Skip to content

१०. राजयक्ष्मक्षतक्षीणनिदानम्

Adhikarana राजयक्ष्मनिदानम् (१) · Śloka

अथ राजयक्ष्मक्षतक्षीणनिदानम् | वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात् | त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ||१||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

राजयक्ष्मरूपेषु पित्ताद्रक्तस्य चागम इति वचनाद्रक्तपित्तानन्तरं यक्ष्मनिदानम्| चिकित्सोपयोगिविप्रकृष्टं कारणं चतुर्विधमाह– वेगरोधादित्यादि| वेगोऽत्र वातमूत्रपुरीषाणां, न तु न वेगान्धारणीयोक्तानां जृम्भादीनां सर्वेषाम्| यदुक्तं चरके– “ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम्| वातमूत्रपुरीषाणां निगृह्णाति यदा नरः||” (च. चि. अ. ८) इत्यादि| क्षयादिति क्षीयते अनेनेति क्षयः, तेनातिव्यवायानशनेर्ष्याविषादादयो धातुक्षयहेतवो गृह्यन्ते| साहसादिति साहसं बलवद्विग्रहादिरुरःक्षतहेतुत्वेन कारणम्| विषमाशनादि सुश्रुतोक्तद्वादशाशनप्रविचारव्यतिरेकेणोपयोगः, तस्य शीघ्रं स्रोतोरोधकत्वात्| उक्तं हि चरके– “विविधान्यन्नपानानि वैषम्येण समश्नताम्| जनयन्त्यामयान् घोरान् विषमा मारुतादयः|| रुद्ध्वा स्रोतांसि धातूनां वैषम्याद्विषमं गताः| दोषा रोगाय कल्पन्ते पुष्यन्ति नच धातवः||” (च. चि. अ. ८) इति| त्रिदोष इति मिलितत्रिदोषज एक एव, नतु कारणभेदादनेकः| यदाह सुश्रुतः– “एक एव मतः शोषः सन्निपातात्मको यतः| उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति हि||” (सु. उ. तं. अ. ४१) इति| ननु, वेगरोधादयो वातं प्रकोपयन्ति, तज्जनितो यक्ष्मा कथं त्रिदोषज इति चेत्? उच्यते– वातप्रकोपादेवाग्निदुष्ट्या कफपित्तयोरपि प्रकोप इत्याहुः| हेतुचतुष्टयादित्यनेनासङ्ख्येया अपि हेतव उक्तचतुष्टयेऽन्तर्भवन्तीति दर्शयति| शोषादिनानाशब्दवाच्यत्वेन चास्य सुश्रुतेऽन्वयमकार्षीत्| यथा– “संशोषणाद्रसादीनां शोष इत्यभिधीयते| क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते बुधैः|| राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः| तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः||” (सु. उ. तं. अ. ४१) इति| वाग्भटे तु– “यक्ष्मणां राजा राजयक्ष्मा” इत्युक्तम् | “राजदन्तादिषु परम्” इति उपसर्जनस्य यक्ष्मशब्दस्य परनिपातः||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

राजयक्ष्मरूपेषु ‘पित्ताद्रक्तस्य चागम’ इति वचनाद्रक्तपित्तनिदानानन्तरं राजयक्ष्मनिदानारम्भः| चिकित्सोपयोगिविप्रकृष्टं कारणचतुष्टयमाह– वेगेत्यादि| वेगोऽत्र वातमूत्रपुरीषादीनां न तु जृम्भादीनां सर्वेषां, यदुक्तं चरके– “ह्रीमत्त्वाद्वा घृणित्वाद्वा भयाद्वा वेगमागतम्| वातमूत्रपुरीषाणां निगृह्णाति यदा नरः” इत्यादि| क्षयो धातुक्षयः| स च व्यवायानशनासृक्स्रावोपवासादिभिरनेककारणैर्जायते| साहसादिति साहसो बलवद्विग्रहादिः| विषमाशनादिति “बहुस्तोकमकाले वा ज्ञेयं तद्विषमाशनम्” इति| तस्य शीघ्रं स्रोतोरोधकत्वात्| उक्तं च चरके– “विविधान्यन्नपानानि वैषम्येण समश्नतः| जनयन्त्यामयान् घोरान्विषमान्मारुतादयः|| रुद्ध्वा स्रोतांसि धातूनां वैषम्याद्विषसङ्गताः| दोषा रोगाय जायन्ते न पुष्यन्ति च धातवः|” इति| त्रिदोष इति मिलितत्रिदोषजनित एक एव, न च कारणभेदादनेकः| उक्तं हि सुश्रुते– “एक एव मतः शोषः सन्निपातात्मको यतः| उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति हि” इति| असङ्ख्येया अपि हेतव उक्तचतुष्टये एवान्तर्भावन्तीति दर्शयति| अस्य शोषादिनानाशब्दवाच्यत्वेन सञ्ज्ञां स्वयमेवाकार्षीत्सुश्रुतः| यथा– “संशोषणाद्रसादीनां शोष इत्यभिधीयते| क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पुनः|| राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः| तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः” इति| तन्त्रान्तरेऽपि कारणचतुष्टयमुक्तम्– “अयथाबलमारम्भो वेगसन्धारणं क्षयः| यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम्” इति||१||

Adhikarana राजयक्ष्मसम्प्राप्तिः (२) · Śloka

कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु | अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तराः | क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ||२||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

