Skip to content

४३. सद्योव्रणनिदानम्

Adhikarana सद्योव्रणनिदानं, भेदाश्च (१-२) · Śloka

नानाधारमुखैः शस्त्रैर्नानास्थाननिपातितैः | भवन्ति नानाकृतयो व्रणास्तांस्तान्निबोध मे ||१|| छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च | घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् ||२|| (सु. चि. अ. २) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

शारीरव्रणमभिधायागन्तुव्रणमाह– नानाधारमुखैरित्यादि| नाना धारा मुखानि च येषां तानि तथा| स्थानविशेषोऽपि शस्त्रनिपाततुल्यत्वेनाकृतिविशेषे हेतुरित्यत उक्तं– नानास्थाननिपातितैरिति||१-२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अथ शारीरव्रणमभिधायागन्तुमाह– नानेत्यादि| नानाधारामुखैः शस्त्रैः, नानास्थाननिपातितैः, एभिर्नानाकृतयो व्रणा भवन्ति, मे मत्सकाशात्तान् व्रणान् निबोध जानीहि| तत्षाड्विध्यमाह– छिन्नमित्यादि| एवं छिन्नादिभेदेन आगन्तवः षड्विधा भवन्ति||१-२||

Adhikarana छिन्नलक्षणम् (३) · Śloka

तिर्यक् छिन्न ऋजुर्वाऽपि यो व्रणस्त्वायतो भवेत् | गात्रस्य पातनं तद्धि छिन्नमित्यभिधीयते ||३|| (सु. चि. अ. २) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

छिन्नलक्षणमाह– तिर्यगित्यादि| तिर्यगिति तिर्यग्व्यवस्थितः| छिन्नः छेदसम्पन्नः| ऋजुरवक्रः| गात्रस्य पातनमिति गात्रावयवस्य तदेकदेशरूपस्य वा गात्रस्य पातनम्||३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तत्र छिन्नलक्षणमाह– तिर्यगित्यादि| यो व्रणस्तिर्यक् छिन्नोऽथवा ऋजुश्छिन्नः सन्नायतो भवेत्, तिर्यगिति तिर्यग्व्यवस्थितः, छिन्नः छेदसम्पन्नः| ‘तिरश्चीनः’ इति पाठान्तरे स एवार्थः, ऋजुरवक्रः, अनयोर्द्वयोरप्यायत इति विशेषणम्| अत्र पातनं निर्दिशन्नाह– गात्रस्य पातनमिति गात्रस्यावयवस्य तदेकदेशरूपस्य वा गात्रस्य पातनम्| डल्लनस्तु व्याचष्टे– शस्त्रादिप्रहारेण गात्रस्य हस्तादेः पातनं, चकारादपातनं च||३||

Adhikarana भिन्नलक्षणम् (४) · Śloka

शक्तिदन्तेषु खड्गाग्रविषाणैराशयो हतः | यत्किञ्चित् प्रस्रवेत्तद्धि भिन्नलक्षणमुच्यते ||४|| (सु. चि. अ. २) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

भिन्नलक्षणमाह– शक्तीत्यादि| विषाणं दन्तः शृङ्गं च| एतद्भिन्नलक्षणं पारिभाषिकं; तेन व्यध एवाशयदेशे भेद उच्यते, आशयदेशरहिते तु व्यधः| यत्किञ्चिदित्यादि| यस्य मूत्ररुधिरादेर्य आशयो भिन्नः स तत् प्रस्रवेत्; तेन बस्तिर्भिन्नो मूत्रं, रुधिराशयो रुधिरमित्यादि||४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

भिन्नलक्षणमाह– शक्तीत्यादि| शक्त्यादिभिराशयो हतः सन् यत्किञ्चित् प्रस्रवेत्, तद्भिन्नलक्षणमुच्यते| कुन्तो भल्लः, विषाणं दन्तः शृङ्गं च, एतद्भिन्नलक्षणं पारिभाषिकं, तेन व्यध एवाशयदेशे भेद उच्यते, आशयरहिते तु देशे व्यधः| यत्किञ्चित् प्रस्रवेदिति किमपि निर्देष्टव्यमित्यर्थः| यस्य मूत्ररुधिरादेर्यश्चाशयो भिन्नः स तत् प्रस्रवेत्; तेन बस्तिर्भिन्नो मूत्रं, उदरं मेदः, पुरीषाशयः पुरीषं, रुधिराशयो रुधिरमिति||४||

