र सम्यग्योगप्रकारमाह-काले सात्म्यमिति| काले-"प्रसृष्टे विण्मूत्रे" (श्लो. ५५) इत्यादिना वक्ष्यमाणे| शुचि-निर्मलम्| सात्म्यमिति हितस्याप्यनभ्यासासात्म्यस्य निवृत्त्यर्थम्, हितमित्यहितस्याभ्याससात्म्यससात्म्यस्य| तन्मनाः-भोजनैकदत्तचित्तः| मधुरप्रायं-षड्रसत्वेऽप्यधिकधुररसम्| नातिद्रुतविलम्बितमिति क्रियाविशेषणम्| विविक्तस्थो-विजनस्थः| पित्रादींस्तर्पयित्वा| प्रतिपन्नपरिग्रहान्-पाल्यत्वेन स्वीकृतान्| तिरश्चोऽपि-किं पुनर्मनुष्यान्| प्रत्यवेक्ष्य-तेषामाहारचिन्तां विधाय| अत्मानं समीक्ष्य-प्रकृतिं विचार्य| अनिन्दन्भोज्यमकुत्सयन्| अब्रुवन्-कृतमौनः| द्रवं-द्रवबहुलम्| इष्टं-प्रियम्| इष्टैः सह-प्रियजनैः सह| शुचिभक्तजनाहृतंशुचयो-बाह्याभ्यन्तरशौचयुक्ताः, भक्ताः-अनुरक्ताः, ये जनास्तैराहृतं-आनीतम्|
Adhikarana तृणादिजुष्टभोजनत्यागः (३९) · Śloka ३९
भोजनं तृणकेशादिजुष्टमुष्णीकृतं पुनः|
शाकावरान्नभूयिष्ठमत्युष्णलवणं त्यजेत्||३९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तृणादिजुष्टं भोजनं त्यजेत्| आदिशब्देन मक्षिकादिपरिग्रहः| तथा, भूय उष्णीकृतम्| तथा, शाकबहुलम्| तथा, अवरान्नं-माषादि, तद्भूयिष्ठम्| तथा, अत्युष्णमतिलवणं च त्यजेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तृणजुष्टादिभोजनमपवदति-भोजनमिति| तत्रानिन्दान्निति ग्रह्णात् तृणकेशमक्शिकादिजुष्तस्य निन्दितस्यापि प्रप्तिः, उष्णग्र्हणात् पुनरूष्णीकृतात्युष्णयोः, इष्टग्रहणात् शाकसूपबहुलस्य, षड्रसग्रहणात् अतिलवणस्य|
Adhikarana किलाटादिशीलनम् (४०-४१) · Śloka ४१
किलाटदधिकूचीकाक्षारशुक्ताममूलकम्|
कृशशुष्कवराहाविगोमत्स्यमहिषामिषम्||४०||
माषनिष्पावशालूकबिसपिष्टविरूढकम्|
शुष्कशाकानि यवकान् फाणितं च न शीलयेत्||४१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा, किलाटादीन्न शीलयेत्-नाभ्यसेत्, न कादाचित्कोऽभ्यवहार एषां निषिध्यते| मुनिना तु (च. सू. अ. ५|७)- "नाभ्यसेद्गौरवात्" इति यथा हेतुरुपन्यस्तः, तथेह नोक्तः, अयुक्तत्वात्| तथा हि-एषामनभ्यवहारे यदि गुरुत्वमेव हेतुः स्यात्| ततो गुडयवादीनामपि बहुतराणां द्रव्याणां शीलनमयुक्तं स्यात्| तस्मादेषामशीलनेऽन्यदपि कारणं चिन्त्यम्, न तु गुरुत्वमात्रमेव| यथा-किलाटकूचिकयोर्दोषलत्वं, दध्नस्तु ज्वरादिकर्तृत्वं तथा स्रोतोलेपः, स्रोतोलेपत्वाच्चानेकरोगहेतुत्वम्, क्षारस्य पुंस्त्वहानिकृत्त्वम्, शुक्तस्य दृष्टिहन्तृत्वादि| तस्मादेषामपथ्यत्वाच्छीलननिषेधो बोध्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सात्म्यत्वादिप्रसक्तं किलाटाद्यभ्यासमपवदतिकिलाटेति| आममिति मूलकस्य विशेषणम्, कृशादीन्यामिषस्य| न शीलयेत्-न नित्यं भजेत्| यदा तत्सेवनं विना स्थातुमशक्तिः, यदा वा तत्साध्यरोगोत्पत्तिः, तदा भजेदित्यर्थः|
Adhikarana शाल्यादिशीलनम् (४२-४३) · Śloka ४३
शीलयेच्छालिगोधूमयवषष्टिकजाङ्गलम्|
सुनिषण्णकजीवन्तीबालमूलकवास्तुकम्||४२||
पथ्यामलकमृद्वीकापटोलीमुद्गशर्कराः|
घृतदिव्योदकक्षीरक्षौद्रदाडिमसैन्धवम्||४३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शाल्यादीन् शीलयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सात्म्यादीन्युदाहरति-शीलयेदेति| जाङ्गलंहरिणादिमांसम्| पथ्या-हरीतकी| मृद्वीका-द्राक्षा|
