Adhikarana हिक्कानिदानम् (१-२) · Śloka २
अथ हिक्का-श्वासनिदानम् |
विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः |
शीतपानाशनस्थानरजोधूमातपानिलैः ||१||
व्यायामकर्मभाराध्ववेगाघातापतर्पणैः |
हिक्का श्वासश्च कासश्च नृणां समुपजायते ||२||
(सु. उ. तं. अ. ५०) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
समाननिदानत्वात् कासानन्तरं हिक्काश्वासौ| ननु, एतेषां प्रायस्तुल्यनिदानचिकित्सितत्वेनैकाधिकारे कथमनभिधानम्? उच्यते– यद्यपि कासश्वासहिक्कानां निदानं समानं, तथापि कासस्य दोषभेदाद्भेदः; यथा– वातिकः, पैत्तिकः, श्लैष्मिक इत्यादि; हिक्काश्वासौ तु कफवातात्मकावेव; यदाह दृढबलः– “कफवातात्मकावेतौ पित्तस्थानसमुद्भवौ|” (च. चि. अ. १७) इति| सुश्रुतोऽप्याह– “वायुः कफेनानुगतः पञ्च हिक्काः करोति हि|” (सु. उ. तं. अ. ५१) इति| भेदस्त्वनयोः सम्प्राप्तिभेदाद्वेगक्रियादिना च, नतु कासवद्दोषभेदेन; श्वासकासाभ्यां हिक्कायाः स्वनतोऽपि भेदः| पित्तस्थानसमुद्भवाविति विशेषणं सुश्रुतमते क्षुद्रां न प्राप्नोति, सा हि ‘जत्रुमूलात् प्रधाविता’ इति पठ्यते; चरकमते तु व्यपेतां न प्राप्नोति, साऽपि ‘जत्रुमूलादसन्तता’ इति पठ्यते; तस्मात् पित्तस्थानसमुद्भवाविति विशेषणं छत्रिणो गच्छन्तीति न्यायेन बोध्यम्| शीतशब्दः पानादिभिस्त्रिभिः सम्बध्यते| रजो धूलिः, सा च धूमवन्नासादिप्रवेशात् कारणम्| व्यायामकर्म धनुराकर्षणादिव्यापारः, वेगाघातो मलादिवेगविधारणम्, अपतर्पणमनशनादि| कासश्चोक्तोऽप्येकनिदानत्वप्रतिपादनार्थं पुनरभिहित इति||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
समाननिदानत्वात्कासनिदानानन्तरं हिक्काश्वासावाह– विदाहीत्यादि| विदाहीनि यान्त्रिकेक्षुरसमद्यमरिचादीनि विदहनशीलानि, गुरूणि गुणतः पाकतश्च, विष्टम्भीनि चणकादीनि, अभिष्यन्दीनि आभिमुख्येन स्यन्दितुं शीलं येषां तान्यभिष्यन्दनशीलानि फाणितमाषमत्स्यक्षीरादीनि| शीतशब्दः पानादिभिस्त्रिभिः सम्बध्यते; रजो धूलिः, सा च धूमवत् नासादिप्रवेशात् कारणम्| व्यायामकर्म धनुराकर्षणादिव्यापारः, वेगाघातो मलादिवेगधारणम्, अपतर्पणमनशनादि| त्रयाणामेककारणत्वेन कथं भेदः? उच्यते– दोषजन्यभेदाद्भेदः| कासो वातिकः, पैत्तिकः, श्लैष्मिकश्च; हिक्काश्वासौ तु कफवातात्मकावेव| यदुक्तं दृढबलेन– “कफवातात्मकावेतौ पित्तस्थानसमुद्भवौ” इति| सुश्रुतेऽपि– “वायुः कफेनानुगतः पञ्च हिक्काः करोति हि” इति||१||२||
Adhikarana हिक्कानां स्वरूपं निरुक्तिश्च (३) · Śloka ३
मुहुर्मुहुर्वायुरुदेति सस्वनो यकृत्प्लीहान्त्राणि मुखादिवाक्षिपन् |
स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केत्यभिधीयते बुधैः ||३||
(सु. उ. तं. अ. ५०) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
हिक्कानां स्वरूपं निरुक्तिं चाह– मुहुर्मुहुरित्यादि| वायुरत्र सोदानः प्राण इत्याहुः| उदेति ऊर्ध्वं गच्छति| सस्वन इति ‘हिक्’ इति शब्दवान्| ऊर्ध्वगमनमेव विशिनष्टि– यकृदित्यादि| अत्र प्लिहेति ह्रस्वेकारश्छन्दोनुरोधात्| मुखादिति ल्यब्लोपे कर्मणि पञ्चमी, तेन यकृत्प्लीहान्त्राणि मुखमानीय, आक्षिपन् निःसारयन्निवेत्यर्थः| स इति वायुः| ‘हिनस्त्यसून्’ इति हिक्केति निरुक्तिः पृषोदरादिना रूपसिद्धिः| ‘हिगिति कृत्वा कायति शब्दायते इति हिक्का’ शाब्दिकाः||३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
