Skip to content

१७. मूर्छाभ्रमनिद्रातन्द्रासन्न्यासनिदानम्

Adhikarana मूर्छाया निदानं सम्प्राप्तिश्च (१-५) · Śloka

अथ मूर्छा-भ्रम-निद्रा-तन्द्रा-सन्न्यासनिदानम् | क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः | वेगाघातादभिघाताद्धीनसत्त्वस्य वा पुनः ||१|| करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च | निविशन्ते यदा दोषास्तदा मूर्छन्ति मानवाः ||२|| सञ्ज्ञावहासु नाडीषु पिहितास्वनिलादिभिः | तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ||३|| सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् | मोहो मूर्छेति तामाहुः षड्विधा सा प्रकीर्तिता ||४|| वातादिभिः शोणितेन मद्येन च विषेण च | षट्स्वप्येतासु पित्तं तु प्रभुत्वेनावतिष्ठते ||५|| (सु. उ. तं. अ. ४६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तृष्णायां मोहो भवतीति तृष्णानन्तरं मूर्छा, उक्तं हि– ‘तृषितो मोहमायाति’ इति| निदानं सम्प्राप्तिं चाह– क्षीणस्येत्यादि| बहुदोषस्येति विपुलदोषस्य, न त्वनेकदोषस्य; तथा सत्येकदोषजायाः सम्प्राप्तिर्नोक्ता स्यात्| वेगाघातात् मलादिवेगधारणात्| अभिघाताल्लगुडादेः| हीनसत्त्वस्य हीनसत्त्वगुणस्य| करणं मनः, तस्यायतनानि बाह्यानि चक्षुरादीनि, आभ्यन्तराणि मनोवहानि स्रोतांसि, यैरागत्य मनश्चक्षुरादीन्यधितिष्ठति; अथवा बाह्यानि कर्मेन्द्रियाणि, आभ्यन्तराणि धीन्द्रियाणि; तेषु यदा उग्रा दोषा निविशन्ते तदा मूर्छन्तीति योज्यम्| पुनः कया सम्प्राप्त्या इत्यत आह– सञ्ज्ञावहास्वित्यादि| सञ्ज्ञावहनाडीशब्देन सिराधमनीस्रोतसां ग्रहणमित्याहुः, यतस्तैर्मन इन्द्रियदेशं प्राप्नोति| पिहितासु आवृतासु| तमो मनोगुणोऽज्ञानहेतुः, अभ्युपैति वर्धते, सहसा झटिति| अन्येषु तमोबहुलेषु रोगेषु मदात्ययादिषु सत्त्वरजसी न तथा लीयेते, यथा मूर्छायामित्यत आह– सुखदुःखव्यपोहकृदिति| सुखदुःखयोरसंवित्तिकरम्| एतत्तु प्रायिकत्वेनोक्तं, (त्रिविधं ज्ञानं भवति हेयोपादेयोपेक्षणीयभेदात्,) तेनोपेक्षणीयज्ञानाभावोऽपि ज्ञेयः| व्यवहारार्थं तत्पर्यायामाह– मोहो मूर्छेति| वातादिभिस्तिस्रः, शोणितमद्यविषैश्च तिस्रः, एवं षट्| प्रभुत्वेनेति व्यापकत्वेन, तेन वातजादिष्वपि ज्वरवद्रोगमहिम्नाऽवश्यं पित्तसम्बन्धः, अत एव वक्ष्यति– “मूर्छा पित्ततमःप्राया” इति, चिकित्सायां च शीतक्रियाविधानमिति||१-५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तृष्णायां मोहो भवतीत्यतस्तृष्णानन्तरं मूर्छारम्भः, तस्या निदानपूर्वा सम्प्राप्तिमाह– क्षीणस्येति पुरुषस्य| बहुदोषस्येति विपुलदोषस्य वेगाघातात् मलादिवेगविधारणात्| अभिघाताल्लगुडादेः| विरुद्धाहारसेविनः विरुद्ध आहारः क्षीरमत्स्यादिः| हीनसत्त्वस्य क्षीणसत्त्वगुणस्य| करणं मनस्तस्यायतनानि बाह्यानि चक्षुरादीनि, आभ्यन्तराणि मनोवाहीनि स्रोतांसि वैरागत्य मनश्चक्षुरादीन्यधितिष्ठति; अथवा बाह्यानि कर्मेन्द्रियाणि आभ्यन्तराणि धीन्द्रियाणि| तेषु यदा उग्रा अतिप्रसृता दोषा निविशन्ते अवतिष्ठन्ते, तदा मानवा मूर्छन्ति, इति योज्यम्| सम्प्राप्तिमाह– सञ्ज्ञावहास्विति| सञ्ज्ञावहनाडीशब्देन सिराधमनीस्रोतसां ग्रहणं, यतस्तैरिन्द्रियदेशं मनः प्राप्नोति| पिहितासु रुद्धासु| तमो मनोगुणः अज्ञानहेतुः, तस्यावरणात्मकत्वात्| अभ्युपैति वर्धते, सहसा झटिति| अन्येषु तमोबहुलेषु रोगेषु मदात्ययादिषु न तथा सत्त्वरजसी लीयेते यथा मूर्छास्वित्यत आह– सुखदुःखव्यपोहकृदिति; सुखदुःखयोर्व्यपोहस्तिरस्कारस्तयोरसंवित्तिरित्यर्थः; अथवा सुखं सत्त्वं, दुःखं रजः, तयोर्व्यपोहकृत्, तमसा तयोरावृतत्वात्; अतः काष्ठवन्निपततीत्यर्थः| व्यवहारार्थं तत्पर्यायानाह– मोहो मूर्छेति तस्याः पर्यायौ| उक्तं चाभिधानान्तरे– “सञ्ज्ञोपघाते मूर्छायो मूर्छा स्यान्मूर्छनं तथा| कश्मलं प्रलयो मोहः सन्न्यासस्तु मृतोपमः” इति| सा च मूर्छा षड्विधा षट्प्रकारा भवति| वातादिभिः शोणितमद्यविषैश्च तिस्रः, एवं षड्विधत्वमाह– वातादिभिरिति| प्रभुत्वेनेति वातादिष्वपि व्यापकत्वेन पित्तमेवावतिष्ठते ज्वरवद्रोगमहिम्नाऽवश्यं पित्तसम्बन्धः; इहैव वक्ष्यत्यग्रे– “मूर्छा पित्ततमःप्राया” इति, चिकित्सायां च शीतक्रियाविधानमिति ||१-५||