Adhikarana नित्यसेव्यमौषधम् (४४) · Śloka ४४
त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च|
स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च यत्||४४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मधुसर्पिर्भ्यां सह त्रिफलां च रात्रौ नेत्रबलाय शीलयेत्| न केवलं शाल्यादीनेव शीलयेत्| यच्च द्रव्यं स्वास्थ्यानुवृत्तिं करोत्यृतुचर्याविध्याद्युक्तमन्नपानादिकम्| तथा, रोगोच्छेदकरं यत्-किराततिक्तकादिद्रव्यम्, तच्च शीलयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- प्रसङ्गान्नित्यसेव्यमौषधमाह-त्रिफ़लामिति| निशि-स्वप्नकाले| नेत्रेबलाय-चक्षुरिन्द्रियदार्ढ्याय| यच्च औषधं रसायनादिकं, स्वास्थ्यमनुवर्तयति रोगोत्पतिबीजं चोच्छिनत्ति तदपि यथाकालं भजेत्| उक्तं च चरकेण (सू. अ. ५/१०)- "तच्च नित्यं प्रयुञ्जीत स्वाथ्यं येनानुवर्तते| अजातानां विकाराणामनुत्पतिकरं च यत्||" इति|
Adhikarana भोज्यक्रमः (४५-४६) · Śloka ४६
बिसेक्षुमोचचोचाम्रमोदकोत्कारिकादिकम्|
अद्याद्द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः||४५||
विपरीतमतश्चान्ते मध्येऽम्ललवणोत्कटम्|
|४६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बिसादिद्रव्यं गुर्वादिगुणयक्तं पुरः-पूर्वमद्यात्| मोदको-लड्डुकः| उत्कारिका-लप्यसिका| अतः-अस्माच्च, विपरीतं-लघुरूक्षकटुतीक्ष्णसरप्रायम्, अन्ते भोजनस्य सेवेत| मध्ये चाम्ललवणोत्कटम्| खरनादे चोक्तम्-"कटुं लवणमम्लं वा पूर्वमाहारमाहरेत्| आहारो मधुरोऽग्रे हि गुरुर्विष्टभ्य जीर्यति||" इति| तदेतदुक्तमुभयमपि देशसात्म्यादिवशात् प्रमाणयितव्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- भोज्यक्रममाह-बिसेति| गुर्वादिगुणं बिसादिभोज्यद्रव्यं पुरः-पूर्वमद्यात्| मोचं-कदलीफ़लम्| चोचं-नारिकेलफ़लं पनसं वा| मोदको-लङ्गुकः| उत्कारिका-पूपलिका| आदिशब्दादिण्डरिकादयः| अतो विपरीतं-लघ्वादिगुणं षष्टिकौदनादिकम्, अन्ते अद्यात्| अम्ललवणोत्कटं-शुक्तादिकं, मध्येऽद्यात्| यत्तूक्तं खारणदिना-"कटुं लवणमम्लं वा पुर्वमाहारमाहरेत्| आहारो मधुरोऽग्रे हि गुरुर्विष्टभ्य जीर्यति||" इति| तन्मन्दाग्निविषयम्| तद्भोजनस्य दीपनपुर्वकत्वात्| तथा चोक्तं सङ्ग्रहे (सू. अ. १०)- "यथाग्निसात्म्यं तु प्राग्द्रावमुपशुष्कं वाऽश्नीयात्| प्रागेव तु गुरु स्वादु स्निग्धं च| मध्येऽम्ललवणम्| अन्ते रूक्षद्रवमितररसयुक्तं च| तत्र मन्दाग्नेः द्रवोष्णेन समुत्तेजितोष्मणोऽन्यदप्युपयुक्तं सम्यक् पाकमुपैति|" इति|
Adhikarana अन्नपानयोर्विभागः (४६-४७) · Śloka ४७
|
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्||४६||
आश्रयं पवनादीनां चतुर्थमवशेषयेत्|
|४७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कुक्षेः-जठरस्य, अन्नेन द्वौ भागौ प्रपूरयेत्| पानेन-जलादिना, एकमंशं प्रपूरयेत्| चतुर्थमंशं पवनादीनामाश्रयमवशेषयेत्-न त्वन्नेन पानेन वा प्रपूरयेत्| अत्र त्वंशकल्पना परिकल्पनेनैव युज्यते, न त्वङ्गुलमानादिना| सुश्रुते चाभिहितम् (सू. अ. ४६|४७८)- "प्रक्षालयेदद्भिरास्यं भुञ्जानश्च मुहुर्मुहुः| विशुद्धे रसने ह्यस्मिन् रोचतेऽन्नमपूर्ववत्||" इति| [रसना विद्यते यस्य मुखस्य तद्रसनम्, तस्मिन् रसने विशुद्धे रोचतेऽन्नमपूर्ववत्||]