सम्प्राप्तिमाह– मुहुर्मुहुरित्यादि| वायुरिति, सोदानः प्राणो वायुः सस्वनः शब्दवान्, मुहुर्वारंवारम्, उदेति ऊर्ध्वं गच्छति, ऊर्ध्वगतत्वात्| यकृत्प्लीहान्त्राणि मुखादिवेत्यत्र मुखशब्देन प्राणोदकान्नवाहीनि स्रोतांसि भण्यन्ते; उक्तं च तन्त्रान्तरे– “प्राणोदकान्नवाहीनि स्रोतांसि विकृतोऽनिलः| हिक्काः करोति संरुध्य तासां लिङ्गं पृथक्छृणु” इति| हिक्काशब्दोऽत्र द्विरावर्तयितव्यः; तेन हिक्केति हिक्कास्वरूपकथनं स्यात्, स घोषवानित्यादिना हिक्कानिरुक्तिकथनमिति| सस्वन इत्यनेन गतत्वात् स घोषवानित्यभिधानं निरुक्तिप्रदर्शनार्थम्| स इति वायुः, हिनस्त्यसूनिति हिक्केति पृषोदरादित्वात्साधुः| हिगिति कृत्वा कायति शब्दायते इति हिक्केति शाब्दिकाः||३||
Adhikarana हिक्कासम्प्राप्तिः भेदाश्च (४) · Śloka ४
अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा |
वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ||४||
(सु. उ. तं. अ. ५०) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तासां भेदं सम्प्राप्तिं चाह– अन्नजामित्यादि| यमलैव चरके व्यपेतेति नाम्ना पठिता, अन्नपाने व्यपेते परिणते जायते इत्यतो हेतोः; अस्यां चानुक्तमपि यमलवेगत्वं सुश्रुतदर्शनाद्विज्ञेयम्| अन्नजायाः साध्यत्वेन प्राशस्त्यात् पूर्वमभिधानम्||४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तासां भेदं सम्प्राप्तिं चाह– अन्नजामित्यादि| अन्नजेत्यादीनि तासां नामानि||४||
Adhikarana हिक्कापूर्वरूपम् (५) · Śloka ५
कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता |
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ||५||
(च. चि. अ. २१) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पूर्वरूपमाह– कण्ठोरसोरित्यादि| वदनस्य कषायता वातात्, नतु कफान्माधुर्यं, व्याधिप्रभावात्||५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पूर्वरूपमाह– कण्ठ इत्यादि| वदनस्य कषायता वातात्, न तु कफान्माधुर्यं; व्याधिप्रभावात्| कुक्षेरुदरस्य, आटोपः पूर्णत्वमिव||५||
Adhikarana अन्नजाहिक्कालक्षणम् (६) · Śloka ६
पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनिलः |
हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ||६||
(सु. उ. तं. अ. ५०) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अन्नजाया लक्षणमाह– पानान्नैरित्यादि| हिक्कयति हिक्कां करोति||६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अन्नजालक्षणमाह– पानान्नैरित्यादि| शीतैरिति शेषः| अतिसंयुक्तैरिति उपर्युपर्यत्युपयुक्तैः| सहसा पीडितोऽनिलो हृदिस्थः प्राणो वायुरूर्ध्वगतत्वाद्धिक्कयति हिक्कां करोति, सा हिक्का अन्नजेति कथ्यते||६||
Adhikarana यमलाहिक्कालक्षणम् (७) · Śloka ७
चिरेण यमलैर्वेगैर्या हिक्का सम्प्रवर्तते |
कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत् ||७||
(सु. उ. तं. अ. ५०) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
यमलामाह– चिरेणेत्यादि| कम्पयन्ती शिरोग्रीवमित्युपलक्षणं, तेन चरकक्तप्रलापमूर्छावमितृष्णावैचित्त्यजृम्भाविप्लुताक्षत्वमुखशोषा बोध्या इति गयदासः||७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
यमलामाह– चिरेणेत्यादि| या हिक्का यमलैर्वेगैर्युग्मैरुपक्रमैः शिरोग्रीवं कम्पयति चरकलेन प्रवर्तते तां नामतो यमलामाहुः||७||
Adhikarana क्षुद्राहिक्कालक्षणम् (८) · Śloka ८
प्रकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते |
क्षुद्रिका नाम सा हिक्का जत्रुमूलात् प्रधाविता ||८||