Adhikarana कोष्ठनिरूपणं, तद्भेदलक्षणं च (५-१०) · Śloka १०

स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च | हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते ||५|| तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते | मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति ||६|| मूर्छा श्वासस्तृषाऽऽध्मानमभक्तच्छन्द एव च | विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता ||७|| लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च | हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु ||८|| आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि | आध्मानमतिमात्रं च शूलं च भृशदारुणम् ||९|| पक्वाशयगते चापि रुजा गौरवमेव च | अधःकाये विशेषेण शीतता च भवेदिह ||१०|| (सु. चि. अ. २) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

यत्र भूयसाऽऽमाशयानां स्थाने भेदव्यपदेशस्तमाह– स्थानानीत्यादि| आमस्य स्थानमामाशयः अग्नेः पच्यमानाशयः, मलस्य पक्वाशयः, मूत्रस्य बस्तिः, रुधिरस्य यकृत्प्लीहानौ, हृत् हृदयं, उण्डुक इक्षुरसपाकमलवद्यः शोणितमलस्तज्ज उण्डुकः, स चान्त्रदेशे व्यवस्थितः पुरीषाधानमिति, फुप्फुस इति हृदयस्य वामपार्श्वे रक्ताधारः ‘फुप्फुस’ इति ख्यातः| मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छतीति बस्त्यादौ भिन्ने मेहनगुदाभ्यां रक्तं निःसरति, आमाशयादिभेदे तु मुखघ्राणाभ्यां रक्तनिर्गमः| स्वेदास्राव इति स्वेदस्यात्यन्तस्रुतिः| पार्श्वयोश्चापीति शूलमिति सम्बन्धः| मे इत्यव्ययं मत्त इत्यर्थः| आमाशयस्थ इत्यादि आध्मानं रक्तावततत्वाद्वायोः| रुजा शूलम्| गौरवं रक्तबहुत्वात्| अधःकाये विशेषेण शीततेति व्याधिप्रभावात्||५-१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

यत्र भूयसामाशयानां स्थाने भेदव्यपदेशस्तमाह– स्थानानीत्यादि| स्थानशब्दः आमादिभिः प्रत्येकं सम्बध्यते, आमस्य स्थानमामाशयः, अग्नेः पच्यमानाशयः, पक्वस्य पक्वाशयः, मूत्रस्य बस्तिः, रुधिरस्य यकृत्प्लीहानौ, हृत् हृदयं, उण्डुक इक्षुरसपाकमलवच्छोणितमलः, तज्ज उण्डुकः, स चान्त्रदेशे व्यवस्थितः पुरीषाधानं, फुप्फुस इति हृदयस्य वामपार्श्वे फुप्फुस इति ख्यातः| आमादीनां स्थानानि कोष्ठ इत्यभिधीयते| भिन्नकोष्ठस्य सामान्यलिङ्गमाह– तस्मिन्नित्यादि| तत्र बस्त्यादौ भिन्ने मेहनगुदाभ्यां रक्तं निःसरति, आमाशयादिभेदे तु मुखघ्राणाभ्यां रक्तनिर्गमः, ज्वरमूर्छादय उपद्रवा भवन्ति, विण्मूत्रवातानां सङ्गोऽप्रवृतिः, स्वेदास्रावः स्वेदस्यास्रुतिः| मुखस्य लोहगन्धता, हृत्पार्श्वयोः शूलमिति सम्बन्धः| अत्रापि मे मत्तो विशेषं शृणु| रक्तपूर्णभेदलक्षणमाह– आमाशयस्थ इत्यादि| अतिमात्रमाध्मानं आध्मातबस्तिरिवोदरपूर्णता, दारुणं मारणात्मकम्| पक्वाशयस्थितस्य रक्तस्य लक्षणमाह– पक्वेत्यादि| रुजा शूलम्| गौरवमिति नाभेरधो बोद्धव्यम्| अधःकाये विशेषेण शीततेति व्याधिप्रभावात्||५-१०||

