Skip to content

६३. योनिकन्दनिदानम्

Adhikarana योनिकन्दस्य निदानपूर्वकं सामान्यलक्षणम् (१-२) · Śloka

अथ योनिकन्दनिदानम् | दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् | क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यदा ||१|| पूयशोणितसङ्काशं निकुचाकृतिसन्निभम् | जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः ||२||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

योन्याश्रयत्वात् योनिकन्दनिदानमाह– दिवास्वप्नादित्यादि| नखदन्ताद्यैरित्यत्रादिशब्दात् कण्टकादिपरिग्रहः| वाताद्याः कुपिता इति यथानिदानं प्रत्येकं वातादयः कुपिताः| निकुचाकृतिसन्निभमिति वर्तुलमित्यर्थः; अस्यानन्तरं गुडकमिति द्रष्टव्यं, तेन नपुंसकलिङ्गता सङ्गता भवति| कन्दः प्रायेण जरन्नारीयोनिगतो निकुचाकारो रोगः||१-२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इहैव योनिसंश्रितत्वेन कन्दनिदानमाह– दिवेत्यादि| नखदन्ताद्यैरित्युपलक्षणम्| आदिग्रहणात् कण्टकादिपरिग्रहः| वाताद्याः कुपिता इति यथानिदानेन वातादयः प्रत्येकं कुपिताः| लकुचाकृतिसन्निभमेतस्यानन्तरं गुडकमिति द्रष्टव्यम्| कन्दः प्रायेण जरन्नारीयोनिगतो लकुचाकारो रोगः||१-२||

Adhikarana योनिकन्दस्य वातजादिभेदेन लक्षणानि (३-४) · Śloka

रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत् | दाहरागज्वरयुतं विद्यात् पित्तात्मकं तु तम् ||३|| नीलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम् | सर्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः ||४||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातजादिभेदेन रूपमाह– रूक्षमित्यादि| नीलपुष्पप्रतीकाशमिति अतसीकुसुमवर्णम्| कफजेऽपि नीलता व्याधिप्रभावादेव; अन्ये तु पैत्तिकलक्षण एव सम्बध्नन्ति, योग्यत्वात्||३-४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातजमाह– रूक्षमित्यादि| सुगमम्| पैत्तिकमाह– दाहेत्यादि| सुगमम्| श्लैष्मिकमाह– नीलेत्यादि| अतसीकुसुमादेववर्णम्| एवंविधवर्णता च कफजेऽपि रोगप्रभावात्, अन्ये त्वेतत्पैत्तिके एव सम्बध्नन्ति, योग्यत्वात्, वदन्ति च– “दाहरागज्वरयुतम्” इत्यभिधानादिकल्पितमेतदवगन्तव्यमिति| सन्निपातिकमाह– सर्वेत्यादि; सुगमम्||३-४||

Adhikarana पुष्पिका · Śloka ६३

इति श्रीमाधवकरविरचिते माधवनिदाने योनिकन्दनिदानं समाप्तम् ||६३||

🔊 Audio coming soon

Hide commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां योनिकन्दनिदानं समाप्तम्||६३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यप्रणीतायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां योनिकन्दनिदानम्||६३||