न केवलं धातुक्षयमात्रादेव यक्ष्मा भवति, अपि तु , रसादिवहस्रोतोनिरोधादिभिरपीति दर्शयितुं विशिष्टां सम्प्राप्तिमाह– कफेत्यादि| यदा त्वेवं न स्यात्, तदा धातुक्षय एव रोगो न तु यक्ष्मा| कफः प्रधानं येषामनिलादीनां दोषाणां ते तथा| ननु, दोषैरित्यनेन दोषत्रयमुच्यते, कफस्य विशेषणत्वेनोपात्तत्वात्, कथं तस्यैवान्यपदार्थवाच्यता? उच्यते– स्वावयवेन विग्रहः, समुदायः समासार्थः; यथा– बहुवृक्षं वनमिति; समाधानविस्तरस्तु सुश्रुते जेज्जटे द्रष्टव्यः| कफप्रधानता च वेगरोधादिकुपितवातविप्लुताग्निमान्द्यादिना बोद्धव्या| रसवर्त्मसु रसवहधमनीषु, अत्रादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः| तेन रक्तादिवहस्रोतोरोधोऽपि बोध्यः| अथवा रसकारणतया रक्तादीनां रसदुष्ट्यैव रक्तादिदुष्टिरिति कार्तिकः| इदमत्र सूचितम्– यन्मार्गरोधात् हृदयस्थो रसस्तत्रैवावस्थितो विकृतो मुखेन निःसरति| यदाह चरकः– “रसः स्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते| स ऊर्ध्वं कासवेगेन बहुरूपः प्रवर्तते||” (च. चि. अ. ८) इति| एतेनानुलोमक्षयो दर्शितः, कारणभूतरसधातुक्षये सति रक्तादीनां रसकार्याणां पोषकाभावेन क्षीयमाणत्वात्| प्रतिलोमक्षयं दर्शयितुमाह– अतिव्यवायिनो वेत्यादि| रेतसि क्षीणे सत्यनन्तराः समीपगा धातवः क्षीयन्ते, तद्यथा– शुक्रे क्षीणे मज्जा क्षीयते, मज्जनि क्षीणेऽस्थि, एवं पूर्वः पूर्वः धातुः| ननु, कार्यभूतस्य शुक्रस्य क्षयात् कथं कारणभूतानां धातूनां क्षय इति चेत्? उच्यते– शुक्रक्षयाद्वायुः प्रकुप्यति| यदुक्तम्– “वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च|” (च. चि. अ. २८) इति| स वायुः सान्निध्यान्मज्जानं शोषयति, एवं पूर्वपूर्वधातून्| दृष्टं च प्रत्यासत्त्याऽपि कार्यजननं; यथा– अग्निसन्तप्तायोगोलकसन्निधानादार्द्रभूभागस्यापि शोषः| तथाच रससञ्चारपक्षे सुश्रुतवचनम्– “पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परम्परम्| तस्मादतिप्रवृद्धानां धातूनां ह्रासनं हितम्||” (सु. सू. अ. १५) इति||२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्य विशिष्टां सम्प्राप्तिमाह– कफेत्यादि| कफः प्रधानं येषामनिलादिदोषाणां तैस्तथा| ननु दोषैरिति बहुत्वेन दोषत्रयमुच्यते, तत्कथं कफस्य प्रधानता? उच्यते– तस्य प्रधानता च वेगरोधादिक्षुभितवातविप्लुताग्निमान्द्यादिना बोद्धव्या| रसवर्त्मसु रसवहधमनीषु| अत्रादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन रक्तादिवहस्रोतोऽपि बोद्धव्यम्| अथवा रसकारणतया रक्तादीनां रसदुष्ट्यैव रक्तादिदुष्टिरिति कार्तिकः| इदमत्र सूचितम्– यन्मार्गावरोधाद्धृदयस्थो रसो विदह्यते, तत्रैवावस्थितो विकृतिबहुलपिच्छिलविस्रहरितपीतश्वेतकासवेगेन मुखमार्गेण निःसरति| यदुक्तं चरके– “रसः स्रोतःसु रुद्धेषु स्वस्थानस्थो विदह्यते| स ऊर्ध्वं कासवेगेन बहुरूपः प्रवर्तते” इति| एतेनानुलोमक्षयो दर्शितः| कारणभूतरसधातुक्षये सति रक्तादीनां रसकार्याणां पोषकाभावेन क्षीयमाणत्वात्| प्रतिलोमक्षयं दर्शयन्नाह– अतीत्यादि| अतिव्यवायिनः अत्यर्थं ग्राम्यधर्मसेविनः| यदि स्त्रीभ्यो न निवर्तते तदा क्षीणे रेतसि क्षीयमाणे शुक्रे अनन्तराः समीपस्था धातवः क्षीयन्ते, तद्यथा– शुक्रे क्षीणे मज्जा क्षीयते, मज्जनि क्षीयमाणेऽस्थि, एवं पूर्वं पूर्वम्| ननु, रसवर्त्मरोधात् रसो न रक्तस्य बृंहणायालं, रक्तापचयान्मांसस्यापचय इत्यादिपूर्वपूर्वधातुक्षीणतया शुक्रक्षयो युक्तः, कार्यभूतशुक्रक्षये पूर्वधातूनां कथं क्षयः? उच्यते, शुक्रक्षयाद्वायुः कुप्यति; यदुक्तम्– “वायोर्धातुक्षयात्कोपो मार्गस्यावरणेन च” इति| स वायुः सान्निध्यात् मज्जानं शोषयति, एवं पूर्वपूर्वधातून्| दृष्टं च प्रत्यासन्नतया कार्यजनकत्वम्| यथाऽग्निसन्तप्तायोगोलकसन्निधानादार्द्रभूभागस्य शोषः, यथा च महाजलाधारपरिक्षये तत्र प्रविशतां जलाशयानां परिक्षयः||२||

