Adhikarana अध्यायोपक्रमः · Śloka
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
श्रीगणेशाय नमः| श्रीसरस्वत्यै नमः| श्रीगुरुभ्यो नमः| अथेदानीं चिकित्सितस्थानस्यारम्भः| तस्य चायं सम्बन्धः| रोगपरीक्षा निदानस्थाने गदिता| साम्प्रतं चिकित्सा वक्तुं युक्ता| तथा च मुनिः (च. सू. अ.२०/२०)- "रोगमादौ परीक्षेत ततोऽनन्तरमोषधम्|" इति| तस्माच्चिकित्सितस्थानारम्भो न्याय्यः| तत्र यथोद्देशो व्याधीनां निदानस्थाने, तेनैव क्रमेणास्य स्थानस्य विरचना युक्तेति ज्वरचिकित्सितमेव विवक्षुराह-
Adhikarana ज्वरचिकित्सिताध्यायः (२) · Śloka २
अथातो ज्वरचिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)|२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इति ह स्माहुरात्रेयादयो महर्षय इत्यनेनागमशरणत्वमात्मनः प्रतिपादयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ चिकित्सास्थानमारभ्यते, निदानस्थानानन्तरत्वात्| तत्रादौ ज्वरचिकित्सा[माह]-अथात इति| व्याख़्या पूर्ववत्| चिकित्सितं-व्याधिप्रतीकारः, तं व्याख़्यास्याम इति|
Adhikarana ज्वरसंप्राप्तिःलङ्घनकारणम् लङ्घनावस्था (१-२) · Śloka २
आमाशयस्थो हत्वाऽग्निं सामो मार्गान् पिधाय यत्|
विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लङ्घनम्||१||
प्रागूपेषु ज्वरादौ वा, बलं यत्नेन पालयन्|
बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आमाशयस्थो दोषो वह्निं हत्वा| सहामेन वर्तत इति सामः| तथ, मार्गान् पिधाय-स्त्रोतांसि स्थगयित्वा, यत्यस्माद्धेतोः, ज्वरं विदधाति, तस्मात्कारणाल्लङनं कुर्वीत| लङ्घनमत्रोपवासः| तथा चोक्तम्| "लङ्घनस्याविशेषोक्तावुपवासं प्रकल्पयेत्|" इति| अत एवायमपि वक्ष्यति (श्लो. १०)- "तस्मादादोषपचनाज्ज्वरितानुपवासयेत्|" इति| कदा लङ्घनं कुर्वीत ? इत्याह-प्रागूपेषु-पूर्वलक्षणेषूत्पन्नमात्रेष्वेव, ज्वरादौ वा-उत्पन्नमात्रे ज्वरे सति| किं कुर्वन् लङ्घनं कुर्वीत ? इत्याह-बलं यत्नेन पालयन्,- प्राणांस्तात्पर्येण रक्षन्, तदविरोधेनेत्यर्थः| ननु, कुत एवं विधीयते ? इत्याह-बलाधिष्ठानमित्यादि| यस्मादारोग्यं-स्वास्थ्यं, बलाधिष्ठानम्| बलमधिष्ठानं-आश्रयो, यस्य तदेवम्| तथा, क्रियाक्रम आरोग्यार्थः-स्वास्थ्यप्रयोजनः|घ्
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लङ्घने विहिते सति यत्स्यात् तदाह-लङ्घनमाह-आमाशयस्थ इति| आमाशयस्थत्वादिचतुष्टयं लङ्घनसाध्यत्वे हेतुः| प्रागूपज्ञानदिने लङ्घनं कार्यम्| तदतिक्रमे [ज्वरादौ] रूपज्ञानदिने|| लङ्घनस्यारोग्यार्थत्वात्, आरोग्यस्य बलाधीनत्वात्, यावन्न बलक्षयस्तावत् [लङ्घनं] कार्यम्| वङ्गसेने तु (ज्वराधिकारे श्लो.१४१)-"ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान्| पाययेत्सर्पिरच्छं तु ततः स लभते सुखम्|| विधिर्मारुतजेष्वेष पैत्तिकेषु विरेचनम्| मृदु प्रच्छर्दनं तद्वत् कफजेषु विधीयते|| सर्वं त्रिदोषजेषूक्तं यथादोषं विकल्पयेत्|" इति| एतच्च प्रकृतिदेशकालादिभिर्दोषस्य ज्ञाने सति ज्ञेयम्, पूर्वरूपेणाज्ञानात्| तत्र च लङ्घनमेवानिषिद्धम्|घ्
Adhikarana लङ्घनफलम् (३) · Śloka ३
लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति|
स्वास्थ्यं क्षुत्तृड् रुचिः पक्तिर्बलमोजश्च जायते||३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लङ्घनैः-उपवासैः, दोषे-पूर्वोक्ते, क्षपिते-क्षयं नीते, तथाऽग्नौ दीप्ते-समिद्धे सति, तथा लाघवेऽङ्गानां सति, स्वास्थ्यादि जायते| स्वास्थ्यं-यथाप्रकृतित्वम्| रुचिः-अन्नाभिलाषः| पक्तिः-पाक आमस्य| बलं-उत्साहः| ओजः-परं धातुतेजः| क्षपिधातुरनुक्तो~पि धातुगणे शिष्टप्रयोगतवशादङ्गीकृतः| लङ्घनैरिति जातौ बहुवचनम्(?)| तेन कदाचिदेकेनैव लङ्घनेन कदाचिदनेकैर्दोषक्षयो जायत इति ज्ञेयम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लङ्घनफलमाह-लङ्घनैरिति| लङ्घनानि द्वादश वमन विरेचनबस्तिनस्यरक्तक्ष्स्रावदीपनपाचनान्नवर्जनोदकवर्जनव्यायामातपमारुतभेदाद्भवन्ति|
Adhikarana ज्वरविशेषे वमनम् (४-५) · Śloka ५
तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चले मले|
सहृल्लासप्रसेकान्नद्वेषकासविषूचिके||४||
सद्योभुक्तस्य सञ्जाते ज्वरे सामे विशेषतः|
वमनं वमनार्हस्य शस्तं|५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तस्मिन्मले, उत्कृष्टे-स्वजन्मगुणकर्मलक्षणतोऽधिके| तथा, कफप्राये-कफबहुले वाताख़्ये पित्ताख़्ये वेति सामर्थ्याद्गम्यते| समुत्क्लिष्टे-स्वस्थानाच्चलिते बहिरेनिर्याते| तथा, चले-शिथिले, उत्क्लिष्टेऽपि हि कदाचित् स्थानावष्टम्भादचलः स्यात्| एतदेव कफोत्क्लिष्टादिकं दर्शयति-सहृल्लासेस्यादि| हृल्लासादीनां द्वन्द्वः| सह तैर्वर्तते यस्तस्मिन्| हृल्लासः-उद्वमनमिवानुभवः| उद्वमनं-हृदयस्य| प्रसेकः-पानीयस्येव निष्ठीवनम्| सद्योभुक्तस्येत्यादि| ईदृशो मले सति सद्यः कृताहारस्य ज्वरे सञ्जाते विशेषेण सामे ज्वरे वमनार्हस्य वमनं शस्तम्| वमनार्हाः-वमनविरेचनविधौ प्रोक्ताः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ज्वरविशेषे वमनमाह-तत्रोत्कृष्ट इति| उत्कृष्टदोषादिष्वेकादशेषु ज्वरेषु वमनं शस्तम्| तथाऽपि सामे विशेषेण| उत्कृष्टः-अतिप्रभूतः| समुत्क्लिष्टो-बहिर्निर्जिगमिषुः| कफप्रायः-श्लेष्मबहुलः| चलः-चञ्चलः|
Adhikarana अन्यथावमने दोषः (५-६) · Śloka ६
|
कुर्यात्तदन्यथा||५||
श्वासातीसारसम्मोहहृद्गोगविषमज्वरान्|
|६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अन्यथा-उक्तविधिविपर्ययेण, तत्-वमनं कृतं, श्वासादीन् कुर्यात्| तथा,-अनुत्क्लिष्टः कफप्रधानः स्थिरो हृल्लासादिरहितो-विपरीतः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनद्रव्याण्याह-अन्यथावमने दोषमाह-कुर्यात्तदिति|
Adhikarana वमनयोगाः (६-८) · Śloka ८
|
पिप्प्पलीभिर्युतान् गालान् कलिङ्गैर्मधुकेन वा||६||
उष्णाम्भसा समधुना पिबेत्सलवणेन वा|
पटोलनिम्बकर्कोटवेत्रपत्रोदकेन वा||७||
तर्पणेन रसेनेक्षोर्मद्यैः कल्पोदितानि व|
वमनानि प्रयुञ्जीत बलकालविभागवित्||८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गालो-मदनफलम्, अस्य निरपायत्वाच्छ्रेष्ठत्वाच्चपिप्प्पल्यादिद्रव्येभ्योऽनेन सहोपयोगिभ्यो बहूपयोगितया प्रधावविभक्त्या प्रागुपन्यासः| अन्यथा "कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम्|" (हृ. क. अ. ६/२४) इति मदनफलेन पिप्पल्यादीनां च तुल्यं प्रमाणं प्राप्नुयात्| पिप्पलीभिर्युतान् गालानथवा शक्रयवैर्युतानथवा मधुयष्टिकया वा युतानथवोष्णाम्बुना माक्षिकयुतेन वा सह पिबेत्| अथवा पटोलादीनां पत्रोदकेन वा सह पिबेत्| अथवा तर्पणादिभिः पिबेत्| अथवा कल्पोदितानि-वमनकल्पोक्तानि वमनानियोग्यानि प्रयुञ्जीत| बलकालविभागविदिति अस्यां देहबलावस्थायां तथा व्याधिबलावस्थायां चेदं वमनं दातुं योग्यमिति यो विभागं वेत्ति स बलकालविभागवित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनयोगानाह-पिप्पलीभिर्युतानिति| पिप्पलीन्द्रयवयष्टीमधुयुक्तैर्मदनफलैस्त्रयः| समधूष्णोदकसलव णोदकपटोलाद्युदकमदे(न्थे)क्षुरसमद्यैरालोडनार्थे प्रत्येकम्| कल्पोदितानि वा-यथालाभं यथासात्म्यं यथादोषं च प्रयोगार्थमनेकधोपदेशात्| अत एवोक्तं बलकालविभागवित्| एवं सर्वत्र ज्ञेयम्|
Adhikarana अन्नवर्जनम् (९) · Śloka ९
कृतेऽकृते वा वमने ज्वरी कुर्याद्विशोषणम्|
दोषाणां समुदीर्णानां पाचनाय शमाय च||९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वमने योग्यो यो ज्वरी स कृते वमने, अपरस्तु वमनेऽयोग्यः सोऽकृते वमने, विशोषणं-उपवासलक्षणं, कुर्यात्| एवं कृतवमनोऽकृतवमनो वा ज्वरी सर्वथा लङ्ग़नं कुर्यात्| किमर्थम् ? इत्याह-दोषाणां-वातादीनां, समुदीर्णानां-समन्तात्समुत्थानां, पाचनाय-पक्त्यर्थं, शमाय-शान्त्यर्थं च| निरमाणां पुनः समुदीर्णानं शान्त्यर्थमेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्नवर्जनमाह-कृतेऽकृते वेति| कृते वमने वमनयोग्यत्वाभावादकृते वा| अपक्वानां पाचनाय, पक्वानां शमनाय|
Adhikarana अन्नवर्जने युक्तिः (१०) · Śloka १०
दोषेण भस्मनेवाग्नौ छन्नेऽन्नं न विपच्यते|
तस्मादादोषपचनाज्ज्वरितानुपवासयेत्||१०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषेण-आमाख़्येन वातादिना वा सहैकलोलीभूतेन, अग्नौ छन्ने-च्छादिते, अन्नमामाशयस्थं न विपच्यते भस्मनेव| यथा बाह्योऽग्नौ स्थगिते तोयतण्डुलादिकं स्थालीस्थं न विपच्यते, तथैवामाशयस्थमन्नमामेन छन्नेऽगौ न विपच्यते| यतश्चैवं तस्माद्धेतोरामदोषस्य-पूर्वोक्तस्य, पचनं-पाकमवधिं कृत्वा, ज्वरितान्नरानुपवासयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विशेषेण युक्तिमाह-आमेन भस्मनेवेति|
Adhikarana उदकवर्जनम् उष्णाम्बुदोषाः शीताम्बुदोषाः (११-१३) · Śloka १३
तृष्णगल्पाल्पमुष्णम्बु पिबेद्वातकफज्वरे|
तत्कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत्||११||
उदीर्य चाग्निं स्त्रोतांसि मृदूकृत्य विशोधयेत्|
लीनपित्तानिलस्वेदशकृन्मूत्रानुलोमनम्||१२||
निद्राजाड्यारुचिहरं प्राणानामवलम्बनम्|
विपरीतमतः शीतं दोषसङ्ग़ातवर्द्धनम्||१३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-[ तृष्णक्- ] तृष्णावान्नरः, अल्पाल्पं-स्तोकं स्तोकं, वातकफज्वरे उष्णाम्बु पिबेत्| तृष्णगिति " स्वपितृषोर्नजिङ्" इति नजिङ्| अल्पाल्पमिति "प्रकारे गुणवचनस्य" इति द्वित्वम्| तत्-उष्णाम्बु पीतं, कफं-वातस्त्यानं, विलयं नीत्वा-विलीनविग्रहतामापाद्य, तृष्णामाशु निवर्तयेत्, तर्पण स्वभावत्वात्| तथा, अग्निमुदीर्य-समिद्धं कृत्वा, स्रोतांसि विशोधयेत्| किं कृत्वा ? मृदूकृत्य,-तेषां स्रोतसां मार्दवमुत्पाद्य| तथा, लीनानि-अप्रवृत्तस्वरूपाणि छ, तानि पित्तानिलस्वेदशकृन्मूत्राणि च, तेषामनुलोमनं-प्रवर्तनम्| तथा, प्राणानां-जीविताख़्यानां, अवलम्बनम्| तदुष्णं जलमाश्रित्य तथा प्राणाः प्रवर्तन्त इत्यर्थः| अनेन चोष्णाम्बुकर्मकथनव्याजेन वातकफज्वरस्वरूपमपि किञ्चित् प्रकाशयति| यथा,-वातशोषितेन कफेन स्त्यानीभूतेनात्र तृष्णा जायते, तथाऽधिकमग्निमान्द्यम्, स्रोतसामशुद्धत्वम्, तथा लीनानि पित्तादीन्यत्र स्युः, इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उदकवर्जनमाह-तृष्णगल्पाल्पमिति| तच्च न सर्वथा, किञ्चाल्पाल्पमुष्णाम्बु षडङ्गादिशृतं वा| तत्राद्यं वातकफज्वरे, द्वितीयं पित्तज्वरादौ| तृष्णक्-तृषावान्| उष्णाम्बुगुणानाह-तत्कफं विलयं नीत्वेति| लीनानां पित्तादीनामनुलोमनम्| शीताम्बुदोषानाह-विपरीतमतः शीतमिति| दोषसङ्घातः-आमपित्तश्लेष्मरसादिसङ्घातः|
Adhikarana जवरविशेषे उष्णाम्बुनिषेधः (१४-१५) · Śloka १५
उष्णमेवंगुणत्वेऽपि युञ्ज्यान्नैकान्तपित्तले|
उद्रिक्तपित्ते दवथुदाहमोहातिसारिणि||१४||
विषमद्योत्थिते ग्रीष्मे क्षतक्षीणेऽस्रपित्तिनि|
|१५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एवंगुणमप्युष्णाम्बु एकान्तपित्तले-केवलपित्तले ज्वरिणि, वा, न युञ्ज्यादिति| तथा, उद्रिक्तं-अधिकं, पित्तं यस्मिंस्तस्मिंश्च न युञ्ज्यात्| तथ, तदुष्णाम्बु दवथ्वादिमति नरे न युञ्ज्यात्| चक्षुरादिभ्यो यस्तीव्र ऊष्मा प्रवर्तते स दवथुः| सर्वाङ्गीणस्तीव्र ऊष्मा-दाहः| मोहो-भ्रमः| तथा, विषमद्याभ्यामुत्थिते-जाते ज्वरे| तथा, ग्रीष्मकाले| तथा, क्षतश्च क्षीणश्च क्षतक्षीणः, क्षतः-उरःक्षतः, क्षीणो-धात्वपचयवान्, तस्मिंस्तथाभूते नरे न युञ्ज्यात्| तथा,अस्रपित्तनि-रक्तपित्तवति [ नरे, न युञ्जयात् ]|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उष्णाम्बु ज्वरविशेषे निषेधति-उष्णमेवंगुणत्वेऽपीति| एकान्तपित्तले-पित्तज्वरे| उद्रिक्तपित्ते-संसर्गजे सन्निपातजे वा| दवथुः-इन्द्रियसन्निपाद्यः (?)|
Adhikarana निषिद्धोष्णोदकानां षडङ्गादिश्रुतं शीतोदकम् (१५-१६) · Śloka १६
|
घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम्||१५||
शीतं तेभ्यो हितं तोयं पाचनं तृड्ज्वरापहम्|
|१६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेभ्यः-उद्रिक्तपित्तादिभ्यः पिपासितेभ्यो,घनादिसाधितं शीतं तोयं हितम्| पानीयसाधने च तन्त्रान्तरे विधिरुक्तो यथा-"कर्षं गृहीत्वा द्रव्यस्य तोयस्य प्रस्थमावपेत्| अर्धावशेषं तद्भाह्यं तोयपाने त्वयं विधिः||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निषेद्धो [ष्णो] दकानां शीतोदकमाह घनचन्दनेत्यादि| [चन्दनशब्देन रक्तचन्दनं ग्राह्यम्, ] "चन्दने रक्तचन्दनम्" इति वचनात्|
Adhikarana ज्वरे पित्तविरूद्धनिषेधः (१६-१७) · Śloka १७
|
ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना||१६||
तस्मात्पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकम्|
|१७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तं विना ऊष्मा न विद्यते, ज्वरश्चोष्मणा विना नास्ति, सन्तापलक्षणत्वात् ज्वरस्य| यतश्चैवं तस्माद्यानि पित्तस्य विरुद्धान्याहारविहारादीनि तानि सर्वस्मिन् ज्वरे त्यजेत्| पित्ताधिके पुनरधिकं कृत्वा-अतिशयेन, त्यजेत्| पित्ताधिक इत्यत्राधिकग्रहणेनेदं प्रतिपादयति,-सर्वो ज्वरस्त्रिदोषजो भूयसा तु व्यपदेश इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ऊष्मा-सन्तापः| सर्वस्मिन् ज्वरे निषेधः, पित्ताधिके त्वधिकम्| रागप्राप्तस्यायं निषेधो न विधिप्राप्तस्योक्तो(ष्णो)दकादेः|
Adhikarana ज्वरे स्नानादिनिषेधः (१७) · Śloka १७
|
स्नानाभ्यङ्गप्रदेहांश्च परिशेषं च लङ्घनम्||१७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-न केवलं ज्वरे पित्तविरुद्धानि त्यजेत्| यावत् स्नानादींश्च त्यजेत्| स्नानादीनां पित्तहरत्वाशङ्कया सेव्यत्वे प्राप्तेऽचिन्त्यप्रभावत्वात् ज्वरे विरुद्धानीति तत्सेवनं निषेधति| प्रदेहः चन्दनाद्यनुलेपः| परिशेषं च लङ्घनं त्यजेत्, यल्लङ्घनमुपयुक्तमुपवासलक्षणं ततो यदन्यत्तत् परिशेषम्,-शुध्द्याद्येकादशप्रकारं च, तत्त्यजेत्| उपवासलक्षणं तु लङ्घनं नवज्वरे कर्तव्यमेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्नानादीनि ज्वरे निषेधति-स्नानाभ्यङ्गप्रदेहां श्चेति| प्रदेहः-अनुलेपनम्| परिशेषं लङ्घनं-दीपनपाचनादि|
Adhikarana निषेधे युक्तिः (१८-१९) · Śloka १९
अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे|
न पिबेदौषधं तद्धि भूय एवाममावहेत्||१८||
आमाभिभूतकोष्ठस्य क्षीरं विषमहेरिव|
|१९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथाऽजीर्णे सामे तीव्ररुज्यपि शूलघ्नमौषधं न पिबेत्, प्रत्यवायभयात्| तथैव सामे ज्वरे दारुणपीडावति तदानीमामपक्त्यर्थ मुस्तापर्पटकाद्यौषधं क्वाथादिकल्पनाकल्पितं न पिबेत्| हि-यस्मात्, तत्-औषधं पीतं, अस्यामवस्थायामामाभिभूत कोष्ठस्य प्रयुक्तं भूय एवाममावहेत्| अत्र च साम इत्युक्ते बह्वाम इति गम्यते| अल्पे ह्यजीर्णे भेषजमनुज्ञातमेव| तथा चोवाच तन्त्रकारः (हृ.सू.अ.८/१९)-"जीर्णाशने तु भैषज्यं युञ्ज्यात्स्तब्धगुरुदरे| दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च||" इति| तस्मात्सामो बह्वाम इति बोध्यम्| अथात्र दृष्टान्तमाहक्षीरं विषमहेरिव| यथा क्षीरं विषघ्नमप्यभिहितमहीनां तदेव विषं कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निषेधे युक्तिमाह-अजीर्ण इव शूलघ्नमिति| यथा विषघ्नमपि क्षीरं विषाभिभूतकोष्ठे विषवर्धनम्, एव मामग़्नमप्यौषधं आमाभिभूतकोष्ठे आमवर्धनम्| वङ्गसेने तु(?)-"वैयात्याद्यधिकोऽप्यत्र भेदः कर्तुमिहेच्छति| कदा तेनैव कर्तव्यो मेदो नैवान्यथा भवेत्|| कषायं पिप्पलीमूलत्रिवृच्चूर्णावचूर्णिकम्| सामज्वरे कफोरस्के एतत्स्रंसनमुच्यते|| यवक्षारान्वितो यद्वा क्वाथो धान्यपटोलयोः|" इति|
Adhikarana ज्वरविशेषे स्वेदः स्वेदगुणाः (१९-२०) · Śloka २०
|
सोदर्दपीनसश्वासे जङ्घापर्वास्थिशूलिनि||१९||
वातश्लेष्मात्मके स्वेदः प्रशस्तः, स प्रवर्तयेत्|
स्वेदमूत्रशकृद्वातान् कुर्यादग्नेश्च पाटवम्||२०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उदर्दादयः प्रागुक्ताः| उदर्दश्च पीनसश्च श्वासश्च तैः सह वर्तते यो ज्वरस्तस्मिन्| तथा, जङ्घे, च पर्वाणि चास्थीनि छ, तत्र शूलं, तद्विद्यते यस्य तस्मिंश्च| तथा, वातश्लेष्मात्मके वातकफोद्भवे स्वेदः प्रशस्तो-हितः| स आचरितः स्वेदादीन् प्रवर्तयेत्| अग्नेश्च पाटवं-दीप्ततरत्वं, विदध्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ज्वरविशेषे स्वेदमाह-सोदर्दपीनसश्वास इति| "उदर्द उक्तो वक्षोभिष्यन्दोऽन्यैः शीतवेपथुः| शीताम्बुस्पर्शजः शोथो रागकण्डूयुतोऽपरैः||" इत्यायुर्वेदप्रकाशोक्तस्त्रिविधोऽप्युदर्दः| स्वेदगुणानाह-स प्रवर्तयेत्| स्वेदमुत्रेति| स्वेदः स्वेदादीन् प्रवर्तयेत्| सिद्धयोगे तु (ज्वराधिकारे श्लो. १३१)-"ख़र्परभृष्ट [पटस्थितकाञ्जिकसिक्तो हि वालुकास्वेदः| शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन्||"] इति|
Adhikarana स्नेहोक्ताचारविधिपालनम् (२१) · Śloka २१
स्नेहोक्तमाचारविधिं सर्वशश्चानुपलयेत्|
|२१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा, स्नेहोक्तं-स्नेहविध्यध्याये कथितं,चाचारविधिं च सर्वशोऽनुपालयेत्, कुर्यादित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्नेहविध्युक्तं नियममतिदिशति-स्नेहोक्तमिति| स्नेहोक्तमाचारविधिमिति उष्णोदकोपचारीति|
Adhikarana लङ्घनादीनां प्रयोगकालः (२१-२२) · Śloka २२
|
लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः||२१||
मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा|
|२२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स-मलानां-सामानां वातादीनां पृथक्स्थितानां संसर्गस्थितानां सन्निपातस्थितानां च, समर्थ्याल्लङ्घनादयस्तिक्तरसावसानाः पाचनानि स्युः| यथावस्थं-अवस्थानतिक्रमेण| कस्याञ्चिज्ज्वरावस्थायां लङ्घनं-उपवासलक्षणं, मलानां पाचनं स्यात्| कस्याञ्चित् स्वेदनं स्यात्| [कस्याञ्चित् ] कालः षडहाख्यः| कस्याञ्चिद्यवाग्वः-पेयाः| कस्याञ्चित्तिक्तको रसः-तिक्तरसाग्ज्रातद्रव्योपयोगः| एवमवस्थावशात् लङ्घनादयस्तिक्तरसान्ता मलानामेकैकशः पाचनानि स्युः| अथवा क्रमेणैव पाचनानि स्युः, यथा-लङ्घनं स्वेदनं च कृत्वा षडहादूर्ध्वं यवाग्वस्तिक्तको रसः पाचनान्यविपक्वानां मलानां तरुणे ज्वरे स्युः| तत्र "आमाशयस्थः" (श्लो.१) इत्यादिना ग्रन्थेन निर्दिष्टा लङ्घनयोग्यावस्था, "सोदर्दपीनस" (श्लो. १९) इत्यादिना च स्वेदनयोग्यावस्था, "इत्ययं षडहो नेयः" (श्लो. ३८) इत्यादिना च निर्दिष्टा कालयोग्यावस्था, "युक्तं लङ्घितलिङ्गैस्तुतं" (श्लो. २४) इत्यादिना पेयायोग्यावस्था, "उद्रिक्तपित्ते" (श्लो. १४) इत्यादिना च तिक्तरसोपयोगयोग्यावस्था, इति यथावस्थं द्रष्टव्यम्| क्रमस्तु यथा,-वातश्लेष्मके सामे ज्वरे प्रथमं लङ्घनं कुर्वन्नेव स्वेदनं द्वित्रादिदिनलक्षणं च कालं लङ्घितलक्षणयुक्तस्य यवाग्वादिपेयाद्यन्नभुक्तस्यानन्तरं मुस्तापर्पटकादितिक्तरसोपयोगः, इति क्रमार्थः| अस्यविशिष्टविषयेऽपवादमाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लङ्हनादीनां प्रयोगकालमाह-लङ्घनं स्वेदनमिति| लङ्घनं-वमनम्, क्षुत्तृषो कालशब्देन ग्रहणात्| यथावस्थमिति उत्कृष्टदोषाद्यवस्थायां वमनम्, सोदर्दत्वाद्यवस्थायां स्वेद्नम्, सामत्वमात्रावस्थायां कालः, क्षुद्बोधावस्थायां यवागूः, मृदुज्वरत्वाद्यवस्थायां तिक्तको रसः| अनुत्पन्नैतदवस्थे तु ज्वरे क्रमेण लङ्घनादीनि कुर्यात्|ज्वरे "लङ्घनं कुर्वीत" इत्युक्तम्|
Adhikarana ज्वरविषेशे लङ्घननिषेधः (२२-२३) · Śloka २३
|
शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्ग़नम्||२२||
नेष्यते|
|२३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुद्धेन वातेन-आमदोषाद्यदुष्टेन, यो ज्वरः स शुद्धवातज्वरः| क्षयेण-धात्वपचयादिलक्षणेन, यो ज्वरः स क्षयज्वरः| यश्च भूतविषवाय्वग्निसम्प्रहारादिसमुद्भवः स आगन्तुज्वरः| तथा, अतरुणो ज्वरः स जीर्णज्वरः| ते विद्यन्ते येषां त एवंभूताः| तेषु लङ्ग़नं नेष्यते| तेषु तर्हि किं कार्यम् ? इत्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ज्वरविशेषे लङ्ग़नं निषेधति-शुद्धवातक्षयेति| शुद्धवातः-निरामवायुः| क्षयो-राजयक्ष्मा| आगन्तुः-अभिग़ातादिजः| जीर्णः-चिरकालजः|
Adhikarana तत्र बृंहणरूपं शमनम् (२३) · Śloka २३
तेषु हि हितं शमनं यन्न कर्शनम्|
|२३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हि-यस्मात्, तेषु-शुद्धवातादिज्वरेषु, शमनं हितम्| शमनस्य सन्तर्पणापतर्पणरूपेण द्वैविध्यात् किं तच्छमनं तेभ्यो हितम् ? इत्याह-यन्न कर्शनम्, बृंहणमित्यर्थः| यद्येवं तत्स्पष्टमेव बृंहणमित्येतदेव कस्मान्न कृतम् ? किं शमनं यन्न कर्शनमिति पदद्वयोपादानेन ? ब्रूमः| अर्थान्तरद्योतनार्थमेतदुक्तम्| तथा चायमर्थो विशिष्ट उभययोरुपादानेन प्रकाश्यते| यथा-न सर्वसर्विकया यद्बृंहणं शमनं तत्तेभ्यो हितम्| किन्तर्हि ? किञ्चिद्बृहणं शमनं तत्तेभ्यो हितमिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हि-यस्मात्, तेषु शमनं हितम्| किं लङ्ग़नभेदः ? नेत्याह-यन्न कर्शनम्,- बृंहणभेद इत्यर्थः| "बृंहणं शमनं त्वेव वायोः पित्तानिलस्य च|" (हृ.सू.अ. १४१७) इति वचनात्| वैत्राशम्यमात्र(?)निवारकबृंहणलाभार्थं शमनशब्दोक्तिः| वङ्गसेने तु (ज्वराधिकारे श्लो.१६६)-"कार्यं न बाले वृद्धे वा|" इति|
Adhikarana अलङ्घितलक्षणम् (२३-२४) · Śloka २४
|
तत्र सामज्वराकृत्या जानीयादविशोषितम्||२३||