Adhikarana मूर्छापूर्वरूपम् (६) · Śloka

हृत्पीडा जृम्भणं ग्लानिः सञ्ज्ञादौर्बल्यमेव च | सर्वासां पूर्वरूपाणि, यथास्वं ता विभावयेत् ||६|| (सु. उ. तं. अ. ४६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तस्याः पूर्वरूपमाह– हृत्पीडेत्यादि| सञ्ज्ञादौर्बल्यमसम्यग्ज्ञानता| सर्वासां पूर्वरूपाणीति छेदः| यथास्वं विभावयेदिति ताः मूर्छाः वातादिभेदेन जानीयात् व्यक्तरूपावस्थायां, नतु पूर्वरूपावस्थायामिति जेज्जटः||६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्याः पूर्वरूपमाह– हृदित्यादि| सञ्ज्ञादौर्बल्यमसम्यग्ज्ञानता| पूर्वरूपाणीति पादत्रयेण छेदः| यथास्वं विभावयेदिति तां मूर्छां वातादिभेदेन जानीयादित्यर्थः; व्यक्तरूपावस्थायां नतु पूर्वरूपावस्थायामिति जेज्जटः||६||

Adhikarana वातजमूर्छायलक्षणम् (७-८) · Śloka

नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम् | पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ||७|| वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च | कार्श्यं श्यावाऽरुणा छाया मूर्छाये वातसम्भवे ||८|| (च. सू. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

