Skip to content

. रक्तपित्तनिदानम्

Adhikarana रक्तपित्तस्य निदानपूर्विका सम्प्राप्तिः (१-३) · Śloka

अथ रक्तपित्तनिदानम् | घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः | तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च ||१|| पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम् | ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा ||२|| (सु. उ. तं. अ. ४५) | ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः | कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते ||३|| (आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत् | विदग्धयोर्द्वयोश्चापि द्विधा मार्गं प्रवर्तते) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पाण्डुरोगवद्रक्तपित्तस्यापि पित्तजन्यत्वात्तदनन्तरं रक्तपित्तनिदानमाह– घर्मेत्यादि| घर्म आतपः| तीक्ष्णं तीक्ष्णवीर्यं मरिचादि, उष्णोऽग्नितापः, क्षारो यवक्षारादिः, घण्टापाटल्यादिकृतश्च; विदग्धं कुपितम्| स्वगुणैरिति ‘पित्तं तीक्ष्णं द्रवं पूति’ इत्यादिभिः, विदहति कोपयति स्वगुणैरेव, “विदाहश्चास्य रक्तस्य पित्तवत्” (सु. सू. अ. २१) इत्युक्तेः| ततः प्रवर्तते निःसरति, पित्तं रक्तं च धातुरूपं; नतु केवलं रक्तं, रक्तपित्तमिति व्यपदेशानुपपत्तेः| अथ पित्तेन दुष्टं रक्तं रक्तपित्तमित्युच्यते, तदा पित्तरक्तमिति व्यपदेशः प्रसज्येत, एतेन रक्तं च पित्तं चेति द्वन्द्वसमासान्निरुक्तिरुक्ता सुश्रुतेन| ननु, चरके ‘रागपरिप्राप्तं पित्तं रक्तपित्तम्’ इत्युक्तं, तेन रक्तं च तत् पित्तं चेति कर्मधारयसमासेन निरुक्तिरुक्ता| अत्र च कारणत्रयमुक्तम्| यदाह– “संयोगाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः| रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः||” (च. चि. अ. ४) इति, तत्कथं न विरोधः? नैवम्, अत्रापि रक्तप्रवृत्तेः, दुष्टं हि रक्तं पित्ते रागमादधत्तत्संसर्गि रक्तं स्वयमपि प्रवर्तते इति पूर्व एवार्थः| तेन रक्तं च पित्तं चेति रक्तपित्तं, रक्त च तत् पित्तं चेत्युभयथाऽपि निरुक्तावदोषः||१-३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अथ पाण्डुरोगवद्रक्तपित्तस्यापि पित्तजन्यत्वात्तदनन्तरं रक्तपित्तनिदानमाह– घर्मेत्यादि| एतैः स्वकारणगुणैर्विदग्धं दुष्ट पित्तं शोणितं विदहति कोपयति| घर्म आतपः, अध्वा पन्थाः, व्यवायो मैथुनम्, तीक्ष्णं तीक्ष्णवीर्यं मरिचादि, उष्णोऽग्नितापः अथवोष्णगुणद्रव्यं, क्षारो यवक्षारादिः अपामार्गादिकृतश्च| ततो रक्तं प्रवर्तते ऊर्ध्वमधो वा द्विधा वा एककालमूर्ध्वाधो वा, तस्य रक्तपित्तमुच्यते| रक्तं च पित्तं चेति द्वन्द्वसमासान्निरुक्तिः सुश्रुतेनोक्ता| चरके तु, रागपरिप्राप्तं पित्तं रक्तपित्तमुच्यते| तत्र रक्तं च तत्पित्तं चेति कर्मधारयसमासः| यदुक्तं चरकेण कारणत्रयम्– “संयोगाद्दूषणात् तं तु सामान्याद्गन्धवर्णयोः| रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः” इत्युभयत्रापि न कश्चिद्दोषः| केषु मार्गेषु प्रवर्तते तानाह– ऊर्ध्वमित्यादि| कुपितं तत्पित्तं नासादिभिरूर्ध्वं, मेढ्रादिभिरधः, अतिकुपितं मार्गद्वयैरूर्ध्वाधोभिः समस्तरोमच्छिद्रैश्च||१-३||