Adhikarana राजयक्ष्मपूर्वरूपम् (३-४) · Śloka

श्वासाङ्गमर्दकफसंस्रवतालुशोषवम्यग्निसादमदपीनसकासनिद्राः | शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ||३|| (सु. उ. तं. अ. ४१) | स्वप्नेषु काकशुकशल्लकिनीलकण्ठा गृध्रास्तथैव कपयः कृकलासकाश्च | तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ||४|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पूर्वरूपमाह– श्वासेत्यादि| संस्रवः ष्ठीवनम्| पीनसः प्रतिश्यायः| मांसपरो मांसभोजनेच्छुः| रिरंसुः स्त्रियं रन्तुमिच्छुः; एतच्च व्याधिमहिम्ना मनोदोषात्| तथा स्वप्नेषु काकादिवाहनं च पूर्वरूपमेव| शल्लकी ‘ शरारु’ इति ख्याता, नीलकण्ठो मयूरः| विजला निर्जलाः| दवो वनाग्निः| अर्दितान् अभिभूतान्| चकारात्तृणकेशनिपातादयो द्रष्टव्याः| यदुक्तं चरके– “पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्| अदोषेष्वपि भावेषु काये बीभत्सदर्शनम्|| घृणित्वमश्नतश्चापि बलमांसपरिक्षयः| स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने|| मक्षिकाघुणकेशानां तृणानां पतनानि च| प्रायोऽन्नपाने, केशानां नखानां चातिवर्धनम्|| पतत्त्रिभिः पतङ्गैश्च श्वापदैश्चाभिधर्षणम्|| ” (च. चि. अ. ८) इति| तत्र श्वापदा व्याघ्रादयः||३-४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पूर्वरूपमाह– श्वासेत्यादि| भविष्यति उत्पद्यमाने शोषे श्वासादयो भवन्तीति सम्बन्धः| अङ्गसादोऽङ्गग्लानिः| कफसंस्रवः कफष्ठीवनं, मदो धत्तूरफलभक्षणादिव मनोमोहः, पीनसः प्रतिश्यायः, ‘कासहिक्का’ इतिस्थानेऽन्ये ‘पाण्डुनिद्रा’ इति पठन्ति, तत्र पाण्डुः पाण्डुदेहच्छविः| स च पुरुषः शुक्लनयनो भवति| मांसपरो मांसभक्षणकामः| रिरंसुः स्त्रियं रन्तुमिच्छुः, एतच्च व्याधिमहिम्ना मनोदोषाद्बोद्धव्यम्| तथा स्वप्ने काकादिवाहनं च पूर्वरूपमेव, शल्लकी गोधानुकारी वज्रशकली ‘सेल्लक’ इति विख्यातः, नीलकण्ठो मयूरः, कृकलासः सरटः ‘गिरगिट’ इति पूर्वदेशीया भाषन्ते; एते तं वाहनीभूय वहन्ति| विजला निर्जलाः| पवनो वायुः, दवो दावाग्निः, अर्दितान् अभिभूतान्| चकारात् केशतृणादिनिपातादयो भोजने ग्राह्याः| यदुक्तं चरके– “पूर्वरूपं प्रतिश्यायो दौर्बल्यं दोषदर्शनम्| अदोषेष्वपि भावेषु काये बीभत्सदर्शनम्|| घृणित्वमश्चापि बलमांसपरिक्षयः| स्त्रीमद्यमांसप्रियता प्रियता चावगुण्ठने|| मक्षिकाघुणकेशानां तृणानां पतनानि च| प्रायोऽन्नपाने केशानां नखानां चाभिवर्धनम्|| पतत्त्रिभिः पतङ्गश्च श्वापदैश्चापि घर्षणम्| स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम्|| जलाशयानां शैलानां वनानां ज्योतिषामपि| शुष्कतां क्षीयमाणानां पततां चापि दर्शनम्| प्राग्रूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः||” इति| अत्र श्वापदा व्याघ्रादयः||३-४||

Adhikarana त्रिरूपराजयक्ष्मणो लक्षणम् (५) · Śloka

अंसपार्श्वाभितापश्च सन्तापः करपादयोः | ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ||५|| (च. चि. अ. ८) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

त्रिरूपसम्पन्नमाह– अंसेत्यादि| अंसपार्श्वयोरभितापः पीडा, अंसो भुजस्योपरिभागः, अभितापत्वेनैकं रूपम्, एवं सन्तापेऽपि वाच्यम्| करपादयोरित्यत्र प्राण्यङ्गत्वादेकवद्भावं मन्यमानाः काश्मीराः– ‘तापः पादकरस्य च’ इति पठन्ति, ‘करपादिकः’ इति च पाठान्तरम्| एतत्त्रयं प्रायोभावित्वेन चरकेणोक्तं, तेनैकादशरूपेषु मध्येऽन्यदपि त्रयं बोध्यम्| तथाच भोजः– “कासो ज्वरो रक्तपित्तं त्रिरूपे राजयक्ष्मणि|” इति| अन्ये त्वाहुः– राजयक्ष्मणि यो ज्वरस्तस्यैतल्लक्षणमिति; जेज्जटस्तु त्रिरूपसम्पत्तिमेव व्याख्यातवान्||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

त्रिरूपसम्पत्तिं दर्शयन्नाह– अंसेत्यादि| अंसपार्श्वयोरभितापः पीडा, अंसो भुजस्योपरिभागः| करपादयोरित्यत्र प्राण्यङ्गत्वेनैकवद्भावं मन्यमानाः काश्मीराः ‘तापः पादकरस्य च’ इति पठन्ति; ‘सन्तापः करपादादिकः’ इत्यपरे| एतत्त्रयं प्रायोभावित्वेन चरकेणोक्तम्||५||

Adhikarana राजयक्ष्मणः षड्रूपाणि (६) · Śloka

( भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् | स्वरभेदश्च जायेत षड्रूपं राजयक्ष्मणि) |६|

🔊 Audio coming soon

Show commentary

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इदानीं तस्यैव षड्रूपाणि दर्शयितुमाह– भक्तेत्यादि|६|

Adhikarana उल्बणदोषभेदेन यक्ष्मण एकादश रूपाणि (६-७) · Śloka

स्वरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपार्श्वयोः | ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ||६|| (सु. उ. तं. अ. ४१) | शिरसः परिपूर्णत्वमभक्तच्छन्द एव च | कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः ||७|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

राजयक्ष्मणस्त्रैदोषिकस्यैकादशरूपाणि विभज्य व्याधिप्रभावाज्जायन्ते, नतु सन्निपातज्वरलिङ्गवत् सर्वदोषैः सर्वाणीत्याह– स्वरभेदोऽनिलादित्यादि| शूलमंसपार्श्वयोरेव, अंसपार्श्वयोः सङ्कोच एक एव गणनीयः| अभक्तच्छन्दो भक्तारुचिः| कण्ठस्योद्ध्वंसः कण्ठभेदः; ‘उत्कासिका’ इति कार्तिकः||६-७||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

दोषभेदेनैकादशरूपाणि दर्शयन्नाह– स्वरेत्यादि| शूलम् अंसपार्श्वयोः सङ्कोच एक एव| अपरे ‘संलोच’ इति पठन्ति, तत्र संलोचो लुञ्चितमिव अंसयोः पार्श्वयोश्च, तेनैवं त्रीणि; ज्वरादीनि चत्वारि पित्तेन; शिरसः परिपूर्णत्वं कफेनेति शेषः, अभक्तच्छन्दो भोजने अश्रद्धा, कण्ठस्य चोद्ध्वंसः कण्ठभङ्गः, उद्ध्वंस उत्कारिफेति कार्तिकः, एवं चत्वारि कफेन; एवमेकादशरूपाणि; एवं षड्रूपाण्यपि वातादिभेदेन ज्ञेयानि||६-७||