ता एवाह (वातजामाह)– नीलमित्यादि| नीलं स्निग्धकृष्णं, कृष्णं रूक्षकृष्णम्, अरुणमीषल्लोहितम्| तमः प्रविशत्यन्धकारमिव प्रविशति मूर्छतीत्यर्थः| शीघ्रं च प्रतिबुध्यत इति वायोः शीघ्रकारित्वात्| कार्श्यं श्यावाऽरुणा छाया, ‘गात्रे’ इति शेषः| मूर्छायशब्दो मूर्छापर्यायः||७-८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातजामाह– नीलमित्यादि| नीलं स्निग्धकृष्णम्, अरुणमीषल्लोहितमीदृशं गगनं पश्यन् तमः प्रविशति अन्धकारमिव प्रविशति मूर्छतीत्यर्थः| शीघ्रं च प्रतिबुद्ध्यते वायोः शीघ्रकारित्वात्| कार्श्यं श्यावाऽरुणा छाया गात्रस्येति शेषः| मूर्छायशब्दो मूर्छापर्यायः||७-८||

Adhikarana पित्तजमूर्छायलक्षणम् (९-१०) · Śloka १०

रक्तं हरितवर्णं वा वियत् पीतमथापि वा | पश्यंस्तमः प्रविशति सस्वेदश्च प्रबुध्यते ||९|| (सपिपासः ससन्तापो रक्तपीताकुलेक्षणः) | जातमात्रे पतति च शीघ्रं च प्रतिबुध्यते | सम्भिन्नवर्चाः पीताभो मूर्छाये पित्तसम्भवे ||१०|| (च. सू. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पित्तजमूर्छायमाह– रक्तमित्यादि| वियदाकाशम्| अत्र “सपिपासः ससन्तापो रक्तपीताकुलेक्षणः|” इति क्वचिदधिकः पाठ||९-१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पित्तजामाह– रक्तमित्यादि| वियदाकाशं, रक्तं, हरितवर्णं शाकवर्णं, पीतं वा पश्यन् तमः प्रविशतीति मूर्छतीत्यर्थः| यदा प्रबुध्यते तदा स्वेदो भवति, सपिपासः तृष्णान्वितः, सन्तापवांश्च भवति| रक्ते पीते आकुले त्रस्ते इव ईक्षणे लोचने यस्य स तथा| ‘अन्ये रक्तपित्ताकुलेक्षणः’ इति पठन्ति| तत्र रक्तपित्तो विकारः| (जातमात्रे उत्पन्नमात्रे, पतति शीघ्रं च प्रतिबुध्यते|) पीताभः पीतशरीरच्छविः||९-१०||

Adhikarana कफजमूर्छायलक्षणम् (११-१२) · Śloka १२

मेघसङ्काशमाकाशमावृतं वा तमोघनैः | पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ||११|| गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा | सप्रसेकः सहृल्लासो मूर्छाये कफसम्भवे ||१२|| (च. सू. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

कफजमूर्छायमाह– मेघेत्यादि| तमोघनैरिति तमोभिर्घनैश्च; तमोऽन्धकारः, घनोऽत्र मेघवाची||११-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

श्लेष्मजामाह– मेघसङ्काशमित्यादि| आर्द्रेण चर्मणा इव प्रावृतैर्वेष्टितैरङ्गैरुपलक्षितः| प्रसेको मुखस्रावः, उपस्थितवमनत्वमिव||११-१२||

