Skip to content

५०. शीतपित्तोदर्दकोठनिदानम्

Adhikarana शीतपित्तस्य निदानपूर्विका सम्प्राप्तिः (१) · Śloka

अथ शीतपित्तोदर्द-कोठनिदानम् | शीतमारुतसंस्पर्शात् प्रदुष्टौ कफमारुतौ | पित्तेन सह सम्भूय बहिरन्तर्विसर्पतः ||१||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

त्वग्दुष्टिदोषत्रयजन्यत्वसामान्यात् कुष्ठानन्तरं शीतपित्तोदर्दादिनिदानम्| तस्य दोषत्रयजन्यत्वमाह– शीतमारुतसंस्पर्शादित्यादि| पित्तेन सह सम्भूयेति स्वहेतूपचितेन पित्तेन सम्भूय मिलित्वा| बहिरन्तरिति बहिस्त्वचि, अन्तः शोणितादौ; विसर्पतः प्रसरतः||१||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

त्वग्दुष्टिदोषत्रयजन्यत्वसामान्यात्कुष्ठानन्तरं शीतपित्तादिनिदानम्| तस्य दोषत्रयजन्यत्वमाह– शीतेत्यादि| प्रदुष्टौ कुपितौ कफमारुतौ स्वहेतूपचितेन पित्तेन सह मिलित्वा, बहिस्त्वचि, अन्तः शोणितादौ, विसर्पतः प्रसरतः||१||

Adhikarana शीतपित्तपूर्वरूपम् (२) · Śloka

पिपासारुचिहृल्लासदेहसादाङ्गगौरवम् | रक्तलोचनता तेषां पूर्वरूपस्य लक्षणम् ||२||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

पूर्वरूपमाह– पिपासेत्यादि| रक्तलोचनता प्रभावात्| पूर्वरूपस्य लक्षणमिति पूर्वरूपस्य स्वरूपमित्यर्थः; न तु लक्षणमत्र लिङ्गं, पिपासादिव्यतिरिक्तस्य पूर्वरूपस्याभावात्||२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्य पूर्वरूपमाह– पिपासेत्यादि| अत्र रक्तलोचनता प्रभावात्| पूर्वरूपस्य लक्षणमिति पूर्वरूपस्योपलम्भनं, न तु लक्षणं लिङ्गं; पिपासादिव्यतिरिक्तस्य पूर्वरूपस्याभावात्||२||

Adhikarana शीतपित्तलक्षणम् (३-४) · Śloka

वरटीदष्टसंस्थानः शोथः सञ्जायते बहिः | सकण्डूस्तोदबहुलश्छर्दिज्वरविदाहवान् ||३|| उदर्दमिति तं विद्याच्छीतपित्तमथापरे | वाताधिकं शीतपित्तमुदर्दस्तु कफाधिकः ||४||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उदर्दलक्षणमाह– वरटीत्यादि| सकण्डूस्तोदबहुलश्छर्दिज्वरविदाहवानिति अत्र कण्डूः कफात्, तोदो वातात्, छर्दिज्वरविदाहाः पित्तादिति दोषत्रयलिङ्गम्| अनयोः शीतपित्तोदर्दयोः समानसंस्थानत्वेऽपि वाताधिकं शीतपित्तं, कफाधिक उदर्दः||३-४||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उदर्दलक्षणमाह– वरटीत्यादि| वरटी कीटविशेषः, तद्दष्टसदृशाकारः, बहिः शरीरे शोथो जायते| अत्र कण्डूः कफात्, तोदो वातात्, छर्दिज्वरविदाहाः पित्तादिति दोषत्रयलिङ्गम्; अपरे शीतपित्तमित्याहुः| अनयोर्दोषद्वयाधिकत्वमाह– वाताधिकमित्यादि| अनयोः शीतपित्तोदर्दयोः समानसंस्थानत्वेऽपि वाताधिकं शीतपित्तं, कफाधिक उदर्दः||३-४||