Adhikarana यक्ष्मिणोऽसाध्यलक्षणम् (८-१२) · Śloka १२

एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् | कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः ||८|| त्रिभिर्वा पीडितं लिङ्गैः कासश्वासासृगामयैः | जह्याच्छोषार्दितं जन्तुमिच्छन् सुविमलं यशः ||९|| (सु. उ. तं. अ. ४१) | सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये | युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा ||१०|| महाशनं क्षीयमाणमतीसारनिपीडितम् | शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ||११|| शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम् | कृच्छ्रेण बहुमेहन्तं यक्ष्मा हन्तीह मानवम् ||१२||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

असाध्यलक्षणमाह– एकादशभिरित्यादि| एकादशभिरेभिरिति स्वरभेदादिभिः कण्ठोद्ध्वंसान्तैः| षड्भिरिति सुश्रुतेन षड्रूपाणि पठितानि “भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्| स्वरभेदश्च जायेत षड्रूपं राजयक्ष्मणि||” (सु. उ. तं. अ. ४१) इति| “कासातिसारपार्श्वार्तिस्वरभेदारुचिज्वरैः” इति तु कस्यचित्तन्त्रस्य षड्रूपाणि माधवकरेण लिखितानीति| एतानि चैकादश रूपाणि प्रायोभावित्वादुक्तानि, अन्यतमरूपपरिहारात्; रूपान्तरयोगेऽप्येकादशत्वं षट्त्वं च स्यादेव, तथाहि चरको निदाने एकादशरूपाणि पठित्वा चिकित्सितेऽपि वेगरोधादिकारणचतुष्टयजे प्रतिकारणं चतुर्धा एकादशरूपाणि पठितवान्| यथा– “कासोंऽसतापो वैस्वर्यं ज्वरः पार्श्वशिरोरुजा| छर्दनं रक्तकफयोः श्वासो वर्चोग्रहोऽरुचिः|| रूपाण्येकादशैतानि, यक्ष्मणि षडिमानि च| कासो ज्वरः पार्श्वशूलं स्वरवर्चोग्रहोऽरुचिः||” (च. चि. अ. ८) इति| एकादशवचनेनैवं बोधयति– सम्पूर्णे यक्ष्मण्येकादशैव रूपाणि भवन्तीति| जह्यादिति ‘ बलमांसक्षते सति’ इति शेषः| तथाच चरकः– “वातव्याधिरपस्मारी कुष्ठी ब्रध्नी चिरज्वरी| गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः|| अचिकित्स्या भवन्त्येते बलमांसपरिक्षयात्| स्वल्पेष्वपि विकारेषु भिषगेतान् विवर्जयेत्||” (च. इ. अ. ९) इति| सर्वैरित्यादि| ननु, सर्वरूपाण्येकादश, एकादशानामर्धं सार्धपञ्च भवन्ति, तत्र कतमस्य रूपस्यार्धत्वं किम्भूतं वा भवति? उच्यते– एकस्य रुपस्यार्धत्वासम्भवे षट्पञ्चरूपयोरुत्कृष्टत्वात् षड्रूप एवार्धो ग्राह्याः| लिङ्गैर्युक्त इति सम्बन्धः| अतोऽन्यथेति बलमांसक्षयाभावे सति| महाशनं क्षीयमाणमित्येकमसाध्यलक्षणम्, अरिष्टरूपत्वात्; अतीसारपीडितमिति द्वितीयं, यक्ष्मिणो मलायत्तजीवितस्योक्तत्वात्; शूनमुष्कोदरमिति तृतीयं, मुष्कशोथस्य विरेकसाध्यत्वेन विरुद्धोपक्रमत्वात्| शुक्लेत्यादि| शुक्लाक्षत्वादयः एकैकशोऽसाध्यलक्षणानि||८-१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

बहुरूपो राजयक्ष्माऽसाध्यस्तमाह– एकादशभिरिति| एतैरिति स्वरभेदोऽनिलाच्छूलमित्यादिकैरेकादशभिः| षड्भिर्वापीति भक्तद्वेषो ज्वर इत्यादिभिः षड्भिः, अपिशब्दात् त्रिभिर्वा अंसपार्श्वाभितापश्चेत्यादिकैः, समन्वितं जह्यात् त्यजेत्| शोषान्वितं पुरुषं यक्ष्मिणमिति शेषः| वह्निमांसबलक्षये सतीति बोध्यम्| असाध्यलक्षणमाह– सर्वैरिति सर्वैः एकादशभिः| ननु, सर्वाणि रूपाण्येकादश, एकादशानामर्धं सार्धपञ्च भवन्ति, तत्र कतमरूपस्यार्धत्वं किम्भूतं वा भवति? उच्यते– एकस्य रूपस्यार्थासम्भवे षट्पञ्चरूपयोरर्धयोरुत्कृष्टत्वात् षड्रूपमत्रार्धो ग्राह्यः| एतैर्लिङ्गैर्मांसबलक्षयैर्युक्तो वर्ज्य इति सम्बन्धः| मांसबलयोः क्षयैः| क्षयलिङ्गानि सुश्रुतेनोक्तानि| तद्यथा– “मांसक्षयेऽस्थिगण्डोपस्थोरुवक्षःकक्षापिण्डिकोदरग्रीवाशुष्कता रूक्षता सादो गात्राणां धमनीशैथिल्यं च” इति| बलम् ओजः| “मूर्छा मांसक्षयो मोहः प्रलापोऽज्ञानमेव च| पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये” इति| अपरे मांसबलक्षये इति पठन्ति, तत्र मांसबलक्षये सतीति योज्यम्| अतोऽन्यथेति मांसबलक्षयेऽसतीति| एतेन बलमांसाग्नियुक्तः प्रत्याख्येय चिकित्स्यः सर्वरूपोऽपि| अपरमसाध्यलक्षणमाह– महाशनमिति|– महाशनं बह्वशनमपि क्षीयमाणं मांसबलाभ्यां क्षीणमरिष्टत्वात्| अतीसारनिपीडितं अतीसारयुक्तम्| उक्तं च– “मलायत्तं बलं पुंसां शुक्रायत्तं तु जीवितम्| तस्माद्यत्नेन संरक्षेद्यक्ष्मिणो मलरेतसी” इति; शूनमुष्कोदरं शोफयुक्तं मुष्क उदरं च यस्य तं; मुष्कशोथस्य विरेकसाध्यत्वेन विरुद्धोपक्रमत्वात्| महाशनं क्षीयमाणमित्येकमसाध्यलक्षणम्, अतीसारनिपीडितमिति द्वितीयं, शूनमुष्कोदरमिति तृतीयम्| अपरमपि वर्ज्यमाह– शुक्लाक्षमित्यादि| कृच्छ्रेण बहुमेहन्तमिति कष्टेन बहुतरं मेहन्तं ‘मलम्’ इति शेषः| एतेनाहारस्य मलभावः कथितः| यस्य चातिशयो मलो निष्पद्यते तस्य मांसरक्तक्षयो भवति, स पुनरसाध्यः स्यात्| इत्थम्भूतं नरं शुक्लाक्षत्वाद्युपद्रवसहितं यक्ष्मा हन्तीति सम्बन्धः| इहेत्यस्मिन् शास्त्रे| शुक्लाक्षत्वादय एकैकशोऽप्यलक्षणानि बोद्धव्यानि||८-१२||