(सु. उ. तं. अ. ५०) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्षुद्रामाह– प्रकृष्टेत्यादि| प्रकृष्टकालैश्चिरेण| जत्रु कण्ठोरसोः सन्धिरिति जेज्जटः; जत्रु ग्रीवामूलं, तद्ग्रहणेनैव हृदयक्लोमकण्ठग्रहणमिति गयदासः||८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
क्षुद्रामाह– विकृष्टकालैरित्यादि| विकृष्टकालैरचरकलैः मन्दवेगैः| जत्रुः कक्षोरसोः सन्धिरिति जेज्जटः, जत्रुमूलग्रहणेन हृदयक्लोमकण्ठस्य ग्रहणमिति गयदासः| इयं नामतः क्षुद्रिका||८||
Adhikarana गम्भीराहिक्कालक्षणम् (९) · Śloka ९
नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी |
अनेकोपद्रववती गम्भीरा नाम सा स्मृता ||९||
(सु. उ. तं. अ. ५०) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
गम्भीरामाह– नाभीत्यादि| नाभिप्रवृत्तेति नाभितः प्रभृति सञ्जाता, अत एवास्या गम्भीरत्वम्| अनेकोपद्रववती तृष्णाज्वरादियुक्ता||९||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
गम्भीरामाह– नाभीत्यादि| य हिक्का नाभिप्रवृत्तेति नाभितः प्रवृत्ता सञ्जाता, अत एवास्या गम्भीरत्वम्| अनेकोपद्रववती तृष्णाज्वरादियुक्ता| सेयं नामतो गम्भीरा||९||
Adhikarana महतीहिक्कालक्षणम् (१०) · Śloka १०
मर्माण्युत्पीडयन्तीव सततं या प्रवर्तते |
महाहिक्केति सा ज्ञेया सर्वगात्रविकम्पिनी ||१०||
(सु. उ. तं. अ. ५०) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
महतीमाह– मर्माणीत्यादि| मर्माणीति प्रधानानि बस्तिहृदयशिरांसि, इयं नामतो महाहिक्का||१०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
महतीमाह– मर्माणीत्यादि| मर्माणीति प्रधानानि बस्तिहृदयशिरांसि, ||१०||
Adhikarana हिक्काया असाध्यलक्षणम् (११-१४) · Śloka १४
आयम्यते हिक्कतो यस्य देहो दृष्टिश्चोर्ध्वं नाम्यते यस्य नित्यम् |
क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं तौ द्वौ चान्त्यौ वर्जयेद्धिक्कमानौ ||११||
अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च |
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः ||१२||
आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम् |
यमिका च प्रलापार्तिमोहतृष्णासमन्विता ||१३||
अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः |
तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा ||१४||
(च. चि. अ. २१) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अवस्थायामसाध्यत्वमाह– आयम्यत इत्यादि| आयम्यते विस्तार्यत इव| दृष्टिश्चोर्ध्वं ‘भवति’ इति शेषः| नाम्यते आकुञ्च्यते देह इति सम्बन्ध इति जेज्जटगयदासौ| ‘ताम्यति’ इति पाठान्तरे मुह्यति हिक्की| क्षौति छिक्कति| तौ द्वाविति आयम्यत इत्यादिना नित्यमित्यन्तेनैकावस्थो हिक्की, क्षीणेत्यादिनाऽतिमात्रान्तेनापरः; साध्यानामपि मध्ये एवंविधौ वर्जयेदित्यर्थः| गम्भीरामहत्योः स्वभावादेवासाध्यत्वमिति तद्युक्तौ हिक्कमानावन्त्यौ शेषपठितावसाध्यौ; पाठान्तराणि व्याख्याविशेषाश्च विस्तरभयान्न लिखिताः| आसां या सेति आसां साध्यहिक्कानां मध्ये याऽतिसञ्चितदोषादेर्भवति सा हन्तीति योज्यम्; अथवा आसामिति पञ्चविधानामेव| तेन महतीप्रभृतीनां स्वरूपेण यदसाध्यत्वमुक्तं तत् प्रायिकम्| यदाह जतूकर्णः– “ आद्या दुःसाध्या यमिका मोहतृष्णावतः सद्यःप्राणहृत्|” इति| यमिकेत्यादि| यमिका चेत्यनेन चकारात् क्षुद्रा अन्नजा वा या साध्यत्वेनोक्ता सा यमलैर्वेगैर्जायमाना हन्तीति योज्यम्| सैवाक्षीणादेः साध्या भवतीत्याह– अक्षीण इत्यादि| अक्षीणो