Adhikarana सान्निपातिकमूर्छायलक्षणम् (१३) · Śloka १३

सर्वाकृतिः सन्निपातादपस्मार इवागतः | स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः ||१३|| (च. सू. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सान्निपातिकमाह– सर्वेत्यादि| ननु, सर्वाकृतिरिति विरुद्धम्, उद्देशे “षड्विधा सा प्रकीर्तिता” इत्यभिहितत्वात्; सन्निपातजया सह सप्त प्रसज्येरन्? उच्यते– उद्देशः सुश्रुतग्रन्थेन, चरकग्रन्थेन च विवरणम्| चरके ह्येकजास्तिस्रस्त्रिदोषजा चैकेति चतस्रः पठ्यन्ते| यदुक्तमष्टोदरीय– “चत्वारो मूर्छाया इति अपस्मारैर्व्याख्याताः|” (च. सू. अ. १८) इति| रक्तमद्यविषजानां यथादोषमेतास्वन्तर्भावः; सुश्रुते चैता रक्तादिजा लक्षणचिकित्साभेदख्यापनार्थं साक्षात् पठिताः, त्रिदोषजायाः दोषजास्वन्तर्भावः इत्यभिप्रायेण भेद आचार्ययोः; सङ्ग्रहे चात्र सर्वतन्त्रस्वीकारादुभयमपि लिखितमित्यदोषः| अपस्मार इवेति यथाऽपस्मारी महताऽभिघातेन पतति चिरेण प्रतिबुध्यते| अपस्मारे फेनवामित्वदन्तघट्टनाक्षिवैकृतादिकमधिकमिति भेदः| बीभत्सचेष्टितैरिति फेनवामित्वादिभिरेव||१३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सन्निपातजामाह– सर्वाकृतिरित्यादि| ननु सर्वाकृतिरिति विरुद्धम्? पूर्वमुद्देशे ‘षड्विधा सा प्रकीर्तिता’ इत्युक्तं, सन्निपातजया सह सप्तसङ्ख्यात्वं स्यात्| उच्यते– उद्देशः सुश्रुतेन विवरणं चरकेण, यतस्तत्र पठिता वातादिभिस्तिस्रः, त्रिदोषजा चतुर्था| यदुक्तमष्टोदरीयाध्याये– “चतस्रो मूर्छाया इति अपस्मारैः व्याख्याताः” इति; यथा चत्वारोऽपस्माराः वातेन पित्तेन श्लेष्मणा सन्निपातेन, तद्वन्मूर्छा अपीत्यर्थः| रक्तमद्यविषजानां यथास्वं दोषजास्वन्तर्भावः सुश्रुते एतच्च लक्षणञ्चिकित्साभेदख्यापनार्थं साक्षात्पठितम्| त्रिदोषजायाश्च दोषजास्वन्तर्भावः इत्यभिप्रायेण माधवेन सङ्गृहीतेयमिति सर्वतन्त्रस्वीकारादुभयमपि लिखितमित्यदोषः| अपस्मार इवागत इति आगतस्यापस्मारस्य वेगवत् सा मूर्छा जन्तुं प्राणिनं शीघ्रं पातयति चिराच्च प्रतिबुध्यते, विना बीभत्सचेष्टितैरिति अपस्मारे फेनागमनं दन्तावघट्टनाक्षिवैकृतसत्त्वादिदर्शनमस्ति, त्रिदोषजायां मूर्छायां तु न तथा, अयमेव भेदः; अत एव विना बीभत्सचेष्टितैरिति||१३||

Adhikarana रक्तजमूर्छायसम्प्राप्तिः (१४) · Śloka १४

पृथिव्यापस्तमोरूपं रक्तगन्धस्तदन्वयः | तस्माद्रक्तस्य गन्धेन मूर्छन्ति भुविमानवाः ||१४|| द्रव्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति | (सु. उ. तं. अ. ४६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