Adhikarana विद्धलक्षणम् (११) · Śloka ११

सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयं विना | उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् ||११|| (सु. चि. अ. २) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

विद्धलक्षणमाह– सूक्ष्मास्यशल्येत्यादि| आशयं विनेति उक्तामाद्याशयं विना| उत्तुण्डितमनिर्गतशल्योपलक्षणं, तेनानुत्तुण्डितमुत्तुण्डितं च विद्धं गृह्यते| निर्गतेन च निर्गतमुखं विद्धं सर्वथा निर्गतं च गृह्यते; तेन तन्त्रान्तरे “विद्धमुत्तुण्डितमनुत्तुण्डितं भिन्नं निर्भिन्नम्” इति यच्चतुष्प्रकारमभिहितं तत् सर्वं सङ्गृहीतम्||११||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

विद्धलक्षणमाह– सूक्ष्मेत्यादि| आशयं विना सूक्ष्मास्येन शल्येन यदङ्गमभिहतम् उत्तुण्डितं उन्नमितत्वङ्मांसम् ईषद्दृष्टमुखं वा, निर्गतं निर्गतशल्यम्, उत्तुण्डितमनिर्गतशल्योपलक्षणम्| तेनानुत्तुण्डितं च विद्धं गृह्यते, निर्गतेन च विनिर्गतमुखं विद्धं सर्वदा निर्गतं च गृह्यते, तेन तन्त्रान्तरे विद्धमुत्तुण्डितमनुत्तुण्डितं भिन्नं निर्भिन्नमिति चतुःप्रकारमभिहितं तत्सङ्गृहीतम्||११||

Adhikarana क्षतलक्षणम् (१२) · Śloka १२

नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् | विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिधीयते ||१२|| (सु. चि. अ. २) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

क्षतमाह– नातिच्छिन्नमित्यादि| नातिच्छिन्नं नावगाढच्छेदम्| नातिभिन्नमिति नातिविदीर्णाशयम्| उभयोर्लक्षणान्वितमिति स्तोकच्छेदस्तोकावदरणयोगादुभयलक्षणयुक्तम्| विषमं व्रणमङ्गे यदिति अङ्गवैषम्यकरं व्रणं यत्तत् क्षतम्||१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

क्षतलक्षणमाह– नेत्यादि| नातिच्छिन्नमिति नावगाढच्छिन्नं, नातिभिन्नमिति नातिविदीर्णाशयम्| उभयोरिति छिन्नभिन्नयोरित्यर्थः| तेन स्तोकच्छेदस्तोकावदरणयोगादुभयलक्षणयुक्तम्| विषमं व्रणमङ्गे इति अङ्गे वैषम्यकरं व्रणं यत्तत्क्षतमिति||१२||

Adhikarana पिच्चितलक्षणम् (१३) · Śloka १३

प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् | सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् ||१३|| (सु. चि. अ. २) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पिच्चितलक्षणमाह– प्रहारेत्यादिना| प्रहारो मुद्गरादिना, पीडनं कपाटादिना| पृथुतामिति चिप्पिटताम्| मज्जरक्तपरिप्लुतमित्यनेन व्रणभावात् मज्जरक्तागमं दर्शयति| तेन यत् व्रणं पिच्चितं, तद्भग्नस्य तथा सद्योव्रणस्य च चिकित्साविषयम्||१३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पिच्चितलक्षणमाह– प्रहारेत्यादि| प्रहारो मुद्गरादिना, पीडनं करादिना, पृथुतां विपुलतां, सास्थि अस्थिखण्डान्वितं, मज्जरक्तपरिप्लुतमित्यनेन व्रणभावान्मज्जरक्तागमं दर्शयति, तेन यद्व्रणं पिच्चितं तद्भग्नस्य तथा सद्योव्रणस्य चिकित्साविषयम्||१३||

Adhikarana घृष्टलक्षणम् (१४) · Śloka १४

घर्षणादभिघाताद्वा यदङ्गं विगतत्वचम् | उषास्रावान्वितं तच्च घृष्टमित्यभिधीयते ||१४|| (सु. चि. अ. २) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

घृष्टलक्षणमाह– घर्षणादित्यादि| घर्षणात् कर्कशवस्त्रादिना| विगतत्वचमिति पाठं त्यक्त्वा ‘विगतत्वचा’ इति पाठः साधुः, विगतत्वचोपलक्षितमङ्गम्| उषा ऊष्मनिर्गमवद्व्यथा||१४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