Adhikarana यक्ष्मिणः साध्यलक्षणम् (१३) · Śloka १३

ज्वरानुबन्धरहितं बलवन्तं क्रियासहम् | उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् ||१३|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

चिकित्स्यत्वमाह– ज्वरेत्यादि| उपक्रमेत् चिकित्सेत्| अकृशमित्यनेन वयःस्थोऽपि प्रत्याख्यायोपक्रम्यत इति सूच्यते| यदुक्तमन्यत्र– “परं दिनसहस्रं तु यदि जीवति मानवः| सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः||” इति||१३||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अथ चिकित्स्यमाह– ज्वरेदित्यादि| उपक्रमेदिति| उपक्रमेत् चिकित्सेत्| अकृशमित्यनेन वयस्थोऽपि प्रत्याख्यायोपक्रम्य इति सूच्यते| यदुक्तमन्यत्र– “परं दिनसहस्रं तु यदि जीवति मानवः| सुभिषग्भिरुपक्रान्तस्तरुणः शोषपीडितः” इति||१३||

Adhikarana शोषभेदाः (१४) · Śloka १४

व्यवायशोकवार्धक्यव्यायामाध्वप्रशोषितान् | व्रणोरःक्षतसञ्ज्ञौ च शोषिणौ लक्षणैः शृणु ||१४|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

व्यवायादिजनितधातुशोषणमात्रेण राजयक्ष्मत्वं निरस्यन्नाह– व्यवायेत्यादि| यदुक्तं सुश्रुते– “केषाञ्चिदेवं शोषो हि कारणैर्भेदमागतः| न तत्र दोषलिङ्गानां समस्तानां निपातनम्|| क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसङ्क्षयात्|” (सु. उ. तं. अ. ४१) इति| वृद्धस्य भावो वार्धक्यमिति स्वार्थे क्य(ष्य)ञ्” इति कार्तिकः||१४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

व्यवायादिजनितशोषमात्रेण राजयक्ष्मत्वं निरस्यन्नाह– व्यवायेत्यादि| व्यवायः स्त्रीसेवा, शोकः पुत्रादिवियोगेन चित्तोद्वेगः, वार्धक्यं वृद्धत्वं, व्यायामः शरीरायासजननं, अध्वा दीर्घमार्गाटनं, व्रणं क्षतम्, उरःक्षतमुरोन्तरभिघातजनितव्रणम्| यक्ष्मणो लक्षणैरिति तल्लिङ्गैः, न तु यक्ष्म वै; यदुक्तं सुश्रुते– “केषाञ्चिदेवं शोषो हि कारणैर्भेदमागतः| न तत्र दोषलिङ्गानां समस्तानां निपातनम्|| क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसङ्क्षयात्” इति||१४||

Adhikarana व्यवायशोषिणो लक्षणम् (१५) · Śloka १५

व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः | पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः ||१५|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

व्यवायशोषिणो लक्षणमाह– व्यवायेत्यादि| शुक्रस्य क्षयलिङ्गैरिति सुश्रुतोक्तैः| तद्यथा– “शुक्रक्षये मेढ्रवृषणवेदना, अशक्तिर्मैथुने, चिराद्वा प्रसेकः, प्रसेके चाल्परक्तशुक्रदर्शनम्|” (सु. सू. अ. १५) इति||१५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

व्यवायशोषिणो लक्षणमाह– व्यवायेत्यादि| शुक्रक्षयलिङ्गैरिति सुश्रुतोक्तैः “शुक्रक्षये मेढ्रवृषणवेदनाऽशक्तिर्मैथुने चिराद्वा प्रसेकः, प्रसेके चाल्पशुक्रदर्शनं रक्तस्य च” इति| यथापूर्वं धातवः क्षीयन्ते; तत्र शुक्रस्य पूर्वो मज्जा, मज्ज्ञोऽस्थि अस्थ्नो मेदः मेदसो मांसं मांसस्य रक्तमित्येवं परं यदि स्त्रीभ्यो न निवर्तते||१५||

Adhikarana शोकशोषिणो लक्षणम् (१६) · Śloka १६

प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः |१६| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

शोकशोषिणो लक्षणमाह– प्रध्यानेत्यादिना| शोकशोष्यपि तादृश इति शुक्रस्य क्षयलक्षणव्यतिरिक्तेन शुक्रशोषलिङ्गेन युक्तः; यदुक्तं सुश्रुते– “विना शुक्रक्षयकृतैर्विकारैरुपलक्षितः|” (सु. उ. तं. अ. ४१) इति|१६|–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

शोकशोषमाह– प्रध्यानशीलः चिन्तापरः, स्रस्ताङ्गः अवसन्नगात्रः, तादृश इति पाण्डुदेहः| शुक्रक्षयलक्षणव्यतिरिक्तैः शुक्रशोषिलक्षणैर्युक्तः|१६|–