Adhikarana उदर्दस्य धर्मान्तरम् (५) · Śloka

सोत्सङ्गैश्च सरागैश्च कण्डूमद्भिश्च मण्डलैः | शैशिरः कफजो व्याधिरुदर्द इति कीर्तितः ||५||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

उदर्दस्य धर्मान्तरमाह– सोत्सङ्गैरित्यादि| उत्सङ्गैः मध्यनिम्नैः| शैशिर इति शिशिरसम्भवः||५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

उदर्दस्य धर्मान्तरमाह– सोत्सङ्गैरित्यादि| मध्यनिम्नैः, शैशिरः शिशिरसम्भवः||५||

Adhikarana कोठलक्षणम् (६) · Śloka

असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः | मण्डलानि सकण्डूनि रागवन्ति बहूनि च | उत्कोठः सानुबन्धश्च कोठ इत्यभिधीयते ||६||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

त्वग्दुष्टिसाम्यादत्रैव कोठोऽभिधीयते– असम्यग्वमनेत्यादि| असम्यक्त्वं वमनस्यायोगमिथ्यायोगादिना, तथोदीर्णानां पित्तश्लेष्मान्नानां निग्रहो वेगविधारणं, तैर्मण्डलानि जायन्ते, स कोठः| अथवाऽयमर्थः– असम्यग्वमनोदीर्णौ पित्तश्लेष्माणौ, तथाऽन्ननिग्रह उपस्थितवेगस्यान्नस्य निग्रहः छर्दिनिग्रहः इति यावत्, तैर्हेतुभिर्भवन्ति| वमनस्य चासम्यक्त्वमयोगमिथ्यायोगाभ्यां ज्ञेयम्, अतियोगस्य तु पित्तश्लेष्मकोठाकरत्वात्| एतेन हेतुलक्षणभेदाद्भिन्नः कोठ उदर्दात्| कोठो निरनुबन्धः| तथा चोक्तम्– “क्षणिकोत्पादविनाशः कोठ इति निगद्यते तज्ज्ञैः|” इति सानुबन्ध उत्कोठोऽभिधीयते| सानुबन्धता च पुनःपुनर्भवनेन||६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

त्वग्दोषसामान्यादत्रैव कोठः प्रोच्यते| सानुबन्ध उत्कोठोऽभिधीयते| असम्यक्त्वं वमनस्यायोगमिथ्यायोगादिना, उदीर्णानि प्रेरितानि पित्तश्लेष्मान्नानि, तेषां निग्रहैः शरीरे मण्डलानि वर्तुलकमलादीनि अतिकण्डुमन्ति लौहित्ययुक्तानि बहूनि च जायन्ते, अथवाऽयमेवार्थः– असम्यग्वमनेनोदीर्णौ पित्तश्लेष्माणौ, तथाऽन्ननिग्रहः उपस्थितवेगस्यान्नस्य निग्रहः छर्दिनिग्रह इति यावत्, तैर्भवन्ति| वमनस्य चासम्यक्त्वमयोगमिथ्यायोगाभ्यां ज्ञेयम्, अतियोगस्य पित्तश्लेष्मकोपकत्वात्, एतेन हेतुलक्षणभेदाद्भिन्नः कोठ उदर्दादिति| कोठो निरनुबन्धः, तथा चोक्तम्– “क्षणिकोत्पादविनाशः कोठ इति निगद्यते तज्ज्ञैः” इति| सानुबन्ध उत्कोठोऽभिधीयते| सानुबन्धता च पुनःपुनर्भवनेनेति||६||

Adhikarana पुष्पिका · Śloka ५०

इति श्रीमाधवकरविरचिते माधवनिदाने शीतपित्तोदर्दकोठानिदानं समाप्तम् ||५०||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां शीतपित्तोदर्दकोठनिदानं समाप्तम्||५०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां शीतपित्तोदर्दकोठनिदानम्||५०||