रक्तजमूर्छासम्प्राप्तिमाह– पृथिव्याप इत्यादि| पृथिवी आपश्च एतद्द्वयं तमोरूपं तमोबहुलम्, उक्तं हि– “तमोबहुला पृथिवी, सत्त्वतमोबहुला आपः|” (सु. शा. अ. १) इति| ‘पृथिव्यम्भ’ इति पाठे अयमेवार्थः| तदन्वयः पृथिव्यम्भोऽन्वयः; ‘तन्मयः’ इति पाठे पृथिवीजलमयः, प्रकृतिविकारभावे मयट्| तस्मादिति यस्मात् पृथिव्यापस्तमोरूपं रक्तगन्धश्च तदन्वयः, मूर्छा च तमःप्राया, तस्मादित्यर्थः| भुविमानवाः इति पाञ्चभौतिकत्वेऽपि शरीरस्योद्भूतभूमिगुणा ये ते भुविमानवाः पार्थिवाः, तामसा इत्यर्थः; नतु राजसाः, सात्त्विका वा| ननु चम्पकादिगन्धेनापि मूर्छा प्रसज्येत? तत्रापि गन्धस्य पार्थिवत्वात् पृथिव्याश्च तमोरूपत्वादित्यत आह– द्रव्यस्वभाव इत्यादि| रक्तस्यायं स्वभावः, तेन तद्गत एव गन्धो मूर्छयतीति| स्वभावमेव द्रढयति– दृष्ट्वा यदभिमुह्यतीति| ‘यच्च दृष्ट्वाऽपि मुह्यति’ इति पाठान्तरम्| अन्ये तु गन्धासम्बन्धेऽपि दर्शनमात्रान्मूर्छोपलम्भादनैकान्तिकत्वं गन्धस्य मन्यमानाः स्वभावमेव हेत्वन्तरमाहुः; एतेन गन्धस्य प्रायिकत्वमुक्तम्| अन्ये तु गन्धस्य हेतुत्वमपास्य दर्शनस्यैव हेतुत्वं मन्यन्तेः; तन्न, यदाह भोजः– “स्तब्धाङ्गदृष्टिर्भवति गूढोच्छ्वासस्तथैव च दर्शनादसृजस्तज्जाद्गन्धाच्चैव प्रमुह्यति||” इति| “पृथिव्या यत्तमोरूपम् इति” पाठान्तरं सुगमम्| “पृथिव्यम्भस्तमोरूपं रक्तगन्धेन तत्त्रयम्|” इति पाठान्तरस्य जेज्जटलिखितस्यायमर्थः– रक्तगन्धेन तु यदुक्तमव्यभिचरितं प्रकृतिविकारयोस्तादर्थ्यात् किं तत्त्रयमित्यत उक्तम्– पृथिव्यम्भस्तमोरूपमिति; पृथिव्यम्भस्तमसां रूपमित्यर्थः, शेषं पूर्ववत्| दृष्ट्वेति रक्तमिति शेषः||१४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पृथ्वीत्यादि| पृथिवी आप एतदुभयं तमोरूपं तमोबहुलम्| उक्तं हि सुश्रुते– “तमोबहुला पृथ्वी सत्त्वतमोबहुला आपः” इति तदन्वयः| “पृथिव्यापस्तमोरूपं रक्तगन्धश्च तन्मयः” इति पाठे तन्मय इति पृथिवीजलमयस्तदन्वयात्| गन्धेऽपि तमस्त्वं सिद्धं; मूर्छा च तमःप्राया, तस्मादित्यर्थः| अन्ये ‘पृथिव्यम्भा’ इति पठन्ति| तत्र पृथिवी चाम्भश्च पृथिव्यम्भसी तयोः सम्बन्धि यत्तमः तद्रूपं तद्बहुलं लक्षणं रक्तमिति; रूपशब्दोऽत्र बाहुल्ये स्वलक्षणे वा वर्तते, यतः सत्त्वरजस्तमसां परमं रूपं दृष्टिपथं नोपगच्छति किन्तु विशेषेष्वभिव्यज्यते, सर्व एव विशेषास्तमोमया इत्युक्तत्वात्| भुविमानवा इति पाञ्चभौतिकत्वेऽपि शरीरस्योद्भूतभूमिगुणाः, एतै भुविमानवाः पार्थिवास्तामसा इत्यर्थः| तस्माद्ये मानवास्तामसा भवन्ति त एव रक्तगन्धेन मूर्छन्ति न तु राजसाः सात्त्विका वा रक्तगन्धेन मूर्छन्तीति भावः| ननु, चम्पकादिगन्धेनापि मूर्छा प्रसज्येत तत्रापि गन्धस्य पार्थिवत्वात्, पृथिव्याश्च तमोरूपत्वादित्यत्राह– द्रव्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यतीति; रक्तस्यायं स्वभावो येन तद्गतगन्धो मूर्छयतीति| प्रभावमेव द्रढयति– दृष्ट्वाऽपि यन्मूर्छयतीति ‘रक्तम्’ इति शेषः| यदाह भोजः– “स्तब्धाङ्गदृष्टिर्भवति गूढोच्छ्वासस्तथैव च| दर्शनादसृजस्तज्जाद्गन्धाच्चैव प्रमुह्यति” इति||१४||