बलवान्| अदीनः प्रसन्नमनाः| अन्ये तु अन्नजां यमलामित्यादिसुश्रुतग्रन्थपठितां यमलां यमिकाशब्देन व्याचक्षते| तन्न, यमिका च प्रलापार्तीत्यादिश्लोकश्चरके पठितः, अत्र यमला यमिकानाम्ना न पठितैव हिक्केति| यमिकाशब्देनैवार्थगत्या व्यपेतोच्यतेति चेत्, न, तर्हि व्यपेता च प्रलापार्तीत्येवमभिदध्यात्||११-१४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अवस्थायामसाध्यलक्षणमाह– आयम्यत इत्यादि| आयम्यते विस्तार्यत इव देहः| दृष्टिश्चोर्ध्वं ‘भवति’ इति शेषः| नाम्यते आकुञ्चते देह इति सम्बन्ध इति जेज्जटगयदासौ| ‘ताम्यते’ इति पाठान्तरं, तत्र मुह्यतीत्यर्थः| यश्च क्षीणोऽन्नद्वेषी, अतिक्षौति छिक्कति तां हिक्कां वर्जयेत्, द्वौ चान्त्यौ वर्जयेत्| अन्त्याविति गम्भीरा महती चेति| साध्यानामप्यवस्थाविशेषेणासाध्यत्वमाह– अतिसञ्चितदोषस्येत्यादि| आसां साध्यानां मध्ये या हिक्का अतिसञ्चितदोषादेर्भवति सा नरं हन्तीति बोद्धव्यम्| महतीप्रभृतीनां तु स्वरूपेणैवासाध्यत्वमुक्तं तत्प्रायिकमिति| पुनरवस्थाविशेषेणासाध्यत्वमाह– यमिकेत्यादि| अत्रान्नजा क्षुद्रा च साध्यैव, यमलवेगवतोऽसाध्येत्युच्यते; न तु यमला, चरकोक्तत्वात्| अक्षीणो बलवान्, अदीनः प्रसन्नमनाः, स्थिराणि धात्विन्द्रियाणि यस्य स तथा; अन्यथा एतद्विपरीत इति||११-१४||
Adhikarana श्वासभेदाः (१५) · Śloka १५
महोर्ध्वच्छिन्नतमकक्षुद्रभेदैस्तु पञ्चधा |
भिद्यते स महाव्याधिः श्वास एको विशेषतः ||१५||
(सु. उ. तं. अ. ५१) |
(वाताधिको भवेत् क्षुद्रस्तमकस्तु कफोद्भवः |
कफवाताधिकश्चैव संसृष्टश्छिन्नसञ्ज्ञकः |
श्वासो मारुतसंसृष्टो महानूर्ध्वस्तथा(तो) मतः) |
(सु. उ. तं. अ. ५१) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
श्वासानाह– महोर्ध्वेत्यादि| एको विशेषत इति श्वासत्वेनैक एव सन् विशेषं हेतुलिङ्गभेदं प्राप्य पञ्चधा भिद्यते, पञ्चसु श्वासत्वं वेगवदूर्ध्ववातत्वं; यदुक्तमन्यैः– “श्वासस्तु भस्त्रिकाध्मानसमवातोर्ध्वगामिता|” इति| सङ्ख्येयनिर्देशादेव पञ्चप्रकारत्वे सिद्धे पञ्चवचनं तमकभेदस्य प्रतमकस्य पृथक्त्वसङ्ख्यानिरासार्थम्||१५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
हिक्काश्वासयोरेकहेतुत्वाद्धिक्कानन्तरं श्वासमाह– महेत्यादि| स महाव्याधिः श्वासत्वेन एक एव सन् विशेषहेतुलिङ्गभेदं प्राप्य महोर्ध्वादिभेदैः पञ्चधा भिद्यते| पञ्चस्वपि श्वासत्वं वेगवदूर्ध्ववातत्वम्| उक्तं च तन्त्रान्तरे– “श्वासस्तु भस्त्रिकाध्मानसमवातोर्ध्वगामिता” इति| सङ्ख्येयनिर्देशादेव पञ्चप्रकारके सिद्धे पञ्चवचनं तमकभेदस्य प्रतमकस्याधिक सङ्ख्यानिषेधार्थम्| तन्त्रान्तरे पञ्चानामपि दोषोत्कटत्वमुक्तम्– “वातेन क्षुद्रकः, श्लेष्मभूयिष्ठस्तमकः स्मृतः| छिन्नः पित्तप्रधानः स्यादन्यौ मारुतकोपजौ” इति||१५||
Adhikarana श्वासपूर्वरूपं, श्वाससम्प्राप्तिश्च (१६-१७) · Śloka १७
प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च |
आनाहो वक्त्रवैरस्यं शङ्खनिस्तोद एव च ||१६||
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः |
विष्वग्व्रजति संरुद्धस्तदा श्वासान् करोति सः ||१७||
(सु. उ. तं. अ. ५१) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
