Adhikarana मदात्ययनिदानम् (१) · Śloka १
अथ पानात्यय-परमद-पानाजीर्ण-पानविभ्रमनिदानम् |
ये विषस्य गुणाः प्रोक्तास्तेऽपि मद्ये प्रतिष्ठिताः |
तेन मिथ्योपयुक्तेन भवत्युग्रो मदात्ययः ||१||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
‘मूर्छा मद्येन च विषेण च’ इति वचनान्मूर्छानन्तरं मद्यविकारान् मदात्ययादीनाह| ननु, कथं मद्यं मोहयतीत्याह– ये विषस्येत्यादि| ते च विषगुणा मूर्छाध्याये निदर्शिताः| मिथ्योपयुक्तेनेति अयथाविधिपीतेन, विधिश्चायं, तद्यथा– कुसुमितलतोपगूढैः प्ररूढनिरन्तरनवाङ्कुरनिकररोमाञ्चैर्मधुकरमधुरझङ्कारसीत्कारैर्मुक्तकण्ठकलकण्ठकूजितैर्दक्षिणसमीरणसमुल्लसितपल्लवकरप्रचारैः तरुणतरुभिः उपक्रान्तलताभिरतिशोभनेषु तुषारकरकिरणराजिपराजिताशेषतापदोषेषु प्रदेशेषु शृङ्गाररससमुचितालङ्कृतिकमनीयकामिनीसेवितं ललितललनोपनीयमानं सुरभिरुचिररूपरसोपदंशं कं नाम परिमितं परार्धमधुपानं न सुखयति? चरके तु विस्तरेणैतदुक्तम्||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
‘मूर्छा मद्येन विषेण च’ इति वचनान्मूर्छानन्तरं मद्यविकारानाचष्टे, ननु कथं मद्यं मोहयतीत्याह– य इत्यादि| ये विषस्य गुणाः प्रोक्ताः, ते च विषगुणा मूर्छाध्याये निदर्शिताः, ते गुणा मद्येऽपि कीर्तिताः, तेन मद्येन मिथ्योपयुक्तेन अयथाविधिपीतेनोग्रो मदात्ययो भवति| विधिश्चायं; तद्यथा– कुसुमितलतोपगूढैः प्रकटनिरन्तरनवाङ्कुरनिकररोमाञ्चैः मधुकरमधुरझङ्कारसीत्कारैर्मुक्तकण्ठ-कलकण्ठकूजितैर्दक्षिणसमीरणोद्वीजितसमुल्लसितपल्लवकर-प्रचारैस्तरुणतरुभिरुपक्रान्ततरललताभिरतिशोभनेषु वनोपवनेषु तुषारकरकिरणारञ्जितप्रदेशेषु शृङ्गारसरसमुचितालङ्कृतिकमनीयकामिनीसम्मितं ललितललनोपनीयमानं सुरभिरुचिररसोपदंशं कं नाम परिमितं मधुपानं न सुखयति| चरकेण तु विस्तरेणैतदुक्तम्| विधिः प्रकारः||१||
Adhikarana मद्यस्वभावः (२-३) · Śloka ३
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् |
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ||२||
प्राणाः प्राणभृतामन्नं तदयुक्त्या हिनस्त्यसून् |
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ||३||
(च. चि. अ. २४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
ननु, विषस्य ये गुणास्ते चेन्मद्येऽपि सन्ति, तर्हि विषवन्मद्यमनुपयोज्यं प्रसज्येत? अत आह– किन्त्वित्यादि| यथैवान्नमिति देहधारकस्वभावं, तदेवायुक्तियुक्तमविधियुक्तं रोगाय; तस्मादहितमपि विशिष्टविधिनोपयुक्तं हितं, हितमप्यविधिनोपयुक्तमनर्थाय भवतीति| अत्रैव दृष्टान्तमाह– प्राणा इत्यादि| तदयुक्त्येति अतिमात्रत्वादिना विसूच्यादिकं कृत्वा मारयतीत्यर्थः| युक्तियुक्तमिति यथा चरकरसायनप्रयोगे उक्तम्– “द्वौ यवावत्र हेम्नस्तु तिलं दद्याद्विषस्य च|” (च. चि. अ. १) इति| अत्र तिलमिति तिलप्रमाणम्||२-३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
ननु विषस्य ये गुणास्ते चेन्मद्येऽपि सन्ति तर्हि विषवन्मद्यमनुपयोज्यं स्यादित्यत आह– किन्त्वित्यादि| मद्यं स्वभावेन प्रकृत्या अन्नवत् ज्ञेयं देहधारणस्वभावं, तदेवान्नं मद्यं वा अयुक्तियुक्तमविधिप्रयुक्तं रोगाय भवति, युक्तियुक्तममृतवद्भवतीत्यर्थः| तस्मादहितमपि विशिष्टविधिनोपयुक्तं हितं, हितमप्यविधिनोपयुक्तमनर्थाय भवति| अत्रैव दृष्टान्तमाह– प्राणा इति| अन्नं प्राणभृतां शरीरिणां प्राणाः, शरीरधारणात्मकत्वात्| तदेवान्नम् अयुक्त्या अतिमात्रत्वादिना विसूच्यादीन् कृत्वा मारयतीत्यर्थः| प्राणहरमपि तद्वद्विषं युक्तियुक्तं रसायनं भवति, शरीरं धारयतीत्यर्थः||२-३||