घृष्टलक्षणमाह– घर्षणादित्यादि| यदङ्गं घर्षणात् कर्षणात् कर्कशवस्त्रादिना अभिघाताद्वा विगतत्वचं भवति, अन्ये ‘विगतत्वचा’ इति पाठं पठन्ति, विगतत्वचा लक्षितमङ्गम्| उषा ऊष्मानिर्गमवद्व्यथा||१४||

Adhikarana सशल्यव्रणलक्षणं, कोष्ठगतशल्यलक्षणं च (१५-१६) · Śloka १६

श्यावं सशोथं पिडकाचितं च मुहुर्मुहुः शोणितवाहिनं च | मृदूद्गतं बुद्बुदतुल्यमांसं व्रणं सशल्यं सरुजं वदन्ति ||१५|| त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा | कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ||१६|| (सु. चि. अ. २) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

कोष्ठभेदमाह– त्वच इत्यादि| त्वच इति सप्त त्वचः| सिरादीनीति मांसस्नाय्वस्थिसन्धीनि| परिहृत्य वेति परिहारपक्षेऽपि कोष्ठभेदस्य सङ्गतत्वात्; सिराव्यधलिङ्गं चात्रैव ‘सुरेन्द्रगोपप्रतिमं’ इत्यादिना व्यक्तीभविष्यति| उक्तानिति प्रनष्टशल्यविज्ञानीये| तत्र ह्युक्तं– “कोष्ठगते त्वाटोपानाहौ मूत्रपुरीषाहारदर्शनं च व्रणमुखाद्भवति|” (सु. सू. अ. २६) इति||१५-१६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सशल्यव्रणलक्षणमाह– श्यावमित्यादि| श्यावं शाववर्णम्| मुहुर्वारंवारं, शोणितस्रावयुक्तं, मृदु कोमलं, उद्गतं तुम्ब्याकारावस्थितबुद्बुदेन सदृशं मांसं यस्य तं, सरुजं पीडायुक्तम्| कोष्ठभेदमाह– त्वच इत्यादि| सप्त त्वचः, सिरादीनि सिरामांसस्नाय्वस्थिसन्धीनि भित्त्वा, परिहृत्य वेति सन्त्यज्य वा| उक्तानिति प्रनष्टशल्यविज्ञानीये| तत्र ह्युक्तं, “कोष्ठगते त्वाटोपानाहौ मूत्रपुरीषाहारदर्शनं च व्रणमुखाद्भवति” इति||१५-१६||

Adhikarana असाध्यकोष्ठभेदलिङ्गम् (१७) · Śloka १७

तत्रान्तर्लोहितं पाण्डुशीतपादकराननम् | शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् ||१७||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

असाध्यकोष्ठभेदलिङ्गमाह– तत्रेत्यादि| तत्र कोष्ठे| अन्तर्लोहितमिति अभ्यन्तरस्थितरक्तम्, अनिःसृतरक्तमिति यावत्| आनद्धमित्यानाहवन्तम्||१७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

असाध्यकोष्ठान्तर्भेदलिङ्गमाह– तत्रेत्यादि| कोष्ठे अन्तर्लोहितम् अभ्यन्तरस्थितरक्तम्, अनिःसृतरक्तमिति| पाण्डूनि शीतानि पादकराननानि यस्य तं, तथा| आनद्धं आनाहयुक्तम्||१७||

Adhikarana मांससिरास्नाय्वस्थिसन्धिमर्मसु पञ्चसु क्षतेषु सामान्यलिङ्गम् (१८-१९) · Śloka १९

भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं ग्लानिरथोष्णता च | स्रस्ताङ्गता मूर्छनमूर्ध्ववातस्तीव्रा रुजा वातकृताश्च तास्ताः ||१८|| मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव | दशार्धसङ्ख्येष्वथ विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ||१९|| (सु. सू. अ. २५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मांससिरास्नाय्वस्थिसन्धिमर्मसु पञ्चसु क्षतेषु सामान्यलिङ्गमाह– भ्रम इत्यादि| विचेष्टनं विरुद्धचेष्टनं करचरणादिक्षेपादिकम्| ग्लानिर्बलक्षयः| स्रस्ताङ्गता अङ्गसन्धिविस्रंसवद्व्यथा| मूर्छनमिन्द्रियमोहः| इन्द्रियार्थोपरम इन्द्रियाणां स्वविषयेषु रूपादिषु उपरमो ग्रहणाशक्तिः| दशार्धसङ्ख्येषु पञ्चसु||१८-१९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