द्विविधोपक्रमज्ञानमवेक्षेत च लङ्घने|
|२४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-[ तत्र- ] तेषु ज्वरेषु, मध्ये, सामज्वरस्याकृत्या लक्षणेन "ज्वरोपद्रवतीक्ष्णत्वं" (हृ. नि. अ. २/५४) इत्यादिना, अविशोषितं-अलङ्घितं, विद्यात्| लङ्घने-लङ्घनलक्षणापेक्षया, द्विविधोपक्रमज्ञानं-द्विविधोपक्रमणीयाध्यायोक्तलक्षणं, चवेक्षेत| तल्लक्षणं-च-"विमलन्द्रियता सर्गो मलानां" (हृ.सू.अ.१४/१७) इत्यादि| "अतिकार्श्य" (हृ,सू.अ. १४/२९) इत्यादिभिरति लङ्घितं च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अलङ्घितलक्षणमाह-तत्र सामज्वराकृत्येति| "ज्वरोपद्रवतीक्ष्णत्वं" इत्यादि सामज्वराकृत्या अलङ्घितलक्षणे सिद्धेऽप्यलङ्घितलक्षणं लक्षणसङ्करे लङ्घितोऽभूदित्येवमर्थः| लङ्घितलक्षणमाह द्विविधोपक्रमे-"विमलेन्द्रियतासर्गः" इत्यादि|
Adhikarana पेयोपचारः पेयोपचारफलम् (२४-२६) · Śloka २६
|
युक्तं लङ्घितलिङ्गैस्तु तं पेयाभिरुपाचरेत्||२४||
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः|
षडहं वा मृदुत्वं वा ज्वरो यावदवाप्नुयात्||२५||
तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः|
|२६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लङ्घितलिङ्गैः-विशोषितलक्षणैः, युक्तं ज्वरितं नरं ज्ञात्वा तं पेयाभिरुपाचरेत्| किम्भूताभिः ? यथास्वौषधसिद्धाभिः| यद्यत्स्वं यथास्वमिति वीप्सायामव्ययीभावः| यथास्वं च तदौषधं च यथास्वौषधम्| वातादेः पृथग्रूपस्य संसृष्टस्य सन्निपतितस्य यद्यस्य योग्यमौषधं तेन सिद्धाभिः-वक्ष्यमाणैः पेयादिद्रव्यैर्यथायथं योग्यैः कृताभिरित्यर्थः| किम्भूताभिः ? मण्डः पूर्वः-प्रधानः, अच्छतया याभ्यस्ताभिरिति समासः| एवं मण्डात् किञ्चिद्धनाः पेयाः कार्या इत्यर्थोऽवतिष्ठते| न तु मण्डः पूर्वः-प्रथमोऽभ्यवहारो, यासां ता मण्डपूर्वा इति व्याख्येयम्| एवं हि व्याख्यायमाने सर्वासां पेयानां मण्डपूर्वाणां ज्वरेऽभ्यवहारः प्राप्नोति| ततश्च (श्लो.२७)-"सृष्टविड्बहुपित्तो वा सशुण्ठीमाक्षिकां हिमां पेयां पिबेत्|" तामपि मण्डपूर्वा पिबेत्, न केवलामिति| एतश्च क्रियमाणं विरुद्धं स्यात्| तथा क्वथितामलकेऽत्यर्थं पित्तशमने क्व मण्डः ? तथा क्व बहुपित्तो ज्वरी वा मण्डः "शृतः पिप्पलीशुण्ठीभ्यां युक्तो लाजाम्बुदाडिमैः|" (च.सू.अ. २७/२५६) इत्येवंस्वरूपः ? पेयायाश्च ज्वरघ्नत्वमुक्तम्| तथा क्षुधिते सम्यग्लङ्घितं ज्ञात्वा मण्डात् किञ्चिद्धनाभिः पेयाभिरसावुपाचरणीयः| तस्य-ज्वरिणः, ताभिः-पेयाभिः, अग्निर्दीप्यते-समिध्यते, समिद्भिः-"एधैः, यथा बाह्यः पावकः| मुनिना चोक्तम् (च.चि.अ.३/१४९)-"ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः| चोक्तम् (च.चि.अ.३/१४९)-"ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः| वातमूत्रपुरीषाणां दोषाणां चानुलोमनाः| स्वेदनाय द्रवोष्णत्वाद्द्रवत्वात्तृट्प्रशान्तये| आहारभावात् प्राणाय सरत्वाल्लाघवाय च|| ज्वरध्यो ज्वरसात्म्यत्वात्तस्मात्पेयाभिरादितः| ज्वरानुपाचरेद्धीमान्" इति| खरनादेनाप्युक्तम्-"पिबेद्च्चां ससिक्थां वा स्वां स्वां पेया नवज्वरे|" इति| कियन्तं कालं ज्वरिणं पेयाभिरुपरेत् ? इत्याह-षडहमित्यादि| पेयाभिर्ज्वरिणं षडहं यावदुपाचरेत्| षण्णामह्नां समाहारः, "तद्धितार्थोत्तरपद" इत्यादिना समासः, "राजाहःसखिभ्यष्टच्" इति टच्, न सङ्ख्यादेः समाहारे" इत्यह्नादेशो यदि शान्तो ज्वरस्तदा दोषदूष्याद्यपेक्षया भक्तयूषादिभिरुपाचरेदिति वाशाब्देन गमयति| मृदुत्वं वेति| अथवा षडहेऽती तेऽपि यावज्ज्वरो मार्दवं गच्छति तावत्पेयाभिरुपाचरेत्| ननु, तर्हि किं षडहं वेत्यनेन ? अत्र केचिदेवमाहुः| षडहादर्वाक्प्रायेण मृदुतायामपि जातायां षडहं यावत् ज्वरिणं पेयाभिरुपाचरेदिति द्योतनार्थं षडहं वेति कृतम्| अपरे तु काल एव बाहुल्येन ज्वरमार्दवस्येति ज्ञापनार्थमिदं कृतमिति मन्यन्ते| ज्वरमार्दवे तु जाते पाचनादियोगः कार्यः| तथा च वक्ष्यति (श्लो.३९)- "ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते| कषायः" इति| अथ ता एव पेया वक्तुमुपक्रमते
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पेयोपचारमाह-युक्तं लङ्घितलिङ्गैरित्यादि| यथास्वौषधसिद्धाभिरिति| षडहं मृदुत्वं वा-यथाऽस्मिन् ज्वरे यदौषधं पाचनं शमनं वा| मण्डपूर्वाभिः-प्रथमदिने मण्डः प्रयुज्यते, द्वितीयदिनादौ प्रयुक्ताभिः| आदितः-आदौ, अन्ते यूषै रसैश्चेत्यर्थः| एतेन प्रथमदिने मण्डः, द्वितीयतृतीयचतुर्थेषु पेयाः-यवागूविलेप्यः, "यवाग्वां च" (श्लो.३७) इति वक्ष्यमाणत्वात्, चकारेण विलेपी, पञ्चमे यूषौदनः, षष्ठे रसौदनः, इति षडहमुपाचरेत्| यूषौदनरसौदनौ युक्त्या हि, "इत्ययं षडहो नेयः" (श्लो.३८) इति वक्ष्यति| ज्वरमृदुत्वाद्यवेक्ष्य यावध्यन्तरे (?) प्रकारान्तरं स्वयमूह्यम्| उक्तोपचारफलमाह-तस्याग्निरिति| तस्य-लङ्घितस्य| ताभिः-मण्डादिरसयूषरसपेयादिभिः|
Adhikarana लाजपेया प्रथमं योज्या अम्लार्थिनः पेया (२६-२७) · Śloka २७
|
प्राग्लाजपेयां सुजरां सशुण्ठीधान्यपिप्पलीम्||२६||
ससैन्धवां, तथाऽम्लार्थी तां पिबेत्सहदाडिमाम्|
|२७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्राक्-पूर्वं सर्वाभ्यः पेयाभ्यो, लाजपेयां पिबेत्, न तु यवादिप्रकृतिजां पेयाम्| कीदृशीम् ? सुजराम्, अल्पजत्वाद्याच्छीघ्रं जरां याति ताम्| तथा, सशुण्ठीधान्यपिप्पलींशुण्ठ्यादिभिः शृतामिति बोध्यम्| अत एव ससैन्धवामिति पृथग् निर्दिष्टम्| अन्यथा सशुण्ठीधान्यपिप्पलीसैन्धवामिति निर्देशं कुर्यात्| मुनिरप्याह (च. चि. अ. ३/१७७)- "लाजपेयां च सुजरां पिप्पलीनागरैः शृताम्" इत्यादि| ससैन्धवामित्यत्र सशब्दस्येषत्पर्यायत्वात् अल्पसैन्धवामितिबोध्यम्| तथा, अम्लार्थी-यो ज्वर्यम्ल प्रार्थयते सः, तां-पूर्वोक्तां पेयां, सहदाडिमां पिबेत्| पूर्वस्याः पेयायाः सदाडिमत्वमेवास्या विशेषः| "वोपसर्जनस्य" इति सहशब्दस्य सभावः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पेयासु प्रथमं लाजपेया योजेत्याह-प्राग्लाजपेयामिति| सुजरां-सुक्वथिताम्| क्वथनं च शुण्ठ्यादिक्वाथेन| क्वाथश्च षडङ्गवत्साध्यः| सलवणत्वं तु पश्चात्, "कषाययोनयः पञ्च रसा लवणवर्जिताः|" (हृ. क. अ. ६/८) इति वचनात्| "चतुर्दशगुणे पेया" इति वचनात् लाजाश्चतुर्दशगुणे क्वाथे क्वथनीयाः| अस्या एव पेयायाः मण्डः प्रथमदिने पेयः| उक्तं हि सिद्धयोगे (ज्वराधिकारे श्लो. १५९) "शस्तं सुलङ्घितस्यादौ विधाय कवलग्रहम्| लाजसक्तुकपथ्यं स्यात्सैन्धवेनावचूर्णितम्|| रक्तपित्तहितत्वेन दाहज्वरहृतेस्तथा| सक्तवः शीतवीर्याः स्युर्लाजपूर्वा हिता न ते|| पाचनो दीपनो लाजमण्डस्तेनोष्ण इष्यते| अतोऽयं दशमूलादिसाधितो भिषजां मतः|| तच्चेज्जीर्यत्यविघ्नेन ज्वरी जीवेत्तदाध्रुवम्|" इति| यत् "वाते वातकफे पित्ते सामवातरुजाज्वरे| वाठ्यमण्डं प्रशंसन्ति पटोलमगधान्वितम्||" इति| तद्बद्धमलविषयम्| भृष्टः शकलीकृतो यवो-वाठ्यः| अम्लार्थिनः पेयामाह-तथाऽम्लार्थीति| तां-लाजपेयाम्| तथा-तद्वत्साधिताम्| सहदाडिमां-शुण्ठ्यादिषु दाडिमं प्रदेयम्|
Adhikarana शिथिलमलपित्तोत्तरयो पेया (२७) · Śloka २७
|
सृष्टविड् बहुपित्तो वा सशुण्ठीमाक्षिकां हिमाम्||२७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिबेदित्यनुवर्तते| सृष्टविट्-भिन्नवर्चा ज्वरी, बहुपित्तो वा सशुण्ठीमाक्षिकां हिमां पेयां पिबेत्, नोष्णां नान्यथा यो ज्वरी| धान्यपिप्पल्यावत्रापास्ये, शुण्ठीग्रहणात्| अत्र च शुण्ठ्या द्रव्येभ्योऽसंयोगान्मधुरपाकत्वादग्निमान्द्योत्सारणोपक्षीणशक्तित्वाद् युक्तः पित्ते प्रयोगः| एवमन्यत्रापि शुण्ठ्याः प्रयोगे चिन्त्यम्| सैन्धवं तु तावन्मात्रं सर्वत्राविरुद्धमेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिथिलमलपित्तोत्तरयोः पेयामाह-सृष्टविडिति| हिमायां माक्षिकप्रक्षेपः, किञ्चिन्माधुर्यं यथा स्यात्|
Adhikarana बस्त्यादिशूलिनः (२८) · Śloka २८
बस्तिपार्श्वशिरःशूली व्याघ्रीगोक्षुरसाधिताम्|
|२८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बस्त्यादिशूली व्याघ्रीगोक्षुरसाधितां पेयां पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बस्त्यादिशूलिनः पेयामाह-बस्तिपार्श्वशिरः-शूलीति|
Adhikarana ज्वरातिसारिणः पेया (२८-२९) · Śloka २९
|
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः||२८||
सिद्धां ज्वरातिसार्यम्लां पेयां दीपनपाचनीम्|
|२९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-पृश्निपर्ण्यादिसाधितां पेयां दीपनपाचनीं ज्वराति सारवान् अम्लां पिबेत्| दीपनी चासौ पाचनी चेति पुंवत्कर्मधारयेति पुंवद्भावः| अत्राम्लग्रहणं न कर्तव्यम्| यतः सर्वत्रपेयाप्रसङ्गेऽम्लार्थी यो ज्वरी स सदाडिमां पेयां पिबेदित्युक्तम्| तस्मात्किमनेन ? ब्रूमः| अम्लाभिलाषी भवतु वा मा भवतु| तथाऽप्यम्लामेव ज्वरातिसारी पिबेदित्यस्यार्थस्य द्योतनार्थमम्लामित्युक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ज्वरातिसारिणः पेयामाह-पृश्निपर्णीति| अम्लां-दाडिमोपेताम्|
Adhikarana हिध्मादियुक्तस्य पेया (२९) · Śloka २९
|
ह्रस्वेन पञ्चमूलेन हिक्कारुक्श्वासकासवान्||२९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिबेत्सिद्धामित्यत्रानुवर्तते| ह्रस्वेन-बृहत्यादिना, पञ्चमूलेन सिद्धां पेयां हिध्मादिवान् पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-हिध्मादियुक्तस्य पेयामाह हृस्वेन पञ्चमूलेनेति| हृस्वेन-बृहत्यादिना| रुक्-शूलम्|
Adhikarana कफार्तस्य पेया (३०-३१) · Śloka ३१
पञ्चमूलेन महता कफार्तो यवसाधितम्|
विबद्धवर्छाः सयवां पिप्पल्यामलकैः कृताम्||३०||
यवागूं सर्पिषा भृष्टां मलदोषानुलोमनीम्|
|३१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स-कफार्तो नरो बिल्वादिना-महता, पञ्चमूलेन सह यवसाधितां पिबेत्| तण्डुला एवात्र प्रकृतित्वेन योज्याः| यवास्तुक्वाथ एव| विबद्धं-विष्टब्धं, वर्चः-पुरीषं, यस्य-नरस्य, स नरः सयवां-यवप्रधानां पिबेत्| किम्भूताम् ? पिप्पल्यामलकैः कृताम्| तथा, सर्पिषा भृष्टां-सम्यगाज्येन संस्कृताम्| तथा, मलः-पुरीषादिः, दोषो-वातादिः, तेषामनुलोमनीं-स्वमार्गप्रवर्तिनीम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कफार्तस्य पेयामाह-पञ्चमूलेन महतेति| यवरूपेयं सर्पिषा भृष्टा यावन्निरध(न्निर्धूम)त्वं तावत्सर्पिः सन्ताप्य तन्मध्ये प्रक्षिप्ताम्|
Adhikarana विबद्धशूलयुक्तस्य पेया (३१-३२) · Śloka ३२
|
चविकापिप्पलीमूलद्राक्षामलकनागरैः||३१||
कोष्ठे विबद्धे सरुजि|
|३२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कोष्ठे विबद्धे-विबद्धदोषाधिष्ठाने, तथा सरुजि चविकादिभिः साधितां पेयां पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० विबाद्धशूलयुक्तस्य पेयामाह-चविकापिप्पलीति|
Adhikarana परिकर्तिनः पेया (३२) · Śloka ३२
पिबेत्तु परिकर्तिनि|
कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृताम्||३२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तुः पुनरर्थे| परिकर्तनं-परिकर्तिका छेदनमिवानुभवः, स यस्यास्ति स परिकर्ती कोष्ठः, तस्मिन्परिकर्तिनि तु कोष्ठे, कोलादिभिः साधितां पेयां पिबेत्| श्रीफलं-बिल्वफलम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-परिकर्तिनः पेयामाह-पिबेत्त्विति| कोलं बदरम्| कलशी-पृष्णिपर्णी| श्रीः-बिल्वः|
Adhikarana अस्वेदनिद्रातृष्णार्तस्य पेया (३३-३४) · Śloka ३४
अस्वेदनिद्रस्तृष्णार्तः सितामलकनागरैः|
सिताबदरमृद्वीकासारिवामुस्तचन्दनैः||३३||
तृष्णाछ्छर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुताम्|
|३४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्वेदनिद्रो नरस्तृष्णार्तश्च सितादिभिः साधितां पेयां पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अस्वेदनिद्रातृष्णार्तस्य पेयामाह-अस्वेदनिद्रातृष्णार्त इति| सिता-शर्करा, सा च मधुवद्योज्या| सङ्ग्रहे (चि.अ. १)-"सिताधात्र्याज्यनागरैः" इति पाठः| तेन सर्पैर्भृष्टाः कार्याः| परीवारः-उपद्रवः|
Adhikarana पेयौषधैरेवरसयूषादिकानपि कुर्यात् (३४) · Śloka ३४
|
कुर्यात्पेयौषधैरेव रसयूषादिकानपि||३४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-पेयोद्दिष्टैरेवौषधैर्मांसरसादयोऽपि यथोपयोगं कर्तव्याः| [ तथा च सङ्ग्रहेऽध्यगीष्ट-(चि. अ. १)-"कुर्यात् पेयौषधरेव रसयूषादिकानपि|" ] रसोऽत्र मांसरसः| यूषाः-मुद्गादिसम्बन्धिनः क्वाथाः| आदिग्रहणात् पानियमस्तुतक्रव्यञ्जनादयो गृह्यन्ते| पेयादिषु च द्रव्यपरिमाणादिकं पूर्वोक्तं सूपशास्त्रादिभ्यो वाऽवगन्तव्यम्| तथा च तन्त्रान्तरे-"पेयायूषरसाद्येषु रसालापानकादिषु| द्रव्यमात्रां प्रयुञ्जीत लोकसिद्धां यथार्हतः||" इति|| यस्य पुंसो यत्परिमाणैर्द्रव्यैर्मात्रा योग्या तस्य तत्परिमाणैर्द्रव्यैरेव पेयादयः कार्या इत्यर्थः| अन्ये त्वेवं मन्यन्ते,-पेयायूषरसाद्येषु द्रव्यपरिमाणमल्पमेव कल्पयितव्यम्| पानार्थे च यद्द्रव्यैः सधितं तोयमुक्तं तदल्पपरिमाणद्रव्यैरेव सधनीयम्| अल्पपरिमाणेनैव द्रव्येण तत्तोयं सम्यक् पाच्यते| तथा च खारणादिरपाठीत्-"बहुद्रव्यो घनः क्वाथः स्वच्छमल्पौषधं जलम्|" इति| श्रपणक्रियासामान्येऽप्यस्योभयस्य पृथक्संज्ञाविनिर्देशो द्रव्यपरिमाणभेदादयं क्वाथ इदं जलमिति| ज्वरिणां च प्रथमं यथाऽच पेया देयास्तथा यूषरसा अप्यच्छा एव देयाः, अग्निमान्द्यभयात्| क्वाथोऽप्यत एव बहुपरिमाणद्रव्यसाध्यत्वाद्धनतया तिक्तरसद्रव्यकृतोऽपि प्रथमं ज्वरे निषिद्धः| किं सर्वत्र ज्वरे सर्वाः सर्वदा सर्वस्मिन्देशे पेया देया न ? इत्याशङ्क्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पेयौषधैरेव रसयूषादिकानपि कुर्यादित्वाह-कुर्यादिति|
Adhikarana ज्वरविशेषे पेयानिषेधः (३५-३६) · Śloka ३६
मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे|
ग्रीष्मे तयोर्वाऽधिकयोस्तृट्छर्दिर्दाहपीडिते||३५||
ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति|
|३६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मद्योद्भव इत्यादिष्वर्थेषु पेयां नेच्छन्ति, मुनय इति शेषः| मद्येनोद्भवो यस्य तस्मिन् मद्योद्भवे ज्वरे, तथा मद्यनित्ये पुरुषे, तथा कफे पित्तस्थानगते सति, तथा ग्रीष्मकाले, तथा तयोर्वाऽधिकयोः, तयोरिति पित्तकफौ परामृश्येते, पित्तकफयोश्चाधिकयोः, पित्तस्थानगते कफ इत्यस्तयोरेव प्रकृतत्वात्, तथा तृट्छर्दिर्दाहैः समुदितैः पीडिते पुरुषे यो ज्वरस्तस्मिंश्च, प्रत्येकं तु तृडार्तेऽनुज्ञातैव, आस्वेदनिद्रस्तृष्णात्र्त इत्युक्तेः, दाहार्तेऽपि सृष्टविड्बहुपित्तो वेत्याह, तथा यस्योर्ध्वं प्रवृत्ते रक्ते ज्वरस्तस्मिंश्च पेयां नेच्छन्ति| तेषु तर्हि किं कार्यम् ? इत्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ज्वरविशेषे पेयां निषेधति-मद्योद्भव इति| मद्यनित्ये पुरुषे| तयोः-पित्तकफयोरधिकयोर्वा|
Adhikarana निषिद्धपेयस्य तर्पणम् (३६-३७) · Śloka ३७
तेषु तु|
ज्वरापहैः फलरसैरद्भिर्वा लाजतर्पणान्||३६||
पिबेत्सशर्कराक्षौद्रान्|
|३७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेषु पुनर्विषयभूतेषु लाजतर्पणान्-लाजसक्तून्, पिबेत्,-पेयावसरे न तु यवसक्तून् पिबेत्| ज्वरापहैः फलरसैःद्राक्षादीनां ज्वरघ्नानां फलानां रसैः-स्वरसैः, अथवा तद्रसैःक्वाथैः| अथवा, अद्भिः-जलैः, क्वथितशीतलैरित्यर्थाद्गम्यते| किम्भूतान् लाजतर्पणान् ? सशर्कराक्षौद्रान्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निषिद्धपेयस्य तर्पणमाह-तेषु त्विति| लाजतर्पणं-लाजचूर्णकृतमर्थम्| सङ्ग्रहे तु (चि.अ. १)-"द्राक्षादाडिमकाश्मर्यपथ्यापीलुपरुषकैः| ज्वरघ्नैस्तोयमृदितैरद्भिर्वा लाजतर्पणान्| पिबेत्सुसूक्ष्मरजसः" इति| तत्र तर्पणशब्देन सक्त्वः| ते च लाजानाम्|
Adhikarana ततो यूषौदननरसौदनौ (३७-३८) · Śloka ३८
ततो जीर्णे तु तर्पणे|
यवाग्वां वौदनं क्षुद्वानश्नीयाद्भृष्टतण्डुलम्||३७||
दकलावणिकैर्यूषै रसैर्वा मुद्गलावजैः|
|३८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ततः-तर्पणपानादनन्तरं, जीर्णे तर्पणे, यवाग्वां वेति यवागूपानार्हे नरे यवाग्वां जीर्णायां, क्षुद्वान् पुरुषो-जातबुभुक्षः सन्, द्वितीयेऽन्नकाल ओदनमश्नीयात्-भुञ्जीत| किम्भूतम् ? भृष्टास्तण्डुला यस्मिन्| किं केवलमोदनं भुञ्जीत ? नेत्याह-दकेत्यादि| दकलावणिकैः-कुलत्थादीनां सम्बन्धिभिर्यूषः-क्वाथैः, ओदनमद्यात्| अथवा, अवस्थावशात् मुद्गलावजैरोदनमद्यात्| मुद्गलावजरसैरिति वक्तव्ये रसैरिति पृथङ्निर्देशो लावजरसानां प्राधान्यज्ञापनार्थम्| तथा लावजरसाः संस्कार्याः संस्कारकाश्च मुद्गाः, अत एव बहुमात्राणां लावानामल्पानां च मुद्गानामत्रोपयोगः कार्य इत्यवतिष्ठते| "नातिमां सास्तनुरसा दकलावणिकाः स्मृताः|" इति केचिदाहुः| अन्येत्वाचक्षते,-"अल्पमांसपटुस्नेहा दकलावणिकाः स्मृताः|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यूषोदनरसौदनावाह-ततो जीर्णे त्विति| यस्य तर्पणमुक्तं तस्य तर्पणे जीर्णे, यस्य यवागूरुक्ता तस्य यवाग्वां जीर्णायां, ओदनमश्नीयात्| जीर्णत्वमपि विकारः पाकः| स च दिनत्रयेण जायते| त्रिदिनं तर्पणं यवागूं वा भुक्त्वा ततो यूषौदनं ततो रसौदनं भुञ्जीतेत्यर्थः| मुद्गजैर्यूषै रसैः| लावजैर्दकलावणिकैः| दकं-उदकम्, तेन लवणेन च संस्कृतैः, अकृतैरित्यर्थः| वाशब्दादमुद्गलावजैरपि यथा सात्म्यं धान्यान्तरमांसान्तरजैः| यूषैर्वा रसैर्वेति व्याख्याने मुद्गलावजैरिति विशेषणं न घटते, क्रमाभावात्|
Adhikarana मण्डाद्युपचारस्योपसंहारः (३८) · Śloka ३८
|
इत्ययं षडहो नेयो बलं दोषं च रक्षता||३८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इति-पूर्वोक्तेन प्रकारेण, प्रथमो ज्वरस्य षडहो नेयः अतिवाह्यः, नान्यो ज्वरस्य सम्बन्धी, इत्ययमिति निर्देशाल्लभ्यते- किं कुर्वता भिषजा षडहो नेयः ? बलं रक्षता, तथा दोषं तत्काले सामं वाताद्यन्यतमं पृथक् संसृष्टं सन्निपतितं वा तज्ज्वरकारणं रक्षता,-तत्र तद्रक्षां कुर्वता, यथाऽसौ दोषः कृच्छ्रसाध्यतामसाध्यतां वा न याति| अत्र च यदि किल बलरक्षार्थं सन्तर्पणं क्रियते तदा सन्तर्पणस्यामवृद्धिहेतुत्वात् सामो दोषो वर्धेत, अथामदोषक्षपणार्थमपतर्पणं कुर्वीत तदा बलहानिः स्यात्, तस्मान्मध्यमया वृत्त्याऽवहितेन वैद्येनोभयं रक्षतोपक्रमः कार्यः, नात्रावहेला कार्येत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मण्डाद्युपचारमुपसंहरति-इत्ययं षडहो नेय इति|
Adhikarana ततः कषायः (३९) · Śloka ३९
ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते|
कषायो दोषशेषस्य पाचनः शमनोऽथवा||३९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-लङ्घनाद्यैः-तिक्तसावसानैस्तत्कालोचितैर्ज्वरकारिसाममलपक्तॄहेतुभिः, पक्वेषु दोषेषु ततः-षडहादूर्ध्वं, कषायः प्रशस्यते| मुस्तापर्पटकादिः पाचनः, प्राधान्येन पाचनसंज्ञया विहितत्वात्| तथा वक्ष्यमाणः कलिङ्गकादिरर्घश्लोकसमापनः (श्लो. ४८) पञ्चप्रकारः शमनः प्रशस्यते, प्राधान्येन शमनसंज्ञया विहितत्वात्| तथा छाध्येष्यते तन्त्रकृत् (श्लो. ५१) "पञ्चैते सन्ततादीनां पञ्चानां शमना मताः|" इति| तदेतदुभयं-पाचनशब्दश्रुत्याक्षिप्तो मुस्तापपर्टकादिः शमनश्रुत्याक्षिप्तः कलिङ्गकादिः, कषायः-क्वाथः, प्रशस्यते| कस्य पाचनः ? इत्याह-दोषशेषस्य| अत एव पक्वेषु दोषेषु लङ्घनाद्यैरित्यल्पपक्वेषु पक्वप्रायेष्वीषदामेषु दोषेष्विति बोध्यम्| अन्यथा पक्वस्य पाचनमयुक्तमिव स्यात्, पिष्टपेषणन्यायेनानर्थकत्वात्| तथा चापक्वं यद्वस्तुजातं तदग्निः पछति, पहन्तमग्निः पाचनः पाचयात| एवं च पाक्याभावात् किमग्निः पचतु ? किं वा कषायः पाचयतु ? इत्यनुपपन्नमिवैतत्स्यात्| यदा पुनर्मुस्तापर्पटकादिः कलिङ्गादिरन्यो वा कश्चित् कषायस्तिक्ताद्यन्यतमो वातादिदोषज्वरशान्त्यर्थं प्रयुज्यते तदा पाचनो भवन्नपि शमनसंज्ञः, न पाचनसंज्ञः| ननु, प्रथम एव दिने तिक्तरसकषायमनुजज्ञे तन्त्रकृत्| तथा चोवाछ (श्लो. १५)- "घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम्| शीतं तेभ्यो हितं तोयं पाचनं तृड्ज्वरापहम्||" इति| तत्कथमेतत् ? अत्रोच्यते| ज्वरिणः प्रसक्ततृषोऽवश्यं पानं किञ्चिद्वितरणीयम्| न च (पाने) मद्येक्षुरसदधिमस्त्वारनालक्षीरादीनामत्र योग्यत्वेऽपि ज्वरस्यैवं विधानि निषद्धानि तन्त्रकृद्भिः, शिशिरजलमप्यामदोषस्रोतःसंरोधाग्निसादादीनावहेत् ज्वरं गाढतरं कुर्यात्| तस्मात् पानार्थे तिक्तसाधितमुक्तमम्ब्वनुमेने| द्रव्याणि चात्र स्वल्पमात्रयैव योज्या नीत्यनन्तरमेव प्रत्यपादि| किञ्च ज्वरितस्तृषतो जलं बहौषधं पातुमपि न क्षमेत| किञ्च कतिपयान्येव घनादीनि जलसंस्कारेण पातुमनुमतानि, न सकलान्यपि तिक्तान्यनुमतानि| किंतर्हि ? विशिष्टप्रभावं दर्शयन्ति घनादीन्येव| विशिष्टप्रभावत्वं चान्यत्रापि द्रव्याणां दृष्टम्| यथा-शमीफलं मधुरमपि केशघ्नम्, तथाऽम्लमप्यामलकं पित्तकफघ्नम्, सैन्धवं लवणमपि चक्षुष्यम्, इत्याद्यन्यदप्यूह्यम्| तस्मात् घनादीनां पानीयसंस्कारोपयोगो नवज्वरेऽपि हितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-औषधमाह-ततः पक्वेष्विति| ततः-षडहात्परम्| कषायः-स्वरसादिः अपक्वदोषशङ्कायां पाचनः, तदभावे शमनः| वृद्धिजशनम्(?)| पक्वेषु दोषेष्विति दिनसङ्ख़्यानादरार्थम्| तदुक्तिस्तु क्रमकथनार्थम्|
Adhikarana दोषविशेषे कषायविशेषः (४०) · Śloka ४०
