Skip to content

२९. शस्त्रकर्मविधिरध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

अस्मादनन्तरं शस्त्रकर्मविध्यध्यायः प्रस्तूयते| यतोऽनन्तरातीतेऽध्याये (श्लो. २५)-"शस्त्रेण वा विशस्यादौ" इत्युक्तम्| अतस्तस्यैव शस्त्रकर्मणो विधानं वक्तुं युक्तमित्याह-

Adhikarana शस्त्रकर्मविधिरध्यायः (२) · Śloka

अथातः शस्त्रकर्मविधिमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शस्त्रस्य कर्म शस्त्रकर्म,- शस्त्रावचारणक्रिया, तस्य विधिः-इतिकर्तव्यता, शस्त्रकर्मविधिः, तम्| शेषं पूर्ववत्| ननु, यद्ययं शस्त्रकर्मविधिः, ततः शस्त्रकर्मग्रन्थ एवादौ निर्देष्टुं युक्तः, (श्लो. १४)- "प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदन्नमातुरम्|" इत्यादि| न तु "व्रणः सञ्जायते प्रायः" इत्यादि| अत्रोच्यते| शस्त्रकर्मविधेः पूर्वं विषयो निर्दिष्टुं युक्तः| यतः शस्त्रकर्मविधेरुपायोऽयम्, इत्यस्यैव पूर्वमुपन्यासो युक्त इत्याह-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शस्त्रकर्मविधिमध्यायं व्याख्यातुं प्रतिजानीते-अथेति|

Adhikarana शस्त्रकर्मविषयस्य व्रणस्योत्पत्तिः व्रणस्योत्पत्तिप्रतिबन्धः (१-२) · Śloka

व्रणः सञ्जायते प्रायः पाकाच्छ्वथुपूर्वकात्| तमेवोपचरेत्तस्माद्रक्षन् पाकं प्रयत्नतः||१|| सुशीतलेपसेकास्रमोक्षसंशोधनादिभिः| |२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्रायो व्रणः पाकात् सञ्जायते| किम्भूतात् ? श्वयथुः पूर्वो यस्य पाकस्य स श्वयथुपूर्वकः, तस्मात्| श्वयथुपाकमन्तरेणापि शस्त्राद्यभिघातात् व्रणो जायत इति प्रायोग्रहणम्| यस्माच्छ्वयाथुपूर्वकात् पाकात् व्रणः सञ्जायते, अतस्तमेव-श्वयथुं, उपचरेत्-उपक्रमेत्| किं कुर्वन् ? पाकं प्रयत्नेन रक्षन्| कथम् ? सुशीतलेपसेकादिभिः| सुशीताभ्यां-स्पर्शतो वीर्यतश्च, लेपसेकाभ्याम्| तथा, रक्तमोक्षणेन| तथा, संशोधनेन-वमनेन विरेकेण च| आदिग्रहणात् कषायपानघृतपानादीनां ग्रहणम्| तस्य च शोफस्यामपच्यमानपक्वाख्यातिस्तिस्रोऽवस्था भवन्तीत्याह-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शस्त्रकर्मविषयस्य व्रणस्योत्पत्तिमाह-व्रण इति|व्रणस्योत्पत्तिप्रतिबन्धमाह-तमेवेति| तमेव-श्वयथुमेव| शस्त्रकर्मणि भेषजविधानं भेषजासाध्ये शस्त्रकर्म विधातव्यमिति ज्ञापनार्थम्| उक्तं हि सङ्ग्रहे (सू. अ. ३८)- "द्विविधेऽपि हि व्याधावुपायापेक्षे निज आगन्तौ वा भेषजविषयातीते शस्त्रकर्म प्रयुज्यते|" इति|

Adhikarana अपक्वस्य श्वयथोर्लक्षणम् (२) · Śloka

| शोफोऽल्पोऽल्पोष्मरुक्सामःसवर्णः कठिनः स्थिरः||२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आमो यः शोफः सः प्रमाणतोऽल्पः| तथा, अल्पोष्मा| तथा, अल्परुक्-अल्पशूलः| तथा, सवर्णः-त्वक्समानवर्णः| तथा, कठिनो-न मृदुः, पक्ववत्| तथा, स्थिरो-न पक्ववच्चलः| स आमः साम इति "सोऽचि लोपे चेत्पादपूरणम्" इति सुलोपः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अपक्वस्य श्वयथोर्लक्षणमाह-शोफ़ इति| आमः-अपक्वः| ऊष्मा-औष्ण्यम्| रूक्-शूलम्| स्थिरः-शनैर्वर्धमानः|

Adhikarana पच्यमानस्य लक्षणम् (३-४) · Śloka

पच्यमानो विवर्णस्तु रागी बस्तिरिवाततः| स्फुटतीव सनिस्तोदः साङ्गमर्दविजृम्भिकः||३|| संरम्भारुचिदाहोषातृड्ज्वरानिद्रतान्वितः| स्त्यानं विष्यन्दयत्याज्यं व्रणवत्स्पर्शनासहः||४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स शोफः पच्यमानो विवर्णो-न त्वक्समानवर्णः| तथा रागी-लोहितवर्णः| तथा, बस्तिरिवाततः-स्तब्धो वातपूर्णदृतिवत्| छागादीनां तु मूत्राधारो बस्तिरित्युच्यते| तथा, स्फुटतीव| { तथा, } सनिस्तोदः-सह निस्तोदेन वर्तत इति सनिस्तोदः| नियतप्रबन्धप्रवृत्ता रूक्-निस्तोदो, विच्छिन्ना तु शूलमित्युच्यते| साङ्गेत्यादि| अङ्गानां मर्दः- क्षोभः, सहाङ्गमर्दविजृम्भिकायां वर्तत इति साङ्गमर्दविजृम्भिकः| तथा, संरम्भादिभिर्युतः| अन्वितशब्देन प्रत्येकं संरम्भादीनां सम्बन्धः| संरम्भो-वाग्विषयातीतानां स्वसंवेद्यानामनेकरूपाणां पीडनविघट्टनच्छेदनभेदनदंशनादीनां रूजां प्रादुर्भावः| सर्वाङ्गीणस्तीव्रो-दाहः| अरतिमान् दाह उषा उच्यते| तथा, स पच्यमानो घृतं स्त्यानमुपयुक्तं विलीनयति| तथा, स्पर्शनं न सहते व्रणवत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पच्यामानस्य शोफ़स्य लक्षणमाह-पच्यमान इति| विवर्णः-त्वाग्विपरीतवर्णः| रागी-रञ्जनशक्तिमान्, लेपौषधं वर्णन्तरं नयतीत्यर्थः| स्फ़ुटति-विष्लिष्टावयत्वं व्रजति| संरम्भो-झटिति रुजादिवृद्धिः|