Adhikarana विषजमूर्छायस्य मद्यजमूर्छायस्य च सम्प्राप्तिः (१५) · Śloka १५

गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः ||१५|| त एव तस्मात्ताभ्यां तु मोहौ स्यातां यथेरितौ | (सु. उ. तं. अ. ४६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विषमद्यजे प्राह– गुणा इत्यादि| गुणा दश; यदुक्तं दृढबलेन– “लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकाशि सूक्ष्मं च| उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञैः||” (च. चि. अ. २३) इति| ते तैलादौ व्यस्तास्तीव्राः सन्ति, विषमद्ययोस्तु तीव्रतराः, अतस्तैलादिभिर्न मोहः, किन्तु विषमद्याभ्यामिति| त एवेति गुणा लघुत्वादयः| यथेरिताविति विषजो मोहो न स्वयं निवर्तते विषस्यापाकित्वात्, मद्यजस्तु मद्यपरिणामादेव शाम्यति, अयं च भेदो विषमद्ययोः प्रभावात्| उक्तं हि तन्त्रान्तरे– “ये विषस्य गुणाः प्रोक्ताः सन्निपातप्रकोपणाः| त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः||” इति||१५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विषमद्यजे प्राह– गुणा इत्यादि| तत्र गुणा दश, यदुक्तं दृढबलेन– “लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकाशि सूक्ष्मं च| उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञैः” इति| ते गुणास्तैलादौ व्यस्तास्तीव्राः सन्ति, विषमद्ययोस्तु तीव्रतराः, अतस्तैलादिभिर्न मोहः, किन्तु विषमद्याभ्यां मोह एवेति; गुणा लघुत्वादयः त एव गुणा विषमद्ययोस्तीव्रतरत्वेन स्थिताः| तत्रापि भेदः– विषे तीव्रतमाः, मद्ये तीव्रतराः, तैलादिषु तीव्रा व्यस्ताः| यथेरिताविति ताभ्यां विषमद्याभ्यां यथेरितौ तरतमादिभेदेन यथोक्तौ मोहौ स्याताम्| विषेण तीव्रतमः, मद्येन तीव्रतर इत्यर्थः| विषजो मोहः स्वयं न निवर्तते, विषस्यापाकित्वात्; मद्यजस्तु मद्यपरिणामादेव शाम्यति, विषजो मोहः स्वयं न निवर्तते, विषस्यापाकित्वात्; मद्यजस्तु मद्यपरिणामादेव शाम्यति, विषमद्ययोस्त्वयमेव भेदः प्रभावात्, उक्तं हि तन्त्रान्तरे– “ये विषस्य गुणाः प्रोक्ता सन्निपातप्रकोपिणः| त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः” इति|१५|

Adhikarana रक्तजादिमूर्छात्रयस्य रूपाणि (१६-१८) · Śloka १८

स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्छितः ||१६|| मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः | गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् ||१७|| वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्छिते | वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः ||१८|| (सु. उ. तं. अ. ४६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

रक्तजादिमूर्छात्रयस्य रूपाण्याह– स्तब्धाङ्गेत्यादि मूर्छित इत्यन्तं रक्तजायाः गूढोच्छ्वासश्चास्पष्टोच्छ्वासः| ‘मूढ’ इति पाठे सन्निरुद्ध इत्यर्थः इति जेज्जटः| मद्येनेत्यादि तदित्यन्तं मद्यजायाः| ‘नष्टविभ्रान्तमानस’ इत्यत्र निष्टलन् भ्रान्तमानसः’ इति पाठान्तरे निष्टनन् शब्दं कुर्वन्| वेपथ्वादिना विषजायाः| यथास्वं विषलक्षणैरिति विषस्य मूलपत्रक्षीरादिभेदेन प्रातिस्विकं यल्लक्षणमुक्तं सौश्रुतकल्पस्थान (सु. क. अ. २) तल्लक्षणयुक्ता मूर्छा भवतीत्यर्थः||१६-१८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

रक्तजाया रूपमाह– स्तब्धाङ्गेत्यादिना मूर्छित इत्यन्तेन| गूढोच्छ्वासः इत्यत्र मूढेति पाठे सन्निरुद्धोच्छ्वासः | मद्यजामाह विलपन् प्रलपन्| नष्टविभ्रान्तमानस इति नष्टं स्मृतिरहितं विभ्रान्तं विक्षिप्तं मानसं चित्तं यस्य स तथा| जरां यावन्न याति तदिति यावज्जरां परिपाकं न गच्छति तावद्गात्राणि भूमौ विनिक्षिपन् ताडयन् मूर्छितस्तिष्ठतीत्यर्थः| विषजामाह– वेपथ्वित्यादि| वेपथुः कम्पः; स्वप्नो निद्रा| तमोऽन्धकारप्रविष्टस्येवार्थासंवित्तिः| यथास्वं विषलक्षणैरिति विषस्य मूलकन्दपत्रक्षीरादिभेदेन यल्लक्षणं सुश्रुते कल्पस्थाने उक्तं तेषां लक्षणैरेव तीव्रतरत्वेन युक्ता मूर्छा भवतीत्यर्थः||१६-१८||