तिक्तः पित्ते विशेषेण प्रयोज्यः, कटुकः कफे|
|४०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कषाय इति वर्तते| ज्वरस्य प्रकृतत्वात् पित्ते-पित्तज्वरे, तिक्तकषायकल्पनाप्रकारः प्रयोज्यः| तिक्तः पित्ते विशेषेणेत्यतो विशेषनिर्देशादन्यदोषोत्थेऽपि ज्वरे तिक्तरसाधिष्ठितो द्रव्यकषायो यथावस्थं प्रयोज्यः, न केवलं पित्तज्वराख्ये, व्याधिदोषघ्नत्वात्| तथा तिक्तो रसो निसर्गत एव ज्वरघ्नः शास्त्रेऽस्मिन्पठितः| यथा (हृ. सू. अ. १०/१४)- "तिक्तः स्वयमरोचिष्णुररुचिं कृमितृड्विषम्| कूष्ठमूर्च्छाज्वरोत्क्लेददाहपित्तकफान् जयेत्||" इति| मुनिरप्यवोचत् (छ. सू. अ. २६४३)- "तिक्तो रसः स्वयमरोछिष्णुररोछकघ्नो विषघ्नः क्रिमिघ्नो मूर्च्छादाहप्रशमनस्तृष्णाप्रशमनस्त्वङ्मांसयोः स्थिरीकरणो ज्वरघ्नः" इत्यादि| तस्माद्रसेषु यथा तिक्तरसस्य ज्वरघ्नत्वं तथा नान्येषां रसानामित्यवेहि| गुडूछ्यादेश्च द्रव्यस्य तिक्तरसत्वादेव ज्वरघ्नत्वस्य प्रतिपादितत्वात् पुनर्यज्ज्वरघ्नत्वमुक्तं तछ्छक्त्युत्कर्षायेति बोध्यम्| गुडूछ्याश्च मुनि(?)गुणानाह| यथा (सङ्ग्रहे अ. १२)- "तिक्ताऽमृता त्रिदोषघ्नी ग्राहिण्युष्णा रसायनी| दीपनी ज्वर तृड्दाहकामलावातरग्क्तनुत्||" इति| एवमन्येषामपि द्रव्याणामाधेयसामर्थ्याद्युत्कर्षसिद्धमपि यत् पुनरुछ्यते, तत्तेषां तस्य कर्मणः शक्त्युत्कर्षार्थं बोध्यम्| कटुक इत्यादि| कटुकरसाधिष्ठितो ज्वरघ्नद्रव्यविशेषजः क्वाथः कफे-कफज्वरे प्रयोज्यः, न तु यः कश्छित्कटुकद्रव्यकषायः, सर्वस्य ज्वरघ्नत्वानुपपत्तेः| यस्माद्द्रव्यप्रभावाद्विशिष्टमेव कटुरसाधिष्ठितं किमपि यद् द्रव्यं तज्जवरघ्नमिति मन्तव्यम्| एतदेव तस्माछ्छायं ग्रन्थकृत् "कफे कटुको योज्यः" इति जगाद|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यस्मिन् दोषे यः कषायस्तमाह-तिक्तः पित्त इति| विशेषेणेति वचनात् कफेऽपि, न तु वाते, विरुद्धत्वात्|
Adhikarana कषायकषायस्य निषेधः निषेधातिक्रमे दोषः (४०-४१) · Śloka ४१
|
पित्तश्लेष्महरत्वेऽपि कषायः स न शस्यते||४०||
नवज्वरे, मलस्तम्भात्कषायो विषमज्वरम्|
कुरुतेऽरुचिहृल्लासहिध्माध्मानादिकानपि||४१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कषायः-कषायरसाधिष्ठितद्रव्यजः कषायः, स पित्तश्लेष्महरत्वेऽपि नवज्वरे,-तरुणज्वरे, न शस्यते| कुतः ? इत्याह-मलेत्यादि| कषायो ह्यत्र योजितो मलस्तम्भात्कारणात् विषमज्वरं-सततादिकं, कुरुते| कषायस्तम्भिता हि मलाः कोष्ठमप्रतिपन्नत्वात् सम्यक्पाकमयान्तः सन्धिस्तोतोलीनाः कषायपानविहितवेगा अशक्तत्वाद्विषममेव ज्वरं कुर्वन्ति| यदि हि तेषां कषायदानेन शक्तिहानिर्न कृता स्यात् तदा सन्ततमेव ज्वरं कुर्युः| तस्मात् स्वल्पत्वात् सततादिकं विषमज्वरं कर्तुमेषां युक्तम्| ननु, पित्तश्लेष्महरत्वेपीत्यनर्थम्| यतः "कषायः पित्तकफहा" (हृ.सू.अ.१०१२०) इति पूर्वमुक्तम्| अस्त्येवैतत्| अर्थविशेषज्ञापनार्थं तु पुनरुक्तम्| नवज्वरे-एकदोषजे सन्निपातजे वातकफजे वातपित्तजे, केवलं कषायो न शस्तोऽपि तु पित्तश्लेष्मज्वरेऽपि न शस्तः, तस्मात् पित्तकफजेऽपि ज्वरे नायं योज्य इत्यर्थः| तथा, कषायोऽयं योजितो न केवलं विषमज्वरं करोति, यावदरुच्यादीश्च करोति| अत्रापि मलस्तम्भादिति सम्बध्यते| तेन यद्यप्यादिशब्देनानियतरुपाणामनेकानाव्याधीनां ग्रहणं प्राप्तम्, तथाऽपि मलस्तम्भाद्ये व्याधय उत्पद्यन्तेऽरुच्यादिरूपास्तेषामेवेह ग्रहणार्थमेवं सम्बन्धः कृतः| तथा, विषमज्वरारुचिहृल्लासहिध्माध्मानादिकानपीत्येकविभक्त्यैव निर्देशः कर्तुं व्यवच्छद्य पृथङ्क्निर्देशो यः कृतस्तेनेदं द्योत्यते,-कषायः प्रयोजितोऽवश्यमेव विषमज्वरं कुरुते, अरुच्यादीन् पुनर्नावश्यं कुरुते, इति| तदेवं कषायो रसविशेषो मलस्तम्भादेव नवज्वरे निषिध्यते, न तु कल्पनावशात्| तथा च मुनिः (च. चि. अ. ३११६०)- "यः कषायः कषायस्तु स वर्ज्यस्तरुणे ज्वरे| न तु कल्पनमुद्दिश्य कषायः प्रतिषिध्यते||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कषायं ज्वरे निषेधति-पित्तश्लेष्महरत्वेऽपीति| कषायः-कषायरसस्य कषायः| निषेधातिक्रमे दोषमाह-मलस्तम्भादिति| सङ्ग्रहे तु (चि.अ. १)-"न च्यवन्ते न पच्यन्ते कषायस्तम्भिता मलाः| तिर्यग्गता विमार्गा वा वर्द्धयन्त्यपि च ज्वरम्|| वह्वामकफवातत्वाच्छूलानाहादिकानपि|" इति|
Adhikarana उक्तौषधकालस्य मतान्तरेण निराकरणम् (४२) · Śloka ४२
सप्ताहादौषधं केचिदाहुरन्ये दशाहतः|
केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्बणे न तु||४२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सप्ताहादनन्तरमष्टमेऽह्नयौषधं-ज्वरघ्नं यथायोग्यं शृतादिकल्पनया कल्पितं, योज्यमिति किचिदेवाचार्या आहुः| अन्ये तु दशाहादूर्ध्वमौषधं-मुस्तापर्पटकादिकं, योज्यमाहुः| केचिदाचार्या लघ्वन्नभुक्तस्य नरस्यौषधं योज्यमित्याहुः| लघ्वन्नशब्देन पेयादिकं भण्यते, ओदनतस्तस्य लग़ुत्वोक्तेः| लघ्वन्नं भुक्तं येनासौ लघ्वन्नभुक्तः| आहिताग्न्यादित्वान्निष्ठान्तस्य परनिपातः| "परमतमप्रतिषिद्धमनुमतमेव" इति सर्वमेतत् प्रमाणम्, अवस्थावशेन प्रयोगार्हत्वात्| आमोल्बणे तु न-आमाधिकज्वरिणि पुरुषे पुनरौषधं ज्वरघ्नं मुस्तापर्पटकादिकं षडहादूर्ध्वं सप्ताहात् दशाहाद्वा न योज्यम्| किमिति चेत् ? आह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उक्तमौषधकालं मतान्तरेण निराकुरुते-सप्ताहादौषधमिति| लघ्वन्न-मण्डादि, षडहादनन्तरं अवधित्रयमप्यप्रयोजकम्| यावदामोल्बणस्तावदौषधं न योज्यम्|
Adhikarana स्वसिद्धान्ते युक्तिः (४३-४४) · Śloka ४४
तीव्रज्वरपरीतस्य दोषवेगोदये यतः|
दोषेऽथवाऽतिनिचिते तन्द्रास्तैमित्यकारिणि||४३||
अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम्|
|४४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तीव्रज्वरेण परीतस्य ज्वरिणः पुंसो दोषवेगोदये दोषस्य-आमाद्याख़्यस्योल्बणस्य, वेगो-मुस्तापर्पटकादिनोत्क्लेशात्, दोषवेगः, तस्योदयः-प्रादुर्भावो, दोषवेगोदयः| अथवा, उल्बणामस्य वातादेर्दोषस्य वेगोदयः, तस्मिन् दोषवेगोदये सति| अथवा तथैव दोषे-आमाख़्ये, अतिनिचिते-अतिशयेन सञ्चयं प्राप्ते, वातादौ व दोष उल्बणे| अत एव तन्द्रास्तैमित्येऽवश्यं करोति तस्मिन् तन्द्रास्तैमित्यकारिणि| यतो-यस्मात्, तदानीमामच्छन्नपावकेनापछ्यमानं भैषज्यं-औषधं मुस्तापर्पटकादिशृतादिकल्पनाकल्पितं, तदौषधं प्रयुक्तं भूयः-पुनरपि, ज्वरं ज्वलयति-उत्तेजयति न शमयति| तस्मादामोल्बणे ज्वरे न षडहादूर्ध्वं नापि सप्ताहान्न च दशाहादूर्ध्वं भैषज्यं योज्यम्| कदा तर्हि योज्यम् ? इत्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्वसिद्धान्ते युक्तिमाह-तीव्रज्वरपरीतस्येति| द्विविधो ह्यामोल्बणो ज्वरः-अपक्वः पच्यमानश्च| तत्र प्रथमेऽर्थे पच्यमानस्योक्तिः, अपक्वस्य द्वितीये| उभयोरपि प्रयुक्तमौषधमपच्यमानं पुनर्ज्वरं ज्वलयति|
Adhikarana औषधयोग्या ज्वरावस्था (४४-४५) · Śloka ४५
|
मृदुर्ज्वरो लघुर्देहश्चलिताश्च मला यदा||४४||
अचिरज्वरितस्यापि भेषजं योजयेत्तदा|
|४५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मृदुर्ज्वरः-उपद्रवमृदुतया| लघुः-पटुः देहः| चलिता मलाः-मूत्रपुरीषादयः| मृदुर्ज्वर इत्यादिलक्षणावस्था यदा भवति तदाऽस्यामवस्थायामचिरज्वरितस्यापि-अनितिक्रान्तषडहस्यापि, भैषज्यं योज्यम्| अपिशब्दात् किं पुनः षडहेऽप्यतीते ज्वरितस्यैवंलक्षणायामवस्थायमुत्पन्नायां तदौषधं च न योज्यम् ? इत्येवं व्याध्यवस्था कालतो गरीयसीत्युक्तं भवति| अथ तदौषधमाह-घ्
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-औषधयोग्यां ज्वरावस्थामाह-मृदुज्वर इति|
Adhikarana औषधम् (४५-४६) · Śloka ४६
|
मुस्तया पर्पटं युक्तं शुण्ठ्या दुःस्पर्शयाऽपि वा||४५||
पाक्यं शीतकषायं वा पाठोशीरं सवालकम्|
पिबेत्तद्व्च्छभूनिम्बगुडूचीमुस्तनागरम्||४६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-मुस्तया सह पर्पटं युक्तमथवा शुण्ठ्या धन्वयासेन युक्तं पाक्यं-शृतं, शीतकषायं-शीतकल्पनाकल्पितं, वा कृत्वा पिबेदिति वक्ष्यमाणेन सम्बन्धः| पाठा चोशीरं च पाठोशीरं वालकेन सह शृतं शीतं वा पिबेत्| स्वरसकल्कफाण्टाख्यकल्पनाभ्यः शृतशीताख्यकल्पनाद्वयकल्पितस्यास्य तथा सामर्थ्यस्य दृष्टत्वादेतत्कल्पनायुगलमुपन्यस्तवान्| वा समुच्छये भिन्नक्रमे| तद्वदित्यादि| न केवलं मुस्तापर्पटकं पिबेत्, तथा पाठोशीरं सवालकं पिबेत्, यावद्भूनिम्बगुडूचीमुस्तनागरमपि पिबेदिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-औषधमाह-मुस्तया पर्पटं युक्तिमिति| तच्च पञ्चधा,- मुस्तापर्पटम्, शुण्ठीपर्पटम्, दुरालभापर्पटम्, पाठादित्रयम् भूनिम्बादिचतुष्टयं च| तच्च पाक्यं शीतकषायं वा कृत्वा पिबेत्| पाक्यः-क्वाथः|
Adhikarana उक्तौषधानां विषयं विभागं फलं च (४७) · Śloka ४७
यथायोगमिमे योज्याः कषाया दोषपाचनाः|
ज्वरारोचकतृष्णास्यवैरस्यापक्तिनाशनाः||४७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-इमे-पूर्वोक्ता मुस्तापर्पटकादयः कषायाः, यथायोगंयोगानतिक्रमेण, यो यः कषायो यस्मिन् ज्वरे दातुं युक्तः स तत्र योज्य इति यथायोगं योज्याः| किंक्रिया एते स्युः ? इत्याह-दोषपाचनाः, दोषस्य-आमाख्यस्य पक्वप्रायस्य, पाचनाः| तन्त्रान्तरे चोक्तम्-"प्रयुक्तं पाचयेदामं यतत्पाचन मुच्यते| पित्तादिजिन्निरामस्य यत्स्यात्तचमनं मतम्||" इति| अत्र मुस्तापर्पटस्य पूर्वमुपन्यासो ज्वरनाशनेभ्योऽन्येभ्योऽस्य मुस्तापर्पटस्य प्राधान्यप्रदर्शनार्थः| तथा चाचार्योऽग्न्याणां मध्ये "मुस्तापर्पटक ज्वरे" (हृ. उ. अ. ४०/४८) इति निर्देक्ष्यते| तस्मान्मुस्तापर्पटस्यैव ज्वरनाशने ज्यायस्त्वमित्यवेहि, व्याधिप्रतिपक्षत्वात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उक्तानामौषधानां विषयं विभागं फलं चाह-यथायोगमिति| यथायोगं-यो यत्र देशे काले वा लभ्यः, यत्र ज्वरे वा द्रव्यशक्तिपर्यालोचनया योग्यः, स तत्र योज्यः, स तत्र योज्यः| सिद्धयोगे तु (ज्वराधिकारे श्लो. ८२)- "नागरं देवकाष्ठं च धान्यकं बृअह्तीद्वयम्| दद्यात्पाचनकं पूर्वं ज्वरिताय ज्वरापहम्||" इति| सङ्ग्रहे तु (चि.अ. १)-"पाठेन्द्रयवभूनिम्बमुस्तपर्पटकामृताः| जयन्त्याममतीसारं ज्वरं च समहौषधाः|| इति|
Adhikarana सन्ततादीनां विषमज्वरानां शमनाः पञ्च कषायाः (४८-५१) · Śloka ५१
|
कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी||४८||
पटोलं सारिवा मुस्ता पाठा कटुकरोहिणी|
पटोलनिम्बत्रिफलामृद्वीकामुस्तवत्सकाः||४९||
किराततिक्तममृता चन्दनं विश्वभेषजम्|
धात्रीमुस्तामृताक्षौद्रमर्धश्लोकसमापनाण्||५०||
पञ्चते सन्ततादीनां पञ्चानां शमना मताः|
|५१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कलिङ्गकादयोऽर्धशोकैः समापनं येषां तेऽर्धश्लोकसमापनाः पञ्चैते पञ्चानां सन्ततादीनां यथासङ्ख्यं शमना मताः मुनीनामिति शेषः|
Adhikarana वातज्वरस्य औषधम् (५१-५२) · Śloka ५२
|
दुरालभामृतामुस्तानागरं वातजे ज्वरे||५१||
अथवा पिप्पलीमूलगुडूचीविश्वभेषजम्|
कनीयः पञ्चमूलं च|५२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दुरालभादि पाचनं वातजे ज्वरे, अथवा पिप्पल्यादिकं वातजे ज्वरे, कनीयो-बृहत्यादिकं, पञ्चमूलं च वातजे ज्वरे, इति योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सामान्यपाचनान्युक्त्वा विशेषपाचनानि कथयति| तत्र वातज्वरस्याह-दुरालभामृतामुस्तानागरमिति| दुरालभादिचतुष्कः पिप्पलीमूलाद्यष्टको वा|
Adhikarana पित्तज्वरस्य औषधम् (५२-५३) · Śloka ५३
|
पित्ते शक्रयवाघनम्||५२||
कटुका चेति सक्षौद्रं मुस्तापर्पटकं तथा|
सधन्वयासभूनिम्बं|५३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्ते-पित्तजेज्वरे, शक्रयवादयः समाक्षिका मताः| पित्तजेऽपि मुस्तापर्पटकं धन्वयासकिराततिक्ताभ्यां सहित हितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पित्तज्वरस्याह-पित्ते शक्रयवाघनमिति| इन्द्रयवादित्रिको मुस्तादिचतुष्को वा|
Adhikarana कफज्वरस्य औषधम् (५३-५४) · Śloka ५४
|
वत्सकाद्यो गणः कफे||५३||
अथवा वृषगाङ्गेयीशृङ्गबेरदुरालभाः|
|५४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-"वत्सकमूर्वीभार्ङ्गी" (हृ. सू. अ. १५/३३) इत्यादिः कफे मतः| अथवा वृषादिः| गाङ्गेयी-मुस्ता|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कफज्वरस्याह-वत्सकाद्यो गण इति| "वत्सकमूर्वाभार्ङ्गी" इत्यादिगणः, वृषादिचतुष्को वा| गाङ्गेयीमुस्ता| शृङ्गबेरं-शुण्ठी|
Adhikarana सशूलविबिन्धस्य कफवात ज्वरस्य औषधम् वातपित्तज्वरस्य औषधम् पित्तज्वरस्य औषधम् कफज्वरस्य औषधम् सशूलविबन्धस्य कफवात ज्वरस्य औषधम् (५४-५५) · Śloka ५५
|
रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम्||५४||
अभयापिप्पलीमूलशम्याककटुकाघनम्|
|५५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रुग्विबन्धादियुक्ते ज्वरेऽभयादिघनावसानं दीपनपाचनम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सशूलविबन्धस्य कफवातज्वरस्याह-रुग्विबन्धानिलश्लेष्मयुक्त इति| सिद्धयोगे तु (ज्वराधिकारे श्लो. ८८)- "बिल्वादिपञ्चमूलाम्बु पाचनं वातजे ज्वरे|| कलिङ्गं कट्फलं मुस्तं पाठा तिक्तकरोहिणी| पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे|| मातुलिङ्गशिफाविश्वकायस्थाग्रन्थिकोद्भवम्| कफज्वरेशु सक्षारं पाचनं वा कणादिकम्|| सम्सृष्टदोषेषु हितं संसृष्टमथ संसृष्टमथ पाचनम्|" इति| अथ शमनानि| तत्र सङ्ग्रहे (चि.अ. १)-"सगुडाः सारिवाद्राक्षाशताह्वाकणरेणुकाः| काश्मर्यसारिवाद्राक्षात्रायमाणामृतागुडाः|| शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः| शर्करामधुसंयुक्ताः समांसीमुस्तधान्यकाः|| कृष्णापुनर्नवाद्राक्षाशताह्वागुडसारिवाः| शालिपर्णीबलाद्राक्षासारिवाच्छिन्नसम्भवाः|| आरग्वधो बला रास्ना काश्मर्यं मधुकं गुडः| शतावरीछिन्नरुहास्वरसो वा गुडान्वितः|| सकृष्णजीरकसितानागरश्चामृतारसः| वातज्वरं जयत्याशु केवलो वाऽमृतारसः|| भार्गीसरलगाङ्गेयीदारुकुष्ठैलवालुकम्| कोष्णं गुडघृतोपेतं पिबेद्वा वातजेज्वरे||' इति| सिद्धयोगे तु (ज्वराधिकारे श्लो.८९)- "किराताब्दामृतोदीच्यबृहतीद्वयगोक्षुरैः| सस्थिराकलशीविश्वैः क्वाथो वातज्वरापहः||" इति| वङ्गसेने तु (ज्वराधिकारे श्लो. २२७)-"पञ्चमूलीबलारास्नाकुलत्थैः सह पौष्करैः| पर्वभेदं शिरःकम्पं निहन्ति पवनज्वरम्|| दर्भं बलां गोक्षुरकं पाचयेत्पादशेषितम्| शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम्||" इति| इति वातज्वरः| अथ पित्तज्वरः| तत्र सङ्ग्रहे (चि.अ. १)-"पटोलादिगुडूच्यादी सूत्रोक्तौ पित्तजे ज्वरे| अञ्जनादिः सकाश्मर्यः सारिवादिः सशकरः|| सितामधुककाश्मर्यशीतोशीरपरूषकम्| गुडूचीसारित्रःरोध्रकमलोत्पलशकराः| द्राक्षाभयातिक्तघनशम्याकफलपपटम्| श्यामापर्पटदुःस्पर्शातिक्तातिक्त बृषासिताः|| श्यामा-प्रियङ्गुः| शर्करातिक्तकटुकात्रायमाणाबिभीरकम्| गुडूच्यामलकैर्युक्तः केवलो वाऽपि पर्पटः|| कषायो वा हिमस्तिक्तद्राक्षामधुकनिम्बजः| पित्तज्वरघ्नीतिक्ता वा श्लक्ष्णपिष्टा सशर्करा||" इति| वङ्गसेने तु (ज्वराधिकारे श्लो. २४१)-"पटोलयवधान्याकमधुकं मधुसंयुतम्| हन्ति पित्तज्वर दाहं तृष्णां चातिप्रमाथिनीम्|| द्राक्षारग्वधयोश्चापि काश्मर्यस्याथवा जलम्| पटोलाभयनिष्क्वाथो मधुना मधुरीकृतः| तीव्रपित्तज्वरामर्दी पानात्तृट्दाहनाशनः|| एकः पर्पटकः श्रेष्ठः पित्तज्वरधिनाशनः किं पुनर्यदि युज्येत चन्दनोदीच्यनागरैः|| गुडूचीमुस्तधान्याकमधुक कटुरोहिणी| तृष्णाशूलारुचिच्छर्दिपित्तज्वरहरो गणः| किरातामृतधान्याब्दचन्दनोशीरपर्पटैः| सपद्मकैः कृतः क्वाथो हन्ति पित्तभवं ज्वरम्| दाहहृल्लासमरुचिमुत्क्लेशवमथुक्लमान्|| ससितो निशि पर्युषितः प्रातर्धान्याकतण्डुलक्वाथः| पीतः शमयत्यचिरादन्तर्दाहं ज्वरं घोरम्|| चन्दनं मधुकं द्राक्षा कटुका सदुरालभा| चन्दनादिगणः प्रोक्तो हन्याद्दाहज्वरारुचीः|| मुद्गानामञ्जलीचूर्णं यष्टीमधुकमाधितम्| पाक्यं शीतकषायं वा पिबेत्पित्तज्वरापहम्|| ह्नीबेरं मुस्तकं धान्यं चन्दनं यष्टिकाऽमृता| वृषोशीरयुतः क्वाथः शर्करामधुसंयुतः| रक्तपित्त जयत्युग्रं तृष्णादाहज्वरापहः|| भूनिम्बातिविषारोध्रं मुस्तकेन्द्रयवामृतम्| वासक नागरं बिल्वं कषायो माक्षिकान्वितः| सश्वासकासविड्भेदरक्तपित्तज्वरापहः|| पथ्यातैलघ्रुतक्षौद्रैलेहो दाहज्वरापहः| कासासृक्पित्तवीसर्पश्वासान् हन्ति वमीरपि||" इति| इति पित्तज्वरः| अथ कफज्वरः| तत्र सङ्ग्रहे (चि. अ. १)-"कफजेऽतिविषोशीरपटोलमरिचक्षपाः| समूर्वेन्द्रयवद्वीपिकुष्ठनिम्बवचागुडाः|| क्षपा-हरिद्रा| सप्तच्छदामृतानिम्बस्फूर्जातं माक्षिकान्वितम्| स्पूर्जातः-तिन्दुकः| निशा त्रिकटुकं तिक्ता नागपुष्पं कलिङ्गकाः|| सारिवातिविषाकुष्ठदुःस्पर्शामुस्तगुग्गुलु| परूष त्रिफला तिक्ता बीजं वृक्षकजं घनः|| नागरत्रिफलामुस्तामूर्वापाठाः समाक्षिकाः|" इति| वङ्गसेने तु (ज्वराधिकारे श्लो. २६४)- "त्रिफलात्रिवृतामुस्तं कटुकं सकलिङ्गकम्| पटोलारग्वध चैव रोहिणी चित्रकं समम्| क्वाथः क्षौद्रयुतः श्लेष्मज्वरकासगलामये|| निम्बविश्वामृताभीरुशठीभूनिम्बपौष्करम्| पिप्पली बृहती चेति क्वाथो हन्ति कफज्वरम्|| त्रिफलापटोलवासाछिन्नरुहातिक्तरोहिणीषड्ग्रन्था| मधुना श्लेष्मसमुत्थे दशमूलीवासक्रस्य वा क्वाथः|| आमलक्यभया कृष्णा चित्रकश्चेत्ययं गणः| सर्वज्वरकफातङ्के भेदी दीपनपाचनः|| सिन्धुवारदलक्वाथं कणाढ्यं कफजे ज्वरे| जङ्घयोश्च बले क्षीणे कर्णे च पिहिते पिबेत्|| कट्फलं पुष्करं कृष्णा शृङ्गी च मधुना सह| कासश्वासज्वरहरः श्रेष्ठो लेहः कफान्तकृत्|| कफज्वरार्तस्त्रिफलां पिप्पलीं च समाक्षिकाम्| कासे श्वासे च मधुना सर्पिषा च सुखी भवेत्|| कट्फलं पुष्करं शृङ्गी मुस्तकं कटुकं शठी| समस्तान्येकशो वाऽपि श्लक्ष्णचुर्णानि कारयेत्|| सार्द्रकस्वरसक्षाद्रं लिह्यात्कफविनाशनम्| शूलानिलारुचिच्छर्दिकासश्वासक्षयापहम्|| क्षौद्रोपकुल्यासंयोगः कासश्वासज्वरापहः| प्लीहानं हन्ति हिक्कां च बालानां च प्रशस्यते|" इति| इति कफज्वरः| अथ संसर्गजाः| तत्र सङ्ग्रहे (चि.अ. १)- संसर्गसन्निपातेषु मिश्रानेतान्विकल्पयेत्|" इति|
Adhikarana वातपित्तज्वरस्य औषधम् (५५-५८) · Śloka ५८
|
द्राक्षामधूकमधुकतोध्राकाश्मर्यसारिवाः||५५||
मुस्तामलकह्रीबेरपद्मकेसरपद्मकम्|
मृणालचन्दनोशीरनीलोत्पलपरूषकम्||५६||
फाण्टो हिमो वा द्राक्षादिर्जातीकुसुमवासितः|
युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम्||५७||
ज्वरं मदात्ययं छर्दिं मूर्च्छां दाहं श्रमं भ्रमम्|
ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि||५८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्राक्षादिरयं गणः फाण्टः-"सद्योऽभिषुतपूतः" (हृ. क. अ. ६/११) इत्येवंलक्षणः, तथा हिमः-शीतो वा, "रात्रिंद्रवे स्थितः" (हृ. क. अ. ६/१०) इत्येवंलक्षणः| तथा जातीकुसुमैः सुगन्धीकृतो मधुसितालाजैर्युक्तो वातपित्तजं ज्वरं जयति, मदात्ययादिंश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वातपित्तज्वरे शमनमाह-द्राक्षामधूकेति| मृणालं-बिसम्| चूर्णपलोपेतमुष्णोदकचतुष्पलं शीतं वस्त्रपूतं-फाण्टः| हिमः-शीतकषायः| मधुसितालाजानां मिथः समानां पेयत्वानुपग़ातेन प्रक्षेपः|
Adhikarana वातपित्तज्वरस्य अन्यत् औषधम् (५९) · Śloka ५९
पाचयेत्कटुकां पिष्ट्वा कर्परेऽभिनवे शुचौ|
निष्पीडितो ग़ृतयुतस्तद्गसो ज्वरदाहजित्||५९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कटुकां पानीयेन पिष्ट्वा कर्परे-मृद्भृष्टखण्डे, अभिनवे तथा शुचौ पाचयेत्| तस्या रसो निष्पीडितः सर्पिर्युक्तो ज्वरदाहौ जयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शमनान्तरमाह-पाचयेत्कटुकामिति| पाकोऽत्र पुटकाविधिना| सङ्ग्रहे तु (चि.अ. १)-"गोकण्टकबलादर्भाः ससिता वातपित्तजे| द्राक्षामलकभूनिम्बाः सगुडूचीशठीगुडाः|| त्रायान्तीसारिवाद्राक्षाकाश्मर्यच्छिन्नजागुडाः| द्राक्षामसूरत्रायन्तीगुडूचीसारिवाबलाः||" इति| सिद्धयोगे तु (ज्वराधिकारे श्लो.११६)-"त्रिफलाशाल्मलीरास्नाराजवृक्षाटारूषकैः| शृतमम्बु हरेत्तूर्णं वातपित्तोद्भवं ज्वरम्|| [विश्वामृताब्दभूनिम्बैः पञ्चमूलीसमन्वितैः| कृतः कषायो हन्त्याशु वातपित्तोद्भवं ज्वरम्||] पञ्चमूलीहृस्वा| निदिग्धिकामृतारास्नात्रायमाणाबलान्वितैः| मसूरविदलैः क्वाथो वातपित्तज्वरं जयेत्|| विदलाः-यन्त्रदलनजा अवयवाः| गुडूची पर्पटं मुस्तं किरातं विश्वभेषजम्| वातपित्तज्वरे देयं पञ्चभद्रमिदं शुभम्||" इति| वङ्गसेने तु (ज्वराधिकारे श्लो. २९२)- "बलाभार्ग्यमृतैरण्डचन्दनोशीरपर्पटैः| उपकुल्याब्दह्रीबेरैः कषायं च पिबेत्ततः| पर्वभेदं शिरःकम्पं वातपित्तज्वरं जयेत्|| नीलोत्पलमुशीरं च बला पद्मकमेव च| काश्मरी मधुकं द्राक्षा मधूकानि परूषकम्| पेयः शीतकषायोऽयं वातपित्तज्वरापहः|| आरग्वधफलं मुस्तं यष्टीमधुकमेव च| उशीरमभया चैव हरिद्रादारुसाह्वया|| पटोलं पिचुमन्दश्च तथा कटुकरोहिणी|एष सिद्धः कषायः स्याद्वातपित्तभवे ज्वरे इति| इति वातपित्तज्वरः |
Adhikarana कफवातज्वरस्य औषधम् (६०) · Śloka ६०
कफवाते वचातिक्तापाठारग्वधवत्सकाः|
पिप्पलीचूर्णयुक्तो वा क्वाथश्च्छिन्नोद्भवोद्भवः||६०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-वातश्लेष्मणि कषायकल्पनया कल्पिता वचादयो मताः| अथवा, गुडूचीसम्भवः क्वाथः पिप्पलीचूर्णयुतो मतः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ वातकफज्वरः| तत्र शमनमाह-कफवात इति| शमनान्तरमाह-पिप्पलीचूर्णयुक्तो वेति|