Adhikarana पक्वस्यलक्षणम् (५-६) · Śloka

पक्वेऽल्पवेगता ग्लानिः पाण्डुता वलिसम्भवः| नामोऽन्तेषून्नतिर्मध्ये कण्डूशोफादिमार्दवम्||५|| स्पृष्टे पूयस्य सञ्चारो भवेद्बस्ताविवाम्भसः| |६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पक्वे सति, अल्पवेगता भवति, न तु संरम्भः| तथा, ग्लानिः-म्लानत्वम्| तथा, पाण्डुत्वं वलीनां चोद्भवः| तथा, अन्तेषु-पर्यन्तेषु, नामो-निम्नत्वम्, मध्य उन्नतिः| नामोऽन्तेष्वित्युक्त्यैव मध्य उन्नतित्वं लब्धमेव, उन्नतिग्रहणं त्वतिशयार्थम्, तेनोत्तुण्डित्वं गम्यते| तथा, कण्ड्वादिमृदुत्वं स्यात्| तथा, स्पृष्टे तस्मिन् सति पूयस्य सञ्चारो भवति, बस्तेरन्तःस्थितस्य यथाऽम्भसः सञ्चारः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पक्वस्य शोफ़स्य लक्षणमाह-पव्क इति| अल्पवेगता-उपद्रवाल्पत्वम्| कण्डूशोफ़ादयो लक्षणानि| उपद्रवास्तु-अङ्गमर्दादयः|

Adhikarana पाकस्य रक्तदोषत्रयकार्यत्वम् (६-७) · Śloka

| शूलं नर्तेऽनिलाद्दाहः पित्ताच्छोफः कफोदयात्||६|| रोगो रक्ताच्च पाकः स्यादतो दोषैः सशोणितैः| |७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातं विना शूलं न भवति| पित्तमन्तरेण दाहो न स्यात्| कफोदयाद्विना शोफो न स्यात्| शोफः कफादिति वक्तव्य उदयग्रहणं विशेषद्योतनार्थम्| रक्तादृते-रक्तं विना, रागस्य लौहित्यस्य सम्भवो न| तेन कफाधिकैः सर्वैर्दोषैः शोणितसहितैः श्वयथुपाकः स्यादिति गम्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- रक्तदोषत्रयकार्यत्वं पाकस्याह-शूलमिति|

Adhikarana अतिपक्वस्य लक्षणम् (७-८) · Śloka

| पाकेऽतिवृत्ते सुषिरस्तनुत्वग्दोषभक्षितः||७|| वलीभिराचितः श्यावः शीर्यमाणतनूरुहः| |८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पाके चातिवृत्ते-अतिक्रान्ते, सुषिरोऽन्तस्थः शोफदेशः सम्पद्यते| तथा, तनुः-तन्वी, त्वक् यस्मिन् स तनुत्वक्| तथा, दोषभक्षितः-पूयवान्, दोषशब्देनेह पूय उच्यते, तेन भक्षितत्वात् सुषिरत्वं तनुत्वक्त्वं चास्य| तथा, वलीभिराचितो-व्याप्तः| तथा, श्यामवर्णः| तथा, शीर्यमाणतनूरुहः-पतद्रोमा|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अतिपव्कस्य शोफ़स्य लक्षणमाह-पाक इति| अतिवृत्ते-प्रमाणमतिक्रन्ते| सुषिरः-शून्योदरः| तनुत्वक्-विरलत्वक्| दोषभक्षितः-पूयभक्षितमांसादिः| तनूरुहं-रोम|

Adhikarana रक्तपाकस्य लक्षणम् (८-१०) · Śloka १०

| कफजेषु तु शोफेषु गम्भीरं पाकमेत्यसृक्||८|| पक्वलिङ्गं ततोऽस्पष्टं यत्र स्याच्छीतशोफता| त्वक्सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत्||९|| रक्तपाकमिति ब्रूयात्तं प्राज्ञो मुक्तसंशयः| |१०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यद्यपि त्रिभिरेव दोषैः शोणितान्वितैः पाको जायते, तथाऽपि कफजेष्वित्युक्तेरधिकतरकफेष्विति गम्यते| कफजेष्विति बहुवचननिर्देशात् देहदेशबहुत्वाद्येषु देहदेशेष्वसौ कफो जायते, तेषु कफजेषु शोफेषु गम्भीरं-दुर्लक्ष्यमतिशयेनान्तर्निगूढत्वात्, असृक् पाकमेति| अत एव पक्वलिङ्गं-पक्वलक्षणं, अस्पष्टं दुर्लक्ष्यं, स्यात्| तथा, यत्र शीतगुणयोगात्, शीतश्चासौ शोफश्च शीतशोफः, तस्य भावः शीतशोफता| तथा, त्वक्समानवर्णत्वम्| तथा, रुजः स्तोकत्वम्| तथा, घनस्पर्शत्वं-निबिडस्पर्शता स्यात्, अश्मवत्-हस्तादिना स्पृष्टे पाषाणतुल्यः स्पर्श उपलभ्यते| तं-तथाभूतं श्वयथुपाकं, रक्तपाकमित्येवं प्राज्ञो-धीमान्, ब्रूयात्-न तु शोफं पक्वमिति कथयेत्| कथम् ? मुक्तसंशयः,- शोणितं पक्वं नात्र शोफ इत्येवं वदेदित्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- रक्तपाकस्य लक्षणमाह-कफ़जेष्विति| गम्भीरं यदसृक् तत् पाकमेति, न मांसम्| ततः-तस्मात्, उक्तं पक्वलिङ्गं स्पष्टं नोत्पद्यते| तेन यत्र शीतशोफ़त्वादि, तं रक्तपाकं ब्रूयात्|