सम्प्राप्तिमाह– यदेत्यादि| स्रोतांसीति हिक्कानिर्दिष्टप्राणोदानवहानि | कफः पूर्वं प्रधानं यस्य स तथा| तेनैव कफेन रुद्धः विमार्गगतिर्विमार्गगत्वेन विष्वग्व्रजति विष्वगञ्चतीति विष्वक् सर्वत इत्यर्थः||१६-१७||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तस्य पूर्वरूपमाह– प्राग्रूपमित्यादि| शूलमुदरे, आध्मानमाटोपः, आनाहः आमं शकृद्वा विगुणानिलेन विबद्धम् (अयथावत्प्रवृत्तम्)| शङ्खनिस्तोदः शङ्खयोर्व्यथा|| तस्य सम्प्राप्तिमाह– यदेत्यादि| यदा कफपूर्वकः कफप्रधानो वायुः, तेनैव कफेन संरुद्धगतिः विमार्गगः, प्राणोदकान्नवाहीनि स्रोतांसि संरुध्य, विष्वग्व्रजति सर्वत्र प्रसरति, तदा श्वासान् करोति||१६-१७||
Adhikarana महाश्वासलक्षणम् (१८-२०) · Śloka २०
उद्धूयमानवतो यः शब्दवद्दुःखितो नरः |
उच्चैः श्वसिति संरुद्वो मत्तर्षभ इवानिशम् ||१८||
प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः |
विवृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् ||१९||
दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम् |
महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते ||२०||
(च. चि. अ. २१) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
महाश्वासलक्षणमाह– उद्धूयमानेत्यादि| उद्धूयमानवात इति उत् ऊर्ध्वं धूयमानो नीयमानो वातो यस्य स तथा| शब्दवत् सशब्दं यथा भवति| उच्चैर्दीर्घम्| संरुद्धो मत्तर्षभ इवेति स्वरविशेषज्ञापनार्थमयं दृष्टान्तः| ज्ञानं शास्त्रं, विज्ञानं तदर्थनिश्चयः| विभ्रान्तलोचनः चञ्चलनेत्रः| विवृते स्तब्धे अक्ष्यानने यस्य स तथा; नेत्रस्य विभ्रान्तस्तब्धत्वे कालभेदादिति जेज्जटः| विशीर्णवाक् वक्तुमक्षमः, मन्दवचनो वा| दीनः क्लान्तमनाः; हीनमिति पाठान्तरमयुक्तं, दूराद्विज्ञायते भृशमित्यनुपपत्तेरित्याहुः||१८-२०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
महाश्वासलक्षणमाह– उद्धूयमानेत्यादि| उत् ऊर्ध्वं धूयमानो वातो यस्य स तथा, शब्दवत् सशब्दो यथा भवति तथा, एवमुच्चैः श्वसिति, दुःखितो दुःखयुक्तः, अनिशमनवरतम्, क इव? संरुद्धो मत्तर्षभ इव मत्तमहोक्ष इव, स्वरविशेषज्ञापनार्थमयं दृष्टान्तः| ज्ञानं शास्त्रं, विज्ञानं तदर्थनिश्चयः| विभ्रान्तलोचनश्चञ्चलाक्षः| विवृते स्तब्धे अक्षिणी नयने आननं च यस्य स तथा| नेत्रस्य विभ्रान्तस्तब्धत्वे कालभेदादिति जेज्जटः| विशीर्णवाक् वक्तुमक्षमो मन्दवचनो वा| दीनः क्लान्तमनाः| अस्य च श्वासवतः श्वसितमत्यर्थं दूरादेव श्रूयते| अनेन महाश्वासेनोपसृष्टो युक्तः शीघ्रमेव विनश्यति||१८-२०||
Adhikarana ऊर्ध्वश्वासलक्षणम् (२१-२३) · Śloka २३
ऊर्ध्वं श्वसिति यो दीर्घं न च प्रत्याहरत्यधः |
श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः ||२१||
ऊर्ध्वदृष्टिर्विपश्यंस्तु विभ्रान्ताक्ष इतस्ततः |
प्रमुह्यन् वेदनार्तश्च शुक्लास्योऽरतिपीडितः ||२२||
ऊर्ध्वश्वासे प्रकुपिते ह्यधःश्वासो निरुध्यते |
मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून् ||२३||
(च. चि. अ. २१) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
ऊर्ध्वश्वासलक्षणमाह– ऊर्ध्वमित्यादिना| ऊर्ध्वमिति विशेषपरं, सर्वश्वासानां तथाविधत्वात्| दीर्घमिति दीर्घकालम्| नच प्रत्याहरत्यध इति न श्वासमधः करोति दीर्घकालमित्यर्थः| श्लेष्मावृतमुखस्रोता इति श्लेष्मणा आवृतानि मुखं स्रोतांसि च यस्य स तथा| क्रुद्धगन्धवहार्दितः कुपितवातपीडितः; समस्तपाठे तु श्लेष्मावृतमुखस्रोतस्त्वेन क्रुद्धो यो गन्धवहस्तेनार्दितः| विपश्यंस्तु इतस्तत इति इतस्ततो विकृतिं पश्यन्| ‘ऊर्ध्वं श्वसिति यो दीर्घं न च प्रत्याहरत्यधः’ इति यदुक्तं तत्र हेतुमाह– ऊर्ध्वश्वास इत्यादि| निरुध्यत इति हृदय एवातिस्तम्भितः| अथवा श्वासो वातः सोऽधो न वर्तते| ऊर्ध्वं श्वास ऊर्ध्वश्वासः| ताम्यतो ग्लायतो मुह्यतश्चासून् प्राणान् हन्ति, नान्यथेति||२१-२३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