Adhikarana विधिनोपयुक्तमद्यफलम् (४-६) · Śloka ६
विधिना मात्रया काले हितैरन्नैर्यथाबलम् |
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतोपमम् ||४||
(च. चि. अ. २४) |
स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् |
भवेदायुःप्रकर्षाय बलायोपचयाय च ||५||
काम्यता मनसस्तुष्टिस्तेजो विक्रम एव च |
विधिवत्सेव्यमाने तु मद्ये सन्निहिता गुणाः ||६||
(सु. उ. तं. अ. ४७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
विधिनोपयुक्तस्य फलमाह– विधिनेत्यादि| काल इति नित्यगे चावस्थिके च; तद्यथा– ग्रीष्मे शीतमधुरं माध्वीकादि, शीते उष्णतीक्ष्णं गौडिकपैष्टिकादि; तथा वाते स्निग्धादि; एवं वयस्युदाहार्यम्| हितैरन्नैरिति वक्ष्यमाणस्निग्धादिभिर्मद्यविपरीतगुणैः| स्निग्धैरित्युपलक्षणं, तेनान्यैरपि मद्यविपरीतगुणैरिति बोद्धव्यम्| यदुक्तं सुश्रुतेन “मद्यमम्लं तथा तीक्ष्णं सूक्ष्मं विशदमेव च| रूक्षमाशुकरं चैव व्यवायि च विकाशि च||” (सु. उ. तं. अ. ४७) इति| अम्लरसत्वं चास्योद्भूतरसत्वेनोक्तं; यदुक्तमन्यत्र– “सर्वेषामम्लजातीनां मद्यं मूर्ध्नि व्यवस्थितम्||” इति| मूर्ध्नि व्यवस्थितमुत्कृष्टम्| अन्येऽप्यत्र रसाः सन्ति| यदाह भोजः– “मैरेयं मदिरा सीधु चतुर्थं मधु चोच्यते| एकैकं षड्रसं तत्र रसतो मद्यमीरितम्||” इति| अन्नभक्ष्यशब्दयोरुपादानेन प्रायो लेह्यं द्रवान्तरपानं च मद्यपानोचितं न भवतीति दर्शयति| अन्नभक्ष्याभ्यां लब्धेऽपि मांसे मांसग्रहणं विशेषेण हितत्वोपदर्शनार्थम्| बलं शक्तिः, उपचयः स्थौल्यम्| अपरमपि विधिसेवागुणमाह– काम्यतेत्यादि| काम्यता कमनीयमूर्तिता, मनसस्तुष्टिः सन्तोषः| अथवा काम्यता मनस इति कमनीयवस्तुनि मनोवृत्तिः, तुष्टिश्च मनस एवेति योज्यम्| तेज उत्साहः| विक्रमः पराभिभवार्थं बलवती शरीरचेष्टा||४-६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
विधिनोपयुक्तस्य फलमाह– विधिनेत्यादि| विधिः पूर्वोक्तः, तन्त्रान्तरोक्तश्च– “शुद्धकायः पिबेत्प्रातः सोपदंशं पलद्वयम्| मध्याह्ने द्विगुणं तच्च स्निग्धाहारेण वै पिबेत्, प्रदोषेऽष्टपलं तद्वन्मात्रा मद्ये रसायनम्| आरोग्यं धातुसाम्यं च वह्निकान्तिबलप्रदम्|| अनेन विधिना सेव्यं मद्यं नित्यमतन्द्रितैः|” इति| अन्ये, “बुद्ध्यादयो गुणा यावदुल्लसन्ति निरत्ययाः| मात्रेयं विहिता मद्ये पाने रोगाय चापराः||” काल इति तत्र कालो द्विविधो नित्यगः, आवस्थिकश्च; तत्र नित्यगे ऋतुसम्बन्धिनि, यथा– ग्रीष्मे शीतमधुरं माध्वीकादि, शीते उष्णतीक्ष्णं गौडिकपैष्टिकादि; आवस्थिके काले वाते स्निग्धादि, एवं वयस्यप्युदाहार्यम्| हितैरन्नैरिति वक्ष्यमाणस्निग्धत्वादिभिर्मद्यविपरीतगुणैः| यथाबलं स्वशक्त्या| एवं हृष्टो हर्षयुक्तो यो मद्यं पिबेत्तस्यामृतोपमं स्यात्| कैः सह पीतं बलोपचयाय भवति तानाह– स्निग्धैरित्यादि| एतैर्वस्तुभिः सेव्यमानं मद्यमायुःप्रकर्षाय भवति तथा बलवर्धकमिति| स्निग्धैरित्युपलक्षणं, तेनान्यैर्मद्यविपरीतगुणैरपि बोद्धव्यं, तेन तीक्ष्णादिदशगुणविपरीतैर्मृद्वादिगुणैः सह मद्यं सेव्यमिति| यदुक्तं तन्त्रान्तरे– “लघुतीक्ष्णोष्णसूक्ष्माम्लव्यवाय्याशुगमेव