Adhikarana कफवात अन्यत् औषधम् (६१-६३) · Śloka ६३
व्याघ्रीशुण्ठ्यमृताक्वाथः पिप्पलीचूर्णसंयुतः|
वातश्लेष्मज्वरश्वासकासपीनसशूलजित्||६१||
पथ्याकुस्तुम्बरीमुस्ताशुण्ठीकट्तृणपर्पटम्|
सकट्फलवचाभार्ङ्गीदेवाह्वं मधुहिङ्गुमत्||६२||
कफवातज्वरष्ठीवकुक्षिहृत्पार्श्ववेदनाः|
कण्ठामयास्यश्वयथुकासश्वासान्नियच्छति||६३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-व्याघ्र्यादिक्वाथः कणाचूर्णसंयुक्तो वातश्लेष्मज्वरादिजित्| स०-पथ्यादि पाचनं सिद्धचूर्णं मधुहिङ्गुभ्यां संयुतं कफवातज्वरादीन् पराकरोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शमनान्तरमाह-व्याघ्रीशुण्ठ्यमृताक्वाथ इति| आ० र०-शमनान्तरमाह-पथ्याकुस्तुम्बरीति| सिद्धयोगे (ज्वराधिकारे श्लो. १३४)- "पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः| दीपनीयः स्मृतो वर्गः कफानिलगदापहः|| पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम्| वातश्लेष्मविकारघ्नं प्लीहघ्नं ज्वरनाशनम्|| मुस्तपर्पटदुःस्पर्शागुडूचीविश्वजं जलम्| कफवातारुचिच्छर्दिदाहशोफज्वरापहम्|| दशमूलीरसः पेयः कणायुक्तः कफानिले| अविपाकेऽतिनिद्रायां पार्श्वरुक्श्वासकासके||" इति| वङ्गसेने तु (ज्वराधिकारे श्लो. ३३५)-"सभूनिम्बामृतादारु कट्फलं कटुका वचा| कषायं पाययेदाशु वातश्लेष्मज्वरापहम्| पर्वभेदशिर शूलकासारोचकपीडितम्|| तृष्णान्विते वातकफज्वरार्ते सश्वासकासारुचिविड्विबन्धे| हितं जलं पाचनदीपनं च पटोलशुण्ठीयवपिप्पलीनाम्||" इति| इति वातकाफज्वरः|
Adhikarana पित्तकफज्वरस्य औषधम् पित्तकफ अन्यत् औषधम् (६४-६५) · Śloka ६५
आरग्वधादिः सक्षौद्गः कफपित्तज्वरं जयेत्|
तथा तिक्तावृषोशीरत्रायन्तीत्रिफलामृताः||६४||
पटोलातिविषानिम्बमूर्वाधन्वयवासकाः|
|६५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-"आरग्वधेन्द्रयवादिभिः" (हृ. सू. अ. १५/१७) माक्षिकसहितः कफपित्तज्वरं जयति| तथा तिक्तादयः कफपित्तज्वरं ग़्नन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ पित्तकफज्वरः| तत्र शमनमाह-आरग्वधादिरिति| शमनान्तरमाह-तथेति| सङ्ग्रहे तु (चि.अ. १)- "वृषपुष्पच्छदरसः शर्करामाक्षिकान्वितः| पित्तश्लेष्मज्वरं हन्ति सासृक् पित्तं सकामलम्|| अनन्ताविश्वभैषज्यकटुकातोयतोयदाः| ज्वरतृट्भ्रमसम्मोहधूमकाम्लकनाशनाः||" इति| अनन्ता-दुरालभा| सिद्धयोगे तु (ज्वराधिकारे श्लो. १२२)-"कण्टकार्यमृताभार्गीनागरेन्द्रयवासकम्| भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणी|| कषायं पाययेदेनं पित्तश्लेष्मज्वरापहम्| दाहतृष्णारुचिच्छर्दिकासहृत्पार्श्वशूलनुत्|| [गुडूचीनिम्बधान्याकं पद्मकं चन्दनान्वितम्|] एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः| हृल्लासारोचकच्छर्दिपिपासादाहनाशनः|| सशर्करामक्षमात्रां कटुकामुष्णवारिणा| पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम्|| पटोलं पिचुमन्दं च त्रिफला मधुकं वला| साधितोऽयं कषायः स्यात्पित्तश्लेष्मभवे ज्वरे|| दीपनं कफविच्छेदि पित्तवातानुलोमनम्| ज्वरघ्नं पाचनं भेदि शृतं धान्यपटोलयोः||" इति| इति पित्तकफज्वरः|
Adhikarana सन्निपातज्वरस्य औषधम् (६५-६६) · Śloka ६६
|
सन्निपातज्वरे व्याघ्रीदेवदारुनिशाग़नम्||६५||
पटोलपत्रनिम्बत्वक्त्रिफलाकटुकायुतम्|
|६६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सन्निपातज्वरे व्याघ्र्यादिकटुकान्तं पाचनम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ सन्निपातज्वरः| तत्र शमनमाह-सन्निपातज्वर इति|
Adhikarana वातश्लेष्मोत्तरस्य औषधम् (६६-६७) · Śloka ६७
|
नागरं पौष्करं मूलं गुडूची कण्टकारिका||६६||
सकासश्वासपार्श्वार्तौ वातश्लेष्मोत्तरे ज्वरे|
|६७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नागरादिपाचनं वातश्लेष्माधिके ज्वरे कासादीन्निहन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शमनान्तरमाह-नागरमिति| सङ्ग्रहे तु (चि.अ.१)-"मुस्ता पर्पटकं पथ्या मृद्वीका कटुरोहिणी| त्रायन्तीकणतन्मूलद्राक्षापथ्यामधूलिकाः|| मधूलिका-जलजयष्टीमधुः| त्रिफलोशीरषड्ग्रन्थायष्टीमधुगनाबलाः||" इति| सिद्धयोगे तु (ज्वरा. श्लो. १६६)-"पञ्चमूली किरातादिर्गणो योज्यस्त्रिदोषजे| पित्तोत्कटे च मधुना कणया वा कफोत्कटे|| वातपित्तज्वरोक्तोऽयं नवाङ्गः| उभयं दशमूलं तु सन्निपातज्वरापहम्| कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते| पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाशनम्|| उभयं-द्विपञ्चमूलात्मकम्| चिरज्वरे वातकफोल्बणे वा त्रिदोषजे वा दशमूलमिश्रः| किरारतिक्तादिगणः प्रयोज्यः शुद्धार्थिने वा त्रिवृताविमिश्रः|| आदिशब्दात् गुडूचीमुस्ताशुण्ठ्यः| दशमूलमिश्रस्यैव त्रिवृतामिश्रवम्| दशमूली शठी शृङ्गी पौष्करं सदुरालभम्| भार्गी कुटजबीजं च पटोलं कटुरोहिणी|| अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः| कासहृद्ग्रहपार्श्वार्तिश्वासहिक्कावमीहरः|| भूनिम्बदारुदशमूलमहौषधाब्दतिक्तेन्द्रबीजधनिकेभकणाकषायः| तन्द्राप्रलापकसनारुचिदाहमोहश्वासादियुक्तमखिलं ज्वरमाशु हन्ति|| मुक्तापर्पटकोशीरदेवदारुमहौषधम्| त्रिफला धन्वयासश्च नीली कम्पिल्लकं त्रिवृत्|| किराततिक्तकं पाठा बला कटुकरोहिणी| मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते|| अष्टादशाङ्गमुदितमेतद्वा सन्निपातनुत्| पित्तोत्तरे सन्निपाते हितं चोक्तं मनीषिभिः| मन्यास्तम्भ उरोघात उरःपार्श्वशिरोग्रहे|| बृहत्त्यौ पौष्करं भार्गी शठी शृङ्गी दुरालभा| वत्सकस्य च बीजानि पटोलं कटुरोहिणी| बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः| कासादिषु च सर्वेषु हितः सोपद्रवेषु च|| शठी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा| गुडूची नागरं पाठा किरातं कटुरोहिणी|| एष शठ्यादिको वर्गः सन्निपातज्वरापहः| कासहृद्ग्रहपार्श्वार्तिश्वासे तन्द्र्यां च शस्यते||" इति| वङ्गसेने तु (ज्वरा. श्लो. ४४३)- "दशमूलस्य निक्वाथः कट्फलादिरजोयुतः| तुल्यार्द्रकरसः पीतो मृत्युकल्पं ज्वरं जयेत्|| दशमूलीकषायं तु सपौष्करकणान्वितम्| सन्निपातज्वरे देयं श्वासकासतृषान्विते|| अमृतादशमूलाभ्यां साधितं विधिवज्जलम्| सन्निपातज्वरं हन्यान्त्रयोदशविधं नृणाम्|| विश्वशठीदशमूलीछिन्नापाठेभपिप्पलीन्द्रयवाः| सकिराततिक्तवासाः शमयन्ति हृतौजसं सद्यः|| त्र्यूषणदशमूलशठीभार्गीछिन्नोद्भवाक्वाथः| पीतः शमयति सहसा ज्वरमुग्रं सन्निपाताख्यम्|| द्विपञ्चमूलीषड्ग्रन्थाविश्वगृध्रनखीद्वयात्| गृध्रनखीद्वयं-कन्थारिकाद्वयम्| कफवातहरः क्वाथः सन्निपातहरः परः|| सिंहास्यपर्पटारिष्टं यष्टीधान्याकनागरम्| दारुग्रगन्धेन्द्रयवाः श्वदंष्ट्रा ग्रन्थिकं तथा|| एषां कषायमाहृत्य सन्निपातज्वरी पिबेत्| श्वासातिसारकासघ्नं शूलारुचिहरं परम्|| कट्फलं त्रिफला दारु चन्दनं सपरूषकम्| कटुकापद्मकोशीरं विपचेत्कार्षिकं जलम्|| तत्सन्निपातदाहघ्नं पीतमात्रेयपूजितम्| दीर्घाकालप्रयुक्तानां ज्वरिणाममृतोपमम्|| व्योषाब्दत्रिफलारिष्टपटोलीतिक्तवत्सकैः| सभूनिम्बामृतापाठैस्त्रिदोषज्वरजिज्जलम्|| तिल्वकं त्रिवृता दन्ती समुलं चतुरङ्गुलम्| पक्वं कषायं विस्राव्य नीलिनीचूर्णमिश्रितम्| ससर्पिष्कं पिबेत्तूर्णम् सन्निपाते विरेचनम्|| (श्लो. ३९२)-वर्धनैर्वाऽपि हीनस्य हापनैरुच्छ्रितस्य वा| कफस्थानानुपूर्व्या सन्निपातज्वरे क्रिया|| हीनस्य वर्धनाद्धानिर्वृद्धयोरिति निश्चयः| हापनादतिव्रुद्धस्य हीनयोर्वृद्धिसम्भवः|| ततः समत्वं दोषाणामुरः स्थानं कफस्य तु| तत्रस्थानां क्रिया तद्वदिति ज्वरविनिर्जयः|| यथादोषोच्छ्रयं चैव ज्वरान् शेषानुपक्रमेत्| निर्हरेत्पित्तमेवादौ ज्वरेषु समवायिषु| दुर्निवारतरं तद्धि ज्वरार्तेषु विशेषतः|| सन्निपाते क्षुधार्तं यो भोजयेत्पिशितौदनम्| स कथं भिषगाख्यातिं लभेन्मूढो नराधमः|| सन्निपाते तु दाहार्तं यः सिञ्चिच्छीतवारिणा| आतुरः स कथं जीवेद्भिषग्वा स कथं भवेत्|| सन्निपाते च कम्पन्तं विलपन्तं च यो घृतम्| पाययेद्भोजयेद्वाऽपि तौ च स्यातामु(तां शु)भौ कथम्|| सन्निपातेन तृष्यन्तं पार्श्वरुक्तालुशोषिणम्| यः पाययेज्जलं शीतं स मृत्युर्नरविग्रहः|| समुद्रतरणं ह्येतद्वदन्ति भिषगीश्वराः| मृत्युना सह योद्धव्यं सन्निपातं चिकित्सिता|| सन्निपातार्णवे मग्नं योऽभ्युद्धरति मानवम्|| कस्तेन न कृतो धर्मः कां च पूजां न सोऽर्हति|| श्लेष्मनिग्रहमेवादौ कुर्याव्द्याधौ त्रिदोषजे| निरस्ते श्लेष्मणि ह्यस्य स्रोतःसूद्धाटितेषु च| लाघवं जायते सद्यस्तृष्णा चैवोपशाम्यति|| लङ्गनं वालुकास्वेदो नस्यं निष्ठीवनं तथा| अवलेहोऽञ्जनं चैव प्राक् प्रयोज्यं त्रिदोषजे|| सुरसार्जकनिर्यासः समधुव्योषसैन्धवः| महाश्लेष्मानिलोद्रेकसंज्ञानाशविमोक्षणः||" [इति| सिद्धयोगे तु (ज्व. श्लो. १५३) ]-"मधूकसारसिन्धूत्थवचोषणकणाः समाः| श्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम्|| (श्लो. १५१)-मातुलिङ्गार्द्रकरसं कोष्णं त्रिल्वणान्वितम्| अन्यद्वा सिद्धिविहितं नस्यं तीक्ष्णं प्रयोजयेत्|| तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिच्यते| शिरोहृदयकण्ठास्यपार्श्वरुक् चोपशाम्यति|| (श्लो. १४७)-आर्द्रकस्वरसोपेतं सैन्धवं कटुकत्रयम्| आकण्ठं धारयेदास्ये निष्ठीवेच्च पुनःपुनः|| तेनास्य हृदये श्लेष्मा मन्यापार्श्वशिरोगलात्| लीनोऽप्याकृष्यते शुष्को लाघवं चास्य जायते|| पर्वभेदो ज्वरो मूर्च्छा निद्राकासगलामयाः| मूखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति|| सकृद्द्वित्रिचतुः कुर्याद्दृष्ट्वा दोषबलाबलम्| एतद्धि परमं प्राहुर्भेषजं सन्निपातिनाम्|| स्विन्नमामलकं पिष्ट्वा द्राक्षाभिः सह संसृजेत्| विश्वभेषजसंयुक्तं मधुना सह लेहयेत्|| तेनास्य शाम्यते मूर्च्छा कासः श्वासस्तथैव च|| कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी| श्लक्ष्णचूर्णीकृतं चैतन्मधुना सह लेहयेत्|| एषाऽवलेहिका हन्ति सन्निपातं सुदारुणम्| हिक्कां श्वासं च कासं च कण्ठरोधं नियच्छति| एतद्योज्यं कफोद्रेके चूर्णमार्द्रकजै रसैः|| सर्वेषु सन्निपातेषु न क्षौद्रमवचारयेत्| शीतोपचारि क्षौद्रं स्यार्च्छितं चात्र विरुध्यते|| क्रियाभिस्तुल्यरूपाभिः क्रियासङ्कर्यमिष्यते| भिन्नरूपतया तास्तु न तु कुर्वन्ति दूषणम्|| (श्लो. १५४)-शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः| अञ्जनं स्यात्प्रबोधाय सरसोनशिलावचैः|| यदा तुल्यानिलकफौ तालुक्लोमगलाश्रितौ| कुर्यात्तावधिकं शोषं जिह्वायाः खरतां तथा|| तथा तां स्फुटितां जिह्वां संशुष्कां मधुपिष्टया| द्राक्षया सघृतं चास्य लेपयेत्सन्निपातिनः|| स्वेदोद्गमे भृष्टकुलित्थ चूर्णनिपातनं शस्तमिति ब्रुवन्ति|" इति| वङ्गसेने तु (ज्व.श्लो. ५०३)-"दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः| गृह्णीयात्तलमप्राप्तं तथाऽभिन्यासपीडितम्|| कारवीपुष्करैरण्डत्रायन्तीनागरामृताः| दशमूलीशठीशृङ्गीवासाभार्गीपुनर्नवाः|| तुल्या मूत्रेण निष्क्वाथ्य पीताः स्रोतोविशोधनाः| अभिन्यासज्वरायासमाशु घ्नन्ति समुद्धतम्|| मातुलुङ्गाश्मभिद्बिल्वव्याघ्रीपाठोरुबूकजः| क्वाथो लवणमूत्राद्योऽभिन्यासानाहशूलनुत्|| व्याघ्रीदुरालभाभार्गीशठीशृङ्गि सपौष्करम्| पक्वाम्बु श्लेष्महृत्पेयमभिन्यासप्रशान्तये|| भार्गी पुष्करमूलं च रास्ना बिल्वं समुस्तकम्| नागरं दशमूलं च पिप्पल्यासु च साधितम्| हिङ्ग्वार्द्रकरसोपेतं पिप्पलीचूर्णसंयुतम्|| सन्निपातज्वरं घोरमभिन्यासं च दारुणम्| हृत्पार्श्वशूलमानाहं सद्यःपीतं नियच्छति|| बीजपूरकबिल्बाश्मभेदकं बृहतीद्वयम्| सकेशीकं तथैरण्डं जले चाष्टगुणे शृतम्|| पक्वगोमूत्रसंयुक्तं बिडसौवर्चलान्वितम्| हृद्बस्तिशूले सानाहेऽप्यभिन्यासज्वरे हितम्|| दन्तीं द्रवन्तीं बृहतीं सैरण्डं [ बीजपूरकम्| श्यामां व्याघ्रीं च निष्क्वाथ्याभिन्यासे बहुवर्चसि|| सिंही व्याघ्र्यमृता द्राक्षा अजाजी सकटुत्रिकम्| शृङ्गीविडङ्ग च समं पक्त्वा विस्राव्य साधयेत्|| घृताक्तैस्तण्डुलैर्भृष्टैः पेयामुष्णां ज्वरी पिबेत्| हिक्की श्वासी च कासी च तथाऽभिन्यासपीडितः| विबद्धवातविण्मूत्रे पानमस्य प्रयोजयेत्|| बृहती पौष्करं भार्गी शठी शृङ्गी दुरालभा| पक्त्वा पानं प्रशंसन्ति श्लेष्मा तेनास्य शाम्यति|| त्रिवृद्धिशालात्रिफलाकटुकारग्वधैः कृतः| सक्षारो भेदनः क्वाथः पेयः सर्वज्वरापहः|| तिक्ताऽभया त्रिवृत्तीर्णा त्रायन्ती राजवृक्षकः| क्षाराढ्यः सैन्धवोपेतः क्वाथो भेदी ज्वरापहः|| शिरीषबीजं मरिचं बस्तमूत्रेण तत्समम्| अञ्जनं तदभिन्यासे संज्ञाबोधनमिष्यते|| मातुलुङ्गरसं तस्य हिङ्गुशुण्ठीयुतं मुखे| दद्यात्प्रबोधनं तीक्ष्णं कटुतिक्तोपसंहितम्|| त्वगेलापत्रसुषवीबृहतीकण्टकारिकाः| मरीचं पिप्पली बिल्वं चिरिबिल्वं सचित्रकम्|| करञ्जबीजं मञ्जिष्ठा त्रायन्ती विश्वभेषजम्| गलप्रबोधनं श्रेष्ठमभिन्यासज्वरापहम्|| करञ्जवह्निमञ्जिष्ठात्रायन्तीविश्वकूलकम्| कूलकं-पटोलम्| बृहत्यौ सुषवी व्योषं क्वाथः स्याद्गलशोधनः|| इत्यभिन्यस उद्दिष्टः सरूपः सचिकित्सितः| चिकित्सिते कृतेऽप्येवं [यस्य संज्ञा न जायते| ललाटे पादयोर्वाऽपि ] तस्य दाहः प्रशस्यते|| (श्लो. ४९०)-ज्योतिष्मत्यास्तथा तैलं मूलं पिण्डालुकस्य च| तन्द्रीविनाशनं श्रेष्ठं नस्य कर्मणि योजितम्|| सैन्धवं श्वेतमरिचं सर्षपं कुष्ठमेव च| बस्तमूत्रेण पिष्टानि नस्यं तन्द्रीनिवारणम्|| असुराह्नपतङ्गस्य विट् चूर्णं मधुसंयुतम्| अञ्जनाद्बोधयेन्मुग्धं तन्द्रितं सन्निपातिनम्|| जातीपुष्पं प्रवालं च रोहिणी मरिचं वचा| सैन्धवं बस्तमूत्रेण तन्द्रीनाशनमुत्तमम्|| अयोरजः श्वेतरोध्रमञ्जनं मरिचं तथा| गोपित्तेन समायुक्तं तन्द्रीनाशनमुत्तमम्||" इति| इति सन्निपातज्वरः|
Adhikarana सर्वज्वरस्य औषधम् (६७-६९) · Śloka ६९
|
मधूकपुष्पमृद्वीकात्रायमाणापरूषकम्||६७||
सोशीरतिक्तात्रिफलाकाश्मर्यं कल्पयेद्धिमम्|
कषायं तं पिबन् काले ज्वरान् सर्वानपोहति||६८||
जात्यामलकमुस्तानि तद्वद्धन्वयवासकम्|
|६९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मधूकपुष्पादिकं काले-शास्त्रोक्ते, शीतकषायं पिबन् ज्वरान् सर्वान्-एकदोषद्विदोषजान्, अपोहति| "उपसर्गादस्यत्यूह्योर्वेति वाच्यम्" इति परस्मैपदम्| जातिपल्लवा आमलकानि मुस्तं धन्वयासकं तद्वत्-पूर्ववच्छितकषायं कल्पयित्वा पिबन् सर्वान् ज्वरान् हन्ति| धन्वयवासकं चेति चशब्दोऽत्र लुप्तो द्रष्टव्यः| तदेतैश्चतुर्भिर्द्रव्यैरेतत् पाचनम्| केचित्तु धन्वयवासकं पृथगेवेच्छन्ति| तस्मादेतत्कृतोऽपि कषायः पूर्ववद्वोध्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ ज्वरसामान्यम्| तत्र शमनमाह-मधूकपुष्पेति| तच्च त्रिधा-मधुकपुष्पादिदशकं जात्यादित्रिकं धन्वयासकं चेति| त्रयोऽपि शीतकषायाः |
Adhikarana बद्धविट्कस्य औषधम् (६९) · Śloka ६९
|
बद्धविट् कटुकाद्राक्षात्रायन्तीत्रिफलागुडम्||६९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तथा च बद्धविट् पुरुषः कटुकादिकं कषायं पिबेदिति वर्तते, न तु हिममिति| शीतस्य मलस्तम्भहेतुत्वादस्य चौषधस्य शोधनरूपत्वात्| गुडा-सुधा, गुड इत्यन्ये|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बद्धविट्कस्य शोधनमाह-बद्धविडिति| शीतकषाये गुडप्रक्षेपः| इति ज्वरौषधानि|
Adhikarana पेयाद्यमन्नम् औषधम् (७०) · Śloka ७०
जीर्णौषधोऽन्नं पेयाद्यमाचरेत्|
|७०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीर्णं-परिणतं, औषधं यस्य स जीर्णौषधः सन्, पेयाद्यमेव पूर्वोक्तमन्नं भुञ्जीत| अद्यत इत्यन्नम्, इति कृत्वा पेयादेरप्यन्नत्वम्| आदिशब्देन यूषादिपरिग्रहः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ ज्वरौषधानन्तरं पथ्यानि| तत्र पेयाद्यं पथ्यमाह-जीर्णौषधोऽन्नमिति| तच्च लङ्घनानन्तरौषधदानविषयम्| पेयाद्यनन्तरौषधदाने रसौदनपर्यन्तपथ्यसेवानिष्पत्तेः पुनः पेयादिक्रमस्यानुचितत्वात्| आद्यशब्दाद्यूषौदनादयः| सिद्धयोगे तु (ज्व.श्लो. ८४)-"अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णा सुमनस्कता| लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषधाकृतिः| क्लमो दाहोऽङ्गसदनं भ्रमो मूर्च्छा शिरोरुजा| अरतिर्बलहानिश्च सावशेषौषधाकृतिः|| औषधशेषे भुक्तं पीतं च तथौषधं च शेषेऽन्ने| न करोति गदोपशमं प्रकोपयत्यन्यरोगांश्च||" इति|न च सर्वः कश्चित्पेयादिक्रमाचरेदित्याह|
Adhikarana श्लेष्मज्वरे पेयानिषेधःपेयानिषेधे युक्तिः (७०) · Śloka ७०
श्लेष्मवान्न तु|
पेया कफं वर्धयति पङ्कं पांसुषु वृष्टिवत्||७०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लेष्मवान्न तु-जीर्णौषधोऽपि श्लेष्मवान्नरः पेयादिकं ना श्नीयात्| किम् ? इत्याह-पेयेत्यादि| यतः पेया कफं वर्धयति--विलीनरुपस्य कफस्य स्त्यानभावतामुत्पादयन्ती संस्थानविशेषमुपर्युपरिभावतयोपचयमुत्पादयति, न तु सा कफं साक्षाद्वर्धयति, इति वर्धयतेरर्थः, अनेकार्थत्वाद्धातूनामिति, एषचार्थोऽनुरूपतन्त्रकारदृष्टान्तदर्शनादवगम्यते| तथा चाहपङ्कं पांसुषु वृष्टिवदिति| यथा,-पांसुषु वृष्टिः पतिता न तु पङ्कं वर्धयति-शिथिलरूपतां पांसूनामपास्य निबिडरूपतामिव तेषामुत्पादयति| न पांसून् वृष्टिर्वर्धयति-आधिक्यं नयति, न वर्धयतेऽत्रा(त्येत्य)र्थः| तन्त्रकारस्यार्थ एवं विवक्षितो भविष्यत् तदानीमत्रैवं स्पष्टमेव दृष्टन्तमदर्शयिष्यत्| यथा-"पेया कफं वर्धयति यथा वृष्टिर्नदीजलम्|" इति| तच्च तन्त्रकारोऽमुनैवानुसारेणाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-श्लेष्मज्वरे पेयां निषेधयति-श्लेष्मवान्न त्विति| पेयानिषेधे युक्तिमाह-पेया कफं वर्धयति पङ्कं पांसुषु वृष्टिवत्| श्लेष्माभिषवदेहानामिति| यथा पांसुषु पतिता वृष्टिः पङ्कं वर्द्धायति तथा श्लेष्माभिषवे-कफक्लिन्ने देहे, पतिता पेया कफं वर्द्धयति|
Adhikarana पेयस्थाने यूषः (७१-७२) · Śloka ७२
श्लेष्माभिष्यण्णदेहानामतः प्रागपि योजयेत्|
यूषान् कुलत्थचणककलायादिकृतान् लघून्||७१||
रूक्षांस्तिक्तरसोपेतान् हृद्यान् रुचिकरान् पटून्|
|७२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आभिष्यण्ण इति, अभिपूर्वात्स्यन्देः स्रवणार्थो व्युत्पादितः| श्लेष्मणा-स्रुतिरूपेणैव, अभिष्यण्णः-क्लिन्न इव, देहो येषां ते श्लेष्माभिष्यण्णदेहाः, तेषाम्, अतो ज्वरिणां प्रागपि प्रथमपथ्यावसरेऽपि, यूषान् योजयेत्| किमुत श्लेष्मवतः पुंसो जीर्णौषधस्य यूषान्न योजयेत् ? इत्यपिशब्दस्यर्थः| किम्भूतान् ? कुलत्थादिकृतान्| तथा, लघून्| ननु, कुलत्थादीनां लघुत्वात्तत्कृता यूषा लघव एव भविष्यन्ति| तत्किं लघूनित्यनेन ? अत्रोच्यते| शम्बीधान्यानां मध्ये गुरवोऽपि राजमाषमाषादयः सन्ति, तन्निवृत्त्यर्थमेतत्| अपि च, लघूनित्यनेन यूषप्रकृतिद्रव्यैरल्पपरिमाणैः कृतानिति द्योतयति| यतोऽल्पपरिमाणैः कुलत्थादिभिः कृता लघुतराः स्युः, तस्माल्लघूनिति युक्तम्| तथा, रूक्षान्-घृतभर्जनकादिरहितान्| तथा, तिक्तरसयुक्तान्| तथा, हृद्यान्-इष्टरसगन्धवर्णस्पर्शयुक्तत्वाच्चेतस आह्लादकरान्| तथा, रुचिकरान्-ज्वरिणोऽन्यस्य वा रोचिष्णून्| तथा, पटून्-सलवणान्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पेयास्थाने यूषमाह-अतः प्रागपीति| प्रागपि-"युक्तं लङ्घितलिङ्गैस्तु तं पेयाभिरुपाचरेत्|" (श्लो. २४) इत्यत्रापि| लघून्-सम्यक्पाकेन| रूक्षान्-अकृतत्वेन धान्यस्यानवत्वेन [ च ]| पटून्-सैन्धवयोगेन|
Adhikarana पथ्ययोग्यं धान्यम् (७२-७३) · Śloka ७३
|
रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः||७२||
श्लेष्मोत्तरे वीततुषास्तथा वाटीकृता यवाः|
|७३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्ताद्याः-"रक्तो महान् सकलमः" (हृ.सू.अ.६/९) इत्यादयः| तथा, षष्टिका व्रीह्यादयोऽपि, जीर्णाः-पुराणाः, हिताः-पथ्याः| श्लेष्मोत्तरे-प्रभूतश्लेषमणि ज्वरे, वीततुषाः-अपनीतत्वचो, यवाश्च पथ्याः| कीदृशाः ? वाटीकृताः-भृष्टविदलीकृता इत्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पथ्ययोग्यं धान्यमाह-रक्ताद्या इति| वाटीकृताः-बाधत्वं नीताः| बाधत्वं-भृष्टस्य शकलीकरणम्|
Adhikarana ओदनविधिः (७३-७४) · Śloka ७४
|
ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम्||७३||
दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः|
|७४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ओदनस्तैः-रक्ताशाल्यादिभिः पूर्वोक्तैश्च, कृतो ज्वरिणो यथायथं यो यस्य दाने योग्यः स तस्य प्रयोक्तव्यः| किम्भूतः ? द्विस्त्रिः स्रुतो-द्वौ वारौ त्रीन् वारान् वा जलं दत्त्वा धातः| कथं प्रयोज्यः ? दोषदूष्यादिबलेन| ज्वरघ्नैः-ज्वरापहैर्द्रव्यैः, क्वाथं कृत्वा, तेन क्वाथेन साधितः| दोषस्य-वातादेर्बलं तथा दूष्यस्य रसादेर्बलमपेक्ष्य, आदिग्रहणाद्देशकालवयः सत्त्वसात्म्यशरीराहारबलं गृह्यते| एकाहादिकानां ज्वरिणामकृतपेयानामेव कुलत्थमुद्गचणकादियूषा उक्ताः| सम्प्रति सामान्येन ज्वरिणां कृतपेयानां यूषादीनाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ओदनविधिमाह-ओदनस्तैरिति| तैः-रक्तशाल्यादिभिः, द्विस्त्रिर्वा स्रुतो-यूळितः(?), उदकान्तरप्रक्षेपेण|
Adhikarana यूषद्रव्याणि (७४) · Śloka ७४
|
मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्च ज्वरापहाः||७४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुद्गाद्यैः-शिम्बीधान्यैः, लघुभिः कृता यूषास्तथा कुलत्थैः कृता यूषा ज्वरघ्नाः| मुद्गाद्यैरित्यादिः प्रकारे| तेन सुजरा मुद्गचणककुलत्थमकुष्टमसूरादयो गृह्यन्ते| मुद्गशब्दस्यादौ निर्देश इदं बोधयति,-यूषसाध्ये व्याधौ बाहुल्येन मुद्गयूषः कार्यः, मुद्गानां पथ्यतमत्वात्| तथा चोवाच मुनिः (छ.सू.अ.२५/३८)- "मुद्गः शिम्बीधान्यानां पथ्यत्वे श्रेष्ठतमः|" इति| ननु, मुद्गाद्यैरित्यादिशब्देनैव कुलत्था गृहिता एव, किं पृथङ्निर्देशेन ? ब्रूमहे| कुलत्थयूषस्य ज्वरविषये विरलः प्रयोगः कार्य इति सूछयितुं पृथक्कृतो निर्देश इति| तथा छ कुलत्था एवंगुणाः (हृ.सू.अ.६/१९)- "उष्णाः कुलत्थाः पाकेऽम्लाः शुक्राश्मश्वासपीनसान्| कासार्शः कफवातांश्च घ्नान्ति पित्तास्रदाः परम्|| इति| एवमुष्णत्वादम्लविपाकित्वादतिपित्तास्रकारित्वात् कुलत्थानां यूषो बहुद्रव्यपरिमाणो बहुमात्रोपयुक्तो ज्वरस्य न शान्तये सम्पद्यते, प्रत्युत वृद्धये स्यादिति सम्भाव्यते, पित्तविरुद्धत्वात्| तस्मादल्पपरिमाणद्रव्यसाधितोऽल्पमात्रया कुलत्थयूषः श्लेष्माद्युपशमकृद्यावन्मात्रः स्यात्तावानेव प्रयोज्यत इति स्थितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यूषद्रव्याण्याह-मुद्गाद्यैरिति|
Adhikarana खलद्रव्याणि रसद्रव्याणि यूषादीनमुपकरणद्रव्याणि (७५-७७) · Śloka ७७
कारवेल्लककर्कोटबालमूलकपर्पटैः|
वार्ताकनिम्बकुसुमपटोलफलपल्लवैः||७५||
अत्यन्तलग़ुभिर्मांसैर्जाङ्गलैश्च हिता रसाः|
व्याघ्रीपरूषतर्कारीद्गाक्षामलकदाडिमैः||७६||
संस्कृताः पिप्पलीशुण्ठीधान्यजीरकसैन्धवैः|
सितामधुभ्यां प्रायेण संयुता वा कृताकृताः||७७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कारवेल्लकादिभी रसा ज्वरे हिताः| मुनिस्तु कारवेल्लकादीनां शाकत्वमेवेच्छति (च.चि.अ.३११८७)| ख़रणादेऽप्युक्तम्-"पटोलं सफलं निम्बं कर्कोटककठिल्लकम्| शाकं पर्पटकं च स्यात्" इति| तथा जाङ्गलैः-जाङ्गलदेशप्राणिजैस्तदभावात्तत्तुल्यैरन्यदेशप्राणिजैरपि, मंसैर्हिता रसा व्याघ्र्यादिभिः संस्कृतास्तथा पिप्पल्यादिभिः संयुता इति वक्ष्यमाणेन सम्बन्धः| संस्कारमात्रयोगभाजः पिप्पल्यादयोऽत्र योज्य इत्यर्थः| प्रायेण केचिदेव सितामधुभ्यां युक्ता अवस्थावशात्, न तु सर्व एव| किम्भूता रसा यूषाश्चैवंविधाः कार्याः ? कृताकृताः| पानकदाडिमाजाजीशुण्ठ्याद्यैरपि संस्कृता यूषा रसाश्च-कृताः| विपरीतास्त्वतः-अकृताः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ख़लद्रव्याण्याह-कारवेल्लकेति| निम्बस्य कुसुमम्| पटोलस्य फलं पल्लवश्च| रसा इति वक्ष्यमाणमत्रयोज्यम्| ख़लत्वं तु धान्यमांसेतरकृतत्वात्|| रसद्रव्याण्याह-अत्यन्तलग़ुभिरिति| यूषादीनामुपकरणद्रव्याण्याह-व्याघ्रीपरूषेति| तानि च व्याघ्र्यादीनि त्रयोदश| प्रयेणैतान्यन्यान्यप्यवस्थावशात् प्रयोज्यानि| ते तु यूषादयः संस्कृताः संयुता वा कार्याः| प्रक्षेप्यापनयनेन संस्कृतत्वम्, अनपनयनेन संयुतत्वम्| प्रक्षेपश्च यथायोगं क्वथनकाले क्वथनानन्तरं वा| स्नेहेन विशिष्टाः-कृताः, अविशिष्टाः-अकृताः, कटुपट्वम्लानामुक्तत्वात्|
Adhikarana व्यञ्जनविधिः (७८) · Śloka ७८
अनम्लतक्रसिद्धानि रुच्यानि व्यञ्जनानि च|
अच्छान्यनलसम्पन्नानि|७८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनम्लेन तक्रेण सिद्धानि| तथा, रुच्यानि-अभ्यवहर्तुमभिलषितानि| तथा, अच्छानि-तनूनि न घनानि| तथा, अनलसम्पन्नानि-वह्निपक्वानि| केचिद्धि तक्रमपक्वमेवाच्छीकृत्य संस्कृत्य च शुण्ठीजीरकादिनाऽभ्यवहरन्ति तन्निषेधायैतदुक्तम्| एवंविधानि व्यञ्जनानि-तेमनानि रसकषायाणी, ओदनेन सहाभ्यवहर्तव्यानि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-व्यञ्जनविधिमाह-अनम्लतक्रसिद्धानीति| व्यञ्जनानि-शाकानि| अच्छानि-घनानि| अनलसम्पन्नानि-सुपक्वानि|
Adhikarana अनुपानानि (७८-७९) · Śloka ७९
|
अनुपानेऽपि योजयेत्||७८||
तानि क्वथितशीतं च वाति मद्यं च सात्म्यतः|
|७९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनुपानेऽपि-आतुरस्य पश्चात्पानेऽपि, तानि योजयेत्| तथा क्वथितशीतं च वारि मद्यं च, सात्म्यतः-सात्म्यवशात्, अनुपानेऽपि योजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनुपानान्याह-अनुपानेऽपीति| तानि-व्यञ्जनानि पानयोग्यानि कृतानि|
Adhikarana अन्नग्रहणकालः (७९-८०) · Śloka ८०
|
सज्वरं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु||७९||
श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा|
|८०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सज्वरं नरं दिनान्ते भोजयेत्,-अथवा ज्वरमुक्तं-अचिरकालज्वरत्यक्तम्| किम्भुतं भोजनं भोजयेत् ? लघु,-मात्रया स्वभावात् (च) उभयथा यल्लघु| किमित्येतस्मिन् काले लघु भोजयेत् ? इत्याह-श्लेष्मेत्यादि| तदा-तस्मिन्दिनान्ताख्ये काले, श्लेष्मक्षयो यस्तेन विवृद्ध ऊष्मा-स्वस्वभवो, यस्यानलस्य जाठराग्रेरसौ श्लेष्मक्षयविवृद्धोष्माऽनलः| अत एव बलवान् तदा पक्तुं शक्तः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पथ्यग्रहणकालमाह-सज्वरं ज्वरमुक्तं वेति| ज्वरमुक्तं तु-आबललाभात्| दिनान्ते-पञ्चदशे मुहूर्ते| लघु-अल्पमात्रम्| तदा-दिनान्ते|
Adhikarana दिनान्तरस्यापवादः (८०) · Śloka ८०
|
यथोचितेऽथवा काले देशसात्म्यानुरोधतः||८०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथवा यथोचिते काले सज्वरं ज्वरमुक्तं वाऽऽतुरं भोजयेत्| यस्य यस्य य उचितः-सात्म्यः, आहारकालस्तस्मिन् भोजयेत्| यथोचिते हि काले प्रायः क्षुदुपगमो जायते| कथं भोजयेत् ? इत्याह-देशेत्यादि| देशसात्म्यवशात् तं भोजयेत्, नैवमेव| ननु, एवं यस्य पूर्वाह्णे काले भोजनमुचितं तदा तस्य भोजने दीयमाने को गुणः स्यात् ? इत्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दिनान्तस्यापवादमाह-यथोचितेऽथवेति| देशो-भूमिर्देहश्च|
Adhikarana अपवादापवादः (८१) · Śloka ८१
प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते|
|८१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्मादल्पवह्निः-मन्दाग्निः, पूर्वाह्णे भुञ्जानोऽजीर्णेन न पिड्यते-न बाध्यते| अधुना सर्पिःपानकालं निरूपयति-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अपवादापवादमाह-प्रागल्पवह्निरिति| योऽल्पवह्निः प्राक्-दिनान्ते, भुञ्जानो हि-स्फुटं, अजीर्णेन न बाध्यते, अन्यथा बाध्यते, तस्माद्दिनान्त एव भुञ्जीत| अमन्दवह्निं प्रति पूर्वोऽपवादः|
Adhikarana घृतदानकालः अकाले तत् विषोपमम् (८१-८३) · Śloka ८३
|
कषायपानपथ्यान्नैर्दशाह इति लङ्घिते||८१||
सर्पिर्दद्यात्कफे मन्दे वातपित्तोत्तरे ज्वरे|
पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा||८२||
दशाहे स्यादतीतेऽपि ज्वरोपद्रववृद्धिकृत्|
लङ्घनादिक्रमं तत्र कुर्यादाकफसङ्क्ष्यात्||८३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कषायस्य-मुस्तापर्पटकादेः, पानं कषायपानम्, तेन| तथा, पथ्यान्नैः-पेयायूषादिभिः, दशाह इति-अनेन प्रकारेण, लङ्घिते-अतिक्रान्ते| तथेति प्रायेण क्षीणः कफः सम्भाव्यतेऽतो दशाहे लङ्घित इत्युक्तम्| आमज्वरसंज्ञानिवृत्तिस्तु षडहादूर्ध्वं सप्तमेऽह्न्यष्टमे वाऽहनि ज्वरस्य जायते| तथा च मुनिः (च. चि. अ. ३/२७२)- "सप्ताहेन हि पछ्\यन्ते सप्तधातुगता मलाः| निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि||" इति| तस्मात् कषायपानपथ्यान्नैरित्यादितो दशाहे लङ्घिते कफे मन्दे-क्षीणप्राये, सर्पिदद्यात्| किम्भूते ज्वरे ? वातपित्तोत्तरे,- वातपित्ताधिके| अस्यामवस्थायां पक्वेषु-निरामेषु वातादिदोषेषु, सर्पिर्दद्यात्| पक्वेषु सर्पिर्दत्तममृतं-महागुणमित्यर्थः| अन्यथा पुनः अपक्वेषु दोषेषु कफोत्तरे, तत्सर्पिर्दत्तं विषोपमं-विषतुल्यं, दशाहेऽतिक्रान्तेऽपि स्यात्| अतोऽस्यामवस्थायां सर्पिर्दत्तं ज्वरस्य तदुपद्रवाणां च वृद्धिं करोति, तस्मादस्यामवस्थायां सर्पिःपानमयुक्तम्| तत्र-कफोत्तरे ज्वरे सति, लङ्घनादिक्रमं कुर्यात्| कियन्तं कालम् ? आकफसङ्क्ष्यात्,- यावत्कफस्य-ज्वरकारिणोऽधिकस्य, सङ्क्ष्यः-सम्यक् क्षयः, न धातुक्षयोऽपि यावत्| यतः कफज्वरेऽपि विडङ्गादिसर्पिर्वक्ष्यति (श्लो. ९३)| अथ जीर्णज्वरचिकित्सामाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-असर्पिष्कस्य भोजनस्यावधिमाह-कषायपानपथ्यान्नैरिति| पक्वेषु दोषेषु दशाहेऽनतीतेऽप्यमृतोपमं सर्पिः| अपक्वेष्वतीतेऽपि विषोपमम्, ज्वरोपद्रववर्धनात्| तत्र-तथाविधे चिरपाकज्वरे, लङ्घनादिक्रममेव कुर्यात्, न ससर्पिष्कभोजनादिष्टं [बृं]हणक्रमम्| सिद्धयोगे तु पथ्ये विशेष उक्तः (ज्वराधिकारे श्लो. ४२)- "श्रमोपवासानिलजे हितो नित्यं रसौदनः|| मुद्गयूषौदनश्चापि देयः कफसमुत्थिते| स एव सितया युक्तः शीतः पित्तज्वरे हितः|| मुद्गामलकयूषस्तु वातपित्तात्मके हितः| मुद्गामलकयूषस्तु गाढविट्के विधीयते|| शुष्कमूलकयूषस्तु कफवातात्मके हितः| निम्बकूलकयूषस्तु हितः पित्तकफात्मके|| कूलकः-पटोलम्| लघुना पञ्चमूलेन पिप्पल्या सह धान्यया| महत्या पञ्चमूल्या तु व्याघ्रीदुःस्पर्शगोक्षुरैः|| सिद्धानि भिषगन्नानि प्रयुञ्जीत यथाक्रमम्| वातपित्ते श्लेष्मपित्ते कफवाते त्रिदोषजे|| (श्लो. १६४)-यवकोलकुलत्थानां मुद्गमूलकशुण्ठयोः| एकैकं मुष्टिमाहृत्य पचेदष्टगुणे जले|| पञ्चमुष्टिक इत्येष वातपित्तकफापहः| शस्यते गुल्मशूले च श्वासे कासे क्षये ज्वरे|| मूलकशुण्ठः-शुष्कमूलकम्| पञ्चमुष्टिकयूषेण त्रिकण्टककृतेन वा| आदोषशमनात्पथ्यं त्रिकण्टेनैव साधयेत्|| महादाहो विधातव्यो यूषश्चणकसम्भवः| मुस्तापर्पटकैरातो निर्यूहेन प्रसाधितः|| कफपित्तज्वरहरो यूषो धान्यपटोलयोः| (वङ्गसेने ज्वरा. श्लो. ४१६)-यवकोळकुलत्थैस्तु मुद्गमूलकशुण्ठकैः|| धान्याकविश्वैः संयुक्तैर्यूषो वातकफापहः| सप्तमुष्टिक इत्येष सन्निपातज्वरापहः|| कफवातामदोषघ्नः कण्ठहृद्वक्त्रोशोधनः||" इति| इति नवज्वरः|
Adhikarana जीर्णज्वरानुवृत्तौ हेतुः (८४) · Śloka ८४
देहधात्वबलत्वाच्च ज्वरो जीर्णोऽनुवर्तते|
|८४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीर्णः-पुराणो ज्वरः, अनुवर्तते-अनुबध्नाति| कुतः ? देहधात्वबलत्वात्| देहधातवः-तदारम्भका रसरुधिरादयः, देहग्रहणाद्वातपित्तश्लेष्माणोऽपि धारणाद्धातव उच्यन्ते| देहधातूनामबलत्वं-स्वल्पत्वम्| तस्माच्च जीर्णो ज्वरोऽनुबध्नाति, न स्वभावमात्रादेव, इति चशब्दस्यार्थः| जीर्णज्वरस्य शान्त्यर्थं देहबलाधानार्थं च सर्पिःपानं हितमिति प्रतिपादयन्नाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ जीर्नज्वरः| तत्र जीर्णज्वरानुवृत्तौ हेतुमाह-देहधात्वबलत्वाच्चेति| देहस्याबलवत्त्वं-स्रोतसामदृढत्वम्| धातूनामबलत्वं-स्वस्रोतोभिसञ्चरणाशक्तिः|
Adhikarana सर्पिः क्वाथैः प्रयोगे युक्तिः (८४-८६) · Śloka ८६
|
रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च||८४||
वमनस्वेदकालाम्बुकषायलग़ुभोजनैः|
यः स्यादतिबलो धातुः सहचारी सदागतिः||८५||
तस्य संशमनं सर्पिर्दीप्तस्येवाम्बु वेश्मनः|
|८६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रूक्षं यत्तेजस्तज्ज्वरकृत्| रूक्षमिति वचनाद्देहोष्मा जाठरोऽनलो गृह्यते, तस्यैव ज्वरकृत्त्वात्| तथोक्तम् (हृंइ.अ.२/३)- "मलास्तत्र स्वैःस्वैर्दुष्टाः" इत्यादि यावत्| "ज्वरं निर्वर्तयन्ति ते|" इत्यादि जाठरानलस्यैव ज्वरकृतत्वम्| तेन ज्वरकृता रूक्षेण तेजसा रूक्षितस्य च पुंसः सर्पिः संशमनम्| चशब्दाच्चान्यस्यापि| अत एवाह-वमनेत्यादि| वमनादिभी रौक्ष्यकृद्भिः कृतैस्तदानीं यः स्यात्-भवेत्, अतिबलः-प्रवृद्धत्वादतिसमर्थो धातुः| को धातुः ? सहचारी,-यः सह चरति तच्छीलो वाताख़्यो धातुरग्निना सह चरति| ननु, एवं परस्परसहचरभावत्वेऽग्निरपि वायुना सह चरति, ततोऽग्निस्वभावत्वात् पित्ताख़्योऽपि धातुरिह सहचारी प्राप्तः, तन्निवृत्त्यर्थं सदागतिरित्याह| सदागतित्वं वायोरेवान्वर्थत्वेनोपपद्यत इति पित्तस्याग्रहणम्| किं कस्य यथा संशमनम् ? अम्बु वेश्मनो-गृहस्य, दीप्तस्य-ज्वलितस्य, जलं यथा|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सर्पिःप्रयोगे युक्तिमाह-रूक्षमित्यादि| हि-यस्मात्, जीर्णावस्थायां निरामं तेजो ज्वरं करोति| तेन च तेजसा रूक्षितस्य ज्वरिणः, तथा वमनादिभिर्नवज्वरोपक्रमै रूक्षितस्य, सहचारी-सख़ा, पुनस्तदेव वर्धयति| ततो धातून् नयति| तस्य-तथानुवृत्तस्य जीर्णज्वरस्यानुवृत्तौ प्रधानभूतस्य वायोः, सर्पिः संशमनम्|
Adhikarana सर्पिर्दानम् (८६-८७) · Śloka ८७
|
वातपित्तजितांग्र्यं संस्कारं चानुरुध्यते||८६||
सुतरां तद्ध्यतो दद्याद्यथास्वौषधसाधितम्|
|८७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यस्माद्धृतं सर्वेषां वातपित्तजितामग्र्यं यथा न तथाऽन्यान्यौषधानि वातपित्तजिन्तीति| अत एव प्रागभ्यधात् (श्लो. ८२)- "सर्पिर्दद्यात्कफे मन्दे वातपित्तोत्तरे ज्वरे|" इत्यादि| यस्माच्छ घृतं संस्कारमनुरुध्यते-अनुवर्तते| गुणान्तराधानं-संस्कारः| तं च यस्माद्धृतं सुष्ट्वतिशयवैलक्षण्यादनुरुध्यते-आत्मसात्करोति| तैलादिरपि स्नेहः संस्कारमनुवर्तते| न तु यथा घृतं स्वशैत्यमजहदेव संस्कारमनुवर्तत इति| एतच्छ स्नेहविधौ प्रतिपादितमेव| अमुमेव छ न्यायमङ्गीकृत्य मुनिरप्यवोचत् (चंइ.अ.१/४०)-"नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते| यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्||" इति| हि-यस्मात्, सुतरां संस्कारमनुरुध्यते घृतम्, तस्माद्धृतं जीर्णे वातपित्तोत्तरे निर्विकल्पं दद्यात्| कीदृशम् ? यथास्वौषधसाधितम्,-यथायथं व्याधिप्रतिपक्षैरौषधैः पक्वम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सर्पिर्दानं विधत्ते-वातपित्तजितामग्न्यमिति| यत एवं अतस्तत्सर्पिर्दद्यात्| सर्पिर्पोऽपि तैलं वातहरमिति चेत्तत्राह-वातपित्तजितामग्न्यं पित्तसंसृष्टश्श(वा)तायु(?)| जीर्णज्वरे तैलमप्यौषधसाधितं तथेति चेत्तत्राह-संस्कारं चानुरुध्यते सुतराम्| अत एव यथास्वौषधसाधितमित्युक्तम्|
Adhikarana सर्पिषो हेतुव्याधिविपरीतत्वम् (८७-८८) · Śloka ८८
|
विपरीतं ज्वरोष्माणं जयेत्पित्तं च शैत्यतः||८७||
स्नेहाद्वातं घृतं तुल्यं योगसंस्कारतः कफम्|
|८८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-घृतं विपरीतं ज्वरोष्माणं जयेत्| ज्वरनिर्वर्तक ऊष्माजाठरोऽनलो, रूक्षतीक्ष्णादिगुणः स पक्तिस्थानान्निरस्तो ज्वरनिर्वर्तको घृतस्य स्निग्धशीतत्वादिगुणयोगाद्विपरीतः, एवं विपरीतं ज्वरोष्माणं घृतं जयेत्| पित्तं च शैत्यतः-शैत्याद्धृतं जयेत्, न स्नेहात्, "पित्तं सस्नेह" (हृ.सू.अ.१/११) इति वचनात्| स्नेहात्-स्निग्धत्वात्, ऋतं वातं जयेत् न तु शैत्यात्, "शीतोऽनिलः" (हृ.सू.अ.१/११) इति वछनात्| कफं स्निग्धशीतत्वादिना तुल्यं योगसंस्काराभ्यां जयेत्| योगो-युक्तिः कफज्वरहरैर्द्रव्यैः सह योजना, संस्कारो-गुणाधानम्, योगश्च संस्कारश्छ योगसंस्कारौ, ताभ्यां घृतं कफं जयेत्| ननु, विपरीतं ज्वरोष्माणं घृतं जयेदिति न घटते, घृतस्याग्निवृद्धिहेतुत्वात्| तथा च वक्ष्यति (हृ.छि.अ.१०/६८)-"स्नेहमेव परं विद्याद्दुर्बलानलदीपनम्| नालं स्नेहसमिद्धिस्य शमायान्नं सुगुर्वपि||" इति| अत्राचक्ष्महे| घृतं स्नेहनत्वदीपनत्वाभ्यां वातशमनं कुर्वञ्ज्वरोष्माक्षेपत्वं वातस्य विनिर्वाय ज्वरोष्मणोऽपि रौक्ष्यतैक्ष्ण्यादियुतस्य घृतं विपरीतगुणत्वाच्छमं करोति, न वृद्धिम्| ननु, यथा स्नेहाद्वातं शमयति तथा तत एव स्नेहात्किमिति घृतं समानगुणत्वात् पित्तं शमयति ? बॄमः| जीर्णज्वरे लङ्घनादिभिरतिरूक्षेण ज्वरोष्मणा पित्तं रूक्ष्मेव सम्पन्नं स्नेहभागपरिक्षयान्न सस्नेहम्, अतः कथं कृत्वा ज्वरयतु ?| तच्च घृतं पित्तमेव शमयति, न वातं कोपयति, द्रव्यप्रभावत्वात्सस्नेहनत्वाच्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सर्पिषो व्याधिविपरीतत्वं हेतुविपरीतत्वं चाह-विपरीतं ज्वरोष्माणमिति| विपरीतं-उष्णम्| ज्वरं वातमपि विपरीतम्| कफस्तु शीतत्वात् स्निग्धत्वाच्च तुल्यः, तमप्युष्णरूक्षयोगसंस्काराज्जयेत्|
Adhikarana उक्तिः क्वाथैः सर्पिः पानम् (८८) · Śloka ८८
|
पूर्वे कषायाः सघृताः सर्वे योज्या यथामलम्||८८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पूर्वे कषायाः-प्रागुक्तानि पाचनानि, सह घृतेन प्रयुञ्ज्यात्| कथम् ? यथामलं-दोषानतिक्रमेण|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उक्तैः क्वाथैः सर्पिःपानमाह-पूर्वे कषाया इति| यथामलं-यथादोषम्, वातज्वरे वातज्वरघ्ना इत्यादि| ये तु प्रागेव ससर्पिष्का उक्ताः, ते न ज्वरे दानार्थम्, तत्र च न सर्पिः प्रधानं चूर्णाद्या वा, एतत्प्रयोगात्| इह तु प्रधानम्, अत एव समेन क्वाथेन पेयम्, भागानुक्तौ समत्वात्|
Adhikarana कासोपद्रवके ज्वरे सर्पिः प्रयोगः (८९) · Śloka ८९
त्रिफलापिचुमन्दत्वङ्माधुकं बृहतीद्वयम्|
समसूरदलं क्वाथः सघृतो ज्वरकासहा||८९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिपलादीनि मसूरदलानि चैष क्वाथो घृतेन सहोपयोजितो ज्वरकासहा स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कासोपद्रवके ज्वरे सर्पिःप्रयोगमाह-त्रिफलेति| मसूरदलान्तानि क्वाथ्यानि|
Adhikarana पिप्पल्यादिसिद्धं घृतम् (९०-९१) · Śloka ९१
पिप्पलीन्द्रयवधावनितिक्ता- सारिवामलकतामलकीभिः|
बिल्वमुस्तहिमपालनिसेव्यै- र्द्राक्षयाऽतिविषया स्थिरया च||९०||
घृतमाशु निहन्ति साधितं ज्वरमग्निं विषमं हलीमकम्|
अरुचिं भृशतापमंसयो- र्वमथुं पार्श्वशिरोरुजं क्षयम्||९१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पिप्पलीत्यादिभिर्द्रव्यैः कल्कीकृतैर्घृतचतुर्थांशैस्तोयेन चतुर्गुणेन घृतापेक्षया साधितं घृतमाशु ज्वरं हन्ति, विषमा ग्न्यादींश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पिप्पल्यादिसिद्धंघृतमाह-पिप्पलीति| धावनी-कण्टकारी| तामलकी-भूम्यामलकी| हिमं-चन्दनम्| पालनी-त्रायमाणा| सेव्यं-उशीरं| अत्र घृते द्रवमुदकम्, पिप्पल्यादीनां कल्कः|
Adhikarana तैल्वकादिघृतानि (९२) · Śloka ९२
तैल्वकं पवनजन्मनि ज्वरे योजयेत्रिवृतया वियोजितम्|
तिक्तकं वृषघृतं च पैत्तिके यच्च पालनिकया शृतं हविः||९२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तैल्वकं घृतं-वातव्याधिचिकित्सितोक्तं (अ.२१/३२), त्रिवृतया रहित [ वातिके ज्वरे ] पिबेत्| पैत्तिके ज्वरे तिक्तकं कुष्ठचिकित्सितोक्तं (अ.१९/२), तथा वृषघृतं-रक्तपित्तचिकित्सितोक्तं (अ.२/४०), अत्रैव वा वक्ष्यमाणं (श्लो.९४), योजयेत्| पालनिकया-त्रायन्त्या, यद्धृतं पक्वं तच्च पित्तज्वरे योजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तैलवकादिघृतान्यतिदिशति-तैल्वकमिति| तैल्वकं-वातव्याधिचिकित्सितोक्तं "पलाष्टकं तिल्वकतो वरायाः" (अ. २१/३२) इत्यादि| तत्र च त्रिवृदुक्ता, सा प्रत्याख्याता| तिक्तकादीनि त्रीणि पित्तज्वरे| तच्च तिक्तकं-कुष्ठचिकित्सितोक्तं "पटोलनिम्बकटुका" (अ. १९/२) इत्यादि| वृषघृतं-रक्तपित्तचिकित्सितोक्तं "समूलमुस्तकं क्षुण्णं" (अ. २/४०) इत्यादि| पालनिकाघृतं-विद्रधिचिकित्सितोक्तं "कुडवं त्रायमाणायाः" (अ. १३/१३) इत्यादि|
Adhikarana जीर्णकफज्वरघ्नं घृतम् (९३) · Śloka ९३
विडङ्गसौवर्चलचव्यपाठा- व्योषाग्निसिन्धूद्भवयावशूकैः|
पलांशकैः क्षीरसमं घृतस्य प्रस्थं पचेज्जीर्णकफज्वरघ्नम्||९३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विडङ्गादिभिः पलप्रमाणौर्घृतप्रस्थं क्षीरतुल्यं चतुर्गुणजलं पचेत्| तच्चोपयुक्तं जीर्णो यः कफज्वरस्तं हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कफज्वरघ्नं घृतमाह-विडङ्गसौवर्चलेति| विडङ्गादीनां दशानां कल्कीकृतानां प्रत्येकं पलम्| घृतस्य प्रस्थं-द्वात्रिंशत्पलानि|
Adhikarana गुडूचीघृतादिपञ्चकम् (९४) · Śloka ९४
गुडूच्या रसकल्काभ्यां त्रिफलाया वृषस्य च|