मांससन्धिसिरास्नाय्वस्थिमर्मसु पञ्चसु क्षतेषु सामान्यलिङ्गमाह– भ्रम इत्यादि| भ्रमश्चक्रारूढस्येव, पतनं भूमौ, प्रमोहः मनोमोहः, विचेष्टनं विरुद्धचेष्टनं चरणक्षेपणादिकं, ग्लानिः बलक्षयः, स्रस्ताङ्गता अङ्गसन्धिविस्रंसवद्व्यथा, शरीरशैथिल्यं वा, मूर्छनमिन्द्रियसम्मोहः, प्रमोहस्तु मनोमोहः, ऊर्ध्ववात इति उद्गारबाहुल्यं, वातकृता रुजस्तास्ता दण्डापतानकाक्षेपकाद्याः| सर्वेन्द्रियार्थोपरमः स्वविषयेषु रूपादिषु उपरमो ग्रहणेऽशक्तिः, दशार्धसङ्ख्येषु पञ्चसु||१८-१९||

Adhikarana मर्मरहितानां सिरादीनां विद्धलिङ्गम् (२०-२३) · Śloka २३

सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षयजश्च वायुः | करोति रोगान् विविधान् यथोक्तान् सिरासु विद्धास्वथ वा क्षतासु ||२०|| कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च | चिराद्व्रणो रोहति यस्य चापि तं स्नायुविद्धं पुरुषं व्यवस्येत् ||२१|| शोफाभिवृद्धिस्तुमुला रुजश्च बलक्षयः सर्वत एव शोथः | क्षतेषु सन्धिष्वचलाचलेषु स्यात् सर्वकर्मोपरमश्च लिङ्गम् ||२२|| घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु च नैति शान्तिम् | भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं पुरुषं व्यवस्येत् ||२३|| (सु. सू. अ. २५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सिरादयो मर्मरूपा अमर्मरूपाश्च सन्ति, तत्र पूर्वं मर्मरहितानां सिरादीनां विद्धलिङ्गमाह– सुरेन्द्रगोपेत्यादि| यथोक्तानिति शोणितवर्णनीयोक्तान्| तत्र चोक्तं– “तदतिप्रवृत्तं शिरोभितापमान्ध्यमाक्षेपादींश्च करोति|” इति| विद्धासु बाणादिना| क्षतासु खड्गादिना| कौब्ज्यं कुब्जता| तुमुला गहनाः| सन्धिष्वचलाचलेष्विति अचलेषु निश्चेष्टेषु, चलेषु चेष्टावत्सु; सन्धयश्चलाचलभेदेन द्विविधाः| तथाच सुश्रुतः– “शाखासु हन्वोः कट्यां च चेष्टावन्तश्च सन्धयः| शेषास्तु सन्धयः सर्वे विज्ञातव्याः स्थिरा बुधैः||” (सु. शा. अ. ५) इति||२०-२३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सिरादयो मर्मरूपा अमर्मरूपाश्च सन्ति, तत्र मर्मरहितसिरादिविद्धलिङ्गमाह– सुरेन्द्रेत्यादि| इन्द्रगोपो वार्षिकः कीटः, तत्क्षयजः तस्य रुधिरस्य क्षयाज्जातो वायुः, यथोक्तानिति शोणितवर्णनीयोक्तान्, तथा चोक्तम्– “तदतिप्रवृत्तं शिरोभितापमान्ध्यमाक्षेपकादींश्च करोति” इति| विद्धासु बाणादिना, क्षतासु खड्गादिना| स्नायुविद्धमाह– कौब्ज्यमित्यादि| यस्य कौब्ज्यादिचिह्नं भवति, तं पुरुषं स्नायुविद्धं व्यवस्येत् जानीयात्| कौब्ज्यं कुब्जता, तच्च अन्तर्बहिरायामजं द्विधा, अवयवावसादः अवयवानां स्वकर्मण्यसामर्थ्यं, क्रियास्वशक्तिः सर्वशरीरस्योत्क्षेपणापक्षेपणप्रसारणाकुञ्चनक्रियाणामशक्तिः| तुमुला गहनाः, अन्ये तु वातपित्तकफजनिता एकत्र व्याकुलीभूतवेदनास्तुमुला उच्यन्ते इति वदन्ति| सन्धिविद्धमाह– शोफेत्यादि| अचलाचलेषु सन्धिषु क्षतेषु सत्सु शोफातिवृद्ध्यादिलिङ्गं स्यात्| सन्धयस्तु चलाचलभेदात् द्विविधाः| तथा चोक्तं सुश्रुते– “शाखासु हन्वोः कट्यां च चेष्टावन्तश्च सन्धयः| शेषास्तु सन्धयः सर्वे विज्ञातव्याः स्थिरा बुधैः” इति| कर्मोपरमः कर्मोपरतिः| अस्थिविद्धमाह– घोरा इत्यादि| तमस्थिविद्धं जानीयात्, सर्वास्ववस्थासु शयनासनादिकासु, विदितार्थसूत्रः अधिगतशल्यतन्त्रः||२०-२३||