च| रुक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम्” इति| तथा च सुश्रुते– मद्यमम्लं तथा तीक्ष्णं सूक्ष्मं विशदमेव च| रूक्षमाशुकरं चैव व्यवायि च विकाशि च” इति| अम्लरसत्वं चास्योद्भूतरसत्वेनोक्तम्| यदुक्तमन्यत्र “सर्वेषामम्लजातीनां मद्यं मूर्ध्नि व्यवस्थितम्” इति| मूर्ध्नि व्यवस्थितमुत्कृष्टम्| अन्येऽप्यत्र रसाः सन्ति| यदुक्तं तन्त्रान्तरे– “मद्यस्याम्लस्वभावस्य चत्वारोऽनुरसाः स्मृताः| मधुरश्च कषायश्च कटुकस्तिक्त एव च” इति| यदाह भोजः– षड्रसा इति”मदिराया रसा व्यक्ता मधुरोषणतिक्तकाः| लवणाम्लकषायाश्च त्रयः सूक्ष्मतराः स्मृताः|| विपर्ययेणैतदेवं मैरेये कथिता रसाः| माध्वीके सीधुसञ्ज्ञे च व्यक्तौ चाम्लकटू रसौ| व्यक्ता हि शेषाश्चत्वारो रसा भोजेन कीर्तिताः” इति| अन्नैरिति गोधूमादिभिः| अन्नभक्ष्याभ्यां लब्धेऽपि मांसे मांसग्रहणं विशेषेण हितत्वोपदर्शनार्थम्| बलं शक्तिः, उपचयः स्थौल्यम्| अपरमपि विधिसेवागुणमाह– काम्यतेत्यादि| काम्यता कमनीयमूर्तिता, मनसस्तुष्टिः सन्तोषः, तेज उत्साहः, विक्रमः पराभिभवार्थं बलवती शरीरचेष्टा||४-६||
Adhikarana प्रथममदलक्षणम् (७) · Śloka ७
बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रारतिवर्धनश्च |
सम्पाठगीतस्वरवर्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि ||७||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उक्तविधिविपर्ययेण सेव्यमानं मद्यं मदात्ययाय सम्पद्यते; स च त्रिविधो भवति– पूर्वो, मध्यमोऽन्तिमश्चेति; तेषां क्रमेणलक्षणमाह– बुद्धीत्यादि| बुद्धिरनुभवः, स्मृतिरनुभूतार्थानुसन्धानम्| पानान्ननिद्रारतिवर्धनश्चेति पानादिषु रतिरनुरागस्तद्वर्धनः| सम्पाठः सम्यक् पाठः| गयदासस्तु ‘सम्पाठ्य’ इति पठित्वा गीतनृत्यवाद्यानि मिलितानि सम्पाठ्यमुच्यते, गीतं तु केवलमेवेति व्याचष्टे| स्वरो ध्वनिः| प्रोक्तोऽतिरम्य इति| ननु मनोविकारकारित्वात् कथमस्यातिरम्यता? उच्यते– मनोविकारकारित्वेऽपि तदात्वेन न दुःखावहत्वात् अत एव सुश्रुतेन मानसविकारेषु हर्षः पठितः||७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उक्तविधिविपर्ययेण सेव्यमानं मद्यं मदात्ययाय भवति| स च त्रिधा भवति मदात्ययः पूर्वो मध्योऽन्तिम इति| तेषां क्रमेण लक्षणमाह– तत्र प्रथमो यथा– बुद्धीत्यादि| बुद्धिरनुभवः, स्मृतिः पूर्वानुभूतस्मरणं, प्रीतिः परेण मैत्री| सुख इति शोकाद्यस्मरणेन मनसः प्रसादादनुपहतेन्द्रियवृत्तित्वात्| पानान्ननिद्रारतिवर्धन इति पानादिषु विषये रतिरनुरागः, तद्वर्धनः| सम्पाठः सम्यक्पाठः, गीतं गानं, स्वरो ध्वनिः| प्रोक्तोऽतिरम्य इति| ननु मनोविकारकरत्वात् कथमस्यातिरम्यता? उच्यते– मनोविकारकारित्वेऽपि तदात्वेन दुःखावहत्वात्| अत एव सुश्रुतेन मानसविकारेषु हर्षः पठित इति||७||
Adhikarana द्वितीयमदलक्षणम् (८) · Śloka ८
अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाकृतिरप्रशान्तः |
आलस्यनिद्राभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन ||८||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
द्वितीयमदमाह– अव्यक्तेत्यादि| विचेष्टो विरुद्धचेष्टः| उन्मत्तस्य लीलाकृतिभ्यां सह वर्तते इति सोन्मत्तलीलाकृतिः; उन्मत्तप्राय इत्यर्थः| अप्रशान्तः प्रचण्डः||८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