ऊर्ध्वश्वासमाह– ऊर्ध्वमित्यादि| ऊर्ध्वश्वासे पुमान् दीर्घकालमूर्ध्वं श्वासिति, न च प्रत्याहरत्यध इति न श्वासमधः करोति दीर्घकालमित्यर्थः; सर्वश्वासानामूर्ध्वगत्वादत्रोर्ध्वमिति विशेषपरम्| श्लेष्मणा आवृतं मुखं स्रोतांसि च यस्य स तथा; अथवा श्लेष्मावृतानि मुखसम्बन्धीनि स्रोतांसि यस्य स तथा| क्रुद्धगन्धवहार्दितः कुपितवातपीडितः, अथवा श्लेष्मावृतमुखस्रोतस्त्वेन क्रुद्धो यो गन्धवहस्तेनार्दितः| ऊर्ध्वं दृष्टिर्दर्शनं यस्य स ऊर्ध्वदृष्टिः| विपश्यन्नितस्ततो विकृतं पश्यन्, विभ्रान्ताक्षः परिक्षिप्तनेत्रः, प्रमुह्यन् मोहमुपगच्छन्, शुष्कास्यः शुष्कमुखः, अरतिः कस्मिन्नपि विषये न चिरावस्थितिः| ऊर्ध्वं श्वसिति न चाधः प्रत्याहरतीति यदुक्तं तत्र हेतुमाह– ऊर्ध्वेत्यादि| निरुध्यत इति हृदय एव स्तम्भितः स्यात्, अथवा श्वासो वातः सोऽधो न प्रवर्तते ऊर्ध्वश्वासे| ताम्यतो ग्लायतः; मुह्यतस्तमसि मज्जत इव, अथवा निश्चेष्टावतः, तस्यैवंविधपुरुषस्य असून् प्राणान् हन्ति नान्यथेति||२१-२३||
Adhikarana छिन्नश्वासलक्षणम् (२४-२६) · Śloka २६
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः |
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः ||२४||
आनाहस्वेदमूर्छार्तो दह्यमानेन बस्तिना |
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः ||२५||
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः |
छिन्नश्वासेन विच्छिन्नः स शीघ्रं विजहात्यसून् ||२६||
(च. चि. अ. २९) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
छिन्नश्वासलक्षणमाह– यस्त्वित्यादि| विच्छिन्नं सविच्छेदम्| सर्वप्राणेन न वा श्वसिति श्वासं न लभते| मर्मच्छेदरुगर्दित इति हृदयच्छेदवेदनया पीडितः| दह्यमानेन बस्तिनोपलक्षितः, एतेन वातस्य पित्तानुबन्धो दर्शितः| विप्लुताक्षः चञ्चलनेत्रोऽश्रुपूर्णचक्षुर्वा| रक्तैकलोचनत्वं व्याधिप्रभावात्, दोषात्तु द्वयोरपि स्यात्| विचेता उद्विग्नचित्तः| विच्छिन्नो विमोक्षितसन्धिः, ‘पीडित’ इत्यन्ये; ‘विहतः’ इति पाठान्तरम्||२४-२६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अथ छिन्नं लक्षयति– य इत्यादि| विच्छिन्नमिव विच्छिन्नमन्तराऽन्तरा विच्छिद्यमानमनुवर्तते सान्तरायमित्यर्थः| सर्वप्राणेन समस्तया शक्त्या, दुःखार्तः सन्, न वा श्वसिति| मर्मच्छेदरुगर्दित इति मर्माणि हृदयबस्तिशिरांसि तेषां छेदनेनेव पीडितः| दह्यमानेन बस्तिनोपलक्षितः| एतेन वातस्य पित्तानुबन्धो दर्शितः| विप्लुताक्षः चलच्चक्षुः अश्रुपूर्णचक्षुर्वा| रक्तैकलोचनत्वं व्याधिदोषात्, अन्यथा द्वयोरपि स्यात्||२४-२६||
Adhikarana तमकश्वासलक्षणम् (२७-३४) · Śloka ३४
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते |
ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च ||२७||
करोति पीनसं तेन रुद्धो घुर्घुरकं तथा |
अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम् ||२८||
प्रताम्यति स वेगेन तृष्यते सन्निरुध्यते |
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः ||२९||
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः |
तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम् ||३०||
तथाऽस्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम् |
न चापि लभते निद्रां शयानः श्वासपीडितः ||३१||