Adhikarana दारणपाटनयोर्विषयोभेदः (१०-११) · Śloka ११

| अल्पसत्त्वेऽबले बाले पाकाद्वाऽत्यर्थमुद्धते||१०|| दारणं मर्मसन्ध्यादिस्थिते चान्यत्र पाटनम्| |११|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्तोके सत्त्वे सति, तथा दुर्बले, तथा बाले, एतेषु जाते श्वयथौ, तथा पाकाद्वाऽत्यर्थमुद्धते-अतिक्रान्ते च श्वयथौ, दारणं कार्यम्; व्रणप्रतिषेधोद्दिष्टैर्दारणद्रव्यैः (हृ. उ. अ. २५|३७)| यथा-"गुग्गुल्वतसिगेन्दतस्वर्णक्षीरीकपोतविट्| क्षारौषधानि क्षाराश्च पक्वशोफविदारणम्||" इति| न केवलमल्पसत्त्व इत्यादिके श्वथौ दारणं कार्यम्, यावत् चशब्दात् मर्मसन्ध्यादिस्थिते च श्वयथौ दारणं कार्यम्, न पाटनं शस्त्रेण| अन्यत्रेति दारणविषयानिर्दिष्टे स्थाने शस्त्रेण पाटनं कार्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथ पाटनम्| तत्र दारणपाटनयोर्विषयभेदमाह-अल्पसत्व इति| सत्वं-मानसं बलम्| पाके चात्यर्थमुद्धते-अतिपक्वे, शोफे मर्मसन्ध्यादिष्वनवचार्यशस्त्रेष्वङ्गेषु स्थिते च, दारणम्| अन्यत्र पाटनम्| दारणं क्षारादिना द्वारकरणम्| पाटनं-शस्त्रेण|

Adhikarana अपक्वस्य दारणपाटननिषेधः (११-१२) · Śloka १२

| आमच्छेदे सिरास्नायुव्यापदोऽसृगतिस्रुतिः||११|| रूजोऽतिवृद्धिर्दरणं विसर्पो वा क्षतोद्भवः| |१२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आमस्य शोफस्य शस्त्रेण छेदे सति सिरास्नायुव्यापदो भवन्ति| तथा, असृजोऽतिस्रावः स्यात्| तथा, रुजाया विवृद्धिः| तथा, दरणं विसर्पो वा क्षतोत्थः स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अपक्वस्य दारणपाटने निषेधै-आमच्छेद इति| शिरानाशादिदोषादामो न छेद्य इत्यर्थः|

Adhikarana पक्वस्याच्छेदने दोषः (१२-१३) · Śloka १३

| तिष्ठन्नन्तः पुनः पूयः सिरास्नाय्वसृगामिषम्||१२|| विवृद्धो दहति क्षिप्रं तृणोलपमिवानलः| |१३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अन्तः-अन्तरे, तु पूयस्तिष्ठन् सन् सिरादीनि दहति| कः कमिव ? अनलस्तृणोलपमिव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पक्वस्याच्छेदने दोशमाह-तिष्ठन्निति| तृणोलपं-तृणगुल्मम्|

Adhikarana आमपक्वलक्षणानभिज्ञानिन्दा (१३-१४) · Śloka १४

| यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते||१३|| श्वपचाविव विज्ञेयौ तावनिश्चितकारिणौ| |१४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यः-पुरुषः (वैद्यः), अज्ञानात्-मोहात्, आमं- अपक्वं, छिनत्ति| यश्च पक्वमुपेक्षते-न पाटयति| तौ-नरौ, श्वपचतुल्यौ वेद्यौ, आतुरव्यापादनात्| तद्वयापादनं तु कुतो विधत्तः ? इत्याह-अनिश्चितकारिणौ,-असमीक्ष्यविधायिनौ यतः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- आमपक्वलक्षणानभिज्ञण् निन्दति-यश्च्छिनत्तीति|

Adhikarana शस्त्रकर्मणः पूर्वं भोजनादि (१४-१५) · Śloka १५

| प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदन्नमातुरम्||१४|| पानपं पाययेन्मद्यं तीक्ष्णं यो वेदनाक्षमः| न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते||१५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शस्त्रकर्मणः प्राक्-पूर्वं, आतुरमिष्टमन्नं-यद्व्रणेऽपथ्यमपि, तद्वलाधानार्थं भोजयेत्| तथा, यो वेदनाक्षमः-शस्त्रव्यथामसहिष्णुः, तमातुरं मद्योचितं तीक्ष्णं-तीव्रमदं, मद्यं पाययेत्| एवं सति यत्स्यात्तदाह-न मूर्च्छत्यन्नसंयोगादित्यादि| यतोऽन्नोपयोगान्न मुह्यति| परं तीक्ष्णमद्यपानान्मत्तः सन् शस्त्रं-न्यस्तमङ्गे, न बुध्यते-न चेतयते, तत्कदर्थनया क्लिश्यत इत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शस्त्रकर्मणः पूर्वं भोजनमाह-प्राक्शस्त्रकर्मण इति| तीक्ष्णमद्यपानमाह-पानपमिति| यो वेदनाक्षमः-शस्त्रव्यथां सोढुमशक्तो मद्यपः, तस्य मद्यपानम्| इतरस्य भोजनमेव|

Adhikarana मूढगर्भादौ भोजनादिनिषेधः (१६) · Śloka १६

अन्यत्र मूढगर्भाश्ममुख़रोगोदरातुरात्| |१६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अश्मशब्देनाश्मरी गृह्यते| मूढगर्भादिभिर्य आतुरस्तं वर्जयित्वेष्टभोजनं मद्यपानं च कारयितव्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मूढगर्भादौ भोजनमद्यपाने निषेधतिअनत्रेति|