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अन्नपानयोर्विभागमाह-अन्नेनेति| कुक्षिःउदरम्, चतुर्था विभज्य द्वावंशवन्नेन-अद्रवेण पूरयेत्| तृतीयमंशं पानेन-द्रवेण पूरयेत्| चतुर्थमंशं पवनादिसुखसञ्चारार्थमनशेषयेत्-न केनापि पूरयेत्| एतदेव च सौहित्यमानम्| अत एवार्धसौहित्यं नातितृत्पता च ज्ञेया|
Adhikarana अनुपानविभागः,यवगोधूमयोः शीतं जलमित्यादि (४७-५०) · Śloka ५०
|
अनुपानं हिमं बारि यवगोधूमयोर्हितम्||४७||
दध्नि मद्ये विषे क्षौद्रे, कोष्णं पिष्टमयेषु तु|
शाकमुद्गादिविकृतौ मस्तुतक्राम्लकाञ्जिकम्||४८||
सुरा कृशानां पुष्ट्यर्थं, स्थूलानां तु मधूदकम्|
शोषे मांसरसो, मद्यं मांसे स्वल्पे च पावके||४९||
व्याध्यौषधाध्वभाष्यस्त्रीलङ्घनातपकर्मभिः|
क्षीणे वृद्धे च बाले च पयः पथ्यं यथाऽमृतम्||५०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यवगोधूमयोर्भुक्तयोरनु-पश्चात्, पानं शीतं जलं हितम्| तथा, दध्नि मद्ये विषे क्षौद्रे च हिमं जलमनुपाने हितम्| पिष्टमयेषु कोष्णं जलं हितम्| शाकमुद्गादिविकृतौ च मस्त्वादिकमनुपानं हितम्| कृशानां पुंसां सुरा पुष्ट्यर्थं हिता| स्थूलानां पुनः कर्शनाय मधूदकं हितम्| शोषे-क्षये, मांसरसो हितः, पुष्टिकारित्वात्| मांसे भुक्ते मद्यमनुपानं हितम्| स्वल्पे च पावके मद्यमेवानुपानं हितम्| व्याध्यादिभिः क्षीणे-क्षपिते, पयो-दुग्धं, पथ्यं-हितम्| इह (हितमिति) प्रकृतेऽपि पथ्यग्रहणं पथ्यतरत्वज्ञापनार्थम्| यथाऽमृतमित्यनेनैतत् प्रतिपादयति,-यथाऽमृतं बलवर्णौजःकान्त्यायुरादिजनकं तथेदमपीत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथानुपानम्| तेन ह्यसम्यग्योगोऽपि सम्यग्योगतां याति| यदाह खारणादिः-"कामं दोषवदप्यन्नममात्रं वा निषेवित,| अल्पदोषमदोषं वाऽप्यनुपानेन जीर्यति||" इति| अनु-पश्चात्पीयत इत्यनुपानम्| एतच्च बाहुल्याभिप्रयेण| तद्धि मध्येऽप्यादावपि पीयते| यदाह सुश्रुतः (सू. अ. ४६/४६८)- "तदादौ कर्शयेत् पीतं स्थापयेन्मध्यसेवितम्| पश्चात्पीतं बृंहयति तस्माद्वीक्ष्य प्रयोजयेत्||" इति| तथा, (सु.सू.अ. ४६/४२८)- "निरामयानां चैतत्तु भुक्तमध्ये प्रशस्यते|" इति च| कस्तर्हि पानानुपानयोर्भेदः ? उच्यते| यदनियतकालं रुचिवशात्पीयते तत्-पानम्, यन्नेयतकालं विधिवशात्पीयते तत्-अनुपानम्| तत्रादावनुपानविभागः| तत्र यवादिषु शीतोदकमाह-अनुपानं हिममिति| पिष्टमयेषु ईषदुष्णोदकमाह-कोष्णमिति| यत्तु सुश्रुतेनोक्तम् (सू. अ. ४६/४२३)- "शीतोदकं माक्षिकस्य पिष्टान्नस्य च सर्वशः| दधिपायसमद्यार्तिविषजुष्टे तथैव च||" इति| तद्विदाहिपिष्टान्नविषयम्| उक्तं व सङ्ग्रहे (सू. अ. १०)- "तच्छीतं दधिमधुयवदोधूममद्यविषेषुसर्वेषु च विदाहिषु शरद्ग्रीष्मयोश्च|" इति| शाकादिषु मस्त्वाद्याह-शाकेति| शाकं-पाठादि, मुद्गादिसूप्यम्, तस्य (तयोः) विकृतिः-वटकादिका| विकृतिग्रहणं रसाद्यन्यत्व एव मस्त्वादिप्राप्त्यर्थम्| अविकृते तु सूपादौ सुश्रुतेनोक्तम् (सू. अ. ४६/४२५)- "पयो मांसरसो वाऽपि शाकमुद्गादिभोजने|" इति| मस्त्वादिषु यस्य यत्सात्म्यमिष्टं वा तस्य तद्योज्यमिति| एकस्यैव तत्कार्यकरत्वात् न मिश्रीकृत्यप्रयोगः| अत एव पृथगुक्तं सङ्ग्रहे (सू. अ. १०)- "धान्याम्लं मस्तु तक्रं वा शाकावरान्नेषु|" इति| कृशानां