मृद्वीकाया बलायाश्च स्नेहाः सिद्धा ज्वरच्छिदः||९४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गुडूच्यादीनां पञ्चानां पृथ्क्पृथग्रसकल्काभ्यां सिद्धाः पञ्च स्नेहाः ज्वरच्छिदो-जीर्णज्वरघ्नाः स्युरित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-गुडूचीघृतादिपञ्चकमाह-गुडूच्या रसकल्काभ्यामिति| सङ्ग्रहे तु (चि.अ. २)-"वासागुडूचीत्रिफलात्रायमाणायवासकात्| क्वाथे क्षीरे च विपचेज्ज्वरघ्नं कल्कितैर्घृतम्|| पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागरैः| बलादुरालभामुस्तात्रायन्तीनिम्बपर्पटम्|| पञ्चमूलं कनीयश्च क्वाथयित्वा घ्रुतं पचेत्| सक्षीरं कल्कितैर्द्राक्षामेदामलकषौष्करैः|| शठीतामलकीयुक्तैस्तच्च ज्वरहरं परम्| क्षयकासशिरःपार्श्वहृच्छूलांसाभितापनुत्|| कुलत्थकोलत्रिफलादशमूलयवान् पचेत्| द्विपलान् सलिलद्रोणे पूते पिष्ट्वाऽक्षिकान् क्षिपेत्|| पञ्चकोलकसप्ताह्ववयस्थानिम्बतुम्बरून्| शठीपुष्करमूलार्कमूलप्रतिविषावचाः|| किराततिक्तकं मुस्तं कर्कटाख्यां दुरालभाम्| नक्तमालमुभे पाठे कटुकाशिग्रुतेजिनीः|| सोमवल्कद्विरजनीकण्टकीकण्टकारिकाः| पटोलीहिङ्गुगोजिह्वाकेम्बुकं मदनाज्जटाम्|| लवणानि पलांशानि क्षारानर्द्धपलोन्मितान्| प्रस्थं चाज्यस्य तत्सिद्धं दीपनं कफवातजित्|| हृत्प्लीहग्रहणीगुल्मश्वासकासार्शसं हितम्| दीर्घज्वराभिभूतानां ज्वरिणाममृतोपमम्|| वयस्था-गुडूची| तेजिनी-मूर्वा| सोमवल्कः-कट्फलः| कण्टकीविकङ्कतः| मदनो-राठः| क्षारान्-यवक्षारस्वर्जिकाक्षारटङ्कणक्षारान्| मञ्जिष्ठातिविषापथ्यावचानागररोहिणीः| देवदारु हरिद्रां च द्रोणेऽपां पालिकान् पचेत्|| क्वाथेऽस्मिन् साधयेत्पिष्टैर्घृतप्रस्थं पिचून्मितैः| शृङ्गवेरकणाहिङ्गुद्विक्षारपटुपञ्चकैः|| तत्कफावृतसर्वोत्थज्वरिणाममृतोपमम्| वर्ध्महिध्मारुचिश्वासकासपाण्डुविकारिणाम्|| गलग्रहप्रमेहार्शःप्लीहापस्मारशोषिणाम्| उदावर्तपरीतानां मन्दाग्निक्रिमिकोष्ठिनाम्||" इति| सिद्धयोगे तु (ज्वराधिकारे श्लो. २५३)- "दशमूलीरसे सर्पिः सक्षीरे पञ्चकोलकैः| सक्षारैर्हन्ति तत्सिद्धं ज्वरकासाग्निमन्दताम्| वातपित्तकफव्याधीन् प्लीहानं चपि पाण्डुताम्|| अस्य षट्पलेन दत्वा(?)सर्पिः प्रस्थम्, षट्पलः कल्कः, क्षीरं समम्, अर्थाद्दशमूलीरसस्त्रिगुणः| पञ्चकोलैः ससिन्धूत्थैः पालिकैः पयसा समम्| सर्पिःप्रस्थं शृतं प्लीहविषमज्वरगुल्मनुत्||" इति| वङ्गसेने तु (ज्वराधिकारे श्लो.७३१)- "कल्याणकं षट्पलं वा घृतं जीर्णज्वरे पिबेत्|| कुक्कुटं तरुणं सद्यः शकृत्पादास्यवर्जितम्| तस्य मांसस्य कुर्वीत शृतं पलशतं भिषक्|| बृहती कण्टकारी च शृङ्गी कर्कटकस्य च| बदराणि कुलित्थाश्च भार्गी ह्यामलकं तथा|| शकटी पुष्करं मूलं पञ्चमूलं महत्तथा| एतत्तुलां च सङ्गृह्य तद्द्विद्रोणेऽम्भसः पचेत्|| पादशेषं परिस्राव्य कषायं ग्राहयेद्भिषक्| षड्गुणं क्षीरमाहृत्य विपचेत्तु घृताढकम्|| तत्र कल्कीकृतं दद्यादाश्वत्थं पञ्चमूलकम्| तत्साधुसिद्धं विज्ञाय शुभे भाण्डे निधापयेत्|| तस्य काले पिबेन्मात्रां बलं दोषमवेक्ष्य च| जीर्णे तस्मिंस्तु भुञ्जीत रक्तशाल्योदनं मृदु|| जीर्णज्वरोपसृष्टानां शुष्यतां श्वासकासिनाम्| प्रयोज्यं कौक्कुटं सर्पैर्यक्ष्मिणां विषमज्वरे| लेखनं बृंहणीयं च बलवर्णाग्निवर्धनम्|| पञ्चमूलकं-पञ्चाङ्गम्| वासारिष्टामृताभार्गीपञ्चमूलफलत्रिकैः| सयासमधुकद्राक्षाकाश्मर्यैरक्षसम्मितैः|| घृतप्रस्थं विपक्तव्यमेभिर्मात्रामतः पिबेत्| वृद्धवासाघृतं प्रोक्तमेतत्सर्वज्वरापहम्|| मागधीचूर्णकुडवं तस्मादष्टगुणं हविः| जले चतुर्गुणे सिद्धं ज्वरघ्नं प्लीहनाशनम्||" इति|
Adhikarana जीर्णै घृते मांसरसाशनम् (९५) · Śloka ९५
जीर्णे घृते च भुञ्जीत मृदुमांसरसौदनम्|
बलं ह्यलं दोषहरं परं तच्च बलप्रदम्||९५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-घृते च परिणते सति मृदु-अतीक्ष्णं मांसरसाशनं भुञ्जीत| हि-यस्मात्, अलं बलं जातं दोषहरं भवति| तच्चरसाशनं अतिशयेन बलकरं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-घृतानन्तरं पथ्यमाह-जीर्णे घृते चेति| हियस्मात्, बलमत्यर्थं दोषहरम्| तच्च-मांसं, अत्यर्थं बलप्रदम्|
Adhikarana वातोत्तरे जीर्णज्वरे यूषख़लयोर्निषेधः (९६-९७) · Śloka ९७
कफपित्तहरा मुद्गकारवेल्लादिजा रसाः|
प्रायेण तस्मान्न हिता जीर्णे वातोत्तरे ज्वरे||९६||
शूलोदावर्तविष्टम्भजनना ज्वरवर्धनाः|
|९७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अत एव तस्मात्कारणात् मुद्गकारवेल्लादिजा रसाः कफपित्तहरा जीर्णज्वरे वातोत्तरे प्रायेण न हिताः| ते ह्युपयुक्ताः शूलादिकृतो ज्वरवर्धनाश्च स्युः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-यूषख़लयोर्निषेधमाह-कफपित्तहरा इति| मुद्गादिरसाः-यूषः| कारवेल्लादिरसाश्च-ख़लः| इति जीर्णज्वरग़ृतानि|
Adhikarana जीर्णज्वरे शोधनकालः (९७-९८) · Śloka ९८
|
न शाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनम्||९७||
शोधनार्हस्य, वमनं प्रागुक्तं तस्य योजयेत्|
आमाशयगते दोषे बलिनः पालयन्बलम्||९८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एवमपि कृते सति यदि ज्वरो न शाम्यति तदा शोधनार्हस्य नरस्य प्रागुक्तं-"पिप्पलीभिर्युतान् गालान्" (श्लो.६) इत्यादिकं, वमनं योजयेत्| कदा ? दोषे आमाशयगते सति, बलवतः पुंसो वमनं योजयेत्, बलं पालयन्-रक्षयन्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ जीर्णज्वरशोधनानि| तत्र शोधनकालमाह-न शाम्यतीति| वमनमाह-वमनं प्रागुक्तमिति| प्रागुक्तं-"पिप्पलीभिर्युतान् गालान्" इत्यादि| सङ्ग्रहे तु (चि.अ. २) "सन्तर्पणोत्थे वमनं पिप्पलीलवणाम्बुना| शर्करामाक्षिकाम्भोभिर्दाहतृष्णोल्बणे ज्वरे||" इति|
Adhikarana विरेचनमौषधानि (९९-१०१) · Śloka १०१
पक्वे तु शिथिले दोषे ज्वरे वा विषमद्यजे|
मोदकं त्रिफलाश्यामात्रिवृत्पिप्पलिकेसरैः||९९||
ससितामधुभिर्दद्याह्योषाद्यं वा विरेचनम्|
(लिह्याद्वा त्रैवृतं संयुक्तं मधुसर्पिषा|
) द्राक्षाधात्रीरसं तद्वत्सद्राक्षां वा हरीतकीम्||१००||
आरग्वधं वा पयसा मृद्वीकानां रसेन वा|
त्रिफलां त्रायमाणां वा पयसा ज्वरितःपिबेत्||१०१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पक्वे पुनर्दोषे तथा शिथिले-अविष्टब्धे, अथवा विषजेमद्योत्थे वा ज्वरे, मोदकं त्रिफलादिभिर्विरेचनं दद्यात्| व्योषाद्यं वा-"व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत्| सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः||" (हृ.क.अ. २/२१) इति वा, दद्यात्| अथवा पयसा-क्षीरेण, मृद्वीकानां रसेन वा, आरग्वधं विरेचनं दद्यात्| त्रिफलां त्रायन्ती वा पयसा ज्वरी पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०_विरेचनमाह-पक्वे त्विति| श्यामा-श्याममूला त्रिवृत्| त्रिवृत्-अरुणमूला| केसरं-नागकेसरम्| सितया मोदकं कृत्वा मधुना लिह्यात्| व्योषाद्यं विरेचनमतिदिशति-व्योषाद्यं वेति| तच्च विरेचनकल्पोक्तं "व्योषत्रिजातकाम्भोद" इत्यादि| विरेचनषट्कमाह-द्राक्षाधात्रीरसं तद्वचिति| तत्र त्रीणि धात्रीहरीतक्यारग्वधैर्द्राक्षायुक्तैः| त्रीण्यारग्वधत्रिफलात्रायमाणाभिः पयोयुक्ताभिः| सङ्ग्रहे तु (चि.अ. २)-"रसमामलकानां वा घृतभृष्टं ज्वरापहम्| लिह्याद्वा त्रिवृतश्चूर्णं कृष्णात्रिफलयोस्तथा|| सर्पिर्मधुभ्यां त्रिफलां पिबेद्द्राक्षारसेन वा| सघृतं त्रिफलाक्वाथं सर्पिषा वा विना घृतम्|| पयोनुपानमुष्णं वा मृद्वीकास्वरसं पिबेत्|" इति| वङ्गसेने तु (ज्वराधिकारे श्लो. ७२७)- "मधुकारग्वधद्राक्षातिक्तायासफलत्रिकैः| सपटोलैर्जलं भेदि ज्वरं हन्ति त्रिदोषजम्|| अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु| शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः||" इति|
Adhikarana विरेचानानन्तरं संसर्गीक्रमः (१०२) · Śloka १०२
विरिक्तानां च संसर्गी मण्डपूर्वा यथाक्रमम्|
|१०२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विरिक्तानां ज्वरिणां चशब्दाद्वमितानां च यथाक्रमंक्रमानतिक्रमेण, संसर्गी कर्तव्येत्यध्याहार्यम्| मण्डः पूर्वः-प्रथमो, यस्यां सैवम्| मण्डं प्रथमं दत्त्वाऽनन्तरं पेयाविलेप्यादयो यथाक्रमं देयाः| कृतवमनविरेचनानन्तरं यः पेयाद्यवचारणाक्रमः स संसर्गीत्युच्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विरेचनानन्तरं पथ्यमाह-विरिक्तानां चेति| संसर्गी-पेयादिक्रमः, "पेयां विलेपीं (हृ.सू.अ. १८/२९) इत्यादिकः|
Adhikarana स्वयंप्रवृत्तेः स्तम्भननिषेधः (१०२-१०३) · Śloka १०३
|
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा||१०२||
पक्वोऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः|
|१०३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ज्वरेणोत्क्लिष्टं-उत्क्लेशितं ज्वरोत्क्लिष्टं, मलं-पुरीषाख़्यं, च्यवमानं-पतन्तं, सदा उपेक्षेत-न तद्विधारणे प्रयत्नं कुर्यात्| ननु, औषधानि (धेन) किमित्यसौ न विध्नीयते ? इत्याह-पक्वोऽपीत्यादि| दोषः-पुरीषाख़्यो, यतः पक्वः| अपिशब्दात्किमुतापक्वः ? कोष्ठे-आमपक्वाशयाश्रयाख़्ये, कृतं-गृहीतं, आस्पदं-अवस्थितिः, येन स एवंभूतो विकुर्वीत-विकारं कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्वयंप्रवृत्तेः स्तम्भनं निषेधयति-च्यवमानमिति|
Adhikarana अतिप्रवृत्तौ पाचनपूर्वकं स्तम्भनं कार्यम् (१०३-१०४) · Śloka १०४
|
अतिप्रवर्तमानं वा पाचयन् सङ्ग्रहं नयेत्||१०३||
आमसङ्ग्रहणे दोषा दोषोपक्रम ईरिताः|
|१०४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतिप्रवर्तमानं वा तं मलं अपक्वं पाचयन् सङ्ग्रहं नयेत्- न त्वाम एव सङ्गृहीतव्य इत्याह-आमसङ्ग्रहण इत्यादि| आमशब्दः पुरीषाख़्यस्य दोषस्य पच्यमानावस्थोपलक्षणार्थः| आमस्य-अपक्वस्य दोषस्य, सङ्ग्रहणमामसङ्ग्रहणं तस्मिन्नाम सङ्ग्रहणे ये दोषा भवन्ति ते दोषोक्रमे-दोषोपक्रमणीयेऽध्याये, ईरिताः-उक्ताः| तथा च तत्रोक्तम् (हृ.सू.अ.१३/३१)- "उत्क्लिष्टनध ऊर्ध्वं वा न चामान् वहतः स्वयम्| धारयेदौषधैर्दोषान् विधृतास्ते हि रोगदाः||" इति| तस्मादामसङ्ग्रहणार्थमौषधं न देयम्| तथा, आमज्वरेऽप्यामनिर्हरणार्थमौषधं न देयम्, इतिप्रतिपादयन्नाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-[ अति ] प्रवृत्तौ पाचनपूर्वकं स्तम्भनं कार्यमित्याह-अतिप्रवर्तमानं वेति|
Adhikarana आमज्वरे शोधननिषेधः (१०४-१०५) · Śloka १०५
|
पाययेद्दोषहरणं मोहादामज्वरे तु यः||१०४||
प्रसुप्तं कृष्णसर्पं स कराग्रेण परामृशेत्|
|१०५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तुर्व्यतिरेके भिन्नक्रमः| यस्तु मोहात्-अज्ञानात्, भिषक्पापो दोषहरणमामज्वरे पाययेत् स स्वयमनर्थकारी सुप्तं कृष्णसर्पं करस्याग्रेण परामृशेत्-स्पृशेत्| अतिप्रत्यवायं पश्यतैवमुक्तं तन्त्रेकृता| तत्र च वाक्ये रूपकाख्योऽलङ्कारः| तस्य ह्येतल्लक्षणम्-"तदपरमौपम्ये सति यस्मिन् स्याद्वाक्ययोर्योगः|" अस्योदाहरणम्-"यः सेवते कुनृपतिं कुरुते बधिरस्य कर्णजापं सः इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आमज्वरे शोधनं निषेधयति-पाययेद्दोषहरणमिति|
Adhikarana ज्वरक्षीणस्य निषेधः (१०५) · Śloka १०५
|
ज्वरक्षीणस्य न हितं वमनं न विरेचनम्||१०५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ज्वरेण क्षीणस्य पुंसो न वमनं हितं न च विरेचनं हितम्| तर्हि कथं दोषनिर्हरणं तस्य ? इत्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ज्वरक्षीणस्य शोधनं निषेधयति-ज्वरक्षीणस्येति|
Adhikarana तस्य पयसा निरूहैर्वा शोधनम् (२) · Śloka २
कामं तु पयसा तस्य निरुहैर्वा हरेन्मलान्|
||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्य कामं-यथेष्टं कृत्वा, पयसा निरूहैर्वा मलान् हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ज्वरक्षीणस्य पयःपानं बस्तिकर्म च शोधनार्थं विधत्ते-कामं त्विति|
Adhikarana पयः पाने अधिकारी (१०६-१०७) · Śloka १०७
|
क्षीरोचितस्य प्रक्षीणश्लेष्मणो दाहतृङ्वतः||१०६||
क्षीरं पित्तानिलार्तस्य पथ्यमप्यतिसारिणः|
|१०७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षीरमुचितं-सात्म्यं, यस्य तस्य क्षीरोचितस्य, तथा प्रकर्षेण क्षीणः श्लेष्मा यस्य तस्य प्रक्षीणश्लेष्मणः, तथा दाहश्च तृट् च ते विद्येते यस्य तस्य दाहत्ऱ्ड्वतः, अत एव पित्तानिलाभ्यामार्तस्य-पीडितस्य, क्षीरं पथ्यम्| अतिसारिणोऽपिपथ्यम्, किं पुनः प्रक्षीणः श्लेष्मा यस्य तस्य क्षीरोचितस्य पूर्वोक्तविशेषणविशिष्टस्य क्षीरं न पथ्यम् ? इत्यपि शब्दार्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पयःपानेऽधिकारिणमाह-क्षीरोचितस्येति| अतिसारिणोऽपि-किं पुनः शोध्यस्य|
Adhikarana क्षीरगुणाः (१०७-१०८) · Śloka १०८
|
तद्वपुर्लङ्घनोत्तप्तं प्लुष्टं वनमिवाग्निना||१०७||
दिव्याम्बु जीवयेत्तस्य ज्वरं चाशु नियच्छति|
|१०८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तच्च-क्षीरं, लङ्घनोत्तप्तं वपुर्जीवयेत्-कायस्य सप्राणतामुत्पादयेत्| किं किमिव ? अग्निना-दावेन, प्लुष्टं वनं यथा दिव्याम्बु जीवयेत्-प्रतोहयेत्, तथा वपुः क्षीरमिति| लङ्घनशब्देनात्र सामान्यं लङ्घनवाच्यं वस्तु भण्यते| "शरीरलाघवकरं यद्द्रव्यं कर्म वा पुनः| तल्लङ्घनमिति ज्ञेयम्" इत्येवंलक्षणम्, न तु विशिष्टमुपवासलक्षणम्, योग्यतावशात्| तस्यज्वरिणः पुंसः, तत्-क्षीरं, आशु ज्वरं च नियच्छति| न केवलं वपुर्जीवयेदिति चार्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- क्षीरगुणानाह-तद्वपुरिति| दिव्याम्बु-वृष्ट्यम्बु, यथा दग्धं वनं जीवयेत् तथा क्षीरं वपुर्जीवयेत्|
Adhikarana क्षीरविशेषे नियमः (१०८-१०९) · Śloka १०९
|
संस्कृतं शीतमुष्णं वा तस्माद्धारोष्णमेव वा||१०८||
विभज्य काले युञ्जीत ज्वरिणं हन्त्यतोऽन्यथा|
|१०९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यत एवं महागुणं क्षीरं तस्माद्धेतोः संस्कृतं-द्रव्यान्तरेण, तथा शीतमुष्णं वेति कृत्वा, अथवा धारोष्णमेव काले विभज्य, युञ्जीत-यथाविषयं काले प्रयोजयेत्| अतः-यथानिरूपितात् क्षीरोपयोगविषयात्, अन्यथा-अन्येन प्रकारेण, प्रयुक्तं क्षीरं ज्वरिणं हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षीरविशेषे नियममाह-संस्कृतमिति| संस्कृतं-औषधसिद्धम्| तच्च शीतमुष्णं वा दोषवशात्| धारोष्णं तूष्णमेव| तद्वत्-संस्कृतसमफलम्|
Adhikarana तृडादिनाशनं क्षीरम् (१०९-११०) · Śloka ११०
|
पयः सशुण्ठीखर्जूरमृद्वीकाशर्कराघृतम्||१०९||
शृतशीतं मधुयुतं तुड्दाहज्वरनाशनम्|
|११०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षीरं शुण्ठ्यादियुतं शृतमनन्तरं शीतं मधुयुतं तृड्दाहजिदित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-संस्कृतं क्षीरमाह-पय इति| तस्य शुण्ठ्यादिभिस्त्रिभिः पाकः, शर्कराघृतयोः पक्वोष्णे प्रक्षेपः, मधुनः पक्वशीते|
Adhikarana तृडादिनाशनं अन्यत्क्षीरत्रयम् (११०-१११) · Śloka १११
|
तद्वद् द्राक्षाबलायष्टीसारिवाकणचन्दनैः||११०||
चतुर्गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत्|
|१११|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेनैव पूर्वोक्तेन पयसा तुल्यं-तद्वत्| यथा पूर्वोक्तं शृतशीतं तृड्दाहज्वरहृत् तथा द्राक्षादिभिः शृतमनन्तरं शीतं मधुयुतं तृडादिजिदित्यर्थः| अथवा क्षीरं चतुर्गुणेन जलेन शृतं पिबेत्| अथवा पिप्पल्या शृतं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षीरान्तरमाह-तद्वदिति| तद्वत्-शर्करादियुतम्| क्षीरद्वयमाह-चतुर्गुणेनाम्भसेति|
Adhikarana कासादिजित् क्षीरम् (१११-११२) · Śloka ११२
|
कासाच्छ्वासाच्छिरःशूलात्पार्श्वशूलाच्चिरज्वरात्|
मुच्यते ज्वरितः पीत्वा||१११||
पञ्चमूलीशृतं पयः|
|११२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पञ्चमूलेन शृतं क्षीरं पीत्वा कासादिभ्यो मुच्यते| मुच्यत इति कर्मकर्तरि तङ्| चिरज्वरो-दीर्ग़कालानुबन्धी ज्वरः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षीरान्तरमाह-कासाच्छ्वासादिति|
Adhikarana विबद्धवातादिजित् क्षीरम् (११२-११३) · Śloka ११३
|
शृतमेरण्डमूलेन बालबिल्वेन वा ज्वरात्||११२||
धारोष्णं वा पयः पीत्वा विबद्धानिलवर्चसः|
सरक्तपिच्छातिसृतेः सतृट्शूलप्रवाहिकात्||११३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एरण्डमूलेनाथवा बालबिल्वेन शृतमथवा धारोष्णं क्षीरं पीत्वा पुरुषो ज्वराद्विमुच्यते| किम्भूताज्ज्वरात् ? विबद्धा निलवर्चसः| विबद्धे-विशेषेण बद्धे, असम्यक्प्रवर्तनादनिलवर्चसी यस्मिन् ज्वरे स विबद्धानिलवर्चाः, तस्माज्ज्वराद्विमुच्यते| तथा, रक्तं च पिच्छा च रक्तपिच्छे, ताभ्यामुपलक्षिता अति सृतिः-अतीसारः, सह तया वर्तते यो ज्वरः, तस्मात्तथाविधाज्ज्वरात् तथा सह तृषा सह शूलेन तथा प्रवाहिकया-निस्छारिकापरसंज्ञया, वर्तते यस्तमात् तथाविधाज्जवरात् प्रमुच्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षीरत्रयमाह-शृतमेरण्डमूलेनेति| अतिसृतिः-अतिसारः, सरक्तपिच्छयोः पिच्छा अतस्तूदकवत्(?)|
Adhikarana शोफादिजित् क्षीरम् (११४) · Śloka ११४
सिद्धं शुण्ठीबलाव्याघ्रीगोकण्टकगुडैः पयः|
शोफमूत्रशकृद्वातविबन्धज्वरकासजित्||११४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शुण्ठ्यादिभिः साधितं पयः शोफादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षीरान्तरमाह-सिद्धमिति| गुडेन पक्वोष्णप्रक्षिप्तेन सिद्धत्वम्
Adhikarana ज्वरशोफनुत् क्षीरम् (११५) · Śloka ११५
वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत्|
|११५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वृश्चीवादिभिः साधितं पयो ज्वरशोफनुदिति| वृश्चीवः-सूक्ष्मपुनर्नर्वः| स्थूलपुनर्नवस्तु-वर्षाभूः| पुनर्नवद्वयं बिल्वं चात्र योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षीरान्तरमाह-वृश्चीवेति| वृश्चीववर्षाभ्वौपुनर्नवे|
Adhikarana आशुज्वरापहम् क्षीरम् (११५) · Śloka ११५
|
शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहम्||११५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शिंशिपासारेण सिद्धं-शृतं क्षीरमुपयुक्तं, आशु-न तु च, ज्वरहृत्| क्षीरस्य श्रवणे विधिरतीसारचिकित्सितोक्तः (हृ. छि. अ. ९/३९)-"पयस्युत्क्वाथ्य मुस्तानां विंशति" इत्यनुसारेणानुकल्प्यः| तन्त्रान्तरे त्वेवमुक्तम्-"द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः कर्तव्यः क्षीरक्वाथे त्वयं विधिः||" इति| ननु, किं वातपित्तोत्तरे ज्वरे ज्वरे ग़ृतं प्रधानमा श्रीयतां पूर्ववचनप्रामाण्यात् ? अथवा क्षीरं प्रधानमेतद्वचनप्रामाण्यात् ? इत्यत्र संशयः| अत्रोच्यते| उभयमपीदं ग़ृतं क्ष्रीरं छ वातपित्तोत्तरे ज्वरे प्रधानम्, अवस्थावशात् सात्म्यवशाछ्छ क्वचित्किञ्चिदुपयुज्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षीरान्तरमाह-शिंशपासारसिद्धं चेति|
Adhikarana निरूहगुणाः क्षीरम् (११६-११७) · Śloka ११७
निरुहस्तु बलं वह्निं विज्वरत्वं मुदं रुचिम्|
दोषे युक्तः करोत्याशु पक्वे पक्वाशायं गते||११६||
पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत्|
स्रंसनं त्रीनपि मलान् बस्तिः पक्वाशयाश्रयान्||११७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-निरूहो युक्तो दोषे पक्वे तथा पक्वाशयं गते सति बलादीन् द्रागेव करोति| पित्तं केवलं कफपित्तं वा पक्वाशयाश्रितं स्रंसनं-विरेचनं, हरेत्| बस्तिः प्रयोजितस्त्रीनपि मलान्वाताद्यान् हरेत्| कीदृशान् ? पक्वाशयमाश्रितान्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निरूहगुणानाह-निरूहस्त्विति| पक्वाशयाश्रयान्-पक्वाशयमाश्रित्य, मलांस्तु-सर्वगतान्, हरेत्| अयं तु पक्वाशयगतानित्यपकर्ष एव, पक्वाशयादूर्ध्वं हि पित्ताशयः|
Adhikarana अनुवासने अधिकरी (११८) · Śloka ११८
प्रक्षीणकफपित्तस्य त्रिकपृष्ठकटिग्रहे|
दीप्ताग्नेर्बद्धशकृतः प्रयुञ्जीतानुवासनम्||११८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रक्षीणे कफपित्ते यस्य पुंसस्तथा दीप्ताग्नेर्बद्धवर्चस्स्त्रिक्पृष्ठकटिग्रहे सत्यनुवासनं प्रयुञ्जीत|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निरूहाङ्गेऽनुवासनेऽधिकारिणमाह-प्रक्षीणकफपित्तस्येति|
Adhikarana ज्वरनाशको निरूहः (११९-१२१) · Śloka १२१
पटोलनिम्बच्छदनकटुकाचतुरङ्गुलैः|
स्थिराबलागोक्षुरकमदनोशीरवालकैः||११९||
पयस्यर्धोदके क्वाथं क्षीरशेषं विमिश्रितम्|
कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः||१२०||
बस्ति मधुघृताभ्यां च पीड्येज्ज्वरनाशनम्|
||१२१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पटोलादिभिः क्वाथं क्षीरेऽर्धोदके क्षीरशेषं तथामिश्रितं कल्कीकृतैर्द्रव्यैर्मुस्तादिभिर्मधुघृताभ्यां च योजितं बस्तिं ज्वरनाशनं दद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निरूहमाह-पटोलनिम्बेति| पटोलनिम्बयोश्च्छदनं-पत्रम्| पयसो द्वौ भागौ पटोलादिक्वथितस्योदकस्यैको भाग इत्यर्धोदकत्वम्| न स्याप्यु(दु)क्तरसामित्यादिवचनात्(?)समत्वे प्राप्तेऽर्धत्वविधिः|
Adhikarana ज्वरनाशको अन्यो निरूहः (१२१-१२२) · Śloka १२२
|
चतस्रः पर्णिनीर्यष्टीफलोशीरनृपद्रुमान्||१२१||
क्वाथयेत्कल्कयेद्यश्टीषताह्वाफलिनीफलम्|
मुस्तं च बस्तिः सगुडक्षौद्रसर्पिर्ज्वरापहः||१२२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुद्गपर्णी माषपर्णी शालिपर्णी पृश्र्निपर्णीत्यादि(चेति)-चस्रः पर्णीनीः यष्टीफलादींश्च क्वाथयेत्| फलं-मदनफलम्| तथा, यष्ट्यादीन् कल्कयेत्, इत्येष सगुडादिर्बस्तिर्ज्वरहृत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निरूहान्तरमाह-चतस्रः पर्णिनीरिति| चतस्रः पर्णीनीः-मुद्गमाषशालपृश्निपूर्वाः| फलं-मदनफलम्| नृपद्रुमः-आरग्वधः| फलिनी-प्रियङ्गुः| फलं-मदनफलम्| सङ्ग्रहे तु (चि.अ. २)-"त्रायमाणामृतायष्टीमदनांशुमतीद्वयैः| सबलाचन्दनवृषैर्जाङ्गलैश्च मृगद्विजैः|| क्वाथे कृते क्षिपेत्पिष्ट्वा फलयष्टिकणाग़नम्| स सद्योज्वरहा बस्तिः साज्यक्षौद्रोऽल्पसैन्धवः|| आम्रादीनां त्वचं शङ्ख़ं चन्दनं मधुकित्पलम्| स्वर्णगैरिकमञ्जिष्ठामृणालाञ्जनपद्मकम्|| क्षीरेण कल्कितं बस्तिं शीतं समधुशर्करम्| दाहज्वरहरं दद्यात् सिद्धं तैश्चानुवासनम्||" इति|
Adhikarana ज्वरनाशकमनुवासनम् (१२३-१२४) · Śloka १२४
जीवन्तीं मदनं मेदां पिप्प्प्लीं मधुकं वचाम्|
ऋद्धिं रास्रां बलां बिल्वं शतपुष्पां शतावरीम्||१२३||
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं चैकत्र साधितम्|
ज्वरेऽनुवासनं दद्याद्यथास्नेहं यथामलम्||१२४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवन्त्यादीनि द्रव्याणि स्नेहस्य चतुर्भागमात्राणि जलेन पिष्ट्वा क्षीरं स्नेहसमं तैलात्सर्पिषश्च चतुर्गुणं जलं च तैलसर्पिर्द्रव्याच्चतुर्गुणमित्येकत्र साधितं पक्वमेतत् ज्वरेऽनुवासनं दद्यात्| यथास्नेहं यथामलं-यो यस्मिन् ज्वरे दोषे-वातादौ, यः स्नेहो योग्यस्तत्र तं, दद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनुवासनमाह-जीवन्तीमिति| क्षीरस्य चत्वारो भागाःजलस्य चत्वारः, सर्पिष एकः, तैलस्यैकः, कल्कस्य सार्धः, इत्येकत्र-मिलितं, साधयेत्| स्नेहः-शरीरस्निग्धत्वम्, तदनुसारेण मलानुसारेण च कल्पना| सङ्ग्रहे तु (चि.अ. २)-"चन्दनागरुकाश्मर्यपटोलमदनोत्पलैः| पटोलारिष्टमदनगुडूचीमधुकैरपि||" इति|