Adhikarana शस्त्रकर्मविधिः भोजनादिनिषेधः (१६-१८) · Śloka १८

| अथाहृतोपकरणं वैद्यः प्राङ्मुख़मातुरम्||१६|| सम्मुख़ो यन्त्रयित्वाऽऽशु न्यस्येन्मर्मादि वर्जयन्| अनुलोमं सुनिशितं शस्त्रमापूयदर्शनात्||१७|| सकृदेवाहरेत्तच्च| |१८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथशब्देन मङ्गलवाचिना सङ्ग्रहोक्तमर्थं सूचयति| यथा (सू. अ. ३८)- "सुमुहूर्ते च दध्यक्षतान्नपानरुक्मरत्नार्चितविप्रं प्रणतेष्टदेवतं" इत्यादि| आहृतं-ढौकितं समीपानीतं, उपकरणं-तत्कालयोग्यं यन्त्रशस्त्राग्निजाम्बवौष्ठपिचुप्लोतस्नेहमधुकल्कादिकं, यस्य तम्, आतुरं प्राङ्मुख़ं-पूर्वाभिमुख़ं, वैद्यः सम्मुख़ः-प्रत्यङ्मुख़ो, यन्त्रयित्वा शस्त्रमाशु-न विलम्बितं, न्यस्येत्-निक्षिपेत्| मर्मादि वर्जयन्-मर्मसिरासन्ध्यादीन् परिहरन्| तथा, अनुलोमं कृत्वा-न प्रातिलोम्येन| किम्भूतं शस्त्रम् ? सुनिशितं-अतितीक्ष्णम्| तच्च शस्त्रमापूयदर्शनात् न्यसेत्,-न त्वधिकम्| तत् किं तत्रैव स्थाप्यम् ? तच्च सकृदेव-न बहून् वारान्, आहरेत्-आकर्षेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शस्त्रकर्मविधिमाह-अथेति| सङ्ग्रहे तु (सू. अ. ३८)- " अथोपहृतयन्त्रशस्त्रक्षाराग्निजाम्बवौष्ठपिचुप्लोतपत्रसूत्रचर्मपट्टमधुस्नेहकषायलेपकल्कसेकोदकुम्भशीतोष्णोदककटाहव्यजनादिव्रणोपयोगिसर्वोपकरणमास्तृतशयनीयमुपस्थितस्थिरस्नेहबलवदवलम्बकपुरुषमिष्टेऽहनि मुहूर्ते च दध्यक्षतान्नपानरुक्मरत्नार्चितविप्रं प्रणतेष्टदेवतं भुक्तवन्तमातुरं प्राङ्ग्नुखमुपवेश्य संवेश्य वा यन्त्रयित्वा प्रत्युङ्गुखो वैद्यो मर्मशिरास्नायुसन्ध्यस्थिधमनीः परिहरन् अनुलोमं शस्त्रं निदध्यात्|" इति| निखातशस्त्रस्याहरणविधिमाह-सकृदेवेति| सकृत्-एकवारमाहरेत्, नान्तराऽन्तरा मुञ्चेदित्यर्थः|

Adhikarana पाटनप्रमाणम् पाटनस्थानम् (१८-२१) · Śloka २१

पाके तु सुमहत्यपि| पाटयेत् द्व्यङ्गुलं सम्यद्व्यङ्गुलत्र्यङ्गुलान्तरम्||१८|| एषित्वा सम्यगेषिण्या परितः सुनिरूपितम्| अङ्गुलीनालवालैर्वा यथादेशं यथाशयम्||१९|| यतो गतां गतिं विद्यादुत्सङ्गो यत्र यत्र च| तत्र तत्र व्रणं कुर्यात्सुविभक्तं निराशयम्||२०|| आयतं च विशालं च यथा दोषो न तिष्ठति| |२१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पाके तु सुमहत्यपि पाटयेत्| द्व्यङ्गुलं-द्व्यङ्गुलपरिमाणं व्रणं, सम्यक् कुर्यात्,-नाधिकम्| द्व्यङ्गुलेत्यादि| अङ्गुलद्वयमथवाऽङ्गुलत्रयमन्तरीकृत्य पुनरन्यं व्रणं कुर्यात्,-न त्वासन्नम्| तथा, एषिण्या सम्यगेषित्वा-गवेशयित्वा, परितः-समन्तात्, सुनिरूपितं-सुपर्यालोचितम्| न केवलमेषिण्या, यावदङ्गुल्या, नालेन-पद्मोत्पलादिजेन, वालैर्वा-वराहादिसम्बन्धिभिः, अन्वेष्य यथादेशं यथाशयं व्रणं कुर्यात्| तं च प्रदेशं दर्शयितुमाह-यत इत्यादि| यतो यस्मिन् प्रदेशे गतां-दूरयातां, गतिं-नाडीं, जानीयात् तस्मिन् प्रदेशे व्रणं कुर्यात्| यत्र यत्र श्वयथुप्रदेशे, उत्सङ्गं-उन्नतिं, विद्यात् तत्र तत्र प्रदेशे व्रणं कुर्यात्| किंभूतं व्रणम् ? सुष्ठु विभक्तौ पार्श्वापरपार्श्वादिविभागौ यस्य तं तथाविधम्| तथा, निराशयम्,-न विद्यत आशयः-पूयादेर्दोषस्य स्थानं, यस्य तथाभूतं निराशयं कुर्यात्| तथा, आयतं-दीर्घम्, तथा विशालं-विस्तिर्णं, कुर्यात्| एवं कृते सति दोषः-पूयाख्यो, न तिष्ठति-न स्थितिं लभते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पाटनप्रमाणमाह-पाके त्विति| बहुषु पाटनेषु व्द्यङ्गुलं त्र्यङ्गुलं वाऽन्तरं कार्यम्| पाटनस्थानमाह-एषित्वेति| एषिण्यादिविभागौक्तः सङ्ग्रहे (सू. अ. ३८)- " विवृते प्रदेशे वामप्रदेशिन्यैषित्वा नातिविवृते गम्भीरे मांसले चैषिण्या| विआरीते करीरादिनालेन| अतिसंवृते शूकरवालेन|" देशः-शरीरावयवः| आशयो-व्रणांस्थानम्| गतिः-नाडीव्रणः| उत्सङ्गः-पूयस्खलनस्थानम्| विभक्तो-मांसादिलेशरहितः| आशयः-उत्सङ्गः|