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः |
आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति ||३२||
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान् |
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते ||३३||
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते |
स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः ||३४||
(च. चि. अ. २१) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तमकश्वासलक्षणमाह– प्रतिलोममित्यादि| श्लेष्माणं समुदीर्य चेत्यनेन सामान्यसम्प्राप्तिलब्धस्यापि श्लेष्मणः पुनरभिधानादिह विशेषेण कारणत्वं बोधयति| तेन रुद्धः कफेनावृतः| घुर्घुरकं कण्ठे घुर्घुरशब्दम्| प्राणप्रपीडकं प्राणाधिष्ठानहृदयस्य पीडकम्| प्रताम्यति तमसि प्रविशतीव| सन्निरुध्यते ‘निश्चेष्टो भवति’ इति चक्रः, जेज्जटस्तु सन्निरुध्यते ‘श्वासः’ इति | तस्यैवेति श्लेष्मणः| सुखं सुखमिव| उद्ध्वंसते कण्डूयते| पार्श्वे इति कर्मपदम्, अवगृह्णाति पीडयति| उष्णमभिनन्दति वातकफारब्धत्वात्| उच्छ्रिताक्ष उच्छूननेत्रः| ललाटेनेत्युपलक्षणे तृतीया| अवधम्यते गजारूढस्येव सर्वगात्रं चाल्यते||२७– ३४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तमकलक्षणमाह– प्रतीत्यादि| यदि वायुः प्रतिलोमं वैपरीत्येन स्रोतांसि प्रतिपद्यते प्राप्नोति, तदा स वायुः श्लेष्माणं समुदीर्यं ऊर्ध्वप्रेरणया ग्रीवां शिरश्च सङ्गृह्य समन्तात् गृहीत्वा पीनसं करोति, पश्चात्तेनैवावृतः कण्ठे घुरघुरशब्दं करोति, प्राणप्रपीडकं प्राणाधिष्ठानहृदयप्रपीडकं श्वासं करोति, तेन श्वासवेगेन प्रताम्यति तमसि प्रविशतीवेति, सन्निरुध्यते निश्चेष्टो भवतीति चरकः, जेज्जटस्तु संरुध्यते ‘श्वासः’ इति शेषः| मुच्यमानेन कफेनातीव दुःखितो भवति| तस्यैव श्लेष्मणो विमोक्षान्ते मुहूर्तं सुखं प्राप्नोति | उद्ध्वंसते कण्डूयते| पार्श्वेऽवगृह्णाति पीडयति परं शयानस्य, आसीनः सन् सुखं लभते| उष्णमभिनन्दति वातकफारब्धत्वात्| उच्छ्रिताक्षः उच्छूनाक्षः, स्विद्यता ललाटेनोपलक्षितः| अवधम्यते गजारूढस्येवाखिलगात्रं चाल्यते||२७-३४||
Adhikarana प्रतमकश्वासलक्षणं, तस्यैवापरकारणं लक्षणं च (३५-३६) · Śloka ३६
ज्वरमूर्छापरीतस्य विद्यात् प्रतमकं तु तम् |
उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः ||३५||
तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति |
मज्जतस्तमसीवास्य विद्यात् सन्तमकं तु तम् ||३६||
(च. चि. अ. २१) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
तमकस्यैव पित्तानुबन्धत्वाज्ज्वरादियोगेन प्रतमकसञ्ज्ञामाह– ज्वरेत्यादि| ज्वरमूर्छाभ्यां परीतो ज्वरमूर्छापरीतः; ज्वरेण मूर्छा ज्वरमूर्छेति जेज्जटः| एतस्यैवापरकारणं लक्षणं चाह– उदावर्तेत्यादि| उदावर्तो रोगः, रजो धूलिः, अजीर्णमामादि, क्लिन्नं विदग्धं, काये वेगानां निरोधः कायनिरोधः; अथवा क्लिन्नकायो वृद्धनर इत्याहुः, निरोधः वेगनिरोधः, अथवा कुयोगिनां कुम्भकादिरूपवातनिरोध इति जेज्जटः| तमसा अन्धकारेण, मानसदोषेण वा; अत्यर्थमिति इतरकारणापेक्षया विशेषेण; वातकफारब्धोऽपि पित्तसम्बन्धात् शीतैरुपशाम्यतीत्याहुः| सन्तमकः प्रतमक एवेति| अन्ये तु उदावर्तेत्यादिना प्रतमकस्योपसर्गमाहुरिति जेज्जटः||३५-३६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तमकस्यैव पित्तानुबन्धकत्वाज्ज्वरादियोगेन प्रतमकसञ्ज्ञामाह– ज्वरेत्यादि| ज्वरमूर्छाभ्यां परीतो ज्वरमूर्छापरीतः, ज्वरेण वा