मध्यमदमाह– अव्यक्तेत्यादि| उन्मत्तस्य लीलाकृतिभ्यां सह वर्तत इति सोन्मत्तलीलाकृतिः उन्मत्तप्राय इत्यर्थः| अप्रशान्तः प्रचण्डः| मुहुर्वारंवारम्, आलस्यनिद्राभ्यामभिहतः पीडितः, स चैवंविधोऽत्यनुपहतेन्द्रियवृत्तित्वात्||८||
Adhikarana तृतीयमदलक्षणम् (९) · Śloka ९
गच्छेदगम्यान्न गुरूंश्च मन्येत् खादेदभक्ष्याणि च नष्टसञ्ज्ञः |
ब्रूयाच्च गुह्यानि हृदि स्थितानि मदे तृतीये पुरुषोऽस्वतन्त्रः ||९||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तृतीयमदमाह– गच्छेदित्यादि| ननु चरके द्वितीयतृतीययोर्मध्ये मदान्तरं पठितं, यदाह– “मध्यमं मदमुत्क्रम्य मदमप्राप्य चोत्तमम्| न किञ्चिदशुभं कुर्युर्नरा राजसतामसाः|| को मदं तादृशं गच्छेदुन्मादमिव चापरम्|” (च. चि. अ. २४) इति; तत् कुतोऽत्र न पठितम्? उच्यते– द्वितीयमदान्ते तृतीयमदस्य पूर्वावस्थैवातिनिन्दनीया, सुतरां तृतीयो मद इति प्रतिपादनार्थं तत्पठितं, न तु तयोः परमार्थतोऽन्तराले पृथङ्मदान्तरमस्ति, यथा– “कुम्भमीनर्क्षयोर्मध्ये यदा चरति चन्द्रमाः| नाहरेत्तृणकाष्ठानि न गच्छेद्दक्षिणां दिशम्||” इति| अत्र हि कुम्भस्य शेषांशो मीनस्य प्रथमांश एतद्द्वयं मध्यशब्देनोच्यते इत्याहुः जेज्जटादयः, हरिचन्द्रव्याख्यानं तु विस्तरत्वान्न लिखितम्| अगम्यान् गुरुदारादीन् दुष्टयानादींश्च| नष्टसञ्ज्ञ इति सञ्ज्ञा नामोल्लेखेन ज्ञानं, तन्नष्टं यस्य स तथा| गुह्यानि गोप्यानि| अस्वतन्त्रो मदपरवशः||९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तृतीयं मदमाह– गच्छेदित्यादि| अगम्यान् गुरुदारादीन्| गुरून् ज्येष्ठान्, न मन्येत अवगणयेदित्यर्थः| अभक्ष्याणि शास्त्रनिषिद्धानि, चकाराद्दुष्टपानादींश्च| सञ्ज्ञा नामोल्लखेन सञ्ज्ञाज्ञानं तन्नष्टं यस्य स तथा| हृदि स्थितानि गुह्यानि गोप्यानि, ब्रूयात्| तथा अस्वतन्त्रो मदपरवशः| स चैवंविधोऽतीवोपहतेन्द्रियत्वाद्भवति||९||
Adhikarana चतुर्थमदलक्षणम् (१०-११) · Śloka ११
चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः |
कार्याकार्यविभागज्ञो मृतादप्यपरो मृतः ||१०||
को मदं तादृशं गच्छेदुन्मादमिव चापरम् |
बहुदोषमिवामूढः कान्तारं स्ववशः कृती ||११||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
चतुर्थमदमाह– चतुर्थे त्वित्यादि| कार्याकार्यविभागज्ञः कार्यमकार्यमिति बुद्ध्या जानाति| ‘कार्याकार्यविभागज्ञः’ इति पाठे कार्याकार्यविभागयोरज्ञ इत्यर्थः| मृतादप्यपरो मृत इति मृतमपेक्ष्यापरोऽयं मृत इव, अत्यन्ताज्ञानसाधर्म्यात्| ‘अवरः’ इति पाठान्तरे मृतादप्यधम इत्यर्थः, तथाविधावस्थायाः स्वयं कृतत्वात्| क इत्यादि| कः कृती कुशलः, सुकृती वा, कृतकृत्यो वा; स्ववशोऽपराधीनः, तादृशमुक्तप्रकारेण निन्दितं मदं गच्छेत् प्राप्नुयात्; न कश्चिदेवंविधं प्राप्नुयादित्यर्थः| कमिवेत्याह– बहुदोषमिवामूढः कान्तारमिति बहुदोषं हिंस्रादियुक्तं, कान्तारं दूरशून्यमध्वनम्| यदुक्तं चरके– “गच्छेदध्वानमस्वन्तं बहुदोषमिवाऽध्वगः|” (च. चि. अ. २४) इति; एवं विदेहेऽपि पठितमिति| अत्रास्वन्तमशोभमानमनिष्टफलत्वेन| ननु, चरकविदेहवाग्भटादिभिश्चतुर्थो मदो न पठितस्तत्कथं सुश्रुतेन पठितः? उच्यते– चरके या द्वितीयतृतीययोरन्तरालावस्था पठिता, सैव सुश्रुतेन तृतीयो मद इति कृत्वा पठितः, यस्तु चरके तृतीयः स च सुश्रुते चतुर्थः पठित इत्याविरोधः| वस्तुगत्या तु त्रय एव मदा इत्युपपादितम्| ननु, किङ्कारणमेतत्त्रैविध्यमिति चेत्? उच्यते– मद्यं हि वह्नितुल्यं, यथा ह्यग्निः सुवर्णानामुत्तममध्यमाधमानामभिव्यञ्जकस्तथा मद्यमपि प्राणिनां सत्त्वरजस्तमोभूयिष्ठानां क्रमेणाभिव्यञ्जकमिति| तथाहि चरकः– “प्रधानाधममध्यानां रुक्माणां व्यक्तिदर्शकः| यथाऽग्निरेवं सत्वाद्यैर्मद्यं प्रकृतिदर्शकम्| तस्मात् प्रथमद्वितीयतृतीयमदाः सत्त्वरजस्तमोभूयिष्ठानां क्रमेण भवन्तीत्यर्थः||१०-११||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