Adhikarana पाटने वैद्यगतसामग्री (२१-२२) · Śloka २२

| शौर्यमाशुक्रिया तीक्ष्णं शस्त्रमस्वेदवेपथू||२१|| असम्मोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते| |२२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वैद्यस्य शस्त्रकर्मणि शौर्यं-पाटनादौ वीर्यं, शस्यते| तथा, आशुक्रिया-चतुरहस्तता| तथा, तीक्ष्णशस्त्रता| तथा, स्वेदश्च वेपथुश्च, न विद्यमानौ तौ यस्य स एवम्, स्वेदाभावः कम्पाभावश्चेत्यर्थः| तथा, असम्मोहः-तत्कालोचितकार्यकरणे सम्यक्प्रवृत्तिः| ननु, "शौर्यं वैद्यस्य शस्यते" इत्युक्त्यैव स्वेदकम्पाभावः प्रत्यपादि| तथा च स्वेदवेपथू भीरोरेव सम्भवतः, न शूरस्य| इत्यनर्थकं "अस्वेदवेपथू" इति| अत्राचक्ष्महे सत्यमेवैतौ बीरुगुणौ, किन्तूष्णकालवशात् प्रकृतिवशाद्वा यस्य स्वेदवेपथू भवतः, तत्परिहारार्थमेतदुक्तम्| सस्वेदस्य हि वैद्यस्य शस्त्रकर्मकर्तुमुद्यतस्य शस्त्रग्रहणमेव न तथा सम्पद्यते, तद्वत्सकम्पस्यापि| तस्मात्तत्परिहारो युक्तः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पाटने वैद्यगतसामग्रीमाह-शौर्यमिति|

Adhikarana ललाटादौ तिर्यक् पाटनम् (२२-२३) · Śloka २३

| तिर्यक्छिन्द्याल्ललाटाभ्रूदन्तवेष्टकजत्रुणि||२२|| कुक्षिकक्षाक्षिकूटौष्ठकपोलगलवङ्क्षणे| |२३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ललाटादिदेशेषु तिर्यक् छेदः कार्यः| दन्तवेष्टको दन्तपिण्डिका दन्ताधार उच्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- ललाटादौ तिर्यक्पाटनमाह-तिर्यगिति|

Adhikarana प्रदेशान्तरे तिर्यक्पाटननिषेधः (२३) · Śloka २३

| अन्यत्र छेदनात्तिर्यक् सिरास्नायुविपाटनम्||२३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अन्यत्र प्रदेशे तिर्यक् छेदनात् सिराणां स्नायूनां च व्यापत्तिः स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- प्रदेशान्तर् तिर्यक्पाटनं निषेधति-अन्यत्रेति|

Adhikarana पाटनानन्तरं कर्तव्यम् (२४-२८) · Śloka २८

शस्त्रेऽवचारिते वाग्भिः शीताम्भोभिश्च रोगिणम्| आश्वास्य परितोऽङ्गुल्या परिपीड्य व्रणं ततः||२४|| क्षालयित्वा कषायेण प्लोतेनाम्भोऽपनीय च| गुग्गुल्वगुरुसिद्धार्थहिङ्गुसर्जरसान्वितैः||२५|| धूपयेत्पटुषड्ग्रन्थानिम्बपत्रैर्घृतप्लुतैः| तिलकल्काज्यमधुभिर्यथास्वं भेषजेन च||२६|| दिग्धां वर्तिं ततो दद्यात्तैरेवाच्छादयेच्च तां| घृताक्तैः सक्तुभिश्चोर्ध्वं घनां कवलिकां ततः||२७|| निधाय युक्त्या बध्नीयात्पट्टेन सुसमाहितम्| पार्श्वे सव्येऽपसव्ये वा नाधस्तान्नैव चोपरि||२८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शस्त्रेऽवचारिते-न्यस्ते सति, वाग्भिः-तत्कालोचितार्भिर्मधुराभिः 'स्वस्थो जातोऽसि' इत्येवंप्रायाभिः, तथा शीताम्भोभिः-परिषेकादिभिः, आतुरमाश्वास्य, अनन्तरं व्रणं परितः-समन्तात्, अङ्गुल्या परिपीड्य-पूयादिदोषं निर्हार्य, अनन्तरं कषायेण-मधुयष्ट्यादिसाधितेन, क्षालयित्वा, ततः प्लोतेनकार्पासादिजवस्त्रखण्डेन, जलमपनीय-पानीयार्द्रतां निर्हृत्य, अनन्तरं व्रणं गुग्गुल्वादिभिर्निम्बपत्रान्तैर्धूपयेत्| किम्भूतैः ? घृतप्लुतैः|- प्लुतग्रहणाद्बहुघृतैरिति द्योतयति| सङ्ग्रहे चोक्तम् (सू. अ. ३८)- "गुग्गुल्वादिभिरेवं शयनासनादि द्विरह्नो धूपयेत्|" इति| ततः-अनन्तरं, वर्तिं-कार्पासादिमयीं, व्रणान्तर्दद्यात्-प्रवेशयेत्, वैद्यः| किम्भूताम् ? दिग्धाम्| कैः ? तिलकल्काज्यमधुभिः,-वातव्रणे तिलपिष्टदिग्धां, पित्तव्रणे घृतदिग्धां, कफव्रणे मधुदिग्धाम्| केचित्तु सर्वैरेव तैर्युगपद्दिग्धामित्याहुः| न च केवलं तिलादिभिः, यावत् यथास्वं-यत् यस्य दोषस्य स्वं भेषजं, तेन च दिग्धाम्| तैरेव-तिलकल्कादिभिः, व्रणान्तःप्रविष्टां तां-वर्तिं, आच्छादयेत्-स्थगयेत्| ऊर्ध्वं-तदुपरिष्टात्, घृतयुक्तैः सक्तुभिराच्छादयेत्| सङ्ग्रहे चोक्तम् (सू. अ. ३८)-"नातिभृष्टयवसक्तुभिर्घृताक्तैर्भाजनान्तेऽम्भसा दक्षिणाङ्गुलीभिः सुमृदितैरवच्छाद्य" इति| ततो- व्रणान्तःप्रविष्टवर्तिच्छादनादनन्तरं, कवलिकां-बहुवस्त्रखण्डपुटनिर्वर्तितां, निधाय-संस्थाप्य, पट्टेन-निबिडवस्त्रखण्डेन, प्रकृतत्वात् व्रणं बध्नीयात्| कथम् ? युक्त्या-दोषकालानुगुणया| अत एव सङ्ग्रहे जगाद (सू.अ.३८)-"वातश्लेष्मोद्भवांस्तत्र द्विस्त्रिर्वा वेष्टयेद्व्रणान्| सकृदेव परिक्षप्य पित्तरक्ताभिघातजान्|| शस्त्रक्षतरुजायां तु प्रततायां यष्टीमधुकसर्पिषोष्णेन व्रणं सिञ्चेत्| उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् परित उपचरेत्|" इति| कथं बध्नीयात् ? सुसमाहितं कृत्वा-नावहेलया, वामपार्श्वे दक्षिणपार्श्वे वा| अधस्तात् न बध्नीयात्, नैव चोपरि-ऊर्ध्वं, बध्नीयात्, नैव चोपरि-ऊर्ध्वं, बध्नीयात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पाटनानन्तरं कर्तव्यमाह-शस्त्र इति| सर्जरसो-रालः| षङ्ग्रन्था-वचा| यथास्वं [भेषजेन ]-यस्मिन् व्रणे यद्भेषजमुक्तं तेन| चहब्दः समुच्चये| दिग्धांलित्पाम्| तैः-वर्तिलेपौषधैः| तं-व्रणम्| ऊर्ध्वं-पूर्वलेपस्य, घृताक्तसक्तुलेपः| सङ्ग्रहे तु (सू. अ. २८)- " नातिभृष्टयवसक्तुभिर्घृताक्तैर्भाजनान्तेऽम्भसा दक्षिणाङ्गुलीभिः सुमृदितैः" इति| कवलिकां-वस्त्रखण्डमयीं पालीम्| पट्टेन-घनवस्नखण्डेन| सुसमाहितं-सुष्टु सन्निविष्टं यथा भवति तथा| पार्श्वे बन्धीयात्-ग्रन्थिं दद्यात्| सङ्गहे तु (सू. अ. ३८)- "वातश्लेष्मोद्भवांस्तत्र द्विस्निर्वा वेष्टयेह्रणान्| सकृदेव परिक्षिप्य पित्तरक्ताभिघातजान्|| सस्त्रक्षतरुजायां उ प्रततायां यष्टिमधुकसर्पिषोष्णेन व्रणं सिञ्चेत्|" इति|