Adhikarana वार्धक्यशोषिणो लक्षणम् (१६-१७) · Śloka १७

जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रियः ||१६|| कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः | ष्ठीवति श्लेष्मणा हीनं गौरवारतिपीडितः ||१७|| सम्प्रस्रुतास्यनासाक्षिः शुष्करूक्षमलच्छविः | (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

वार्धक्यशोषिणो लक्षणमाह– जरेत्यादि| कम्पनः कम्पयुक्तः| भिन्नस्य स्फुटितस्य कांस्यपात्रस्य हतस्य दण्डादिनेव स्वरो यस्य स तथा| ष्ठीवति श्लेष्मणा हीनमिति श्लेष्महरणाय यत्ने कृतेऽपि न श्लेष्मनिःसरणम् | शुष्करूक्षमलच्छविरिति शुष्करूक्षे यथाक्रमं मलच्छवी यस्य स तथा||१६-१७||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

जराशोषिणमाह– जरेत्यादि| मन्दशब्दो वीर्यादिभिः प्रत्येकं सम्बध्यते| वीर्यं शक्तिः, बलमोजो हृदि स्थितं सप्तधातूनां धाम| कम्पनः कम्पयुक्तः| भिन्नस्य स्फुटितस्य कांस्यपात्रस्य दण्डादिना हतस्येव स्वरो यस्य स तथा| ष्ठीवति श्लेष्मणा हीनमिति श्लेष्महरणाय बले कृतेऽपि न श्लेष्मनिःसरणम्| अरुचिपीडित इति पुनररोचकग्रहणमत्यन्तमरोचकताख्यापनार्थम्| सम्प्रस्रुतशब्द आस्यादिभिः सम्बध्यते| आस्यं मुखकुहरम्, अक्षि लोचनम्| शुष्करूक्षमलच्छविरिति शुष्करूक्षे यथाक्रमं मलच्छवी यस्य स तथा||१६-१७||–

Adhikarana अध्वशोषिणो लक्षणम् (१८) · Śloka १८

अध्वशोषी च स्रस्ताङ्गः सम्भृष्टपरुषच्छविः ||१८|| प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः | (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

अध्वशोषिणो लक्षणमाह– अध्वेत्यादि| सम्भृष्टस्येव भर्जितस्येव परुषा छविः वर्णो यस्य स तथा| प्रसुप्तः स्पर्शानभिज्ञः| क्लोम पिपासास्थानं हृदये, क्लोमस्थाने ताल्विति पाठान्तरम्||१८||–

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

अध्वशोषिणमाह– स्रस्ताङ्ग इति| स्रस्ताङ्गः शिथिलगात्रः| सम्भृष्टस्येव भर्जितस्येव छविर्वर्णो यस्य स तथा| प्रसुप्तगात्रावयव इति प्रसुप्तः स्पर्शानभिज्ञः अकर्मण्यः शरीरप्रदेशो यस्य तथोक्तः| शुष्कशब्दः क्लोमादिभिः प्रत्येकं सम्बध्यते, क्लोम पिपासास्थानं हृदये, क्लोमस्थाने ताल्विति पाठान्तरम्| यद्यपि यथोद्देशं जराशोष्यनन्तरं व्यायामशोषी वाच्यो नाध्वशोषी, तथाऽप्यध्वशोषिणो लक्षणानां व्यायामशोषिण्यतिदेशात् पूर्वमत्राध्वशोषी निर्दिष्टः| यद्येवं तर्हि व्यायामशोषिलक्षणान्येव कुतोऽध्वशोषिणि नातिदिश्यन्ते| सत्यम्, उरःक्षतलिङ्गानामधिकानां व्यायामशोषिणि सद्भावात्| अथोद्देश एवाध्वशोषी कस्मान्नादावुक्त इति चेत्– छन्दोनुरोधात्| केचिदत्र तृढङगबलपारुष्यारतितोदनैरिति पठन्ति तत्रापि स एवार्थः||१८||–

Adhikarana व्यायामशोषिणो लक्षणम् (१९) · Śloka १९

व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः | लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना ||१९|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

व्यायामशोषिणो लक्षणमाह– व्यायामेत्यादि| एभिरिति स्रस्ताङ्गत्वादिभिरध्वशोषलक्षणैः, अध्वनो व्यायाममात्रसामान्यात्| भूयिष्ठम् अत्यर्थम्, अध्वशोषेऽल्पानि लक्षणानि, व्यायामजे तु महान्तीत्यर्थः| तथा ‘उरःक्षतकृतैर्लिङ्गैः संयुक्तः क्षतवर्जितैः’ इति सुगमः पाठः| गदाधरस्तु– “लिङ्गैरुरःक्षतकृतः संयुक्तश्च क्षतं विना|” इति पठति, व्याचष्टे च– उरःक्षतेन व्यायामभाराध्ययनद्रुतयानादिहेतुना यः कृतः शोषः सोऽप्येभिरेवाध्वशोषलिङ्गैर्भूयिष्ठं संयुक्तः, क्षतं क्षतकार्यं विना| क्षतकार्यं तु सुश्रुते यथा– “तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति|” इत्यारभ्य “भिन्नवर्णस्वरो नरः|” (सु. उ. तं. अ. ४१) इत्यन्तमेतान्येव लक्षणानि क्षतेऽधिकानि, उरःक्षतकारणव्यायामभारादिकृतशोषस्य लक्षणमेव भूयिष्ठं यत्तदेवोरःक्षतकारणमात्रत्वादध्वनोऽपीत्यर्थः| अथवा क्षतं विना व्रणं विना, उरःक्षतनिमित्तभाराध्ययनादिनाऽमात्रेण यः कृतः शोषः सोऽप्येभिरेवात्यर्थाध्वशोषलिङ्गैः समन्वित इति प्रकृतेन सम्बन्धः; सव्रणस्य तु वक्ष्यमाणमेव लक्षणमिति||१९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