सुरामाह-सुरेति| कृशानां शीतोदकाद्युचितेष्वन्नेषु सुरैवानुपानम्, अनवकाश्त्वात्| पुष्ट्यर्थे- न तु रोगनिवृत्यर्थम्| यस्तु कृशो रोगार्तः तस्य रोगानुरूपमनुपानं प्रयोज्यम्| स्थूलानां मधूदकमाह-स्थूलानां त्विति| मधुमिश्रमुदकं-मधूदकम्| शेषं पुर्ववत्| शोषे मांसरसमाह-शोष इति| शोषे-शुष्यति देहे| यदाह खारणादिः-"कृशक्षीणामयोन्मुक्तपुष्टिवर्णबलार्थिनाम्| मद्यस्त्रीश्रमनित्यानां शुष्यतां च रसो हितः||" इति| मांसाशिनां मन्दाग्नीनां च मद्यमाह-मद्यमिति| तच्च मद्योचितानामेव| यदाह सुश्रुतः (सू. अ. ४६/४२६)- "मद्यं मद्योचितानां तु सर्वमांसेषु पूजितम्| अमद्यपानामुदकं फ़लाम्लं वा प्रश्स्यते||" इति| व्याध्यादिषीणादीनां क्षीरमाह-व्याध्यौषधेति| लङ्घनंउपवासः| कर्म-चेष्टा|
Adhikarana अनुक्तानुपानविभागः (५१) · Śloka ५१
विपरीतं यदन्नस्य गुणैः स्यादविरोधि च|
अनुपानं समासेन, सर्वदा तत्प्रशस्यते||५१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्नस्य-भक्तवटकादेः, यद्विपरीतं गुणैस्तदनुपानं सदा प्रशस्यते| यथा,-स्निग्धस्य रूक्षम्, रूक्षस्य स्निग्धम्, शीतस्योष्णम्, उष्णस्य शीतम्, मधुरस्याम्लम्, अम्लस्य मधुरमित्यादि| ननु, एवमुररीक्रियमाणे क्षीरस्य क्षैरेयादेर्वा तक्रचुक्रादीनामम्लानामनुपानत्वं प्राप्तमित्याह-गुणैरित्यादि| विपरीतगुणमपि यदविरोधि तदेवानुपानं सदा हितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अनुक्तानुपानविभागोपायमाह-विपरीतमिति| यत्-द्रव्यं, यस्यान्नस्य गुणैः कृत्वा विपरीतं न च तेन सह विरुद्धम्, तत्तदन्नस्यानुपानम्| समासेन-सामान्येन, विशेषतस्तु सात्म्यादिपर्यालोचनया स्वयमूह्यम्| अनुपानस्य नित्यसेव्यत्वमाह-सर्वदेति| तत्-अनुपानम्|
Adhikarana अनुपानस्य फलम् (५२) · Śloka ५२
अनुपानस्य किं कर्म ? इत्याह अनुपानं करोत्यूर्जां तृप्तिं व्याप्तिं दृढाङ्गताम्|
अन्नसङ्घातशौथिल्यविक्लित्तिजरणानि च||५२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनुपानमूर्जादीन् करोति| ऊर्जा-मनःप्रहर्षः| तृप्तिः-प्रीणनं शरीरेन्द्रियस्य, क्षामताविपरीतोऽन्नगुणः| तथा, व्याप्तिःद्रवस्य हि गमनम्, न कठिनस्य| दृढाङ्गता-स्थिरशरीरत्वम्| तथा, अन्नसङ्घातस्य शैथिल्यम्| विक्लित्तिः-विक्लेदनम्| जरणं-परिणामः| एतानि च करोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अनुपानस्य फलमाह-अनुपानमिति| ऊर्जांबलम्| तृप्तिं-सौहित्यम्| व्याप्तिं-अन्नस्य सर्वस्रोतोनुसरणम्| अन्नसङ्घातशैथिल्यादीनि च| शैथिल्यं-काठिन्यनिवृत्तिः| विक्लित्तिः-शुष्कत्वनिवृत्तिः| जरणं-पाकः|
Adhikarana ऊर्ध्वजत्रुगदादौ अनुपाननिषेधः (५३) · Śloka ५३
एवंगुणमप्यूर्ध्वजत्र्वादिषु न हितमित्याह नोर्ध्वजत्रुगदश्वासकासोरःक्षतपीनसे|
गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम्||५३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ऊर्ध्वं जत्रुणः-ऊर्ध्वजत्रु, तस्मिन् ये गदास्तेषु तत्-अनुपानं, न हितम्| तथा, श्वासादिषु न हितम्| गीत-भाष्ययोः प्रकर्षेण सङ्गः-सातत्येन सम्बन्धः, तस्मिन्| तथा, स्वरभेदे-स्वरसादे न तद्धितम्| ऊर्ध्वजत्रुगदादीनां ह्यनुपानं प्रदूष्यामाशयमुरःकण्ठस्थितमाहारजं स्नेहमासाद्याभिष्यन्दाग्निसादच्छर्द्यादीनामयान् विदध्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- ऊर्ध्वजत्रुगदादावनुपानं निषेधति-नोर्ध्वेत्यादि| वक्षःस्कन्धयोः सन्धी-जत्रुणी, तयोरूर्ध्वं-ऊर्ध्वजत्रु,-कण्ठादिकपालन्तम्, तत्र ये गदास्ते-ऊर्ध्वजत्रुगदाः| कासोत्पत्तेः प्रागपि निषेधार्थमुरःक्षतग्रहणम्| गीतभाष्ययोः प्रसङ्गो-गायनाध्ययनाद्यभ्यासः|