Adhikarana पट्टकवलिकाविकेशिकानां विशेषः (२९) · Śloka २९

शुचिसूक्ष्मदृढाः पट्टाः कवल्यः सविकेशिकाः| धूपिता मृदवः श्लक्ष्णा निर्वलीका व्रणे हिताः||२९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तथा शुचयः सूक्ष्मसूत्रा दृढाश्च पट्टाः, तथा कवलिकाः सविकेशिकाश्च व्रणे हिताः| किम्भूताः ? धूपिताः, तथा मृदवः, तथा श्लक्ष्णाः, तथा वलीरहिताः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पट्टकवलिकाविकेशिकानां विशेषमाह-शुचिसूक्ष्मद्दढा इति| विकेशिका-सूत्रवर्तिः|

Adhikarana रक्षा बलिश्च (३०) · Śloka ३०

कुर्वीतानन्तरं तस्य रक्षां रक्षोनिषिद्धये| बलिं चोपहरेत्तेभ्यः|३०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अनन्तरं [ तस्य-] रोगिणः कृतशस्त्रकर्मणो, व्रणे रक्षां कुर्यात्| किमर्थम् ? रक्षोनिषिद्धये-पिशिताशनराक्षसादिनिषेधाय| तेभ्यश्च-रक्षोभ्यो, बलिमुपहरेत्-दद्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- रक्षामाह-कुर्वीतेति| सङ्ग्रहे तु (सू. अ. ३८)- " उदकुम्भाच्चपो गृहीत्वा प्रोक्षयेत्| परितो यावकार्थपर्णसपर्यादिभिरस्य रक्षां कुर्यात्|" इति| बलिमाह- बलिं चेति|

Adhikarana औषधिविधारणम् (३०-३१) · Śloka ३१

| सदा मूर्ध्ना च धारयेत्||३०|| लक्ष्मीं गुहामतिगुहां जटिलां ब्रह्मचारिणीम्| वचां छ्हत्रामतिच्छ्हत्रां दूर्वां सिद्धार्थकानपि||३१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सर्वकालं चौषधीर्मूर्ध्ना धारयेत्| ता एवाह-लक्ष्मीमित्यादि| लक्ष्मीं-पद्मचारिणीम्| गुहां-पृश्निपर्णीम्| अतिगुहां-शालिपर्णाम्| जटिलां-मांसीम्| ब्रह्मचरिणीं-ब्रह्मयष्टिकाम्| वचां-उग्रगन्धाम्| छत्रां-शतपुष्पाम्| अतिच्छत्रां-विषाणिकाम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- औषधीविधारणमाह-सदेति| लक्ष्मीं-शमीम्| गुहातिगुहे-शालिपर्णीपृश्निपर्ण्यौ| जटिलां-मांसीम्| ब्रह्यचारिणीं-ब्राह्मीम्| छत्रातिच्छ्त्रे-शतपुष्पाद्वयम्|

Adhikarana आहारविहारनियमः (३२) · Śloka ३२

ततः स्नेहदिनेहोक्तं तस्याचारं समादिशेत्| |३२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ततः-अनन्तरं, तस्य व्रणिनः, आचारमादिशेत्| कथमम् ? स्नेहदिनेहोक्तम्,-स्नेहस्य दिनं स्नेहदिनं, स्नेहपानोपलक्षितमहः, तत्रेहा-चेष्टा, तस्यामुक्तं-स्नेहपानविध्युपदिष्टं "उष्णोदकोपचारी स्यात्" इत्यादिकम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- आहारविहारनियममाह-तत इति| स्नेहदिनेहोक्तं-स्नेहविधिदिनचर्योक्तम्|

Adhikarana व्रणे दिवास्वप्ननिषेधः (३२) · Śloka ३२

| दिवास्वप्नो व्रणे कण्डूरागरुक्शोफपूयकृत्||३२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दिवास्वप्नो व्रणे कण्ड्वादिकृत्| तस्मात् व्रणिनाऽहः स्वप्नो न सेव्यः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- दिवास्वप्नं विशेषतो निषेधति-दिवास्वप्न इति|

