Skip to content

२३. वातरक्तनिदानम्

Adhikarana वातरक्तनिदानम् (१-३) · Śloka

अथ वातरक्तनिदानम् | लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनः | क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ||१|| कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः | दध्यारनालसौवीरशुक्ततक्रसुरासवैः ||२|| विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः | प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् | (च. चि. अ. २९) | स्थूलानां सुखिनां चापि कुप्यते वातशोणितम् ||३|| (सु. चि. अ. १) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातव्याधिविशेषत्वात्तदनन्तरं वातरक्तमाह| ननु, सुश्रुते वातरोगाध्याये एव वातरक्तं पठितं, तत् कुतोऽत्र सङ्ग्रहे पृथक् पाठः? उच्यते– सत्यपि वातरोगत्वे निदानवैशिष्ट्यात् विशिष्टदोषदूष्यख्यापनार्थं हस्तादिदेश एव सम्प्राप्तिकथनार्थं क्रियाविशेषख्यापनार्थं च पृथक्करणम्| अत एव चरकेऽपि वातव्याध्यनन्तरं पृथग्वातरक्ताधिकारः| ननु, ‘रुजस्तीव्राः ससन्तापा’ इत्यादिना रक्तगतस्य वातस्य लक्षणं वातव्याधावेवोक्तं, ततश्च वातरक्ताभिधानं पुनरुक्तं स्यात्; नैवं, वातरक्तं हि दुष्टेन वातेन दुष्टेन रक्तेन च विशिष्टसम्प्राप्तिकं विकारान्तरमेव| उक्तं हि चरके– “वायुः प्रवृद्धो वृद्धेन रक्तेनावारितः पथि| क्रुद्धः सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम्||” (च. चि. अ. २९) इति| रक्तगतवाते तु वात एव दुष्टो रक्तमदुष्टमेव गच्छतीति भेदः| लवणाम्लेत्यादि, क्लिन्नशुष्कशब्दौ मांसेन सम्बध्येते| पिण्याकस्तिलकल्कः| निष्पावः शिम्बिः, पललं मांसम्| प्रायश इत्यादि, सुकुमारा मृदुदेहावयवाः, “तेषामल्पचेष्टत्वाल्लवणादिभिः रक्तं कटुतिक्तप्रजागरादिभिश्च वातः कुप्यति|” इति ईशानः||१-३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातव्याधिविशेषत्वात्तदनन्तरं वातरक्तमाह| ननु, सुश्रुते वातरोगाध्याये एव वातरक्तं पठितं, तत् कुतोऽत्र सङ्ग्रहे पृथक् पठितम्? उच्यते– सत्यपि वातरोगत्वे निदानवैशिष्ट्याद्विशिष्टसम्प्राप्तिकथनार्थं क्रियाविशेषज्ञापनार्थं च पृथक्करणम्| अत एव चरकेऽपि वातव्याध्यनन्तरं पृथग्वातरक्ताध्याय उक्तः| तस्य निदानमाह– लवणेत्यादि| लवणादिभिर्भोजनैः, तथा क्लिन्नशुष्काम्बुजादिभिः, तथा कुलत्थादिभिः, तथा दध्यादिभिः, तथा विरुद्धादिभिः, तथा प्रायशः सुकुमाराणां पुंसां, तथा मिथ्याहारविहारिणां स्थूलानां च सुखिनां च वातरक्तं प्रकुप्यति| क्लिन्नशुष्कशब्दौ मांसेन सम्बध्येते| पिण्याकः तिलकल्कः, निष्पावः शिम्बिः, पललं मांसं, क्लिन्नं शटितम्, अम्बुजा मत्स्यादयः, आरनालादयः काञ्जिकभेदाः, सुरा पिष्टकृता, आसवो मद्यं, विरुद्धं क्षीरमत्स्यादि, अध्यशनं भुक्तोपरिभोजनं, सुकुमारा मृदुदेहावयवाः, स्थूला मेदस्विनः, सुखिनश्च सम्यक्प्रवृत्त्यादिवर्जिताः; तेषामल्पचेष्टत्वात् लवणादिभिः रक्तं, तिक्तकटुकषायादिभिर्वातश्च कुप्यतीति ईशानः||१-३||