Adhikarana रक्तपित्तपूर्वरूपम् (४) · Śloka

सदनं शीतकामित्वं कण्ठधूमायनं वमिः | लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति ||४|| (सु. उ. तं. अ. ४५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पूर्वरूपमाह– सदनमित्यादि| कण्ठधूमायनं कण्ठाद्धूमनिर्गम इव प्रतीतिः||४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पूर्वरूपमाह– सदनमित्यादि| सदनमङ्गानां, शीतकामित्वं शीतेऽभिलाषः, कण्ठधूमायनमिति कण्ठाद्धूमनिर्गम इव वेदनेत्यर्थः| लोहगन्धिः ध्मायमानलोहस्येव श्वासे गन्धः||४||

Adhikarana श्लैष्मिकरक्तपित्तलक्षणम् (५) · Śloka

सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम् |५| (च. चि. अ. ४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

श्लैष्मिकमाह– सान्द्रमित्यादि| सान्द्रं घनं, सपाण्डु सस्नेहमिति ईषत्पाण्डुस्नेहम्|५|

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

श्लैष्मिकमाह– सान्द्रमित्यादि| सान्द्रं घनं, सपाण्डु सस्नेहमिति| ईषत्पाण्डु इषत्स्नेहम्|५|–

Adhikarana वातिकरक्तपित्तलक्षणम् (५) · Śloka

श्यावारुणं सफेनं च तनु रूक्षं च वातिकम् ||५|| (च. चि. अ. ४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वातिकमाह– श्यावेत्यादि| तनु अघनम्||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