Adhikarana व्रणे स्त्रीसङ्गनिषेधः (३३-१) · Śloka

स्त्रीणां तु स्मृतिसंस्पर्शदर्शनैश्चलितस्रुते| शुक्रे व्यवायजान् दोषानसंसर्गेऽप्यवाप्नुयात्||३३|| (व्रणे श्वयथुरायासात् स च रागश्च जागरात्| तौ च रुक् च दिवास्वापात्ताश्च मृत्युश्च मैथुनात्)||१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्त्रीणां तु स्मृतिसंस्पर्शदर्शनैः पूर्वं स्वस्थानच्चलितं पश्चात्स्रुतं तस्मिंश्चलितस्रुते शुक्रे सत्यसंसर्गेऽपि-तासामसम्बन्धेऽपि मैथुनमन्तरेणापि, व्यवायजान्-मैथुनोत्थान्, दोषानवाप्नुयात्| तस्मात् स्त्रीस्मरणसंस्पर्शदर्शनानि वर्ज्यानीत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- स्त्रीसङ्गं विशेषतो निषेधति-स्त्रीणामिति|

Adhikarana व्रणे भोजनम्,व्रणे भोजनविशेषः (३४-३७) · Śloka ३७

भोजनं च यथासात्म्यं यवगोधूमषष्टिकाः| मसूरमुद्गतुवरीजीवन्तीसुनिषण्णकाः||३४|| बालमूलकवार्ताकतण्डुलीयकवास्तुकम्| कारवेल्लककर्कोटपटोलकटुकाफलम्||३५|| सैन्धवं दाडिमं धात्री घृतं तप्तहिमं जलम्| जीर्णशाल्योदनं स्निग्धमल्पमुष्णोदकोत्तरम्||३६|| भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति| |३७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-भोजनं यथासात्म्यं-यद्यस्य सात्म्यं यवादि, तथा जीवन्त्यादिशाकं च, तथा सैन्धवादिकं, पुराणशालिभक्तं स्निग्धं-स्नेहं, तथाऽल्पं, जाङ्गलैर्मांसैः सह भुञ्जान उष्णोदकोत्तरं यथाभवति, एवं व्रणी शीघ्रं व्रणमपोहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- भोजनमाह-भोजनमिति| कटुकाफलं-कटुरोहिणीफलम्| भोजनविशेषमाह-जीर्णशाल्योदनमिति|

Adhikarana विषमाशनसमशनाध्याशननिषेधः (३७-३८) · Śloka ३८

| अशितं मात्रया काले पथ्यं याति जरां सुख़म्||३७|| अजीर्णात्त्वनिलादीनां विभ्रमो बलवान् भवेत्| ततः शोफरुजापाकदाहानाहानवाप्नुयात्||३८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मात्रया काले भुक्तं पथ्यं सुखेन जरां याति| तस्मात् पथ्यं मात्रया काले भोक्तव्यम्| अजीर्णं तु न कथञ्चित् कार्यम्| यतोऽजीर्णात् वातादीनां बलवान् विभ्रमः-क्षोभः, स्यात्| { ततः- } तस्मात्क्षोभात्, शोफादीन् प्राप्नुयात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विषमाशनं समशनं च निषेधति-अशितमिति| अध्यशनं निषेधति-अजीर्ण इति|

Adhikarana नवधान्यादिवर्गः नवधान्यादेरत्यपथ्यत्वम् (३९-४०) · Śloka ४०

नवं धान्यं तिलान् माषान् मद्यं मांसमजाङ्गलम्| क्षीरेक्षुविकृतीरम्लं लवणं कटुकं त्यजेत्||३९|| यच्चान्यदपि विष्टम्भि विदाहि गुरु शीतलम्| वर्गोऽयं नवधान्यादिर्व्रणिनः सर्वदोषकृत्||४०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नवधान्यादि त्यजेत्| यतोऽयं नवधान्यादिवर्गो व्रणिनः सर्वान् दोषान् करोति| सङ्ग्रहे चोक्तम् (सू.अ.३८)-"नवधान्यमाषकलायकुलत्थनिष्पावशिम्बीशीताम्बुमद्येक्षुक्षिरपिष्टतिलविकृतिशुष्कशाकपिशितहरितँकाम्ललवणकटुकक्षारान्पामिषाणि वर्जयेत्|" इति| शीतलं-शीताम्ब्वादि|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- नवधन्यादिवर्गमाह-नवं धान्यमिति| सङ्ग्रहे तु (सू. अ. ३८)- "नवधान्यमाषकलायकुलत्थनिष्पावशिम्बीशीताम्बुमद्येक्षुक्षीरपिष्टतिलविकृतिशुष्कशाकपिशितहरितकाम्ललवणकटुकक्शारानूपामिषाणि वर्जयेत्|" इति| नवधान्यादेरत्यपथ्यत्वमाह- वर्ग इति|

Adhikarana मद्यस्य ततोऽपथ्यत्वम् (४१) · Śloka ४१

मद्यं तीक्ष्णोष्णरूक्षाम्लमाशु व्यापादयेद्व्रणम्| |४१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मद्यं तीक्ष्णोष्णादिगुणं द्राक् व्रणं व्यापादयेत्| तस्मात् मद्यमीदृशं वर्ज्यम्, नापरम्| तथा च तन्त्रान्तरे-"सस्नेहं मधुरप्रायं नातितीक्ष्णमकर्कशम्| तनु यत्सुखपेयं च मार्द्वीकेषु तदुत्तमम्||" इत्युक्तम्| तस्मात् मार्द्वीकादिप्रायं रोध्रासवादिकं वा यन्मद्यं तस्सात्म्यत्वात्किञ्चित् पेयमेव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मद्यस्य ततोऽपथ्यत्वमाह-मद्यमिति|