Adhikarana ज्वरनाशकाअन्ये बस्तयः (१२५) · Śloka १२५
ये च सिद्धिषु वक्ष्यन्ते बस्तयो ज्वरनाशनाः|
|१२५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ये च बस्तयः सिद्धिषु-बस्तिकल्पाध्याये, वक्ष्यन्ते ज्वरनाशनास्ते च, 'देयाः' इति शेषः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बस्त्यन्तरमतिदिशति-ये च सिद्धिष्विति| सिद्धिषु-कल्पस्थाने| ते च योज्या इति शेषः| इति जीर्णज्वरः|
Adhikarana शिरः शूलादिषु नस्यम् (१२५-१२६) · Śloka १२६
|
शिरोरुग्गौरवश्लेष्महरमिन्द्रियबोधनम्||१२५||
जीर्णज्वरे रुचिकरं दद्यान्नस्यं विरेचनम्|
स्नैहिकं शून्यशिरसो दाहार्ते पित्तनाशनम्||१२६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीर्णज्वरे विरेचनाख़्यं नस्यं दद्यात्| कीदृशं तन्नस्यं स्यात् ? शिरसो रुजं गौरवं च श्लेष्माणं च हरति तच्छीलं तत्| तथा, इन्द्रियाणां-वक्षुरादीनां, च बोधनम्| तथा, रुचिकृत्| शून्यशिरसः पुंसः स्नेहिकं-स्नेहेन मिश्रं स्निग्धं, नस्यं दद्यात्| दाहार्ते शिरसि पित्तहरं नस्यं दद्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ ज्वरोपद्र्वाः| तत्र शिरःशूलादिषु नस्यमाह-शिरोरुग्गौरवश्लेष्महरमिति| विरेचनं-शोधनम्| स्नैहिकं-बृंहणम्| पित्तनाशनं-शमनम्|
Adhikarana प्रतिश्यायादौ धूमादयः (१२७) · Śloka १२७
धूमगण्डूषकवलान् यथादोषं च कल्पयेत्|
प्रतिश्यायास्यवैरस्यशिरः कण्ठामयापहान्||१२७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-धूमादींश्च यथादोषं कल्पयेत्| किम्भूतान् ? प्रतिश्यायादिग़्नान्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रतिश्यायादौ धूमादीनाह-धूमगण्डूषकवलानिति|
Adhikarana अरूचौ कल्कद्वयम् (१२८) · Śloka १२८
अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम्|
धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत्||१२८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अरुचौ सत्यां बीजपूरकस्य केसरं सग़ृतसैन्धवमास्येन धारयेदिति सम्बन्धः| अथवा धात्र्यादीनां कल्कं धारयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अरुचौ कवल(कल्क)द्वयमाह-अरुचाविति| वङ्गसेने तु (ज्वराधिकारे श्लो. २३१)-"शर्करादाडिमाभ्यां च द्राक्षादाडिमयोस्तथा| वैरस्ये धारयेत्कल्कं गण्डूषं च तथा घृतम्|| (श्लो. २५९)-हरीतकी प्रियङ्गुश्च पिप्पली लोध्रमेव च| दार्वी हरिद्रा तेजोह्वा सक्षौद्रं मुख़धावनम्|| एतेन कटुभावश्च मुख़रोगश्च शाम्यति| वक्त्रं विशदतामेति भक्तच्छन्दश्च जायते|| (श्लो. २८०)-अजाजीशर्करायुक्तोदाडिमस्वरसेन तु| रुचिष्यो मधुना युक्तः कर्तव्यः कवलग्रहः||" इति|
Adhikarana त्वग्गते ज्वरे अभ्यङ्गादयः (१२९-१३०) · Śloka १३०
यथोपशयसंस्पर्शान् शीतोष्णद्रव्यकल्पितान्|
अभ्यङ्गालेपसेकादीन् ज्वरे जीर्णे त्वगाश्रिते||१२९||
कुर्यादञ्जनधूमांश्च तथैवागन्तुजेऽपि तान्|
|१३०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्वगाश्रिते जीर्णज्वरेऽभ्यङ्गादीन् कुर्यात्| यथोपशयं-यथासुखावहं, संस्पर्शो येषां, तान्, तथा शीतवीर्यैरुष्ण वीर्यैश्च द्रव्यैः कल्पितान्-योजितान्| तथा, अञ्जनंधूमांश्च कुर्यात्| अञ्जनधूमानागन्तुजेऽपि ज्वरे तथैव कुर्यात्| सद्योगत्वादागन्तुजेऽप्येतेऽनिषिद्धा एव| तानिति पुनः कृतमतिशयार्थम्| विशेषेणागन्तुजेऽपि ज्वरे-भूतविषाद्युद्भवे, तान् कुर्यादित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्वग्गते ज्वरेऽभ्यङ्गादीनाह-यथोपशयसंस्पर्शानिति| ते च शीताभिलाषिणः शीतैर्द्रव्यैः शीतस्पर्शाः कल्प्याः, उष्णाभिलाषिण उष्णैरुष्णस्पर्शाः| आदिशब्दादवगाहादयः| अञ्जनधूपांश्च त्वग्गते कुर्यात्| प्रसङ्गादागन्तुजे नस्यादीनाह-तथैवागन्तुजेऽपीति| वङ्गसेने त्वभ्यङ्गतैलान्युक्तानि (ज्वराधिकारे श्लो. ७७७)-"लाजामधुकमञ्जिष्ठामूर्वाचन्दनसारिवाः| तैलं षट्चरणं नाम ह्यभ्यङ्गाज्ज्वरनाशनम्|| लाक्षा निशा कुष्ठशुण्ठी मञ्जिष्ठा च सुवर्चिका| मूर्वा च चन्दनं सिद्धं तैलं तक्रेऽथ षड्गुणे|| अभ्यङ्गेन प्रशमयेद्दाहं शीतज्वरं नृणाम्| (श्लो. ६२८)-दध्नः ससारकस्यात्र तक्रं कट्टरमिष्यते|| (श्लो. ७१९)- स्वर्जिकाकुष्ठमञ्जिष्ठा [लाक्षामूर्वामहौषधैः| सक्षीरैः साधितं तैलमभ्यङ्गाद्दाहशीतनुत्|| बलामधुकमञ्जिष्ठा ] पद्मापद्मकचन्दनैः| समुद्रफेनह्नीबेररजनीसारिवोत्पलैः|| पिष्टैस्तैलं पचेदेतैरजाक्षीरं चतुर्गुणम्| वातपित्तज्वराज्जीर्णात्तेनाभ्यक्तो विमुच्यते||" इति|
Adhikarana दाहे सहस्त्रधौतघृतम् (१३०) · Śloka १३०
|
दाहे सहस्रधौतेन सर्पिषाऽभ्यङ्गमाचरेत्||१३०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-दाहे सति सर्पिषा सहस्रधौतेनाभ्यङ्गमाचरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-दाहस्यौषधान्याह-दाहे सहस्रधौतेनेति| सहस्रधौतेन-सहस्रकृत्वो धौतेन| यावति मज्जति तावच्छीतोदके ग़ृतं प्रक्षिप्य हस्तेन मर्दयेत्, तदुदकं स्रावयेत्, इत्येको वारः, एवं सहस्रम्|
Adhikarana अभ्यङ्गार्थं तैलम् (१३१-१३३) · Śloka १३३
सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः|
दूर्वादिभिर्वा पित्तघ्नैः शोधनादिगणोदितैः||१३१||
शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैः पचेत्|
तैलं सक्षीरमभ्यङ्गात्सद्यो दाहज्वरापहम्||१३२||
शिरो गात्रं च तैरेव नातिपिष्टैः प्रलेपयेत्|
तत्क्वाथेन परीषेकमवगाहं च योजयेत्||१३३||
तथाऽऽरनालसलिलक्षीरशुक्तघृतादिभिः|
||१३३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सूत्रोक्तैः-सूत्रस्थानोदितैः, मधुराम्लकषायकैर्गणैः| तत्र मधुरो गणो-"घृतहेम" (हृ.सू.अ. १०/२२) इत्यादिः, अम्लो गणो-"धात्रीफलाम्लीका" (हृ. सू. अ. १०/२५) इत्यादिः, कषायो गणः-"पथ्याऽक्षं" (हृ. सू. अ. १०/३१) इत्यादिः, तत्र चैतैर्मधुराम्लकषायैर्वर्गैः| तत्र दूर्वादिदिभिर्गणैः- "दूर्वाऽनन्ता" (हृ.सू.अ. १५/६) इति निर्दिष्ट एकः, "न्यग्रोधादिः" (हृ. सू. अ. १५/४२) द्वितीयः, तृतीयस्तु "पद्मकपुण्ड्रौ" (हृ. सू. अ. १५/१२) इत्यादिः, चतुर्थः "सारिवोशीर" (हृ. सू. अ. १५/११) इत्यादिः, एतै पूर्वोक्तैर्गणैः पित्तघ्नैः शोधनादिगणसङ्ग्रहोक्तैः शीतवीर्यैर्हिमस्पर्शैर्भेषजैस्तथा स्पर्शतो वीर्यतश्च शीतगुणैः, अक्वाथाः क्वाथाः कृताः, अकल्काः कल्काः कृताः, तैः क्वाथकल्कीकृतैरेतैर्गणैस्तैलं क्षीरेण सह पचेत्| तच्च पक्वमभ्यङ्गात्-म्रक्षणात्, सद्यो-न चिरेण कालेन, दाहज्वरं जयेत्| न केवलमेतैर्गणैस्तैलं पचेद्दाहज्वरशान्त्यै, यावत्तैरेव शिरो-मूर्धानं, गात्रं च नातिपिष्टैः-किञ्चित्पिष्टैः, प्रलेपयेत्| सुपिष्टैर्ह्यैतैः प्रत्युत दाह उत्पद्यते| तथा चोक्तम् (सङ्ग्रहे सू. अ. ७)- "श्लक्ष्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत्| त्वग्गतस्योष्मणो रोधाच्छीकृत्त्वन्यथाऽगुरोः|| इति| अनेनैवाभिप्रायेण शीतज्वरे वक्ष्यति (श्लो. १४१)- "तैः सुपिष्टैश्च लेपयेत्|" इति| गात्रग्रहणेनैव शिरोग्रहणे लब्धे पुनः शिरोग्रहणं विशेषार्थम्| विशेषेण शिरो लेपयेत्, तस्य विशेषेण ज्वराश्रयत्वात्| तथा चोक्तम्-"विमुक्तस्यापि हि शिरो ज्वरो यस्य न मुञ्चति| अविमुक्तः स विज्ञेया ज्वरः पुनरुपैति तम्||" इति| तस्माच्छिरसो विशेषेण लेपनार्थं पृथगुपादानम्| तेषां गणानां क्वाथस्तत्क्वाथः, तेन परिषेकमवगाहं च क्वाथपूर्णायां द्रोण्यां योजयेत्| तथा, आरनालादिभिः परिषेकादि योजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अभ्यङ्गार्थं तैलमाह-सूत्रोक्तैश्चेति| तैस्तैरित्यगणपठितैरपि| तैरेव-तैलद्रव्यैः, तत्क्वाथेनारनालादिभिर्वा पृथक् परिषेकोऽवगाहश्च|
Adhikarana दाहादिघ्नं लेपत्रयम् (१३४-१३५) · Śloka १३५
|
कपित्थमातुलुङ्गाम्लविदारीरोध्रदाडिमैः||१३४||
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य वा|
लिप्तेऽङ्गे दाहरुङ्मोहाश्रच्छर्दिस्तृष्णा च शाम्यति||१३५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कपित्थादिभिर्बदरीपल्लवोद्भवेन वा फेनेन लिप्तेऽङ्गे सति दाहादयः शाम्यन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दाहघ्नं लेपत्रयमाह-कपित्थेति| मातुलुङ्गस्याम्लं केसरम्| अरिष्टको-रक्षाफलः| वङ्गसेने तु (ज्वरा. श्लो. २५८)-"जिह्वातालुगलक्लोमशोषे मूर्ध्नि तु दापयेत्| केसरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्||' इति|
Adhikarana पित्तहरः क्रमः (१३६) · Śloka १३६
यो वर्णितः पित्तहरो दोषोपक्रमणे क्रमः|
तं च शीलयतः शीघ्रं सदाहो नश्यति ज्वरः||१३६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यश्च दोषोपक्रमणीयाध्याये पित्तहरः क्रमो वर्णितः-उक्तः, तं च-क्रमं, शीलयतः-अभ्यसतः, ज्वरो दाहेन सह नश्यति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सूत्रोक्तं पित्तक्रममतिदिशति-यो वर्णित इति|
Adhikarana शीतज्वरे तैललेपस्वेदादीन्यौषधानि (१३७-१४७) · Śloka १४७
वीर्योष्णैरुष्णसंस्पर्शैस्तगरागुरुकुङ्कुमैः|
कुष्ठस्थौणेयशैलेयसरलामरदारुभिः||१३७||
नख़रास्नापुरवचाचण्डैलाद्वयचोरकैः|
पृथ्वीकाशिग्रुसुरसाहिंस्राध्यामकसर्षपैः||१३८||
दशमूलामृतैरण्डद्वयपत्तूररोहिषैः|
तमालपत्रभूतीकशल्लकीधान्यदीप्यकैः||१३९||
मिशिमाषकुलत्थाग्निप्रकीर्यानाकुलीद्वयैः|
अन्यैश्च तद्विधैर्द्रव्यैः शीते तैलं ज्वरे पचेत्||१४०||
क्वथितैः कल्कितैर्युक्तैः सुरासौवीरकादिभिः|
तेनाभ्यञ्जयात्सुख़ोष्णेन, तैः सुपिष्टैश्च लेपयेत्||१४१||
कवोष्णैस्तैः परीषेकमवगाहं च कल्पयेत्|
केवलैरपि तद्वच्च सुक्तगोमूत्रमस्तुभिः||१४२||
आरग्वधादिवर्गं च पानाभ्यञ्जनलेपने|
धूपानगरुजान् यांश्च वक्ष्यन्ते विषमज्वरे||१४३||
अग्न्यनग्निकृतान् स्वेदान् स्वेदि भेषजभोजनम्|
गर्भभूवेश्मशयनं कुथकम्बलरल्लकान्||१४४||
निर्धूमदीप्तैरङ्गारैर्हसन्तीश्च हसन्तिकाः|
मद्यं सत्र्यूषणं तक्रं कुलत्थव्रीहिकोद्गवान्||१४५||
संशीलयेद्वेपथुमान् यच्चान्यदपि पित्तलम्|
दयिताः स्तनशालिन्यः पीना विभ्रमभूषणाः||१४६||
यौवनासवमत्ताश्च तमालिङ्गेयुरङ्गनाः|
वीतशीतं च विज्ञाय तास्ततोऽपनयेत्पुनः||१४७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वीर्योष्णैरुष्णसंस्पर्शैः-उभयथा वीर्यतः स्पर्शतश्चोष्णैस्तगरादिभिर्द्रव्यैः, [ अन्यैश्च- ] अपरैरपि, तद्विधैः-उष्णवीर्यैः उष्णसंस्पर्शैश्च, क्वाथीकृतैः कल्कीकृतैश्च सुरादिभिः-अम्लपाकरसैः, [शीते-] शीतज्वरएतद्विषये, तैलं पचेत्| तेन-तैलेन, सुख़ोष्णेनाभ्यञ्जयात्-म्रक्षयेत्| तैश्च-पूर्वोक्तैर्द्रव्यैः, सुपिष्टैः-अतिश्लक्ष्णैः, लेपयेत्| तैश्च किञ्चिदुष्णैः परिषेकमवगाहं च कल्पयेत्-योजयेत्| तद्वच्च-तथैव, सुक्तादिभिः केवलैश्च परिषेकादिकं कल्पयेत्| "आरग्वधेन्द्गव" (हृ. सू. अ. १५/१७) इत्यादि च पानाभ्यञ्जनलेपने कल्पयेत्| अगरुजाम् धूपान् कल्पयेत्| यांश्च धूपान् विषमज्वरे वक्ष्यन्ते तांश्च कल्पयेत्| तथा स्वेदान् शीलयेत्| किम्भूतान् ? अग्निकृताननग्निकृतांश्चस्वेदविद्ध्युक्तान् | तथा-स्वेदयति साधु स्वेदि यद्भेषजं भोजनं च तच्च संशीलयेत्| तथा गर्भे-गर्भगृहाभ्यन्तरे, यद्भूवेश्म-भूमिगृहं, तत्र शयनं-शय्याम्, तथा कुथादीनावरणविशेषान्, तथा हसन्तिकाः-वह्निशकटिकाः, शीलयेत्| किम्भूताः ? निर्धूमदीप्तैरङ्गारैर्हसन्तीरिव| तथा, मद्यादींश्च शीलयेत्| वेपथुमन्तमङ्गना आलिङ्गयेयुर्दयितादिगुणयुक्तः| गतशीतं च विदित्वा ततस्ताः-योषाः, पुनरपनयेत्| एतच्च ब्रुवंस्ताभिः सम्भोगाभिलाषं निवारयति| अधुना सन्निपातचिकित्सितं ब्रूते-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शीतस्यौषधान्याह-वीर्योशनैरिति| पुरो-गुग्गुलुः| पृथ्वीका-बाह्लिका| ध्यामकं-कत्तृणम्| तमालपत्रं-पत्रकम्| [ भूतीकं-] भूस्तृणम्| प्रकीर्या-करञ्जः| क्वथितैः कल्कितैश्च तगरादिभिः सुरासौवीरकाद्यम्लद्रवयुक्तैः| तेन-तैलेन| तैः-तैलद्रव्यैः| केवलैः-जलपिष्टैः| अपिशब्दात् सुरादिपिष्टैः शुक्तादिभिः, तद्वत्-तगरादियुक्तैः केवलैरपि| सङ्ग्रहे तु (चि.अ. २)-"कुङ्कुमागरुकस्तूरीनख़ैलासुरदारुभिः| शैलेयचण्डात्वग्वक्ररास्नाकपिपुरामयैः|| पृथक्प्रदेहाः सर्वैर्वा शीतग़्ना दृढकल्किताः| वक्रं-तगरम्| कपिः-सिह्लकः| आमयं-कुष्ठम्| यवचूर्णं ग़ृताभ्यक्तं पचेत् क्षीरे चतुर्गुणे| दर्वीप्रलेपिनं लेपं तं ज्वरार्तस्य योजयेत्||" इति| वक्ष्यते आचार्यः| हसन्ती-हास्यमिव कुर्वन्ती| हसन्तिकाशकटिका| सत्र्यूषणं मद्यादिपञ्चकम्| सङ्ग्रहे तु (चि. अ. २)-"अजाज्याः सगुडं कल्कं सगुडं वाऽमृतारसम्| रसं वार्ताकफलजं पिबेद्वा मधुसंयुतम्|| मधुकागुरुकौन्तीनां कल्को व्याघ्रनख़स्य च| मद्येन पीतः सक्षौद्रस्तीव्रशीतज्वरापहः|| आनाहे कालवित्कुर्यात्क्रियामलसकोदिताम्| पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम्|| यवागूं पाययेच्चैनमनिलस्यानुलोमनीम्| सोपद्रवोऽपि चेदेवं ज्वरः शीतो न शाम्यति|| अत्युदीर्णेऽनिलकफे स्वे स्थाने पित्तधाम्नि वा| तक्रानुपानं त्रपुसं भक्षयित्वाऽनलं भजेत्|| आस्वेदसम्भवस्तिष्ठेत्प्रावृतस्तद्वदातपे| ततो विमृदितः स्नातो युक्ताशी स्याद्गते ज्वरे|| शमं तौ पित्तवृध्द्यैव प्रपद्येते स्वधाम च| निवर्तते ततः शीघ्रं वातश्लेष्मोद्भवो ज्वरः||" इति|
Adhikarana सन्निपातचिकित्साक्रमः (१४८) · Śloka १४८
वर्धनेनैकदोषस्य क्षपणेनोच्छ्रितस्य वा|
कफस्थानानुपूर्व्या वा तुल्यकक्षाञ्जयेन्मलान्||१४८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हीनाधिकभावत्वेन विषमदोषजे सन्निपाते वर्धनेनैकदोषस्यार्थात् क्षीणस्य क्षीणयोर्वा, उच्छ्रितस्योच्छ्रितयोर्वा क्षपणेन, देशकालबलान्मलान् जयेत्| कथं विषमदोषजे सन्निपाते वर्धनेनैकदोषस्य सन्निपातज्वरस्योपशान्ति ? तस्माद्वर्धनमयुक्तम्| अत्राचक्ष्महे| सन्निपातस्थेन क्षीणेन दोषेण सताऽक्षीणौ दोषौ ज्वरकारिणौ| न तौ सुख़ेन जेतुं शक्येते, विषमाश्रयत्वात्| क्षीणस्य तु दोषस्य वर्धनेन दोषसाम्यमुत्पाद्यैकरूपया क्रियया सन्निपातः सुख़ेन जेतुं शक्यते| तस्माद्वर्धनेनैकदोषस्येति वक्तुं युक्तम्| तथा च,-वाताख़्ये यतो दोषे शीतलग़ुरूक्षादिरुपैर्द्रव्यैर्वृद्धिर्भवति| वर्धमानेन च तत्रस्थौ पित्तकफावप्येवं प्रायेण किञ्चित् क्षयं यातः, तत्क्ष्याच्चासौ ज्वरोऽप्य मृदुतां गतः सुख़ेन शक्यते जेतुं इति| एवं दोषत्रयस्यापि ज्वरकारणे तथा युक्त्या प्रतीकारः कृतो भवति| एवमुच्छ्रितस्यापि क्षपणैरे(णेनै)करूपया क्रियया सुख़ेन सन्निपातो जीयते| तदेवं व्द्युल्बणैकोल्बणैर्दोषैर्जनिते सन्निपाते चिकित्साक्रम उक्तः| सम्प्रति समदोषजे सन्निपाते चिकित्साक्रमं दर्शयितुमाह-कफेत्यादि| स्थितिः-स्थानम्, कफश्च स्थानं च कफस्थाने, तयोरानुपूर्वी-क्रमः, तया च तुल्यकक्षान्-समान् सन्निपातान्, ज्वरे मलान् जयेत्| तत्र कफः प्राग्जेतव्यस्ततः पित्तं ततो वायुरिति कफानुपूर्वीत्युच्यते| उक्तं च (सङ्ग्रहे सू.अ.२१)-"स्थानतः केचिदिच्छन्ति प्राक् तावच्छ्लेष्मणो वधम्| शिरस्युरसि कण्ठे च प्रलिप्तेऽन्नरुचिः कुतः|| तदभावे कथं भोज्यपानद्रव्यावचारणम्| असत्यभ्यवहारे च कुतो दोषस्य निग्रहः|| तस्मादादौ कफो धात्यः कायद्वारार्गलो हि सः| मध्यस्थायि यतः पित्तमाशुकारि च चिन्त्यते|| अतो वातसस्वस्यास्य कुर्यात्तदनु निग्रहम्| अधःस्थायी च तदनु निग्राह्यः स्यात्समीरणः||" इति| सुश्रुतस्त्वाह(?) (सङ्ग्रहे सू.अ. २१)-"[सुश्रुतश्च न सर्वत्र मतमेतद्ब्रवीति तु|] जयेज्वरेऽतिसारे च क्रमात्पित्तकफानिलान्|| प्रायेण तापात्मतया ज्वरे तेजो विशिष्यते| विशश्च सरता पित्तात्तथा च मृदुकोष्ठता|| तस्य चानुबलः श्लेष्मा गौरवापक्तिजाड्यकृत्| वायुश्च वर्धतेऽवश्यं यस्त्वहःसु तयोः क्षये|| ज्वरातिसारयोस्तस्मादेष दोषजये क्रमः| कफपित्तानिलानन्ये क्रमादाहुस्तयोरपि|| यस्मादामाशयोत्क्लेशाद्भूयिष्ठं तत्समुद्भवः| क्रमेणाद्येन तत्रापि प्रवृद्धान् स्वाशये स्थितान्| स्वाशयेषु प्रदुष्टानांस्थितैव ह्याशुकारिता| विज्ञाय कर्मभिः स्वैः स्वेर्दोषोद्रेकं यथामलम्| भेषजं योजयेत्तत्तु स्वीकुर्यान्न क्रमं भिषक्|" इति| अन्ये त्वाहुः (सं.सू.अ. २१)-"क्रमान्मरुत्पित्तकफाः सर्वत्र सदृशे बले| वातादीनां यथापूर्वं यतः स्वाभाविकं बलम्|| ऊचे पराशरोऽप्यर्थममुमेव प्रमाणयन्| यथोपन्यासतः प्राप्तमादौ दोषभिषग्जितम्| नेत्ऱभङ्गेन दृष्टौ हि समं सैन्यपराजयः||" इति| स्थानानुपूर्व्या वा दोषांस्तुल्यकक्षान् जयेत्| स्थानं च यद्यप्यविशेषेणैव सम्भवति तथाऽपीह ज्वरकारिदोषप्रस्तावादामाशयो गृह्यते| तेनामाशयस्थो दोषः प्राग्जेतव्यस्ततः पक्वाशयस्थः, इति स्थानानुपूर्वी-स्थानमाहात्म्यस्य चिकित्साक्रमः, कार्यः| तथा च प्रागध्यगीष्ट (हृ. सू. अ. १७/१३)-"आमाशयगतेवायौ कफे पक्वाशयाश्रिते| रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः||" इति| तदेवं कफस्थानानुपूर्व्या वा तुल्यकक्षान् मलान् जयेत्| अन्ये त्वेवं व्याख़्यानयन्ति,- कफस्य स्थानंकफस्थानम्, कफस्थानलक्षणा चासावानुपूर्वी च, तया कफ स्थानानुपूर्व्या वा तुल्यकक्षान् मलान् जयेत्| यद्यपि कफस्थानानि कण्ठादीन्यपि तथाऽपीह ज्वरकारिदोषप्रस्तावादामाशयोगृह्यते| तथा चोक्तम् (श्लो.१)-"आमशयस्थो हत्वाऽग्निं सोमो मार्गान् पिधाय यत्| विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लङ्ग़नम्||" इति| तदेवं रूक्षोष्णपाचनादिः क्रमोऽत्र कार्य इत्यवतिष्ठते| ननु, कफस्थानानुपूर्व्या वेत्येतन्न वाच्यम्, यतस्तुल्यकालं त्रिदोषहरैर्द्रव्यैः सन्निपातस्य क्रिया कार्या| द्रव्याणि दोषघ्नानि| अत्रोच्यते| ज्वरनाशनानि द्रव्याणि त्रिदोषघ्नानि विरलानि| एकदोषघ्नानि पुनर्ज्वरहन्तृणि त्रिदोषघ्नेभ्यः समर्थराणि बहुतराणीति कफस्थानानुपूर्व्या वेत्युक्तम्| अपि च दोषकालादिवशाच्चिकित्साप्रकारान्तरोऽयमुपयुज्यत इति| सन्निपातचिकित्साप्रक्रमादिदमप्याह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दाहशीतयोरेकज्वरोपद्रवयोरौषधमाह-वर्धनेनेति| यदा दाहोऽल्पः शीतमधिकं तदा दाहहेतोर्वर्धनेन शीतहेतोः क्षपणेन वा शीतजयः, पश्चाद्दाहजयः| यदा शीतमल्पं दाहोऽधिकः तदा शीतहेतोर्वर्धनेन दाहहेतोः क्षपणेन वा दाहजयः, पश्चाच्छीतजयः| यदा दाहशीते तुल्ये तदा तुल्यकक्षान् मलान् कफानुपूर्व्या वा स्थानानुपूर्व्या जयेत्| कफपित्तवातानां क्रमाज्जयः-कफानुपूर्वी| उरःकोष्ठबस्तीनां क्रमाज्जयः-स्थानानुपूर्वी| उक्तं च सङ्ग्रहे (चि.अ. २)- "वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम्| ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान्|| संसृष्टैः सन्निपतितैरेकनैकोल्बणैः समैः| ज्वरान् दोषैः क्रमापेक्षी यथोक्तैरौषधैर्जयेत्|| वर्धनेनैकदोषस्य क्षप्णेनोच्छ्रितस्य वा| कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत्||" इति| तथा (सं.चि.अ. २)-"निद्रानिवारणोपायः सन्न्यासेऽभिहितो हितः| सन्निपाते विशेषेण दारुणोऽयमुपद्रवः|| कम्पः प्रलपनं यस्य संज्ञानाशश्च दारुणः| रसैस्तु लाववर्तीरकुलीरशशतैत्तिरैः|| तर्पयेत्प्राक् पुराणेन सर्पिषाऽयं जयेदपि| बलारास्नागुडूच्याद्यैस्तैलैश्च परिषेचयेत्||" इति|
Adhikarana सन्निपातातोपद्रवकर्णमूलम् (१४९) · Śloka १४९
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः|
शोफः सञ्जायते येन कश्चिदेव विमुच्यते||१४९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-सन्निपातज्वरस्यावसाने कर्णमूलप्रदेशे सुष्ठ दारुणः शोफः सञ्जायते| येन-शोफेनोत्पन्नेन, कश्चिदेव विमुच्यते| कश्चिदेवेत्यमेनास्य रोगस्य नावश्यमसाध्यतेति ब्रूते| अत एव चिकित्सामत्राह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-कर्णमूलोपद्रवमाह-सन्निपातज्वरस्यान्त इति|
Adhikarana कर्णमूलचिकित्सा (१५०) · Śloka १५०
रक्तावसेचनैः शीघ्रं सर्पिःपानैश्च तं जयेत्|
प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः||१५०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्तावसेचनादिभिः कवलग्रहान्तैराशु तं जयेत्| प्रदेहः-प्रलेपः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कर्णमूलौषधमाह-रक्तावसेचनैरिति| वङ्गसेने तु (ज्व. श्लो. ५३२)-"गैरिकं पांसुजं शुण्ठी वचाकट्फलकाञ्जिकम्| कर्णशोथहरो लेपः सन्निपातज्वरे भृशम्||" इति|
Adhikarana शाखानुसारी ज्वरः अस्य चिकित्सा बाहुशिरामोक्षः (१५१) · Śloka १५१
शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति|
शाख़ानुसारी तस्याशु मुञ्चेद्वाह्वोः क्रमाच्छिराम्||१५१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आदिशब्देन स्तम्भस्वेदनादयो गृह्यन्ते| शीतोष्णादिभिरुपक्रमैर्यथायथं पृथग्वातपित्तश्लेष्मसंसर्गसन्निपातज्वरप्रशमनैः सम्यक् प्रयोजितैर्ज्वरो यस्य नरस्य शमं न गच्छति, तस्य शाख़ानुसारित्वाद्धेतोर्बाह्वोः क्रमात्-एकैकस्मिन् न युगपद् द्वयोर्भुजयोः, शिरां मुञ्चेत्| शाख़ाशब्देनात्र केवलं रक्तं विवक्षितम्, न मांसादयः| अत एव रक्तस्यैव चिकित्सानुवाच मुञ्चेच्छिरामिति| मांसजानां हि शस्त्रक्षाराग्निकर्मादिचिकित्सा| तस्माच्छाख़ाशब्देन रक्तस्यैव ग्रहणं युक्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रक्तस्रावसाध्यं ज्वरमाह-शीतोष्णस्निग्धरूक्षाद्यैरिति| "शाखा-रक्तादयस्त्वक्च बाह्यरोगायनं हि सा (हृ. सू. अ. १२/४४)|" तदनुसारी-तव्द्यापी| अथ विषमज्वरः| तत्र शमनान्याह-कलिङ्गका इति| सङ्ग्रहे तु (च.चि.अ १)-"पटोलेन्द्रयवारिष्टभद्रमुस्तामृताद्वयम्| सारिवाद्वितयं पाठा त्रायन्ती कटुरोहिणी|| पटोलारिष्टमृद्वीकाशम्याकत्रिफलावृषाः| चन्दनोशीरधान्याब्दगुडूचीविश्वभेषजम्|| देवदारु स्थिरा शुण्ठी वासा धात्री हरीतकी| पञ्च पञ्च ज्वरान् घ्नन्ति योगा मधुसितोत्कटाः||" इति| अरिष्टो-निम्बः| अमृताद्वयं-गुडूचीहरीतक्यौ|