Adhikarana वातरक्तसम्प्राप्तिः (४) · Śloka

हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं सविदाहोऽशनस्य | कृत्स्नं रक्तं विदहत्याशु तच्च स्रस्तं दुष्टं पादयोश्चीयते तु | तत् सम्पृक्तं वायुना दूषितेन तत्प्राबल्यादुच्यते वातरक्तम् ||४|| (सु. नि. अ. १) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सम्प्राप्तिमाह– हस्त्यश्वेत्यादि| हस्त्यादिगमनं वातवृद्धौ विशेषेण रक्तस्य द्रवस्याधोगमनेऽपि हेतुः, विदाह्यन्नं च शोणितवृद्धौ| हस्त्यादिगमनं विशेषेण, पादेनापि गमनं हेतुरेव| तत् रक्तम्| सम्पृक्तं वायुना दूषितेन स्वहेतुवृद्धेन| तत्प्राबल्यादिति द्वयोर्दुष्टत्वेऽपिवातस्य प्राबल्यात् दोषत्वेन प्राधान्याद्वातरक्तव्यपदेशः, नतु रक्तवात इति||४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्य सम्प्राप्तिमाह– हस्तीत्यादि| विदाहि विरूढकादिकम्| अश्नतः भुक्तवतः, विदाहात् कृष्णशरीरगतरक्तमाशु विदहति, विदाह्यन्नं शोणितवृद्धौ हस्त्यादिगमनं च विषमपादेनापि गमनं हेतुः| तत्सम्पृक्तमिति तद्रक्तपित्तं संसृष्टं वायुना दूषितेन स्वहेतुवृद्धेन सह, तत्प्राबल्याद्वातरक्तमुच्यते– तत्प्राबल्यादिति द्वयोर्दुष्टत्वेऽपि वातस्य प्राबल्याद्दोषत्वेन प्राधान्याद्वातरक्तव्यपदेशः, नतु रक्तवात इति| तद्वत्पित्तमिति दुष्टं पित्तमित्यर्थः| दूषितेनासृजाक्तमिति दूषितेन रक्तेन मिश्रं तथा दुष्टः श्लेष्मा दूषितेन रक्तेनाक्तो मिश्रः||४||

Adhikarana वातरक्तपूर्वरूपम् (५-७) · Śloka

स्वेदोऽत्यर्थं न वा कार्ष्ण्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक् | सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ||५|| जानुजङ्घोरुकट्यंसहस्तपादाङ्गसन्धिषु | निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ||६|| कण्डूः सन्धिषु रुग्भूत्वा भूत्वा नश्यति चासकृत् | वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम् ||७|| (च. चि. अ. २९) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पूर्वरूपमाह– स्वेदेत्यादि| स्वेदोऽत्यर्थं न वेति घर्मागमनमत्यर्थं भवति सर्वथा वा न भवति, एतच्च व्याधिमहिम्ना कुष्ठवत्| क्षतेऽतिरुगिति यदि कारणान्तरात् क्षतं स्यात्तदाऽतिशयं रुजा स्यात्, तद्देशस्य दुष्टत्वात्||५-७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्य पूर्वरूपमाह– स्वेद इत्यादि| घर्मागमनमत्यर्थं भवति सर्वथा वा न भवति, एतच्च व्याधिमहिम्ना कुष्ठवत् बोद्धव्यम्| कार्ष्ण्यमङ्गानाम्| क्षतेऽतिरुगिति यदि कारणान्तरात् क्षतं भेदः स्यात्, तदा ह्यतिशयेन रुजा भवति, तद्देशस्य दुष्टत्वात्| सदनमङ्गानाम्| पिडिकाप्रादुर्भावो जान्वादिषु, निस्तोदः पीडाविशेषः, सुप्तिस्त्वचः, वैवर्ण्यं विच्छायता, एतत्पूर्वरूपं वातरक्तस्य||५-७||