Adhikarana प्रक्लिन्नदेहादीनां पाननिषेधः (५४) · Śloka ५४
सम्प्रति येषां पानमेव न शस्यते, तानाह प्रक्लिन्नदेहमेहाक्षिगलरोगव्रणातुराः|
पानं त्यजेयुः|५४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रक्लिन्नो देहो येषां आमविसर्पाद्यार्तानां ते पानं त्यजेयुः| मेहादीनामातुरशब्देन प्रत्येकं सम्बन्धः| मेहरोगाद्यातुराः पानं-द्रवरूपं त्यजेयुः, न केवलमन्नस्योपरि यदनुपानम्| खरनादे चोक्तम्-"मेही प्लीही व्रणी कुष्ठी पाण्डुर्जठरपीनसी| शोषातिसारी मन्दाग्निः पानीयं मन्दमाचरेत्|| नोर्ध्वाङ्गपवनाविष्टे वाग्व्यायामहते न च| क्षतोरसि श्वासकासहिक्कावम्यर्दिते न च|| निरन्ने चोर्ध्वरोगे च न पेयं वारि शीतलम्|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- प्रक्लिन्नदेहादीनां पानमात्रं निषेधति-प्रक्लिन्नेति| प्रक्लिन्नदेहः-क्लेदबहुलशरीरः| मेहादिभिरातुराः|
Adhikarana पानानन्तरभाष्यादिनिषेधः भोजनान्तरमातपादिनिषेधः (५४-५५) · Śloka ५५
|
सर्वश्च भाष्याध्वशयनं त्यजेत्||५४||
पीत्वा, भुक्त्वाऽऽतपं वह्निं यानं प्लवनवाहनम्|
|५५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चशब्दो लुप्तनिर्दिष्टोऽत्र| सर्वोऽपि पुरुषः-स्वस्थो रोगी च, पीत्वा भुक्त्वा च भाष्यादींस्त्यजेत्| तथा, आतपादीन् पञ्च त्यजेत्| त्यजेदित्यत्राप्यनुवृत्त्या योज्यम्| यानं-रथादि| प्लवनं-तरणम्| वाहनं-अश्वादि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पानानन्तरं भाष्यादि निषेधति-सर्वश्चेति| सर्वः-सषिद्धपानोऽनिषिधापानो वा, निषिद्धपानस्यापि प्रमादादवस्थादिवशाद्वा पानप्रसक्तिः| भोजनानन्तरमातपादि निषेधति-भुक्त्वाऽऽतपमिति| यानं-पभ्द्यां गमनम्| वाहनं-अश्वादिभिः| प्लवनं-प्रतरणम्| गमनं तु पदशतादूर्ध्वं निषिद्धम्| यदाह सुश्रुतः (सू. अ. ४६/४८६)- "ततः पदशतं गत्वा वामपार्श्वेन संविशेत्|" इति|
Adhikarana भोजनस्य कालः (८) · Śloka ८
"काले सात्म्यम्" (श्लो. ३५) इत्युक्तम्|
भोजनस्य तु कः कालः ? इत्याह प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे विशुद्धे चोद्गारे क्षुदुपगमने वातेऽनुसरति|
तथाऽग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||५५||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने मात्राशितीयो नाम अष्टमोऽध्यायः||८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आहारं विधिना-पूर्वोक्तेन " काले सात्म्यं शुचि हितम्" इत्यादिना नियमितं प्रयुञ्जीत,-अश्नीयादित्यर्थः| कदा ? मूत्रपुरीषे प्रकर्षेण सृष्टे सति| न तु किञ्चिदेव त्यक्त इति प्रशब्देन द्योतयति| तथा, हृदये सुष्ठु विमले-रसशेषकृतगौरवादिरहिते| तथा, दोषे-वातादौ, स्वपथगे-स्वमार्गगे, अजीर्णे ह्याहारेऽन्नशेषेण रुद्धगतयो वातादयः स्वस्थानं न लभरेन्, सुजीर्णे तु स्वस्थानस्थाः स्युः| उद्गारे च विशुद्धे-चशब्दोऽनुक्तसमुच्चयार्थः, स्रोतोमुखेषु