व्यायामशोषिणो लक्षणमाह– व्यायामेत्यादि| एभिरिति| स्रस्ताङ्गत्वादिभिरनन्तरोक्तैरेवाध्वप्रशोषिलक्षणैः; भूयिष्ठमत्यर्थम्, अध्वशोषे अल्पानि लिङ्गानि व्यायामजे तु महान्तीत्यर्थः| ‘स एवोरःक्षतकृतैः सम्प्रयुक्त’ इति सुगमः पाठः| गदाधरस्तु– ‘ लिङ्गैरुरःक्षतकृतः संयुक्तश्च क्षतं विना’ इति पठति; व्याचष्टे च– उरःक्षतेन व्यायामभाराध्ययनद्रुतपृष्ठयानादिहेतुना यः कृतः शोषः सोऽप्येभिरेवाध्वशोषलिङ्गैर्भूयिष्ठं संयुक्तः| क्षतं विना क्षतकार्यं विना, क्षतकार्यं तु सुश्रुते यथा– “तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति| “कासमानश्छर्दयेच्च पीतरक्तासितारुणम्|| सन्तप्तवक्षाः सोऽत्यर्थं दूयनात्परिताम्यति|| दुर्गन्धोच्छ्वासवदनो भिन्नवर्णस्वरो नरः” इति||१९||

Adhikarana व्रणशोषिणो लक्षणम् (२०) · Śloka २०

रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् | व्रणितस्य भवेच्छोषः स चासाध्यतमो मतः ||२०|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

कारणत्रयेण व्रणशोषिणमाह– रक्तक्षयादित्यादि| वेदना व्रणवेदनाः, ताभिर्भयशोकवन्मनःक्षोभाद्वातप्रकोपादेव शोषः| स चासाध्यतम इति स्वार्थिकस्तमप्, यथा “युधिष्ठिरः श्रेष्ठतमः कुरूणाम्|” इति| अत्रेष्ठनैवातिशायिकप्रत्ययेन प्रशस्ततमत्वस्य प्रतिपादितत्वात्; अथवा याप्यापेक्षयाऽसाध्यतमशब्देन प्रत्याख्येय उच्यते, याप्यस्याप्यसाध्यरूपत्वात्| ननु, एवं सति “कृशानां व्रणशोषिणाम्| बृंहणीयो विधिः कार्यः” (सु. चि. अ. १) इति सुश्रुतेनैवोक्तं चिकित्सितस्थाने विरुध्यते? उच्यते– प्रबलशोषे प्रत्याख्येयत्वं, नातिप्रबले तु चिकित्साविधानमिति समर्थनीयम्| चन्द्रिकाकारस्तु ‘स चासाध्यतमः स्मृतः’ इत्यस्य स्थाने “याप्यासाध्यतमस्तु सः” इति पठति, चिकित्सायां बृंहणविधेरभिधानादिति||२०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

व्रणशोषिणमाह– रक्तेत्यादि| रक्तातिस्रुतेः, वेदनाः व्रणवेदनाः, ताभिरपि भयशोकवन्मनःक्षोभाद्वातप्रकोपादेव शोषः; स चासाध्यतमः, अथ वा याप्यापेक्षया असाध्यतमः; असाध्यतमशब्देन प्रत्याख्येय उच्यते, याप्यस्याप्यसाध्यरूपत्वात्| एवं सति “कृशानां व्रणशोषिणाम्| बृंहणीयो विधिः कार्यः” इति सुश्रुतेनैवोक्तम्| तथा च प्रबलशोषे प्रत्याख्येयत्वं, नातिप्रबले चिकित्साविधानमिति||२०||

Adhikarana सनिदानमुरःक्षतलक्षणम् (२१-२८) · Śloka २८

धनुषाऽऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम् | युध्यमानस्य बलिभिः पततो विषमोच्चतः ||२१|| वृषं हयं वा धावन्तं दम्यं वाऽन्यं निगृह्णतः | शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान् ||२२|| अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम् | महानदीर्वा तरतो हयैर्वा सह धावतः ||२३|| सहसोत्पततो दूरं तूर्णं वाऽपि प्रनृत्यतः | तथाऽन्यैः कर्मभिः क्रूरैर्भृशमभ्याहतस्य वा ||२४|| विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते | स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः ||२५|| उरो विभज्यतेऽत्यर्थं भिद्यतेऽथ विरुज्यते | प्रपीड्यते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते ||२६|| क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते | ज्वरो व्यथा मनोदैन्यं विड्भेदाग्निवधावपि ||२७|| दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः | कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्तते ||२८|| स क्षती क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात् | (च. चि. अ. १६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

शोषनिदानेनैव साहसादिना उरःक्षतस्य सम्भवात्, उरःक्षतेनापि शोषसम्भवात्, शोषाधिकारे सनिदानमुरःक्षतमाह– धनुषेत्यादि| आयस्यत इति आयासं कुर्वतो ‘नरस्य’ इति शेषः, ‘आयम्यतः’ इति पाठान्तरे विस्तीर्यमाणहृदयस्य| दम्यं दमनार्हं वृषादिकमेव बलवन्तमित्यर्थः| अन्यं वा गजोष्ट्रादिकं, निगृह्णतः विधारयतः| शिला दीर्घशिला, अश्मा तदितरप्रस्तरखण्डः, निर्घातोऽस्त्रविशेषः, किंवा निर्घातः शिलादीनां प्रेरणविशेषोऽतिबलसम्पादितः| निघ्नतः परान् शत्रून् ताडयतः| अधीयानस्य पठतः| महानदीस्तरत इति ‘बाहुभ्याम्’ इति शेषः| तूर्णं शीघ्रम्| तथाऽन्यैः कर्मभिः क्रूरैर्मल्लयुद्धादिभिरभ्याहतस्य, क्रूरैरित्यत्र शूरैरिति शत्रुभिरित्यन्ये| एषां कारणानां मध्ये किञ्चिन्निखिलदेहस्यायासकरं, किञ्चिदुरस एवेति बोद्धव्यम्| व्याधिरिति उरःक्षतलक्षणः; अथवा व्याधिर्वायुः, ‘दोषा अपि व्याधिशब्दं लभन्त’ इत्यागमादिति जेज्जटः| उरो विभज्यते भज्यत इव, भिद्यते विदार्यते विभज्यते द्विधा क्रियत इव; ‘विदह्यते’ इति पाठान्तरमसङ्गतं, कारणाभावात् टीकाकारैरव्याख्यातत्वाच्च| वीर्यं शक्तिः| बलं मांसोपचयः| ‘विड्भेदोऽग्निवधादपि’ इति पाठान्तरे अग्निवधाद्धेतोर्विड्भेदो भवतीत्यर्थः; अपिशब्दात् व्याधिमहिम्ना विनाऽप्यग्निवधाद्विड्भेदो भवतीत्याहुः| दुष्टो व्यापन्नः; तदेव विवृणोति– श्याव इत्यादि| विग्रथितो विशेषेण ग्रन्थिलः, ‘विबद्ध’ इति जेज्जटः| स पुरुषः, क्षती उरःक्षतवान्, क्षीयते धातुशोषमाप्नोति| न केवलं क्षतादेव क्षीयते, किं तर्हि स्त्रीसेवादिना शुक्रौजसोः क्षयादपीत्याह– तथेत्यादि||२१-२८||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