Adhikarana वातरक्तस्य दोषान्तरेण संसर्गे लक्षणानि (८-१२) · Śloka १२

वातेऽधिकेऽधिकं तत्र शूलस्फुरणभञ्जनम् | शोथस्य रौक्ष्यं कृष्णत्वं श्यावता वृद्धिहानयः ||८|| धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् | शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ||९|| रक्ते शोथोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते | स्निग्धरूक्षैः शमं नैति कण्डूक्लेदसमन्वितः ||१०|| पित्ते विदाहः सम्मोहः स्वेदो मूर्छा मदस्तृषा | स्पर्शासहत्वं रुग्रागः शोथः पाको भृशोष्मता ||११|| कफे स्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः | कण्डूर्मन्दा च रुग्द्वन्द्वं सर्वलिङ्गं च सङ्करात् ||१२|| (वा. नि. अ. १६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातरक्तस्य दोषान्तरसंसर्गेण लक्षणान्याह– वातेऽधिक इत्यादि| वृद्धिहानय इति वातरक्तलक्षणानाम्| रक्त इत्यादि| रक्त इत्यत्र ‘अधिक’ इत्यनुवर्तनीयम्, एवं वक्ष्यमाणपित्तादिषु| एतच्चारम्भकरक्तादन्यद्रक्तान्तरं बोध्यं, रक्तमपि रक्तान्तरदूषकं भवति| यदुक्तं दुष्टरक्तलक्षणे– “ पित्तवद्रक्तेनातिकृष्णं च|” (सु. सू. अ. १४) इति| शमं नैति शान्तिं न याति| कफ इत्यादि| द्वन्द्वसर्वलिङ्गं च सङ्करादिति सङ्करात् द्विदोषत्रिदोषमेलकात् द्वन्द्वलिङ्गं सर्वलिङ्गं च क्रमाद्वातरक्तं भवति||८-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

दोषान्तरसंसर्गे लक्षणमाह– वातेऽधिक इत्यादि| तत्र जानुजङ्घादिस्थानेषु शूलादिकं ज्ञेयं, तथा शोथस्य रौक्ष्यादिकं वृद्धिहानयश्च विज्ञेयाः, धमन्यादीनां सङ्कोचः| अङ्गग्रहः शीतद्वेषः, अनुपशयः असात्म्यम्; शीतेन रोगवृद्धिः| रक्ताधिकलक्षणमाह– रक्त इति| रक्त इत्यत्राधिक इत्यनुवर्तनीयम्, एवं वक्ष्यमाणपित्तादिषु| कण्डूक्लेदौ शमं न यातः, क्लेदो द्रवत्वम्| एतच्चारम्भकरक्ताद्रक्तान्तरं बोद्धव्यम्| रक्तमपि रक्तान्तरदूषकं भवति, यदुक्तं दुष्टरक्तलक्षणे– “पित्तवत् रक्तेनातिकृष्णं च” इति| पित्ताधिकमाह– पित्त इति| भृशोष्मता सन्तापाधिक्यम्| कफाधिकमाह– कफ इति| कफाधिके स्तैमित्यमार्द्रता, मन्दा अदारुणा, रुक् पीडा| द्वन्द्वजसान्निपातिकावाह– द्वन्द्वमित्यादि| सङ्करात् द्विदोषमेलकात् त्रिदोषमेलकाच्च द्वन्द्वलिङ्गं सर्वलिङ्गं च भवेत्||८-१२||

Adhikarana क्रुद्धस्य वातरक्तस्य सर्वदेहविसर्पितत्वम् (१३) · Śloka १३

पादयोर्मूलमास्थाय कदाचिद्धस्तयोरपि | आखोर्विषमिव क्रुद्धं तद्देहमुपसर्पति ||१३|| (सु. नि. अ. १) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पादयोर्जातमप्रतिक्रियमाणं देशान्तरं व्याप्नोति, पादवद्धस्तयोरपि भवतीति दर्शयन्नाह– पादयोरित्यादि| आखोर्विषमित्यनेन मन्दविसर्पणतां दर्शितवान्; एतद्वातरक्तं चरकेण द्विविधमुक्तम्| यदाह– “उत्तानमथ गम्भीरं द्विविधं वातशोणितम्| त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम्||” (च. चि. अ. २९) इति| सुश्रुतेन तु कुष्ठवदुत्पत्तौ उत्तानस्योत्तरकालं गम्भीरत्वमुक्तमिति मतभेद एव||१३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पादयोर्जातमप्रतिक्रियमाणं प्रदेशान्तरं प्राप्नोति; पादबद्धस्तयोरपि भवतीति दर्शयन्नाह– पादयोरित्यादि| कदाचिदिति अप्रतिक्रियमाणम्| हस्तयोरपीति मूलमास्थाय| आखोर्विषमिवेत्यनेन मन्दविसर्पितां दर्शितवान्| एतच्च वातरक्तं चरकेण द्विविधमुक्तं तद्यथा– “उत्तानमथ गम्भीरं द्विविधं वातशोणितम्| त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम्||” इति||१३||