वातिकमाह– श्यावेत्यादि| तनु अघनम्||५||

Adhikarana पैत्तिकरक्तपित्तलक्षणम् (६) · Śloka

रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम् | मेचकागारधूमाभमञ्जनाभं च पैत्तिकम् ||६|| (च. चि. अ. ४) | संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् | (च. चि. अ. ४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पैत्तिकमाह– रक्तेत्यादि| कषायाभं वटादिक्वाथवर्णम्| मेचकागारधूमाभमिति मेचकागारधूमयोरिवाभा यस्य तत्तथा; मेचकाभम्, आगारधूमाभं च; मसृणीकृतकृष्णमणिवर्णस्येववर्णो मेचक इति जेज्जटादयः प्राहुः, चिक्कणकृष्ण इत्यर्थः| अञ्जनाभं सौवीराञ्जनवर्णाभम्| ननु, सर्वमेव रक्तपित्तं दुष्टेन पित्तेनारभ्यते तत् कथं पैत्तिकं रक्तपित्तमिति? उच्यते– सत्यं, किन्तु यदा स्वस्थानस्थं पित्तं रक्तपित्तारम्भकं स्थानान्तरावस्थितेन पित्तेन सङ्गृह्यते, किंवा दोषान्तरासंश्लिष्टं केवलं पित्तमारम्भकं, तदा पैत्तिकमिति व्यपदेश इति| ननु, केवलं पैत्तिकं न सम्भवत्येव, यद्वक्ष्यति– “ऊर्ध्वगं कफसंसृष्टमधोगं पवनानुगम्|” इति; न च तस्य निर्दिष्टो मार्गः| उच्यते– यदा स्वकारणोद्भूतेन कफेन वातेन वा स्वलक्षणकारिणा संसृष्टं भवति, तदा श्लैष्मिकादिव्यपदेशः, न तु मार्गसम्बन्धानुगतेन कफवातसम्बन्धेन| ऊर्ध्वगं हि मार्गसम्बन्धमहिम्नाऽवश्यं कफेन, अधोगं चावश्यं वातेन, अनुबध्यते| नच तत्र कफवातौ स्वलक्षणं कुरुतः, यथा शरदि ज्वरकरं पित्तं कालमहिम्नाऽनुगतेन कफेनानुबध्यते तथाऽपि पैत्तिक एवासौ प्राकृतो ज्वरः| यदुक्तम्– “कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः|” (च. चि. अ. ३) इति| तेन यदा एकदोषलिङ्गयुक्तं भवति तदा एकदोषानुगम्, एवं द्विदोषलिङ्गं त्रिदोषलिङ्गं च बोध्यम्| तेनोर्ध्वगमधोगं चैकद्वित्रिलिङ्गं भवति| एतेन पैत्तिकस्य मार्गो न दर्शित इति यदुक्तं तन्निरस्तमिति||६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पैत्तिकमाह– रक्तेत्यादि| कषायाभं खदिरादिक्वाथवर्णं, मेचकाभं कृष्णराजिरञ्जितमणिमसृणीकृतकृष्णवस्त्रवर्ण इव वर्णो मेचक इति जेज्जटदयः, चिक्कणकृष्ण इत्यर्थः| अञ्जनाभं च सौवीराञ्जनवर्णाभम्| ननु सर्वमेव रक्तपित्तं दुष्टेन पित्तमारम्भकं तत् कथं पैत्तिकं रक्तपित्तमित्युच्यते? सत्यं, यदा स्वस्थानस्थं पित्तं रक्तपित्तारम्भकं स्थानान्तरावस्थितेनापि पित्तेन संस्पृशति किंवा दोषान्तरासंश्लिष्टं केवलमेव पित्तमित्युच्यते तदा पैत्तिकमिति व्यपदेश इति| ननु, केवलं पैत्तिकं न सम्भवत्येव, यद्वक्ष्यति– “ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्” इति; न च तस्य निर्दिष्टो मार्गः? उच्यते– यदा हि स्वकारणोद्भूतेन कफेन वातेन वा स्वलक्षणकारिणा संसृष्टं भवति, तदा श्लैष्मिकादिव्यपदेशः, न तु मार्गसम्बन्धत्वागतेन कफवातौ स्वलक्षणं कुरुतः, यथा शरदि ज्वरजनकं पित्तं कालमहिमागतेन कफेनानुबध्यते तथाऽपि पैत्तिकदोषोऽसौ प्राकृतो ज्वरः| यदुक्तम्– “कुर्यात्पित्तं च शरदि तस्य चानुबलः कफः” इति| तेन यदा एकदोषलिङ्गयुक्तं भवति तदा एकदोषानुगम्, एवं द्विदोषलिङ्गं बोद्धव्यं, तेनोर्ध्वगमधोगं चैकद्वित्रिलिङ्गं भवति| एतेन पैत्तिकस्य मार्गो न दर्शित इति यदुक्तं तन्निरस्तमिति| संसर्गसन्निपातजानि रक्तपित्तान्याह– संसृष्टेत्यादि| यदा द्विदोषलिङ्गैरुपलक्षितं भवति तदा द्विदोषजं, यदा च त्रिदोषलिङ्गैः संसृष्टं मिलितं भवति तदा सान्निपातिकम्||६||

Adhikarana द्वन्द्वजस्य त्रिदोषजस्य च रक्तपित्तस्य लक्षणम् (७) · Śloka

ऊर्ध्वगं कफसंसृष्टमधोगं पवनानुगम् | द्विमार्गं कफवाताभ्यामुभाभ्यामनुवर्तते ||७|| (च. चि. अ. ४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

संसर्गविशेषेण मार्गभेदमाह– ऊर्ध्वगमित्यादि||७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

दोषमिलितत्वेन मार्गमाह– ऊर्ध्वगमित्यादि| यदा कफानुगतं रक्तपित्तं भवेत्तदा ऊर्ध्वमार्गेषु प्रवर्तते, यदि च वातानुगं तदाऽधोमार्गेषु, यदि तु उभाभ्यां कफवाताभ्यां संसृष्टं भवति तदा मार्गद्वयेषु प्रवर्तते| एतेन पैत्तिकस्य मार्गो न दर्शितः, रोगस्य रक्तपित्तप्राधान्यतैव||७||