Adhikarana मूर्छाभ्रमतन्द्रानिद्रादीनां परस्परं भेदः, भ्रमलक्षणं च (१९) · Śloka १९

मूर्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः | तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा ||१९|| (सु. शा. अ. ४) | (चक्रवद्भ्रमतो गात्रं भूमौ पतति सर्वदा | भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सञ्ज्ञानाशसाधर्म्येऽपि मूर्छादीनां को भेदः? इत्याह– मूर्छा पित्ततमःप्रायेत्यादि| तमोवातकफादिति समाहारद्वन्द्वः| निद्रातन्द्रयोश्चैतानि कारणानि व्यस्तसमस्तानि; तेन सुश्रुतेन यदतिलङ्घितलक्षणे निद्रातन्द्रे पठिते विनैव कफात् अतिलङ्घनस्य श्लेष्मक्षयहेतुत्वात्||१९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सञ्ज्ञानाशसाधर्म्यान्मूर्छाया भेदानाह– तत्र मूर्छाहेतुमाह– मूर्छा पित्ततमःप्राया तमोगुणयुक्तेन पित्तेन मूर्छा भवति| भ्रमहेतुमाह– रज इति| रजोगुणेन पित्तानिलाभ्यां युक्तेन भ्रमो भवति, तत्र भ्रमः स्थाणौ पुरुषज्ञानं, पुरुषे विपरीतसत्त्वज्ञानादिकम्; अन्ये चक्रस्थितस्येव सम्भ्रामद्वस्तुदर्शनमिति| तन्द्राहेतुमाह– तम इति| तमोगुणेन युक्ताभ्यां वातकफाभ्यां तन्द्रा भवति, समाहारद्वन्द्वेनैकवचनम्| निद्राहेतुमाह– श्लेष्मणा मिलितेन तमोगुणेन निद्रा भवति; तस्या लक्षणम्– अरतिविक्लान्तमनसः सर्वेन्द्रियाणां स्वविषयनिवृत्तिः| चरकेऽपि “यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः| विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः” इति| अत्र कर्मात्मानः इन्द्रियाणि, निरिन्द्रियप्रदेशे मनसोऽवस्थितिर्निद्रेत्यर्थः| सुश्रुतेनातिलङ्घितलक्षणे निद्रातन्द्रे पठिते, अतिलङ्घितस्य श्लेष्मक्षयत्वान्निद्रातन्द्रयोस्तूक्तकारणत्वाद्भेदः| तथा च निद्रायामिन्द्रियमनोमोहः, तन्द्रायामिन्द्रियमोहः||१९||

Adhikarana तन्द्रालक्षणम् (२०) · Śloka २०

इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः | निद्रार्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ||२०|| (सु. शा. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तन्द्रालक्षणमाह– इन्द्रियार्थेष्वित्यादि| निद्राभ्रमयोस्तु लक्षणं नोक्तमिह, अतिप्रसिद्धत्वात्| निद्रा हि विप्लुतमनसः सर्वेन्द्रियाणां स्वविषयनिवृत्तिः| यदाह चरके– “यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः| विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः||” (च. सू. अ. २१) इति| अत्र कर्मात्मान इन्द्रियाणि; निरिन्द्रियप्रदेशे मनसोऽवस्थितिर्निद्रेति मतेऽप्ययमेवार्थः| निद्रातन्द्रयोस्तूक्तकारणभेदाद्भेदः, उद्भूतजृम्भादेश्चानुभवसिद्धत्वादिति; तथा निद्रायामिन्द्रियमनोमोहः; तन्द्रायामिन्द्रियमोहः| भ्रमलक्षणं तु चक्रस्थितस्येव भ्रमद्वस्तुदर्शनमिति||२०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तन्द्रालक्षणमाह– इन्द्रियार्थेष्वित्यादि| इन्द्रियार्थेषु विषयेषु, असम्प्राप्तिरग्रहणम्| गौरवमङ्गानाम्| निद्रार्तस्येव उत्पन्ननिद्रस्येव| अस्याग्रे क्लमलक्षणं पठन्ति– य इत्यादि| यः शरीरे आयासवर्जितः श्रमः प्रवृद्धो भवति परं श्वासवर्जितः स क्लम इति कथितः| इन्द्रियार्थप्रबाधकः विषयग्रहणेऽसमर्थः| अयं पाठो माधवेन न लिखितः||२०||

