Adhikarana वातरक्तनिदानम् (१-३) · Śloka ३
अथ वातरक्तनिदानम् | लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनः | क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ||१|| कुलत्थमाषनिष्पावशाकादिपललेक्षुभिः | दध्यारनालसौवीरशुक्ततक्रसुरासवैः ||२|| विरुद्धाध्यशनक्रोधदिवास्वप्नप्रजागरैः | प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् | (च. चि. अ. २९) | स्थूलानां सुखिनां चापि कुप्यते वातशोणितम् ||३|| (सु. चि. अ. १) |
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातव्याधिविशेषत्वात्तदनन्तरं वातरक्तमाह| ननु, सुश्रुते वातरोगाध्याये एव वातरक्तं पठितं, तत् कुतोऽत्र सङ्ग्रहे पृथक् पाठः? उच्यते– सत्यपि वातरोगत्वे निदानवैशिष्ट्यात् विशिष्टदोषदूष्यख्यापनार्थं हस्तादिदेश एव सम्प्राप्तिकथनार्थं क्रियाविशेषख्यापनार्थं च पृथक्करणम्| अत एव चरकेऽपि वातव्याध्यनन्तरं पृथग्वातरक्ताधिकारः| ननु, ‘रुजस्तीव्राः ससन्तापा’ इत्यादिना रक्तगतस्य वातस्य लक्षणं वातव्याधावेवोक्तं, ततश्च वातरक्ताभिधानं पुनरुक्तं स्यात्; नैवं, वातरक्तं हि दुष्टेन वातेन दुष्टेन रक्तेन च विशिष्टसम्प्राप्तिकं विकारान्तरमेव| उक्तं हि चरके– “वायुः प्रवृद्धो वृद्धेन रक्तेनावारितः पथि| क्रुद्धः सन्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम्||” (च. चि. अ. २९) इति| रक्तगतवाते तु वात एव दुष्टो रक्तमदुष्टमेव गच्छतीति भेदः| लवणाम्लेत्यादि, क्लिन्नशुष्कशब्दौ मांसेन सम्बध्येते| पिण्याकस्तिलकल्कः| निष्पावः शिम्बिः, पललं मांसम्| प्रायश इत्यादि, सुकुमारा मृदुदेहावयवाः, “तेषामल्पचेष्टत्वाल्लवणादिभिः रक्तं कटुतिक्तप्रजागरादिभिश्च वातः कुप्यति|” इति ईशानः||१-३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
वातव्याधिविशेषत्वात्तदनन्तरं वातरक्तमाह| ननु, सुश्रुते वातरोगाध्याये एव वातरक्तं पठितं, तत् कुतोऽत्र सङ्ग्रहे पृथक् पठितम्? उच्यते– सत्यपि वातरोगत्वे निदानवैशिष्ट्याद्विशिष्टसम्प्राप्तिकथनार्थं क्रियाविशेषज्ञापनार्थं च पृथक्करणम्| अत एव चरकेऽपि वातव्याध्यनन्तरं पृथग्वातरक्ताध्याय उक्तः| तस्य निदानमाह– लवणेत्यादि| लवणादिभिर्भोजनैः, तथा क्लिन्नशुष्काम्बुजादिभिः, तथा कुलत्थादिभिः, तथा दध्यादिभिः, तथा विरुद्धादिभिः, तथा प्रायशः सुकुमाराणां पुंसां, तथा मिथ्याहारविहारिणां स्थूलानां च सुखिनां च वातरक्तं प्रकुप्यति| क्लिन्नशुष्कशब्दौ मांसेन सम्बध्येते| पिण्याकः तिलकल्कः, निष्पावः शिम्बिः, पललं मांसं, क्लिन्नं शटितम्, अम्बुजा मत्स्यादयः, आरनालादयः काञ्जिकभेदाः, सुरा पिष्टकृता, आसवो मद्यं, विरुद्धं क्षीरमत्स्यादि, अध्यशनं भुक्तोपरिभोजनं, सुकुमारा मृदुदेहावयवाः, स्थूला मेदस्विनः, सुखिनश्च सम्यक्प्रवृत्त्यादिवर्जिताः; तेषामल्पचेष्टत्वात् लवणादिभिः रक्तं, तिक्तकटुकषायादिभिर्वातश्च कुप्यतीति ईशानः||१-३||