Adhikarana संसर्गविशेषेण मार्गभेदाः (८) · Śloka

ऊर्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम् |८| (सु. उ. तं. अ. ४५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

मार्गभेदेन साध्यत्वादिकमाह– ऊर्ध्वमित्यादि| ऊर्ध्वं साध्यमिति ऊर्ध्वगस्य कफपित्तसंश्लिष्टत्वेन कषायतिक्तौ रसौ कफपित्तहरौ योग्यौ, पित्तहरणे प्रधानं विरेचनं च योग्यम्| अधोगे तु एक एव मधुरो वातपित्तप्रशमनः, वमनं च प्रतिमार्गत्वेन वेगमात्रविरोधि, न तु पित्तहरणम्| उभयमार्गं च विरुद्धोपक्रमत्वादेवासाध्यम्| यदुक्तं चरके– “साध्यं लोहितपित्तं तद्यदूर्ध्वं प्रतिपद्यते| विरेचनस्य योग्यत्वाद्बहुत्वाद्भेषजस्य च|| विरेचनं हि पित्तस्य जयाय परमौषधम्|” (च. चि. अ. २) इत्यादि|८|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

मार्गप्रवृत्त्या तस्य साध्यासाध्यत्वमाह– ऊर्ध्वमित्यादि| युगपद्गतमेककालं मार्गद्वये प्रवृत्तम्||८|–

Adhikarana मार्गभेदेन साध्यत्वादिकम् (८-९) · Śloka

एकमार्गं बलवतो नातिवेगं नवोत्थितम् ||८|| रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम् | (च. चि. अ. ४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

साध्यत्वे हेतुमाह– एकमार्गमित्यादि| एकमार्गमत्रोर्ध्वगमभिप्रेतम्, अधोगस्य याप्यत्वात्| नवोत्थितम् अचिरजम्| सुखे काले हेमन्तशिशिरयोः| निरुपद्रवं वक्ष्यमाणदौर्बल्याद्युपद्रवरहितम्||८-९||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

असाध्यत्वे हेतुमाह– एकेत्यादि| ऊर्ध्वमार्गमिति ऊर्ध्वमार्गप्रवृत्तं, बलयुक्तस्य पुंसः, नातिवेगं मन्दवेगं, नवोत्थितं अचरकलजातम्| सुखे काले हेमन्तशिशिरयोः| निरुपद्रवमिति वक्ष्यमाणदौर्बल्याद्युपद्रवरहितम्||८-९||–

Adhikarana रक्तपित्तस्य साध्यासाध्यलक्षणम् (९-१०) · Śloka १०

एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते ||९|| यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् | व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् ||१०|| (च. चि. अ. ४) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

दोषभेदेन साध्यत्वादिकमाह– एकदोषानुगमित्यादि| मार्गभेददोषभेदाभ्यां साध्यत्वासाध्यत्वविरोधे अर्शःस्वभिहितदोषभेदबलिभेदाभ्यां साध्यत्वासाध्यत्ववद्व्याख्येयम्| मन्दाग्नेस्तथा व्याधिभिः क्षीणदेहस्य यदतिवेगवत्तदसाध्यम्| अनश्नतः अरुच्यादिना, अन्नाभावाद्वा||९-१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पुनरपि दोषानुसंसृष्टत्वेन साध्यासाध्यत्वमाह– एकदोषानुगमित्यादि| याप्यमप्रतिक्रियं, त्रयो दोषाः प्रकोपहेतवो यस्य तत् त्रिदोषं रक्तपित्तमिति| मन्दाग्नेस्तु क्षीणदेहस्य च यदतिवेगवत्तदसाध्यम्| अनश्नतः अरुच्यादिना, अन्नाभावाद्वा| शेषं सुगमम्||९-१०||