च विशुद्धेष्वित्यर्थः| क्षुदुपगमने-उपगतायां क्षुधि| वातेऽनुसरति-अनुलोमं गच्छति| तथा, अग्नौ-कायाग्नौ, उद्रिक्ते-पाकक्षमे| तथा, देहे पट्विन्द्रिये सुष्टु लघौ च| कालः स हि मतः| हिशब्द एवार्थे| स एव कालो भोजनस्य दृष्टः, न त्वतोऽप्यूर्ध्वम्| स ह्यतिकालः, तत्र भुक्तमन्नं वातविष्टब्धं कृच्छ्राद्विपच्यते| तथा चोक्तं तन्त्रान्तरे-"अतीतकाले भुञ्जानो वायुनोपहतेऽनले| कृच्छ्राद्विपच्यते भुक्तं द्वितीयं न च काङ्क्षति|| कुक्षावाध्मानमाटोपसादांश्च कुरुतेऽधिकम्|" इति| तस्मात्पूर्वोक्ते काले भोजनमद्यादिति| यमौ न्सौ तः सस्याद्रसरविविरामा धीरललिता| इति श्रीमृगाङ्कदत्तपुत्र श्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने मात्राशितीयाध्यायोऽष्टमः समाप्तः|| ८||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- भोजबकालमाह-प्रसृष्टे विण्मूत्र इति| प्रसृष्टे- प्रवृत्ते| सुविमले-अतिप्रसन्ने| स्वपथगे-स्वमार्गगामिनि| विशुद्धे-माधुर्यादिरहिते क्षुदुपगमने-बुभुक्षोत्पत्तौ| अनुसरति-अनुकूलं प्रवर्तमाने| 'दोषे स्वपथगे' इत्यनेनैव वातानुलोम्ये लब्धे 'वातेऽनुसरति' इति वातानुलोम्यस्य प्राधान्यार्थम्| उद्रिक्ते-अतिदीत्पे| विशदकरणेनिर्मलेन्द्रिये| सुलगौ-लघीयसि| विधिः-शास्त्रोक्तो नियमः, तेन नियमितं-निषिद्धकामचारम्| ननु, यो यदा भुङ्क्ते स तस्य भोजनकालः| किमनेन ? इत्यत आह-काल इत्यादि| हि-यस्मात्, सः-तहाविधः प्रसृष्तविण्मूत्रत्वादिविशिष्टो, भोजनकालो भतः आचार्याणाम्, न केवलः| तस्मात् प्रसृष्टविण्मूत्रत्वादिविशिष्टे स्वकाले भुञ्जीत| इति भोजनप्रक्रिया| सङ्ग्रहे तु (सु.अ. १०)- "विधिविहितमन्नपानमिष्टेन्द्रियार्थमायतनमायुषो ब्रुवते|तदायत्तानिह्योजस्तेजोधात्विन्द्रियबलपुष्टितुष्टिप्रतिभारोग्यादीनि| तदिन्धना चान्तरग्नेः स्थितिः, अग्निमूलं च देहधारणमिति| अथात्मवान् स्वभावसंयोगसंस्कारमात्रादेशकालोपयोगव्यवस्थाः सप्ताहारकल्पनाविशेषणां स्वास्थ्यास्वास्थ्यफ़लानां हेतुभूताः समीक्ष्य हितमेवानुरुध्येत| तत्र स्वभावतो-दिव्योदकरक्तशालिशष्टिकमुद्गैणलावादयो लघवः, क्षीरेक्षुव्रीहिमाषानूपमिषादयो गुरव ति| ते ख्ल्वपि संयोगादिविशेषैरन्यथात्वं प्रतिपद्यन्ते| तत्र संयोगो नाम-द्वयोर्बहूनां वा संहतीभावः| स विशेषमारभते यन्नैकैकशो द्रव्याणि| संस्कारुस्तु-तोयाग्निसन्निकर्षशौचमन्थनदेशकालभावनाभाजनादिभिरुपजन्यते| मात्रा पुनः-पिण्डपरिमाणतः समुदायेन प्रतिद्रव्यापेक्षया चाहारराशिः| देशो-द्रव्यस्योपयोक्तुश्चोत्पत्यवस्थाने| तत्र पुनरुपयोक्ता स्वस्थातुरत्वतः प्रकृतिभेदतश्च| अजीर्णे हि पूर्वस्याहारस्यापरिणतो रस उत्तरेणोपसृज्यमानः सर्वान् दोषान् प्रकोपयत्याशु| जीर्णे तु स्वस्थानस्थेषु दोषेषु वातानुलोम्ये सृष्टेषु वातमूत्रपुरीषवेगेषु विशुद्धेषूद्गारहृदयस्रोतोमुखेषु विशदकरणे लघुनि शरीरेऽग्नावुर्दीर्णे जातायां बुभुक्षायामभ्यवहृतमन्नमप्रदूषयद्दोषानायुर्बलवर्णानभिवर्धयति| केवलमयमेव कालो भोजनस्य| अतीतकालं पुनस्तद्व्तविष्टब्धं कृच्छ्राद्विपच्यते| कर्शयत्यन्नरुचिं च पुनरुपहन्ति| उपयोगव्यवस्था-नास्नातो न दिग्वासा नैकवस्त्रधृक् न मलिनवसनो नाहुत्वा नाजपित्वा नानिरूप्य देवताभ्यो न पितृभ्यो नादत्वाऽग्रमग्नये न गुरूभ्यो नातिथिभ्यो