चतुर्थमदमाह-चतुर्थे मदे पुरुषो मूढोऽज्ञः, भग्नदार्विव निष्क्रियो भवति भग्नवृक्ष इव क्रियारहितः, तथा कार्याकार्यविभागज्ञः कार्यमकार्यं बुद्ध्या जानाति| ‘कार्याकार्यविभागज्ञः’ इति पाठान्तरे कार्याकार्यविभागयोरनभिज्ञ इत्यर्थः| मृतादप्यपरो मृत इति मृतमपेक्ष्यापरोऽयं मृत इव, अत्यन्ताज्ञानसाधर्म्यात्| ‘अवरः’ इति पाठान्तरे मृतादप्यवर इत्यर्थः, तथाविधावस्थायाः स्वयं कृतत्वात्| क इति कः कृती सुकृती कृतकृत्यो वा स्ववशोऽपराधीनस्तादृशमुक्तप्रकारेण निन्दितं मदं गच्छेत् प्राप्नुयात् न कश्चिदेवंविधं प्राप्नुयादित्यर्थः| कमिवेत्याह– बहुदोषमिवामूढः कान्तारमिति; बहुदोषं हिंस्रा इति युक्तं कान्तारं शून्यमध्वानं को मूढो गच्छेदपि तु न कोऽपि| यदुक्तं चरके “गच्छेदध्वानमस्वन्तं बहुदोषमिवाध्वगः” इति| अस्वन्तमशोभनमनिष्टफलत्वेन| ननु चरकविदेहवाग्भटदिभिश्चतुर्थो मदो न पठितः, तत्कथं न विरोधः? उच्यते; चरके या द्वितीयतृतीययोरन्तरालावस्था पठिता, सैव सुश्रुतेन तृतीयो मद इति कृत्वा पठितः| केयमन्तरालावस्था? यथोक्तं ज्योतिःशास्त्रे– “कुम्भमीनर्क्षयोर्मध्ये यदा चरति चन्द्रमाः| नाहरेत्तृणकाष्ठानि न गच्छेद्दक्षिणां दिशम्” इति| अत्र कुम्भस्य शेषांशो मीनस्य प्रथमांश एतद्द्वयं मध्यशब्देनोच्यते इति सैवान्तरालावस्था| यस्तु चरके तृतीयः सुश्रुते स चतुर्थः पठित इत्यविरोधः| वस्तुगत्या त्रय एव मदा इत्युपपादितम्| ननु, किं कारणकमिदं त्रैविध्यमिति चेत्? उच्यते– मद्यं हि वह्नितुल्यं, यथा वह्निः सुवर्णानामधममध्यमोत्तमानामभिव्यञ्जकः, तथा मद्यमपि प्राणिनां सत्त्वरजस्तमोभूयिष्ठानामभिव्यञ्जकम्| तथा हि चरकः– “प्रधानाधममध्यानां रुक्माणां व्यक्तिदर्शकः| यथाऽग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम्” इति| तस्मात्प्रथमद्वितीयतृतीयमदाः सत्त्वरजस्तमोभूयिष्ठानां क्रमेण भवन्तीत्यर्थः||१०-११||
Adhikarana अविधिकृतमद्यपानस्य विकारान्तरहेतुत्वम् (१२) · Śloka १२
निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् |
आपादयेत्कष्टतमान्विकारानापादयेच्चापि शरीरभेदम् ||१२||
(स. उ. अ. ४७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अविधिमद्यपानस्य विकारान्तरहेतुत्वमाह– निर्भक्तमित्यादि| ननु, अयमर्थः स्निग्धैस्तदन्नैरित्यादिना यदुक्तं तद्विपर्ययेणैव लब्धः, तत्कथं पुनरुच्यते? नैवं, पूर्वं मद्यपानगुणाभिधानार्थमुक्तम्, इदं तु कृच्छ्रतमव्याधिकर्तृत्वाभिधानार्थमिति भेदः| यत्परः शब्दः स शब्दार्थ इत्यभिप्रायः| कष्टतमान् विकारानिति वक्ष्यमाणपानात्ययादीन्| भेदं विनाशं शरीरस्य||१२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अविधिमद्यपानस्य विकारान्तरहेतुत्वमाह– निर्भक्तमित्यादि| निर्भक्तमाहाररहितम्, एकान्ततो नैरन्तर्येण सेव्यमानं, कष्टतमान् वक्ष्यमाणान् पानात्ययादीन् जनयेत्| शरीरभेदं शरीरविनाशम्| ननु ‘स्निग्धैस्तदन्नैः’ इत्यादीनां विपर्ययेणैवायमर्थो लब्धस्तत्किं पुनः कथनं? नैवं, पूर्वं मद्यपानगुणाभिधानार्थमुक्तम्, इदं तु कृच्छ्रतमव्याधिकर्तृत्वाभिधानार्थमुक्तमिति भेदः||१२||