Adhikarana सन्न्यासस्य मूर्छादिभ्यो भेदः (२१) · Śloka २१

दोषेषु मदमूर्छायाः कृतवेगेषु देहिनाम् | स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना ||२१|| (च. सू. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सन्न्यासस्य मूर्छादिभ्यो भेदमाह– दोषेष्वित्यादि ||२१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सन्न्यासस्य मूर्छादिभ्यो भेदमाह– दोषेष्वित्यादि| आदिशब्दोऽत्र लुप्तो द्रष्टव्यः| आविष्टवेगेषु दोषेषु या मदादिभिर्मूर्छा भवति सा उपशान्तवेगेषु स्वयमेवोपशमं याति, भिषक्प्रतीकारं विनेत्यर्थः; सन्न्यासस्तु चिकित्सकजनसानुभावौषधैर्विना न शाम्यतीत्यर्थः||२१||

Adhikarana सन्न्यासलक्षणम् (२२-२३) · Śloka २३

वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः | सन्न्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः ||२२|| स ना सन्न्याससन्न्यस्तः काष्ठीभूतो मृतोपमः | प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यःफलां क्रियाम् ||२३|| (च. सू. अ. २४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तल्लक्षणमाह– वागित्यादि| अतिबला इत्यनेन मूर्छाद्यारम्भकदोषेभ्योऽधिकत्वेन प्रवृद्धा दोषास्तमश्चेति बोधयति| सन्न्यस्यन्ति मोहयन्ति| स ना पुरुषः, सन्न्याससन्न्यस्तः सन्न्यासपीडितः, काष्ठीभूतः इति अत्यन्तनिष्क्रियत्वेन अकाष्ठमेव काष्ठवद्भूतः, अत एव मृतोपम इति| मुक्त्वा सद्यःफलां क्रियामिति सूचीव्यधनाञ्जनावपीडनशूकशिम्बीफलावघर्षणादिरूपा क्रिया यदि क्रियते तदा प्राणैर्न विमुच्यते, अन्यथा तु म्रियते इति||२२-२३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तल्लक्षणमाह– वागित्यादि| अतिबला इति मूर्छाद्यारम्भकदोषेभ्योऽधिकत्वेन प्रवृद्धाः, प्राणायतनं चेतनास्थानं हृदयमाश्रिताः, वाग्देहमनसां चेष्टामाक्षिप्य विनाश्य, अबलं हीनसत्त्वं पुरुषं, सन्न्यस्यन्ति| तदा स ना पुरुषः, सन्न्याससन्न्यस्तः सन्न्यासपीडितः, काष्ठीभूत इत्यतिनिष्क्रियत्वादत् अकाष्ठमेव काष्ठवद्भूतः, अत एव मृतोपमः| मुक्त्वा सद्यःफलां क्रियामिति सद्यःफलं यस्यास्तां क्रियां त्यक्त्वा इत्यर्थः| तत्र सद्यःफला क्रिया सूचीव्यधनं तीक्ष्णाञ्जनावपीडनकपिकच्छूफलावघर्षणादिरूपा यदा न क्रियते तदा प्राणैर्विमुच्यते, अन्यथा तु जीवति||२२-२३||

Adhikarana पुष्पिका · Śloka १७

इति श्रीमाधवकरविरचिते माधवनिदाने मूर्छाभ्रमनिद्रातन्द्रासन्न्यासनिदानं समाप्तम् ||१७||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां मूर्छाभ्रमनिद्रातन्द्रासन्यासनिदानं समाप्तम्||१७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवैद्यवाचस्पतिकृते आतङ्कदर्पणे रुग्विनिश्चयव्याख्याने मूर्छादिनिदानम्||१७||