Adhikarana वातरक्तस्य साध्यासाध्यविचारः (१४-१८) · Śloka १८

आजानु स्फुटितं यच्च प्रभिन्नं प्रस्रुतं च यत् | उपद्रवैश्च यज्जुष्टं प्राणमांसक्षयादिभिः ||१४|| वातरक्तमसाध्यं स्याद्याप्यं संवत्सरोत्थितम् | (सु. नि. अ. १) | अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः ||१५|| सम्मूर्छामदरुक्तृष्णाज्वरमोहप्रवेपकाः | हिक्कापाङ्गुल्यवीसर्पपाकतोदभ्रमक्लमाः ||१६|| अङ्गुलीवक्रतास्फोटदाहमर्मग्रहार्बुदाः | एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वाऽपि यत् ||१७|| अकृत्स्नोपद्रवं याप्यं, साध्यं स्यान्निरुपद्रवम् | एकदोषानुगं साध्यं नवं, याप्यं द्विदोषजम् | त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्रवाः ||१८|| (च. चि. अ. २९) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

असाध्यत्वादिकमाह– आजान्वित्यादि| आजानु जानुपर्यन्तं गतमसाध्यम्| तथा स्फुटितादिकं स्फुटितं दलितत्वक्, प्रभिन्नं विदीर्णत्वक्| उपद्रवैरित्यादौ आदिशब्देन वक्ष्यमाणानामस्वप्नादीनां ग्रहणम्| याप्यं संवत्सरोत्थितमित्यनेन संवत्सरादर्वाक् साध्यं, यदि स्फुटितत्वगादयो न भवेयुरित्याहुः| अस्वप्नेत्यादि| पाङ्गुल्यं पङ्गुता| मोहेनैकेनेति वचनात् पूर्वोक्तैः समस्तैर्द्वित्र्यादिभिश्चेति ज्ञापयतीति||१४-१८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

एतस्यैवासाध्ययाप्यत्वे आह– आजान्वित्यादि| आजानु जानुपर्यन्तं गतमसाध्यम्| स्फुटितं दलितत्वक्| प्रभिन्नं विदीर्णम्| प्रस्रुतं स्रावयुक्तम्| उपद्रवैरिति प्राणमांसक्षयादिभिः, आदिग्रहणेन च वक्ष्यमाणानामस्वप्नादीनां ग्रहणम्| याप्यं संवत्सरोत्थितमित्यनेन संवत्सरादर्वाक् साध्यं, यदि स्फुटितत्वादयो न भवेयुः| उपद्रवानाह– अस्वप्नेत्यादि| मांसकोथो मांसगलनम्| मूर्छायो मूर्छा| अमन्दरुक् पीडाबाहुल्यम्| मोह इन्द्रियार्थानाम्| पाङ्गुल्यं पङ्गुता| मोहेनैकेनेति वचनात् पूर्वोक्तैः समस्तैश्चेति ज्ञापयति| पुनश्च साध्यासाध्यत्वमाह– अकृत्स्नेत्यादि| यस्य च सर्वे उपद्रवा भवेयुः सोऽप्यसाध्यः| ‘अकृत्स्नोपद्रवम्’ इत्यादिकं माधवेन न गृहीतं, पुस्तकान्तरेषु दृष्टत्वाल्लिखितमिति||१४-१८||

Adhikarana पुष्पिका · Śloka २३

इति श्रीमाधवकरविरचिते माधवनिदाने वातरक्तनिदानं समाप्तम् ||२३||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां वातरक्तनिदानं समाप्तम्||२३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां वातरक्तनिदानम्||२३||