Adhikarana अन्नसहितस्यापि मद्यस्य क्रुद्धत्वादिकारणसहितस्य विकारकारित्वप्रदर्शनम् (१३-१४) · Śloka १४
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन |
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ||१३||
अत्यम्बुभक्षावततोदरेण साजीर्णभुक्तेन तथाऽबलेन |
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् ||१४||
(सु. उ. तं. अ. ४७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अन्नसहितस्यापि मद्यस्य क्रुद्धत्वादिकारणसहितस्य विकारकारित्वप्रदर्शनार्थमाह– क्रुद्धेनेत्यादि| परिक्षतेन क्षीणेन| अवततं व्याप्तम्| विविधान् विकारान् पानात्ययादीनिति||१३-१४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अन्नसहितस्यापि मद्यस्य क्रुद्धत्वादिकारणसहितस्य विकारकारित्वप्रदर्शनार्थमाह– क्रुद्धेनेत्यादि| व्यायामभाराध्वभिः परिक्षतेन क्षीणेन वेगावरोधाभिहतेन मूत्रादीनां वेगाभिघातपीडितेन| अत्यम्बुभक्षैः अवततोदरेण व्याप्तोदरेण| साजीर्णभुक्तेन साजीर्णं भुक्तं यस्य स तथा तेन| अबलेन बलरहितेन, बलम् ओजः| उष्णाभितप्तेन घर्मसन्तप्तेन| ईदृशेन पुरुषेण सेव्यमानं विविधान् नानाविधान्, विकारान् पानात्ययादीन् करोति||१३-१४||
Adhikarana मद्योत्थविकारभेदाः (१५) · Śloka १५
पानात्ययं परमदं पानाजीर्णमथापि वा |
पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् ||१५||
(सु. उ. तं. अ. ४७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तानेव विवृणोति– पानात्ययमित्यादि| ननु, अयमर्थः ‘आपादयेत् कष्टतमान् विकारान्’ इत्यनेनैवोक्तत्वात् कथं पुनरुक्तः? उच्यते– पूर्वेण कष्टतमविकारकारित्वमुक्तम्, अनेन तु नानाविधविकारकारित्वमिति भेदः||१५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तानत्र विकारान् विवृणोति– पानात्ययमित्यादि| पानात्ययमित्येको विकारः, पानाजीर्णमित्येकः, पानविभ्रममिति चान्यः| तेषां क्रमेण लक्षणं वक्ष्यामि||१५||
Adhikarana वातिक-पैत्तिक-श्लैष्मिकमदात्ययलक्षणम् (१६-१८) · Śloka १८
हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः |
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ||१६||
तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः |
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ||१७||
छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः |
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् |
ज्ञेयस्त्रिदोषजश्चापि सर्वलिङ्गैर्मदात्ययः ||१८||
(च. चि. अ. २४) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तेषामुद्दिष्टानां लक्षणमाह– हिक्केत्यादि| प्रजागरो निद्राविच्छेदः| वातप्रायमित्यनेन सर्वे वातादिप्राया मदात्ययास्त्रिदोषजाः, उद्भूतत्वेन व्यपदेश इति चरके दर्शितम्| यदाह– “ये विषस्य गुणाः प्रोक्ताः सर्वदोषप्रकोपणाः|” इत्यारभ्य यावत् “सर्वं मदात्ययं विद्यात्त्रिदोषं” (च. चि. अ. २४) इति| एवं चरकसंवादात् सुश्रुतेऽपि बोध्यम्| विभ्रमो भ्रमः| हरितवर्णस्येत्यनेन हरितवर्णताऽपि लक्षणम्||१६-१८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तत्र