नाभ्यागतेभ्यो श्ववयः श्वपचेभ्यः| प्रत्यवेक्ष्य चाश्रितोपाश्रितानपि तिरश्चः परिगृहीतान् प्रशस्तदेशकालोपकरणयुक्तः स्रग्वी विभूषितः सुगन्धिरार्द्रपाणिपादः सुविशुद्धवदनोऽभिमरसहायः केशमक्षिकाद्यजुष्टमनिन्द्यमनिन्द्रन्ननिन्दितं पुनर्नोष्णीकृतं नात्युष्णमनुपदग्धं सुसिद्धमलोलो नासात्म्यं नाविदितं नाविदितागमं नातिप्रगे नातिसायं नाकाशे नातपे नान्धकारे नाधो वृक्षस्य न शय्यास्थो नोन्नम्य प्रदेशिनीं न पात्रे भीन्ने नासंवृते न मलिने न भावदूषिते न चासनस्थिते न हस्तस्थे न हस्ते| प्राङ्मुखः सुमनाः शुचिभक्ताक्षुधितानुकूलजनोपहितं हितमन्नमश्नीयात्| न पर्युषितमन्यत्र मांसोपदंशशुष्कशाकफ़लभक्ष्येभ्यः| नाशेषमन्यत्र दधिमधुघृतसलिलसक्तुशुक्तपायसेभ्यः| अपि च| स्निग्धं लघूष्णमविलम्बितमनतिद्गुतमजल्पन्नहसंस्तन्मानाः समीक्ष्य सम्यगात्मानम्| स्निग्धलघूष्णानि हि वह्निमौदर्यमुदीरयन्ति कोष्टं परिशोधयन्ति धातून्न विकुर्वते, क्षिप्रं जीर्यन्त्यनिलमनुलोमयन्ति| तथा, स्निग्धं दृढीकरोतीन्द्रियाण्युपचिनोति शरीरमपचिनोति जरसं, बलमभिवर्धयति, वर्णप्रसादमभिनिर्वर्तयति| लघु च पुनः स्वाभादिभिरन्नमप्रतिपीडयद्दोषानव्ययं परिणाममेति, विपन्नमपि चाल्पदोषं भवति| उष्णं च पुनर्जनयति रुचिमुपशोषयति श्लेष्माणम्| विलबितं तु भुञ्जानो न तृत्पिमभिगच्छति बहु च भुङ्क्ते शीतीभवति चान्नजातं विषमपाकं च भवति| अतिद्रुतं तु भुञ्जानस्य जल्पतो हसतोऽन्यमनसो वा भवेदुत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं गुणदोषाविभावनं च| समीक्ष्य सम्यगात्मानमिति ममेदं सात्म्यमिदमसात्म्यमिति वा नित्यमप्रमत्तः प्रत्यवेक्षेत| तत्र सात्म्यं नाम सहात्मना भवति, अतस्तदौचित्यादुपशेत इत्येके| सात्म्यविपरीतमनुपशयादसात्म्यम्| अन्ये पुनः प्रकृतिवयोदेशर्तुदोषव्याधिवशेन सात्म्यं बहुविधमिच्छन्ति| ते ह्युपशयमात्रमङ्गीकृत्य विपरीतगुणमप्युपचारेण सात्म्यमाचक्षते| तुल्यगुणं चानुपशयादसात्म्यम्| सात्म्यं तु प्रवरावरमध्यविभागेन त्रिविधम्| तत्र सर्वरसं प्रवरम्, एकरसमवरम्, मध्यमं तु मध्यमेव| तेषु प्रवरं समदोषस्योपदिशन्ति| इतरेषामपि क्रमेण सात्म्यमपि चाहितं पादेन पादपादेन वा विवर्जयेदित्युक्तं प्राक्| तत्र यदाहारजातं समान् धातूननुवर्तयति, विषमांश्च समीकरोति, तत्समासतो हितम्| विपरीरमहितम्| तत्पुनर्मात्रायोगादिवैचित्र्यादनियमपि यथोपदेशं यथाभूयिष्ठं च शीलयेत् परिहरेच्च| भुञ्जानस्तु पेयायूषरसाम्लव्यञ्जनानि राजतेषु पात्रेषु निदध्यात्| परिशुष्कप्रदग्धान्युष्णं च पयः सौवर्णेषु| खलकट्वरकाम्बलिकान् कांस्येषु| रागखाण्डवसट्टकान् वज्रवैडूर्यविचित्रेषु| धृतमायसे| पयः सुशीतं ताम्रमये| पानीयं पानकानि च मृद्धेमस्फटिककाचमयेषु| ओदनं च विस्तीर्णे मनोरमे विमलेऽन्यतमे स्थाले| अन्यथा हि वर्णगन्धरसान्यत्वादहितं स्यात्| अपि च| दक्षिणपार्श्वे भक्ष्यं स्थापयेत्, सव्ये पेयं लेह्यं मुखोद्धर्षणपिण्डीं च, मध्ये भोज्यमिति| यथाग्निसात्म्यं तु प्राग्द्रवमुपशुष्कं वाऽश्नीयात्| प्रागेव तु गुरु स्वादु स्निग्धं च, मध्येऽम्ललवणम्, अन्ते रूक्षं द्रवमितररसयुक्तं च| तत्र मन्दाग्रेर्द्रवोष्णेन समुत्तेजितोष्मणोऽन्यदप्युपयुक्तं सम्यक्पाकमेति| अनुपानं तु सलिलमेव श्रेष्ठम्, सर्वरसयोनित्वात्सर्वभूतसात्म्यत्वाज्जीवनादिगुणयोगाच्च| तच्छीतं