Adhikarana रक्तपित्तस्योपद्रवाः (११) · Śloka ११

दौर्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्छा, भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा | तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूतिनिष्ठीवनत्वं, भक्तद्वेषाविपाकौ विकृतिरपि भवेद्रक्तपित्तोपसर्गाः ||११|| (सु. उ. तं. अ. ४५) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उपद्रवानाह– दौर्बल्येत्यादि| दौर्बल्यं ‘शक्त्युपचययोरभाव’ इति गयदासः| भक्ते घोरो विदाह इति ‘षष्ठ्यर्थे सप्तमी’ इति कार्तिकः| हृद्यतुल्येति हृदि अतुल्या असदृशी पीडा| कोष्ठस्य भेदः कोष्ठमलस्यभेदः| तपनं तापः| ‘प्रविततशिरस’ इति पाठान्तरे प्रविततं विस्तीर्यमाणमिव; ‘प्रवितता विस्तीर्णा वेदना शिरसि यस्य स तथा’ इति कार्तिकः| ‘ प्रविततसिरता’ इति पाठान्तरे सिराव्याप्तगात्रता| अविपाक आहारस्य| विकृतिरपि भवेद्रक्तपित्तोपसर्गा इति एते रक्तपित्तस्य उपसर्गा उपद्रवाः; तथा तस्य विकृतिरपि भवेदिति योज्यम्| सा च वक्ष्यमाणामांसप्रक्षालनाभमित्यादिरूपा| ‘रक्तपित्तोपसर्गात्’ इति पाठान्तरं सुगमम्||११||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उपद्रवानाह– दौर्बल्यमिति| शक्त्युपचययोरभाव इति गयदासः| वमथुः छर्दिः, मदः धत्तूरादिफलभक्षणवत्| आ समन्ततः पाण्डुता| दाहः सर्वाङ्गगतः| मूर्छा चेतनाच्युतिः| भुक्ते घोरो विदाह इति भुक्तस्याहारस्य दारुणो विदाहः, षष्ठ्यर्थे सप्तमीति कार्तिकः| हृद्यतुल्येति हृदि अतुल्येति छेदः, हृदयेऽतुल्या असदृशी पीडा| कोष्ठस्य भेद इति कोष्ठमलभेदः| शिरसि तपनं तापः| पूतिनिष्ठीवनत्वं पित्तमयोद्गिरणम्, अविपाकः आहारस्य| एते रक्तपित्तस्य उपसर्गा उपद्रवाः| विकृतिरपि भवेदिति तस्य रक्तपित्तस्य विकृतिरपि भवेदिति योज्यम्| सा च मांसप्रक्षालनाभमित्यादिरूपा||११||

Adhikarana रक्तपित्तस्यासाध्यलक्षणम् (१२-१४) · Śloka १४

मांसप्रक्षालनाभं कुथितमिव च यत् कर्दमाम्भोनिभं वा, मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम् | यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारा स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ||१२|| (सु. उ. तं. अ. ४५) | येन चोपहतो रक्तं रक्तपित्तेन मानवः | पश्येद्दृश्यं वियच्चापि तच्चासाध्यमसंशयम् ||१३|| (च. नि. अ. २) | लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः | लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः ||१४|| (सु. सू. अ. ३३) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