वातिकमदात्ययमाह– हिक्केत्यादि| सर्वे मदात्ययास्त्रिदोषजाः, किं तु औद्धत्येन व्यपदेशः| यदुक्तं चरकेण– “ये विषस्य गुणाः प्रोक्ताः सर्वदोषप्रकोपणाः” इति| तथा च– “सर्वं मदात्ययं विद्यात् त्रिदोषजम्” इति| प्रजागरो निद्रानाशः, शेषं सुगमम्| पैत्तिकमाह– तृष्णेत्यादि| विभ्रमो वस्तुविपरीतज्ञानम्| हरितवर्णस्य पुरुषस्येति हरितवर्णता पित्तलक्षणं, शेषं सुगमम्| श्लैष्मिकमाह– छर्दीत्यादि| स्तैमित्यं निश्चलता| शीतपरीतस्य शीतयुक्तस्य| त्रिदोषजमाह– ज्ञेय इत्यादि| सर्वलिङ्गैः सर्वदोषलक्षणैः||१६-१८||
Adhikarana परमदलक्षणम् (१९) · Śloka १९
श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रिररोचकश्च |
लिङ्गं परस्य च मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ||१९||
(सु. उ. तं. अ. ४७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
परमदमाह– श्लेष्मोच्छ्रय इत्यादि| श्लेष्मोच्छ्रयश्चात्र नासास्रावादिना ज्ञेयः| सक्तिः सङ्गः, अप्रवृत्तिरिति यावत्| तन्द्रिस्तन्द्रा| परस्य मदस्येति परमदस्य; छन्दोऽनुरोधादसमासनिर्देशः||१९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
परमदमाह– श्लेष्मेत्यादि| श्लेष्मोच्छ्रयो नासास्रावादिना ज्ञेयः| अङ्गगुरुता शरीरगौरवम्| विरसास्यता मुखस्य वैरस्यम्| विण्मूत्रसक्तिः विण्मूत्रयोरप्रवृत्तिः| तन्द्रिस्तन्द्रा| परस्येति छन्दोनुरोधादसमासनिर्देशः, परमदस्येति ज्ञेयम्| शिरसि रुजा पीडा, सन्धिषु भेदः स्फुटनमिव||१९||
Adhikarana पानाजीर्णलक्षणम् (२०) · Śloka २०
आध्मानमुग्रमथ चोद्गिरणं विदाहः पानेऽजरां समुपगच्छति लक्षणानि |२०|
(सु. उ. तं. अ. ४७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पानाजीर्णमाह– आध्मानमित्यादि| उद्गिरणं वान्तिः, उद्गारो वा| पाने मद्ये, अजराम् अजीर्णमुपगच्छति अपक्वत्वमुपगच्छतीति पानाजीर्णविकार इत्यर्थः|२०|–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पानाजीर्णमाह– आध्मानमित्यादि| उद्गिरणं वान्तिरुद्गारो वा| पाने मद्ये, अजरामजीर्णं, समुपगच्छति प्राप्तवति, पानाजीर्णं इत्यर्थः|२०|–
Adhikarana पानविभ्रमलक्षणम् (२०) · Śloka २०
हृद्गात्रतोदकफसंस्रवकण्ठधूमा मूर्छावमिज्वरशिरोरुजनप्रदाहाः ||२०||
द्वेषः सुरान्नविकृतेष्वपि तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः |
(सु. उ. तं. अ. ४७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पानविभ्रममाह– हृदित्यादि| कण्ठधूमः कण्ठाद्धूमनिर्गमवत्पीडा| शिरोरुजनं शिरःशूलम्| सुरान्नविकृतेष्विति सुराविकृतेषु अन्नविकृतेषु च; भावे क्तः| तेषु तेष्विति नानाविकारेषु सुरामैरेयपिष्टकलड्डुकादिषु| उशन्ति इच्छन्ति| एते च परमदादयस्त्रयो न चरके पठिताः, सन्निपातजेऽन्तर्भूतत्वात्; सुश्रुतेन तूक्तत्रिदोषजमदात्ययात् पृथगेते पठिताः, विकृत्या पूर्वलक्षणवैलक्षण्याभिधानार्थमित्याहुः||२०||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पानविभ्रममाह– हृदित्यादि| हृदित्यादि| हृद्गात्रयोस्तोदः व्यथाविशेषः, कण्ठधूमः कण्ठाद्धूमनिर्गमवत्पीडा, शिरोरुजनं शिरःशूलं, प्रदेहः श्लेष्मलिप्तमिव मुखम्| सुराविकृतेषु अन्नविकृतेषु च भावेषु द्वेषः| तेषु तेष्विति नानाप्रकारेषु सुरामैरेयपिष्टकादिषु| अखिलेन लक्षणेन पानविभ्रमं उशन्ति कथयन्ति| एते परमदादयस्त्रयो न चरके पठिताः, सन्निपातजेऽन्तर्भूतत्वात्, सुश्रुतेन तूक्तत्रिदोषजमदात्ययाः पृथगेव पठिताः, पूर्वोक्तलक्षणवैलक्षण्यात्||२०||–