मूर्छा, इति जेज्जटः| एतस्यैवापरलक्षणं कारणं चाह– उदावर्तेत्यादि| उदावर्तो रोगविशेषः, रजो धूलिः, अजीर्णमामादि, क्लिन्नं विदग्धं, कायवेगानां निरोधः, एतैर्हेतुभिः जनितः; अन्ये “क्लिन्नकायो वृद्धनरः” इत्याहुः, निरोधो वेगनिरोधः| जेज्जटस्तु कुयोगिनां कुम्भकादिवातनिरोधजः| तमसा अन्धकारेण, मानसतमोगुणादिदोषेण वा| अत्यर्थमिति इतरकारणापेक्षया विशेषेण वातकफारब्धपित्तसम्बन्धात्| शीतैरुपशाम्यतीति तमस्यन्धकारे मज्जत इवास्य पुरुषस्य तं प्रतमकमाहुः||३५-३६||
Adhikarana क्षुद्रश्वासलक्षणं, श्वासानां साध्यासाध्यविचारश्च (३७-४०) · Śloka ४०
रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन् |
क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः ||३७||
हिनस्ति न स गात्राणि न च दुःखो यथेतरे |
न च भोजनपानानां निरुणद्ध्युचितां गतिम् ||३८||
नेन्द्रियाणां व्यथां नापि काञ्चिदापादयेद्रुजम् |
स साध्य उक्तो, बलिनः सर्वे चाव्यक्तलक्षणाः ||३९||
(च. चि. अ. २१) |
क्षुद्रः साध्यो मतस्तेषां तमकः कृच्छ्र उच्यते |
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च ||४०||
(सु. उ. तं. अ. ५१) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
क्षुद्रश्वासमाह– रूक्षेत्यादि| रूक्षमन्नपानम्| क्षुद्रोऽल्पनिदानलिङ्गः| उदीरयन् ऊर्ध्वं गच्छन्| इतरे उर्ध्वश्वासादयः| स साध्य उक्त इति छेदः| सर्वे महाश्वासादयोऽव्यक्तलक्षणाः सन्तः साध्या इति योज्यम्| त्रयः श्वासा न सिध्यन्ति महोर्ध्वच्छिन्नाः सम्पूर्णलक्षणाः ||३७-४०||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
क्षुद्रमाह– रूक्षेत्यादि| रूक्षमन्नपानम्, आयासो व्यायामः, तज्जनितः| क्षुद्र इति क्षुद्रश्वासः, अल्पनिदानलिङ्गत्वात् क्षुद्रः| कोष्ठे वातं प्रकोपयत् क्षुद्रश्वासं करोति| स दुःखेन क्षुद्रश्वासः नाङ्गप्रबाधको भवति| किन्तु स गात्राणि न हिनस्ति मारणात्मको न भवति| न च दुःखकारी यथा इतरे चत्वारः| इन्द्रियाणां व्यथां नापादयेत्| काञ्चिदपि रुजं रोगं नापादयेत्| सर्वेषां साध्यत्वमाह– स इत्यादि| स क्षुद्रश्वासो बलिनः पुरुषस्य साध्यः, सर्वे महाश्वासादयोऽव्यक्तलक्षणाः सन्तः साध्या इति योज्यम्| साध्यासाध्यानाह– क्षुद्र इत्यादि| तेषां श्वासानां क्षुद्रः साध्यतमः, तमको याप्यः, महोर्ध्वच्छिन्नास्त्रयः सम्पूर्णलक्षणा असाध्याः, दुर्बलस्य तमकोऽसाध्यः||३७-४०||
Adhikarana उपेक्षणासम्यगुपक्रमाभ्यां हिक्काश्वासयोः शीघ्रावश्यमारकत्वम् (४१) · Śloka ४१
कामं प्राणहरा रोगा बहवो न तु ते तथा |
यथा श्वासश्च हिक्का च हरतः प्राणमाशु च ||४१||
(च. चि. अ. २१) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
उपेक्षणासम्यगुपक्रमाभ्यां हिक्काश्वासयोः शीघ्रावश्यमारकत्वमाह– काममित्यादि| काममनुमतौ, प्राणहराः सन्निपातज्वरादयः| शेषं सुबोधमिति||४१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
हिक्काश्वासयोः शीघ्रावश्यमारकत्वमाह– काममित्यादि| काममित्यनुमतौ, प्राणहराः सन्निपातादयो रोगाः बहवः सन्ति, ते तथा प्राणहरा न भवन्ति, यथा श्वासश्च हिक्का च एतौ रोगावाशु शीघ्रं प्राणान् हरतः||४१||
Adhikarana पुष्पिका · Śloka १२
इति श्रीमाधवकरविरचिते माधवनिदाने हिक्काश्वासनिदानं समाप्तम् ||१२||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां हिक्काश्वासनिदानं समाप्तम्||१२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानटीकायामातङ्कदर्पणाभिधायां श्वासनिदानं समाप्तम्||१२||