असाध्यलक्षणमाह– मांसेत्यादि| कुथितमिव पूतितां गतमिव| कर्दमम् आविलमिवाम्भः कर्दमाम्भः, अथवा कर्दमनिभमम्भोनिभं च| तथा मेदःपूयास्रकल्पमिति कल्पशब्दो मेदःप्रभृतिभिस्त्रिभिः सम्बध्यते इति गयदासः| यकृदिव यकृत्खण्डमिव| पक्वजम्बूफलाभं स्निग्धकृष्णम्| कृष्णम् अञ्जनाभम्| नीलं चाषपक्षप्रतिमम्| ननु, पैत्तिके कृष्णत्वं पठितं न च तदसाध्यं? नैवम्, अतिशब्देनात्र विशेषितत्वात्, तेन तत्र मनाक्कृष्णत्वं बोध्यम् इति जेज्जटः; अथवा जम्बूफलाभं यत् कृष्णं तदिति योज्यम्| उक्ता विकाराः श्वासकासादयः| सुरपतिधनुषा तुल्यं नानावर्णम्| येनेत्यादि| येन रक्तपित्तेनेति योज्यम्| पश्येद्दृश्यं वियच्चापि अदृश्यमपि वियद्दृश्यमिति पश्यतीति योज्यं, रक्तपित्तोपहतनेत्रत्वादिति; अथवा दृश्यं घटपटादि, वियच्च रक्तं पश्यतीति| अपरमसाध्यलक्षणमाह– लोहितमित्यादि| यो बहुशश्छर्दयेदिति सम्बन्धः| लोहितोद्गारदर्शीति लोहितोद्गारो लोहितदर्शीं च, उद्गारोऽपि लोहितः प्रवर्तते इत्यर्थः; अथवा लोहितमुद्गारं पश्यतीति लोहितोद्गारदर्शीति||१२-१४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्य विकृतिरूपत्वेनासाध्यत्वमाह– मांसेत्यादि| कुथितमिव पूतितां गतमिव| कर्दमाविलमिवाम्भः कर्दमाम्भः अथवा कर्दमनिभमम्भोनिभं वा| अत्र कल्पशब्दो मेदःप्रभृतिभिः त्रिभिः प्रत्येकं सम्बध्यते| यकृदिव यकृत्पिण्डमिव| पक्वजम्बूफलाभं स्निग्धकृष्णं, कृष्णं अञ्जनाभं, नीलं चाषपक्षनिभम्| ननु, पैत्तिके कृष्णं पठितं तच्च साध्यं? नैवं,– अपिशब्देनात्र विशेषितत्वात्| तेन तत्र मनाक्कृष्णत्वं बोद्धव्यमिति जेज्जटः| अथवा जम्बूफलाभं यत्कृष्णमिति योज्यम्| भृशमिति अत्यर्थम्| अति सर्वत्र| कुणपं शवगन्धि| यत्र चोक्ता विकाराः श्वासकासादय उपद्रवाः; ‘भवन्ति’ इति शेषः| सुरपतिधनुषेति सुरपतिधनुर्वन्नानावर्णमित्यर्थः| एभिः पूर्वोक्तैरुपद्रवैर्युक्तं विकृतैर्वर्णैश्च रक्तपित्तं त्याज्यम्| असाध्यलक्षणान्तरमाह– येनेत्यादि| येन रक्तपित्तेनोपहतो मनुष्यः दृश्यं घटपटादिकं वियच्च अदृश्यं पश्यति स नश्यति| अन्ये “ पश्येद्रक्तं वियच्चापि” इति पठन्ति| अदृश्यमपि वियत् रक्तं पश्यति, रक्तपित्तोपहतनेत्रत्वात्| लक्षणान्तरमाह– लोहितमित्यादि| यो बहुशः रक्तं छर्दयेत्, रक्तनयनश्च लोहितोद्गारदर्शीति लोहितोद्गारो लोहितदर्शीं च, उद्गारोऽपि लोहितः प्रवर्तत इत्यर्थः; अथवा लोहितमुद्गारं पश्यतीति लोहितोद्गारदर्शी; स म्रियते||१२-१४||

Adhikarana पुष्पिका · Śloka

इति श्रीमाधवकरविरचिते माधवनिदाने रक्तपित्तनिदानं समाप्तम् ||९||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां रक्तपित्तनिदानं समाप्तम्||९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवैद्यवाचस्पतिकृते आतङ्कदर्पणे रुग्विनिश्चयव्याख्याने रक्तपित्तनिदानम्||९||