Adhikarana पानात्ययादीनामसाध्यलक्षणम् (२१) · Śloka २१
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमपि पानहतं त्यजेत्तु ||२१||
जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे वा |
(सु. उ. तं. अ. ४७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
असाध्यलक्षणमाह– हीनेत्यादि| हीनोत्तरौष्ठं प्रलम्बमानोपरितनौष्ठम्| अतिशीतं बहिः, अमन्ददाहमभ्यन्तरे| तैलप्रभास्यं तैलाक्तमुखमिव||२१||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
असाध्यलक्षणमाह– हीनेत्यादि| हीनोत्तरौष्ठं प्रलम्बमानोपरितनौष्ठम्| अतिशीतं बहिः, अमन्ददाहमभ्यन्तरे; अथवा अतिशीतममन्ददाहमिति विकल्पेन प्रत्येतव्यम्, एकदैकत्र विरुद्धधर्मद्वयासम्भवात्; कदाचिदतिशीतं, कदाचित्तीव्रदाहम्| उल्बणमिति| तैलप्रभास्यमिति तैलाक्तमुखमिव||२१||–
Adhikarana पानात्ययादीनामुपद्रवाः (२२) · Śloka २२
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते ||२२||
(सु. उ. तं. अ. ४७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उपद्रवानाह– हिक्केत्यादि| एतैः कृच्छ्रसाध्यं भवति, न त्वसाध्यम्; असाध्यलक्षणेभ्यः पृथक्पाठादिति जेज्जटः| ध्वंसकविक्षेपकाख्यौ मद्यविकारौ चरके पृथक् पठितौ; तद्यथा– “विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते| ध्वंसो विक्षेपकश्चैव रोगस्तस्योपजायते|| श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता| तन्द्रानिद्राभियोगश्च ज्ञेयं ध्वंसकलक्षणम्|| हृत्कण्ठरोधः सम्मोहश्छर्दिरङ्गरुजा ज्वरः| तृष्णा कासः शिरःशूलमेतद्विक्षेपलक्षणम्||” (च. चि. अ. २४) इति; तौ च सुश्रुतेन “विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते| तस्य पानात्ययोद्दिष्टा विकाराः सम्भवन्ति हि||” (सु. उ. तं. अ. ४७) इत्यनेन सङ्गृहीतौ बोद्धव्यौ| न वा चिकित्साभेदस्तयोरुक्तः; यतश्चरक एवोक्तवान्– “तयोः कर्म चिकित्सा च वातिके यन्मदात्यये|” (च. चि. अ. २४) इति||२२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
उपद्रवानाह– जिह्वेत्यादि| एते उपद्रवाः पानहतान् पुरुषान् भजन्ते| असितं कृष्णम्, अथवा नीलं चाषपक्षप्रतिमम्| रुधिरप्रभे अतीवरक्ते| हिक्केत्यादि| वमथुश्छर्दिः, वेपथुः कम्पः| भ्रमश्चक्रारूढस्येव| एतैश्च कृच्छ्रसाध्यत्वं भवति न त्वसाध्यत्वम्, असाध्यलक्षणेभ्यः पृथक्पाठादिति जेज्जटः| ध्वंसकविक्षेपकाख्यौ मद्यविकारौ चरके पठितौ| तद्यथा– “विच्छिन्नमद्यः सहसा योऽति मद्यं निषेवते| ध्वंसो विक्षेपकश्चैव रोगस्तस्योपजायते|| श्लेष्मप्रसेकः कण्ठरोधः सम्मोहश्छर्दिरङ्गरुजा ज्वरः| तृष्णाकासः शिरःशूलमेतद्विक्षेपलक्षणम्” इति| न वा तयोश्चिकित्साभेद उक्तः, यतश्चरक एवोक्तवान्– “तयोः कर्म चिकित्सा च वातिके यन्मदात्यये” इति||२२||
Adhikarana पुष्पिका · Śloka १८
इति श्रीमाधवकरविरचिते माधवनिदाने पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानं समाप्तम् ||१८||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानं समाप्तम्||१८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवैद्यवाचस्पतिकृते आतङ्कदर्पणाख्ये रुग्विनिश्चयव्याख्याने पानात्यपरमदपानाजीर्णपानविभ्रमनिदानम्||१८||