Adhikarana विषमज्वरेऽप्ययमेव विधिः (१५२) · Śloka १५२
अयमेव विधिः कार्यो विषमेऽपि यथायथम्|
ज्वरे विभज्य वातादीन् यश्चानन्तरमुच्यते||१५२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अयमेव-पूर्वोक्तो, विधिर्विषमेऽपि-विषमज्वरे सततकादौ, यथास्वं वातादीन् विभज्य कार्यः| अनन्तरमधुनैव च यो विधिरुच्यते पटोलकटुकादिभिः, सोऽपि विषमज्वरे कार्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अतिदेशमाह-अयमेवेति| अयं-सन्ततज्वरोक्तः|
Adhikarana विषमज्वरे क्वाथाः (१५३) · Śloka १५३
पटोलकटुकामुस्ताप्राणदामधुकैः कृताः|
त्रिचतुःपञ्चशः क्वाथा विषमज्वरनाशनाः||१५३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पटोलादिभिस्त्रिभिश्चतुर्भिः पञ्चभिर्वा कृताः क्वाथा विषमज्वरघ्नाः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्वाथनाह-पटोलेति|
Adhikarana विषमज्वरे त्रिफलादिरसायनानि (१५४) · Śloka १५४
योजयेत्रिफलां पथ्यां गुडूचीं पिप्पलीं पृथक्|
तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा||१५४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-त्रिफलां वा पथ्यां वा गुडूचीं पिप्पलीं वा पृथक् पृथक् योजयेत् सततकादिके विषमज्वरे| अथवा तैस्तैः-रसायनाद्युक्तैर्विधिभिः, गुडसहितं भल्लातकं वा योजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-त्रिफलादिरसायनान्याह-योजयेन्त्रिफलामिति| तैस्तैः-रसायनविध्युक्तैः| भल्लातकरसायनं तु सगुडमेव|
Adhikarana ज्व्ररोत्पत्तिदिने लङ्घनं बृंहणं वा (१५५) · Śloka १५५
लङ्घनं बृंहणं वाऽऽदौ ज्वरागमनवासरे|
|१५५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यदि वा ज्वरागमनदिवसे आदौ-प्रथमं, लङ्घनं बृंहणं वा योजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ज्वरोत्पत्तिदेने अभोजनं गुरुस्निग्धमधुरभोजनं वा कार्यमित्याह-लङ्घनं बृंहणं वेति|
Adhikarana ज्वरोत्पत्तिदिने प्रातः काले ओजनादोय् वालशुन पुरानधृतदधिक्षीरतक्रणिषट्रपलादीनि घृतानि च (१५५-१५६) · Śloka १५६
प्रातः सतैलं लशुनं प्राग्भक्रं वा तथा ग़ृतम्||१५५||
जीर्णं तद्वद्दधि पयस्तक्रं सर्पिश्च षट्पलम्|
कल्याणकं पञ्चगव्यं तिक्ताख़्यं वृषसाधितम्||१५६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विषमज्वरे प्रगे सहतैलेन लशुनं योजयेत्| प्राग्भक्तमित्यादि| भक्तात्प्रथमं प्रातर्वाघृतं च जीर्णं-पुराणं, योजयेत्| तथैव दधि, तथा पयः, तथा तक्रं, षट्पलं च सर्पिःक्षयचिकित्सितोक्तं (हृ. चि. अ. ५/२८) , प्रातः प्राग्भक्तं वा योजयेदित्यर्थः| कल्याणकं-उन्मादप्रतिषेधोक्तं (हृ. उ. अ. ६/२६) , पञ्चगव्यं-अपस्मारप्रतिषेधोक्तं (हृ. उ. अ. ७/१९), तिक्ताख्यं-कुष्टचिकित्सितोक्तं (हृ. चि. अ. १९/२), तथा वृषसाधितं-रक्तपित्तचिकित्सितोक्तं (हृ. चि. अ. २/४०), प्रातः प्राग्भक्तं वा योजयेत्| षट्पलादीन्यतिदिशति-सर्पिश्चेति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लशुनपुराणघृतदधिक्षीरतक्राणि पृथक् सतैलानि प्रातःकाले भोजनादौ वा प्रयोज्यानीत्याह-प्रातः सतैलमिति| षट्फलादीन्यतिदिशति-सर्पिश्चेति|
Adhikarana विषमज्जरजित् त्रिफलादि घृतम् (१५७) · Śloka १५७
त्रिफलाकोलतर्कारीक्वाथे दध्ना शृतं घृतम्|
तिल्वकत्वक्कृतावाप विषमज्वरजित्परम्||१५७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रिफलादिक्वाथे चतुर्गुणे सर्पिर्दधिसमं शावररोघ्नत्वक्कृतावापमतिशयेन विषमज्वरजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-घृतान्तरमाह-त्रिफलाकोलतर्कारीक्वाथ इति|०
Adhikarana विषमज्वरे प्रयोगान्तरम् (१५८-१५९) · Śloka १५९
सुरां तीक्ष्णं च यन्मद्यं शिख़ितित्तिरिदक्षजम्|
मांसं मेद्योष्णवीर्यं च सहान्नेन प्रकामतः||१५८||
सेवित्वा तदहः स्वप्यादथवा पुनरुल्लिख़ेत्|
|१५९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-सुरां च तीक्ष्णं च यन्मद्यं शिख़ितिरिदक्षजं च मांसं मेध्यो(द्यो)ष्णवीर्यमन्नेन सह बहु सेवित्वा तदहः स्वप्यात्| यस्मिन् दिने तद्भुक्तं तं दिवसं शयीत| तदहः स्वप्यादिति "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया| अथवा पूर्वोक्तपीतभुक्तभक्तो नरः पुनरुल्लिख़ेत्-उद्वमेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-प्रयोगान्तरमाह-सुरामिति| सुरामन्यद्वा तीक्ष्णं मद्यं, शि(ख़ीतितिरिकुक्कुटान्मांसं,]... अन्यद्वा मेध्यो९द्यो) [ष्णवीर्यं-अ](ग़ी)योष्णमांसं, अन्नेन सह ज्वरोत्पत्तिदिने सेवित्वा स्वप्यात्| न जीर्यति चेदुल्लिख़ेत्-वमेत्|
Adhikarana विषमज्वरे सर्पिर्वमन्तरम् (१५९) · Śloka १५९
|
सर्पिषो महतीम् मात्रां पीत्वा वा छ्हर्दयेत्पुनः||१५९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-सर्पिषो वा महतीम्-उत्तमां, मात्रां पीत्वा पुनश्छ्हर्दयेत् उद्वमेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-सर्पिर्वमनमाह-सर्पिष इति|
Adhikarana विषमज्वरे विरेचनम् (१६०) · Śloka १६०
नीलिनीभजगन्धां च त्रिवृतां कटुरोहिणीम्|
पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः||१६०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-नीलिन्यादीन् पृथग्ज्वरागमनवासरे कृतस्नेहस्वेदः पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-विरेचनमाह-नीलिनीमिति| सद्यःस्नेहनं स्वेदं च कृत्वा नीलिन्यादिचतुष्टयं ज्वरोत्पत्तिदिने पिबेत्|
Adhikarana विषमज्वरे अञ्जनम् (१६२) · Śloka १६२
मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम्|
योज्यं|१६२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-मनोह्वादिकं तैलेन नयनाञ्जनं योज्यम्| अञ्जनशब्दो म्रक्षणेऽपि दृश्यत इतिनयनशब्देऽत्र प्रयुक्तः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-अञ्जनमाह-मनोह्वेति|
Adhikarana विषमज्वरे नस्यत्रयम् (१६१-१६२) · Śloka १६२
|
हिङ्गुसमा व्याघ्रीवसा नस्यं ससैन्धवम्||१६१||
पुराणसर्पिः सिंहस्य वसा तद्वत्ससैन्धवा|
|१६२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हिङ्गुतुल्या व्याघ्रीवसा नस्यं ससैन्धवं योज्यम्| व्याघ्रीति स्त्रीलिङ्गनिर्देशः स्त्रिया ग्रहणार्थोऽचिन्त्यत्वात्प्रभावस्य, अन्यथा पुंलिङ्गेनैव निर्देशं कुर्यात्| यथा वक्ति-"पुराणसर्पिः सिंहस्य वसा तद्वत्ससैन्धवा|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नस्यमाह-हिङ्गुसमा व्याघ्रीवसा नस्यमिति| व्याघ्री-व्याघ्रजातिस्त्री, तस्याः वसा| नस्यान्तरमाह-ससैन्धवम्| पुराणसर्पिरिति| नस्यान्तरमाह-सिंहस्य वसा तद्वत् ससैन्धवेति|
Adhikarana विषमज्वरे धूपद्वयम् (१६२-१६३) · Śloka १६३
|
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी||१६२||
सर्षपाः सयवाः सर्पिर्धूपो विड्वा बिडालजा|
|१६३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-पलङ्कषादिधूमः सर्वेषु ज्वरेषु कार्यः| अथवा बिडालाज्जाता विडालजा विट्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-धूपमाह-पलङ्कषेति| पलङ्कषा-गुग्गुलुः| धूपान्तरमाह-विड्वा बिडालजेति| विडालजा विट्मार्जारविष्ठा|
Adhikarana सर्वज्वरेऽपराजितो धूपः (१६३-१६४) · Śloka १६४
|
पुरध्यामवचासर्जनिम्बार्कागरुदारुभिः||१६३||
धूपो ज्वरेषु सर्वेषु कार्योऽयमपराजितः|
|१६४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-पुरादिभिः सहापराजिताख़्योऽयं धूपो ज्वरेषु कार्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-अपराजितं धूपमाह-पुराध्यामेति| पुरोगुग्गुलुः| ध्यामकं-तृणम्| सर्जो-राला|
Adhikarana उन्मादादिषूक्तो धूपादिः (१६४) · Śloka १६४
|
धूपनस्याञ्जनोस्त्रासा ये चोक्ताश्चित्तवैकृते||१६४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-ये च चित्तवैकृते-उन्मादापस्मारे, धूमादय उक्तास्ते च विषमज्वरे योज्याः| विकृतमेव वैकृतम्| प्रज्ञादित्वात्स्वार्थेऽण्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-उन्मादादिषूक्तान् धूपादीनतिदिशति-धूपनस्याञ्जनोन्त्रासा इति| उन्त्रासः-अकस्माद्भयोत्पादनम्| चित्तवैकृतं-उन्मादोऽपस्मारश्च, तत्र ये उक्तास्ते कार्याः|
Adhikarana दैवव्यपाश्र्ययमौषधम् (१६५) · Śloka १६५
दैवाश्रयं च भैषज्यं ज्वरान् सर्वान् व्यपोहति|
विषेषाद्विषमान् प्रायस्ते ह्यागन्त्वनुबन्धजाः||१६५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-न केवलं धूपादयो ज्वरं नाश्यन्ति| दैवाश्रयं चौषधं मणिमङ्गलबल्युपहारप्रायश्चित्तजपदानस्वस्त्ययनहोमादिकं सर्वान् ज्वरान्-आगन्तून्निजांश्च, व्यपोहति| "उपसर्गादस्यत्यूह्योर्वा वचनम् (र्वेति वाच्यम्)" इति तङभावः| विशेषेण विषमान् व्यपोहति| यस्मात्ते-विषमज्वराः, आगन्तुनां-भूतादीनां, अनुबन्धज्जाताः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-दैवव्यपाश्रयमौषधमाह-दैवाश्रयं चेति| दैग़ाश्रयं-जपहोमादि| हि-यस्मात्, प्रायो-बाहुल्येन, ते विषमाः, आगन्त्वनुबन्धजाः-ग्रहावेशादिसम्भवाः|
Adhikarana विषमज्वरे शिराव्यधः (१६६) · Śloka १६६
यथास्वं च सिरां विध्येदशान्तौ विषमज्वरे|
|१६६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विषमज्वराशान्तौ सत्यां यथास्वं-दोषाद्यपेक्षया, सिरां विध्येत्| सङ्ग्रहे च रसादिधातुस्थे ज्वरे चिकित्सोक्ता| यथा (चि.अ.२)-"रससंस्थे तु सर्वस्मिन् कुर्याद्वमनलङ्घने| सेकसंशमनालेपरक्तमोक्षमसृकूस्थिते|| तीक्ष्णं विरेकं मांसास्थे, मेदोघ्नं मेदसि स्थिते| अस्थिस्थे वातशमनमभ्यङ्गस्वेदमर्दनम्|| ज्वरे वातार्तिशमनं विशेषाद्बूस्तिकर्म च|" इति| मज्जस्थशुक्रस्थयोर्ज्वरयोरसाध्यत्वात्तत्र चिकित्सा नोक्ता|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शिराव्यधमाह-यथास्वं चेति| "तृतीयर्केऽसयोर्मध्ये स्कन्धस्याधश्चतुर्थके|" (हृ. सू. अ. २७/१३) इत्यादि-यथास्वम्| सङ्ग्रहे तु (चि.अ. २)-"पञ्चगव्यस्य महतो विधिना पञ्चमाहिषम्| पञ्चाजं चतुरैष्ट्रं वा सिद्धं सिद्धं घृतं तथा|| चतुरौष्ट्रं-पयोदधिमूत्रघृतैः| कटुरोहिणिमञ्जिष्ठावृषग्रन्थिकचित्रकैः| पाठास्वगुप्ताद्विनिशैः पञ्चगव्यस्य पञ्चसु|| प्रस्थेषु संयुतैः सेव्यं विषमज्वरजित्परम्| वाक्स्वरस्मृतिमेधाग्निबलारोग्यवृषत्वकृत्|| शृतक्षीरघृतक्षौद्रसिताकृष्णाः खजाहताः| विषमज्वरहृद्रोगक्षतकासक्षयापहाः|| आस्थापनं वा तदहर्दद्यात्स्विन्नस्य यापनम्| पयसा वृषदंशस्य शकृत्द्वा तदहः पिबेत्|| मस्तुना वा वृषशकृत् सुरया वा ससैन्धवम्|| सहदेवावचाभद्रानाकुलीभिः प्रयोजयेत्| धूपनोद्वर्तनालेपान् सर्वज्वरनिबर्हणान्||" इति| सिद्धयोगे तु (ज्व. श्लो. २३०)- "मुस्तामलकगुडूचीविश्वौषधकण्टकारिकाक्वाथः| पीतः सकणाचूर्णः समधुर्विषमज्वरं हन्ति|| अपामार्गजटा कट्यां लोहितैः सप्ततन्तुभिः| बद्धा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम्|| गङ्गाया उत्तरे कूले अपुत्रस्तापसो मृतः| तस्मै तिलोदकं दद्यान्मुञ्चत्वेकाहिको ज्वरः|| अगस्त्यन्पत्रस्वरसेन नस्यं निहन्ति चातुर्थकमुग्रवीर्यम्|| सोमं सनुचरं देवं समातृगणमीश्वरम्| पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्|| विष्णुं सहस्रमूर्धानं चराचरपतिं विभूम्| स्तुवन्नामसहस्रेण ज्वरान्सर्वान् व्यपोहति|| मूलं भूमिजयन्त्याश्च सहदेवोद्भावं तथा| तण्डुलीयकमूलं वा बद्धं मुर्ध्नि ज्वरापहम्|| शान्तिं नयेन्त्रिवृद्वाऽपि सक्षौद्रा विषमज्वरम्| मधुना चाभया लीढा हन्त्याशु विषमज्वरम्|| (श्लो. २२८) अजाजी गुडसंयुक्ता विषमज्वर नाशिनी| गुडप्रगाढां त्रिफलां लिह्याद्वा विषमज्वरी||" [इति| वङ्गसेने तु (ज्व. श्लो. ५७३)-] "शैलूषमण्डनरजः पुरुषानुरूपं शुभ्राङ्गवत्ससुरभीपयसा निपीतम्| आदित्यवारभवपालिदिने नरेण चातुर्थकं सुचिरजं जयति क्षणेन|| शैलूषमण्डनं-हरीतालम्| पुरुषानुरूपं-पुरुषाकृति| कल्कः शिरीषपुष्पस्य रजनीद्वयसंयुतः| नस्यं सर्पिः समायोगाज्ज्वरं चातुर्थकं जयेत्|| सितवर्षाभूमूलं पयस पीतं च पैत्तिकं जयति| चातुर्थकं सुचिरजं ताम्बूलेनैव भक्षणादथवा|| कृष्णामलकीरामठदार्विवचाराजसर्षपरसोनैः| छागलमूत्रनिपिष्टैर्नस्यं त्वेकाहिकादिहरम्|| क्षीराविकारजनिमर्दकसत्रपाणांमूलं ज्वरापहमवश्यमिदं शिखायाम्| बद्धं दिवाकरदिने यदि वाऽष्टमीषु रात्रिज्वरं हरति रञ्जितसूत्रबद्धम्||" इति| इति विषमज्वरः|
Adhikarana अभिघातजे आगन्तुज्वरे औषधम् (१६६-१६७) · Śloka १६७
|
केवलानिलवीसर्पविस्फोटाभिहतज्वरे||१६६||
सर्पिःपानहिमालेपसेकमांसरसाशनम्|
कुर्याद्यथास्वमुक्तं च रक्तमोक्षादि साधनम्||१६७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-केवलानिलादिभिर्ज्वरे सर्पिःपानादिकं कुर्यात्| यच्च रक्तमोक्षादि साधनं यथास्वमुक्तं तच्च कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-अथागन्तुज्वरः| तत्राभिग़ातजन्मौषधमाह-केवलानिलेति| केवलनिलजो विसर्पजो विस्फोटजश्च ज्वरस्तुल्यौषधत्वादुक्तः| किन्त्वसावागन्तुः| किन्तु निजभेदः केवलः-पित्तकफामैरसंस्पृ(सृ)ष्टः|
Adhikarana ग्रहावेशजे आगन्तुज्वरे औषधम् (१६८) · Śloka १६८
ग्रहोत्थेभूतविद्योक्तं बलिमन्त्रादि साधनम्|
|१६८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-ग्रहोत्थे ज्वरे भूतविद्योक्तं बलिमन्त्रादि साधनं चिकित्सितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-ग्रहावेशजस्यौषधमाह-ग्रहोत्थ इति| भूतविद्या-उत्तरस्थानोक्तं ग्रहप्रकरणम्|
Adhikarana औषधिगन्धजे आगन्तुज्वरे औषधम् (१६८) · Śloka १६८
|
ओषधीगन्धजे पित्तशमनं|१६८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-ओषधीगन्धजे पित्तशमनं चिकित्सितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-औषधीगन्धजस्यौषधमाह-औषधीगन्धज इति|
Adhikarana विषजे आगन्तुज्वरे औषधम् (१६८) · Śloka १६८
|
विषजिद्विषे||१६८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-विषे-विषजे ज्वरे, विषजिच्चिकित्सितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-विषजस्यौषधमाह-विषजद्विष इति|
Adhikarana क्रोधादिजे आगन्तुज्वरे औषधम् (१६९-१७०) · Śloka १७०
इष्टैरर्थैर्मनोज्ञैश्च यथादोषशमेन च|
हिताहितविवेकैश्च ज्वरं क्रोधादिजं जयेत्||१६९||
क्रोधजो याति कामेन शान्तिं क्रोधेन कामजः|
भयोशोकोद्भवौ ताभ्यां भीशोकाभ्यं तथेतरौ||१७०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-क्रोधादिजं ज्वरमिष्टैः-अभिमतैः, अर्थैः-विषयैः, तथा मनोज्ञैः-रम्यैः, तथा यथादोषं यः शमः-शमनं तेन, तथा हिताहितविवेकैश्च जयेत्| आदिशब्दोऽत्र भीशोकादि परिग्रहार्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-क्रोधादिजस्यौषधमाह-इष्टैर्थैरिति| इष्टैः-भोक्तुगुणेन मनोज्ञैः स्वगुणेन वा|
Adhikarana शापजेऽभिचारजे च आगन्तुज्वरे औषधम् (१७१-१७२) · Śloka १७२
शापाथर्वणमन्त्रोत्थे विधिर्दैवव्यपाश्रयः|
ते ज्वराः केवलाः पूर्वं व्याप्यन्तेऽनन्तरं मलैः||१७१||
तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत्|
न हि ज्वरोऽनुबध्नाति मारुताद्यैर्विना कृतः||१७२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शापाद्युत्थे ज्वरे दैवव्यपाश्रयो विधिः कार्यः| शापोमुनिपित्रादिभिः सक्रोर्धैर्दत्तः| [ते-] ओषध्याद्युत्था ज्वराः पूर्वं केवला भवन्ति| अनन्तरं मलैः-वातादिभिः, व्याप्यन्ते| तस्माद्धेतोस्तेषु-ज्वरेषु, दोषानुसारेणाहारादि कल्पयेत्| ननु, शापाद्युत्थेषु वातादिकोपो नाशङ्क्यत एव| तत्किमिति तेष्वाहारादिकं दोषानुसारेण कल्प्यते ? इत्याह-न हीत्यादि| यस्माद्वातादीनन्तरेण विना कृतो ज्वरो नानुबध्नाति, तस्मादवश्यं तेष्वपि वातादिकोपः सम्भाव्यते| अत एव च तदनुसारेणाहारदिकल्पनम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शापजाभिचारजयोरौषधमाह-शापाथवर्णमन्त्रोत्थ इति| वङ्गसेने तु (ज्वर. श्लो. ५४१)-"औषधीगन्ध[विषजौ विषपित्तप्रबाधनैः| जयेत्कषायैर्मतिमान् सर्वगन्धकृतैर्भिषक्|| ]" इति| इत्यागन्तुज्वरः| अथ धातुज्वरः| [ सङ्ग्रहे तु (चि. अ. २)-] "रससंस्थे तु सर्वस्मिन् कुर्याद्वमनलङ्ग़ने| सेकसंशमनालेपरक्तमोक्षानसृक्स्थिते|| तीक्ष्णान् विरेकान् मांसस्थे मेदोघ्नं मेदसि स्थिते| अस्थिस्थे वातशमनमभ्यङ्गस्वेदमर्दनम्|| ज्वरे वातार्तिशमन विशेषाद्बस्तिकर्म च|" इति|
Adhikarana सर्वज्वरे मनोहरविषयसेवनम् (१७३) · Śloka १७३
ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत्|
|१७३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-ज्वरकालं च वेगं च यश्चिन्तयन् ज्वर्यते, अस्य चज्वरिणो, ज्वरकालस्मरणं हारिभिः-मनोहरैः, विषयैः-शब्दादिभिः, हरेत्-विस्मारयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-अथ सर्वज्वरसाधारणानि| तत्र मनोहरसेवामाह-ज्वरकालस्मृतिमिति| ज्वरकालो-ज्वरवेगकालः, तस्य स्मृतिः-अस्मिन्काल आधत्ता इति स्मरणम्|
Adhikarana सर्वज्वरे मनसः शुद्धत्वं करूणाद्रत्वं च (१७३) · Śloka १७३
|
करुणार्द्रं मनः शुद्धं सर्वज्वरविनाशनम्||१७३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-शुद्धं-रागद्वेषाद्यनुपहतं, तथा करुणयाऽऽद्रं-कृपापरं, चेतः सर्वज्वरविनाशनं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-मनसः शुद्धत्वं करुणार्द्रत्वं चाह-करुणार्द्रमिति|
Adhikarana सर्वज्वरे व्यायामादिवर्जनम् (१७४) · Śloka १७४
त्यजेदाबललाभाच्च व्यायामस्नानमैथुनम्|
गुर्वसात्म्यविदाह्यन्नं यच्चान्यज्जवरकारणम्||१७४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-बललाभादा-बललाभमवधीकृत्य, व्यायामादि त्यजेत्-नाचरेत्| स्नानं च यद्यपि दीपनादिगुणयुक्तं प्रागधीतं, तथाऽपि प्रभावज्जवरं करोतीति तद्वर्जनम्| एवं व्यायामादिष्वपिचिन्त्यम्| [अन्यत्]-अपरमनुक्तमपीह यज्ज्वरकारणं, तदपि त्यजेत्| ख़ारणादेऽप्य्क्तम्-"पिष्टान्नं हरितं शाकं मांसं शुष्कं तिलान् दधि| ग्राम्यानूपौदकाजाविगव्यसूकरभाहिषम्|| मांसं शुष्काणि शाकानि सर्वमेव त्यजेज्जवरी|" तथोक्तम्-"ज्वरितै स्थित्तिरिक्रौञ्चशिख़िवर्तककुक्कुटाः| गुरुष्णत्वाद्विवर्ज्याः स्युरत्र सोपद्रवे ज्वरे||" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-व्यायामादिवर्जनमाह-त्यजेदिति|
Adhikarana सर्वज्वरे सहसाऽऽहारवृद्दिनिषेधःनिषेधातिक्रमे दोषः (१७५) · Śloka १७५
न विज्वरोऽपि सहसा सर्वान्नीनो भवेत्तथा|
निवृत्तोऽपि ज्वरः शीग़्रं व्यापादयति दुर्बलम्||१७५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-तथा विज्ज्वरोऽपि-पूर्वानुभूतज्वरः, सहसा-अक्रमेणैव, सर्वान्नभक्षो न स्यात्| सर्वान्नीन इत्युपपदसर्वान्नेत्यादिना खः| यतो निवृत्तोऽपि-अपगतोऽपि, ज्वरः शीघ्रमेव दुर्बलं व्यापादयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-सहसाऽऽहारवृद्दिं निषेधति-न विज्वरोऽपीति| सर्वान्नमतीति सर्वान्नीनः| निषेधातिक्रमे दोषमाह-निवृत्तोऽपीति|
Adhikarana ज्वरावस्थायां सावधानता (१७६) · Śloka १७६
सद्यः प्राणहरो यस्मात्तस्मात्तस्य विशेषतः|
तस्यां तस्यामवस्थायां तत्तत्कुर्याद्भीषग्जितम्||१७६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-यस्माच्च ज्वरः सद्य एव प्राणहृद्भवति, तस्मात्कारणात्तस्य-ज्वरिणो, विशेषेणान्यरोगेभ्यः सकाशात्तस्यां तस्यांसामपच्यमानपक्वाजीर्णविषमचिरनिवृत्तज्वराद्यवस्थायां च, तत्तत्-लङ्घनस्वेदनयवागूपाचनक्षीरसर्पिःपानादिकं, भिषग्जितं-औषधं, कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-ज्वरचिकित्सायामादरं विधत्ते-सद्यः प्राणहर इति|
Adhikarana ज्वरे सिद्धौषधादिधारणम् (१) · Śloka २
औषधयो मणयश्च सुमन्त्राः साधुगुरुद्विजदैवतपूजाः|
प्रीतिकरा मनसो विषयाश्च घ्नन्त्यपि विष्णुकृतं ज्वरमुग्रम्||१७७||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता यामष्टाङ्गहृदयसंहितायां चतुर्थे चितित्सितस्थाने ज्वरचिकित्सितं नाम प्रथमोऽध्यायः||१||
ग्||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-ओषध्यादयो विष्णुकृतमप्युग्रं ज्वरं घ्नान्ति| किं पुनरपचारादिकृतं ज्वरं न घ्नान्ति ? इत्यपिशब्दार्थः| भौ तु भागाविति दोधकमेतत्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां चतुर्थे चिकित्सितस्थाने ज्वरचिकित्सितं नाम प्रथमोऽध्यायः समाप्तः|| १||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-सिद्दौषधादिधारणमाह-औषधय इति| सङ्ग्रहे तु (चि.अ. २)-"कृत्या त्रिवर्गसंयुक्ता रुड्निद्रादिविनोदिनी| शास्त्रं विचित्रं शृणुयान्न प्रेतव्याधिताश्रयम्|| मनोभिरामविषयं वचनं ह्लादि दक्षिणम्| मातरं पितरं देवान् वैद्यान् विप्रान् हरं हरिम्|| पूजयेच्छीलयेद्दानदमसत्यदयार्जवान्| धारयेच्च शुचिर्मूर्ध्ना मणिरत्नमहौषधीः|| आर्यावलोकितं पर्णशबरीमपराजिताम्| प्रणमेदार्यतारां च सर्वज्वरनिवृत्तये| जपंस्तथा गतोष्णीषं सर्वव्याधिचिकित्सितम्| आगन्तुदोषसहजैः सर्वरोगैर्विमुच्यते||" इति|| इति हेमाद्रिटीकायामायुर्वेदरसायने| ज्वरप्रकरणं नाम समस्त्येन निरूपितम्|| १||