दधिमधुगोधूमयवपिष्टमयेषु सर्वेषु च विदाहिषु शरद्ग्रीष्मयोश्च| उष्णं पिष्ठमयेष्वब्येषु च दुर्जरेषु हेमन्तशिशिरयोश्च, द्रवद्रव्यविज्ञानीयं चेक्षेत| क्षीरं शालिषष्टिकयोस्तथोपवासाध्वभाष्यस्त्रीव्यायामक्लिन्नबालवृद्धेषु| मांसरसः शोषादिषु| वाते त्वाम्लानि च| पित्ते शर्करोदकम्| त्रिफ़लोदकं तु सक्षौद्रं श्लेष्मणि, प्रायशश्चाक्षिगलरोगेषु| मस्त्वेव वा दध्नि कूर्चिकाकिलाटयोश्च| मद्यं मांसेषु फ़लाम्लमम्बु वा, आसवांस्च विविधान् विभज्य प्रयोजयेत्| विशेषतस्तु मध्वासवान् ग्राम्येषु, तीक्ष्णान् फलासवान् वन्येषु, न्यग्रोधादिफलासवान् विष्किरेषु, अर्कशेलुशिरीषकपित्थासवान् बिलेशयेषु दिग्धहतेषु च, अम्लकफलासवान् प्रसहेषु, कासेक्षुपद्मबीजशृङ्गाअटकसेरुकमृद्वीकामदिरासवान् क्षौद्रयुक्तं वा शीतमुदकमुदश्विद्वा महामृगेष्वौदकेषु च, सुरां प्रतुदेषु| वर्ज्यं तूर्ध्वजत्रुगदश्वासकासप्रसेकहिध्मास्वरभेदोरःक्षतिभिर्गीतभाष्यप्रसक्तैश्च| तेषां हि प्रदूष्यामाशयमुरःकण्ठस्थितमाहारजं स्नेहमासाद्य तदभिष्यन्दाग्निसादच्छर्द्यादीनामयान् विदध्यात्| तेषां-निषिद्धानुपानानाम्| ततः पाणिगतमन्नमन्येनापनीय दन्तान्तरस्थं च शनैः शोधनेन लेपगन्धस्नेहापनोदमाचान्तोऽङ्गुल्यग्रगलिताम्बुपरिषिक्तनेत्रस्ताम्बूलादिकृतवदनवैशद्यो धूमपानादिहृतोर्ध्वकफवेगः पदशतमात्रं गत्वा वामपार्श्वेन संविशेत्| द्रवोत्तरभोजनास्तु सुखशय्यां नातिसेवेत| आहारपरिणामकराः पुनरिमे भावाः| तद्यथा,-ऊष्मा वायुः क्लेदः स्नेहः कालः समयोगश्च| तत्रोष्मा पचति, वायुरपकर्षति, क्लेदः शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, कालः सर्ववपुर्व्यात्पिमभिनिर्वर्तयति, समयोगस्त्वेषां परिणमधातुसाम्यकरः सम्पद्यते| समयोगस्य पुनः कारणान्युचितो हितश्च देहसंस्कारोऽभ्यवहारश्चेष्टा शयनं सौमनस्यं च| परिणामतस्त्वाहारगुणाः शरीरजगुणभावमापद्यन्ते यथास्वमविरुद्धाः| विरुद्धास्तु विहिताश्च विरोधिभिर्विहन्युः शरीरमिति| भवन्ति चात्र| औकुलाभ्योषपृथुकान् सिपिष्टकृततन्दुलान्| न जातु भुक्तवानद्यन्मात्रयाऽद्यात्सुकाङ्क्षितः|| शाकावरान्नकट्वम्लकषायलवणोत्कटम्| त्यजेदेकरसासात्म्यं गुरु शुष्कं च भोजनम्|| वक्ष्यते यन्निदानादौ सर्वदोषप्रकोपणम्| अत्यभिष्यन्दि विष्टम्भि विदाहि हिभरूक्षणम्|| त्यागाद्विषमहेतूनां समानां चोपसेवनात्| विषमा नानुबध्नन्ति जायन्ते धातवः समाः|| मन्दानलबलारोग्यनृपेश्वरसुखात्मसु| योज्यः क्रमोऽयं सततं नावश्यमितरेषु तु|| करोति रूक्षं बलवर्णनाशं त्वग्रूक्षतां वातशकृन्निरोधम्| स्निग्धं त्वतिश्लेष्मचयप्रसेकहृद्गौरवालस्यरुचिप्रणाशान्|| अत्युष्णमन्नं मददाहतृष्णाबलप्रणाशभ्रमरक्तपित्तम्| शीतं तु कासारुचिवह्निनाशहृल्लासविष्टम्भनरोमहर्षान्| अतिस्थिरं मूत्रशकृद्विबन्धमतृप्तिमव्याप्तिशीघ्रपक्तिम्| अतिद्रवं पीनसमेहकासस्यन्दान् करोत्यग्निबलं च हन्ति|| अतिमधुरमनलशमनं भुक्तमसात्म्यं न पिष्टये वपुषः| अतिलवणमचक्षुष्यं तीक्ष्णात्यम्लं जरा साक्षात्|| इति विधिमवलम्ब्य योऽन्नपानं बलमिवविग्रहवत्सदोपयुङ्क्ते| तनुमपि रुजामनाप्य व्रजति नरः स समाशतस्य पारम्||" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| मात्राशीतिप्रकरणं सामस्त्येन निरूपितम्|| ८||