सनिदानमुरःक्षतमाह– धनुषेत्यादि| आयस्यतः आयासं कुर्वतः, ‘नरस्य’ इति शेषः| ‘आयम्यत’ इति पाठान्तरे विस्तार्यमाणहृदयस्य| दम्यं दमनार्हं वृषादिकमेव बलवत्तरमित्यर्थः, अथवा गजोष्ट्रादिकं; निगृह्णतो विधारयतः| शिला दीर्घपाषाणः; अश्म तदितरप्रस्तरखण्डः, निर्घातोऽस्त्रविशेषः, किं वा शिलादिना प्रेरणविशेषोऽतिबलसम्पादितः| तान् क्षिपतः| परान् शत्रून्| अधीयानस्य उच्चैः पठतः| दूरं वा व्रजतो द्रुतमिति शीघ्रं दूरं गच्छतः| महानदीं तरतः ‘बाहुभ्याम्’ इति शेषः| तूर्णं शीघ्रमतिनृत्यतः| अन्यैः कर्मभिः क्रूरैरिति मल्लयुद्धादिभिरभ्याहतस्य, शूरैरिति शत्रुभिरित्यन्ये| विक्षते विदारिते, वक्षसि हृदि| व्याधिरिति उरःक्षतलक्षणः, अथवा व्याधिर्वायुः, दोषा अपि व्याधिशब्दं लभन्ते इत्यागमादिति जेज्जटः| बलवान् समुदीर्यते उत्कट उत्पद्यते| उरःक्षतक्षीणत्वेऽपरमपि कारणमाह– स्त्रीष्वित्यादि| रूक्षं चणकादिः, अल्पं स्तोकं, प्रमितमकालभोजनम्| उरो विरुज्यते रुज्यत इव भिद्यत इव शूलेन, विभज्यते द्विधा क्रियत, इव ‘विदह्यते’ इति पाठान्तरम्| वीर्यं शक्तिः, बलं मांसोपचयलक्षणं, वर्णो गौरादिः, व्यथा अङ्गानां, मनोदैन्यं मनोग्लानिः, अग्निवधोऽग्न्यभावः, ‘विड्भेदोऽग्निवधादपि’ इति पठन्ति व्याख्यानयन्ति च– अग्निवधाद्धेतोर्विड्भेदो भवतीत्यर्थः; अपिशब्दाद्वायाधिमहिम्ना विनाऽप्यग्निवधात् विड्भेदो भवतीत्याहुः| दुष्टो व्यापन्नः, विग्रथितो विशेषात् ग्रन्थिलः, विनिबद्ध इति जेज्जटः| कफः सास्रः प्रवर्तते इति रुधिरयुक्तं कफं ष्ठीवते, ‘सास्रम्’ इत्यत्र ‘सान्द्र’ इति पाठान्तरं, तत्र सान्द्रो घनः| एभिः कारणैः, सक्षतः क्षतवान्; ‘स तत’ इति पाठे स पुरुषः, तत उरःक्षतात्; अत्यर्थं क्षीयते धातुशोषमाप्नोतीत्यर्थः| न केवलं क्षतादेव क्षीयते किं तर्हि स्त्रीसेवादिना शुक्रौजसोः क्षयादपि||२१-२८||–

Adhikarana उरःक्षतपूर्वरूपम् (२९) · Śloka २९

अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् ||२९||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पूर्वरूपमाह– अव्यक्तमित्यादि| तस्य क्षतस्य लक्षणमव्यक्तमप्रकटम्||२९||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पूर्वरूपमाह– क्षतक्षीणयोरसाधारणं लक्षणमिदम्| तस्य क्षतस्य लक्षणमव्यक्तमप्रकटम्||२९||

Adhikarana क्षतक्षीणयोरसाध्यलक्षणम् (३०) · Śloka ३०

उरोरुक् शोणितच्छर्दिः कासो वैशेषिकः क्षते | क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः ||३०|| (च. चि. अ. १६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

क्षतक्षीणयोरसाधारणलक्षणमाह– उरोरुगित्यादि| वैशेषिको विशिष्टः कासः; स च विशेष उक्तो दुष्टश्यावादिकफसंयुक्तत्वं; किंवा वैशेषिक उद्भूतः| क्षत इति छेदः| क्षीणे इति क्षये इत्यर्थः| सरक्तमूत्रत्वम् आलोहितमूत्रता||३०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

क्षतक्षीणयोरसाधारणमाह– उरोरुगित्यादि| क्षते उरःक्षते| कासो वैशेषिक इति विशिष्टः कासः क्षीणकासापेक्षया अधिक इत्यर्थः| क्षीणस्य रूपमाह– क्षय इति| शुक्रौजसोः क्षये तु सरक्तमूत्रादिरुपद्रवः| वैशेषिकः विशिष्टः कास इति अस्मिन् लक्षणे सम्बध्यते||३०||

Adhikarana क्षतक्षीणयोः साध्यासाध्यविचारः (३१) · Śloka ३१

अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः | परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत् ||३१|| (च. चि. अ. १६) |

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तयोः साध्यलक्षणमाह– अल्पेत्यादि||३१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उरःक्षते साध्ययाप्यासाध्यत्वमाह– अल्पेत्यादि| अल्पलिङ्गस्य अल्पलक्षणस्य||३१||

Adhikarana पुष्पिका · Śloka १०

इति श्रीमाधवकरविरचिते माधवनिदाने राजयक्ष्मक्षतक्षीणनिदानं समाप्तम् ||१०||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजरक्षितकृतायां मधुकोशव्याख्यायां राजयक्ष्मक्षतक्षीणनिदानं समाप्तम्||१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवैद्यवाचस्पतिकृते आतङ्कदर्पणे निदानव्याख्याने राज्यक्ष्मनिदानम्||१०||