Adhikarana सिरादिमर्मविद्धलिङ्गम् (२४) · Śloka २४

यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वभिताडितेषु |२४| (सु. सू. अ. २५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मर्मरहितानां सिरादीनां विद्धलक्षणमभिधाय सिरादिमर्मविद्धलिङ्गमतिदेशयन्नाह– यथास्वमेतानीत्यादि| विभावयेच्चेति चकारो भिन्नक्रमे; तेन एतानि लिङ्गानि तथा सामान्यलिङ्गानि च जानीयादित्यर्थः|२४|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

मर्मरहितानां सिरादीनां विद्धलिङ्गमभिधाय सिरादिमर्मविद्धलिङ्गमतिदेशेनाह– यथास्वमित्यादि| विभावयेच्चेति चकारोऽत्र भिन्नक्रमे, तेनैतानि मर्मविद्धसिरालिङ्गानि तथा सामान्यलिङ्गानि भ्रमप्रलापादीनि पूर्वोक्तानि च यथास्वं जानीयादित्यर्थः|२४|–

Adhikarana मांसमर्मणो विद्धस्य लिङ्गम् (२४) · Śloka २४

पाण्डुर्विवर्णः स्पृशितं न वेत्ति यो मांसमर्मण्यभिपीडितः स्यात् ||२४|| (सु. सू. अ. २५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अनुक्तमांसमर्मणो विद्धस्य लिङ्गमाह– पाण्डुर्विवर्ण इत्यादि| ननु, सिरादिविद्धलिङ्गवत् मांसविद्धलिङ्गमपि पूर्वं कुतो नोपदिष्टम्? उच्यते– केवलमांसविद्धस्याबहुव्यापत्करत्वात् पूर्वमनुपादानम्||२४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

मांसमर्मविद्धलिङ्गमाह– पाण्डुरित्यादि| विवर्णो विच्छायः| ननु, सिरादिविद्धलिङ्गवन्मांसविद्धलिङ्गमपि पूर्वं कुतो नोपदिष्टं? उच्यते– केवलमांसविद्धस्याबहुव्यापत्करत्वात् पूर्वमनुपादानम्||२४||

Adhikarana सर्वव्रणानामुपद्रवाः (२५-२६) · Śloka २६

विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः | मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः ||२५|| कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः | षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः ||२६|| (च. चि. अ. २५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

सर्वव्रणानामुपद्रवानाह– विसर्प इत्यादि||२५-२६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सर्वव्रणानामुपद्रवानाह– विसर्प इत्यादि| व्रणरुजो व्रणपीडाः, वेपथुः कम्पः||२५-२६||

Adhikarana पुष्पिका · Śloka ४३

इति श्रीमाधवकरविरचिते माधवनिदाने सद्योव्रणनिदानं समाप्तम् ||४३||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां सद्योव्रणनिदानं समाप्तम्||४३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां सद्योव्रणनिदानम्||४३||