Adhikarana व्रणशुश्रूषणम् (४१-४३) · Śloka ४३

| वालोशीरैश्च वीज्येत न चैनं परिघट्टयेत्||४१|| न तुदेन्न च कण्डूयेच्चेष्टमानश्च पालयेत्| स्निग्धवृद्धद्विजातीनां कथाः श्रुण्वन्मनःप्रियाः||४२|| आशावान् व्याधिमोक्षाया क्षिप्रं व्रणमपोहति| |४३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वालोशीरैश्चैनं व्रणं वीजयेत्| न चैनं परिघट्टयेत्| तथा न व्यथयेत्| नापि कण्डूयेत्| {चेष्टमानः-क्रियासु} व्यापारं कुर्वन्, व्रणं पालयेत्-रक्षेत्| तथा स्निग्धादीनां कथाश्चित्तप्रिया आकर्णयन् रोगमुक्तये विहिताशोऽह्नाय व्रणमपोहति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- व्रणशुश्रूषणमाह-वालोशीरैश्चेति| वालैः-चामरैः| उशीरैः-वीरणव्यजनैः|

Adhikarana तृतीये दिवसे प्रक्षालनादिकम् द्वितीये प्रक्षालनादिनिषेधः निषेधातिक्रमे दोषः (४३-४४) · Śloka ४४

| तृतीयेऽह्नि पुनः कुर्याद्व्रणकर्म च पूर्ववत्||४३|| प्रक्षालनादि, दिवसे द्वितीये नाचरेत्तथा| तीव्रव्यथो विग्रथितश्चिरात्संरोहति व्रणः||४४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तृतीये च दिवसे पुनरपि प्रक्षालनादि कर्म पूर्ववत्पूर्वेण व्रणकर्मणा तुल्यं, कुर्यात्| द्वितीये तु दिवसे प्रक्षालनादि नाचरेत्| किमित्याह-तथेत्यादि| तथा-तेन प्रकारेण, व्रणस्तीव्रव्यथः सम्पद्यते| तथा, विग्रथितः-स प्रदेशो बहुभिर्ग्रन्थिभिर्युक्तः स्यात्| तथा, व्रणाश्चिरात्-चिरेण कालेन, संरोहति-संरोहं याति रूढः सम्पद्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- तृतीये दिवसे प्रक्षालनादिकमाह-तृतीयेऽह्नीति| द्वितीये दिवसे प्रक्षालनादिकं निषेधति-दिवस इति| निषेधातिक्रमे दोषमाह-तथेति| विग्रथितो-विषमसंस्थानः|

Adhikarana स्निग्धादिविकेशिकायाः कल्कस्य च निषेधः (४५) · Śloka ४५

स्निग्धां रूक्षां श्लथां गाढां दुर्न्यस्तां च विकेशिकाम्| व्रणे न दद्यात्कल्कं वा|४५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-व्रणे-व्रणाख्ये आधारे, स्निग्धादिगुणयुक्तं विकेशिकांव्रणान्तःप्रवेशयोग्यां वर्तिं, न दद्यात्| श्लथां-शिथिलाम्, गाढां-निबिडाम्, दुर्न्यस्तां-विषमन्यस्तां| अत्र चातिशब्दोऽर्थवशाद्गम्यमानो बोध्यः| अत एव सङ्ग्रहे स्पष्टं कृत्वोवाच (सू.अ. ३८)- {"अतिस्निग्धरूक्षमतिश्लथमतिगाढम्| } अतिस्नेहात्क्लेदः|" इति| कल्कं वा-कल्कमप्यतिस्निग्धादिगुणयुक्तं व्रणे न योजयेत्| पिष्टमौषधं द्रवाप्लुतं कल्क इत्युच्यते (हृ.क.अ.६|१०)| किमिति स्निग्धादिगुणयुक्तां विवेशिकां कल्कं वा न दद्यात् ? इत्याह-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-स्निग्धादिविकेशिकां कल्कं च निषेधतिस्निग्धामिति|

Adhikarana निषेधातिक्रमे दोषः (४५-४७) · Śloka ४७

| स्नेहात्क्लेदो विवर्द्धते||४५|| मांसच्छेदोऽतिरुग्रौक्ष्याद्वरणं शोणितागमः| श्लथातिगाढदुर्न्यासैर्व्रणवर्त्मावघर्षणम्||४६|| घ्|४७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यतोऽतिस्नेहात् क्लेदवृद्धिः| अतरूक्षत्वाच्च मांसच्छेदोऽतिव्यथा च, तथा विदारणं रक्तस्रावश्च| श्लथादिगुणयुक्तेन च व्रणमार्गस्यावघर्षणं स्यात्| विकेशिका व्रणे कस्माद्धीयते ? इत्याह-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- निषेधातिक्रमे दोषमाह-स्नेहादिति| रौक्ष्याच्चत्वारो दोषाः|

Adhikarana विकेशिकाया गुणः (४७) · Śloka ४७

सपूतिमांसं सोत्सङ्गं सगतिं पूयगर्भिणम्| व्रणं विशोधयेच्छीघ्रं स्थिता ह्यन्तर्विकेशिका||४७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विकेशिका व्रणान्तरे स्थिता पूत्यादियुक्तं व्रणं विशोधयेत्| अतोऽसौ योज्या| कीदृग्व्रणं ? पूतियुक्तमांसम्, सोत्सङ्गं-उन्नतम्, पूयादिभक्षितमांसादिप्रदेशः शून्यो देहस्य गतिरुच्यते, {सगतिं-} गतियुक्तम्, पूयश्चासौ गर्भश्च, स विद्यते यस्य स पूयगर्भी तं च|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विकेशिकाया गुणमाह-सपूतिमांसमिति|

Adhikarana अपक्वपाटने चिकित्सा (४८) · Śloka ४८

व्यम्लं तु पाटितं शोफं पाचनैः समुपाचरेत्| भोजनैरुपनाहैश्च नातिव्रणविरोधिभिः||४८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-व्यम्लं-विदग्धं पक्वापक्वं व्रणं, पक्वमित्यज्ञानात् पाटितम्| तथाविधिं श्वयथुं पाचनैरन्नपानैस्तथाविधैश्चोपनाहैः-सात्वणकिण्वादिकल्पितैः, उपाचरेत्| न च सर्वैरेवाविशेषेण पाचनैरुपाचरेदित्याह-नातीत्यादि| व्रणातिविरोधीनि यानि श्वयथुपाचनानि-अम्लकटुकतीक्ष्णोष्णलवणप्रायाणि द्रव्याणि तथैवंप्रायाणि भोजनानि, न तैरुपाचरेत्| अपि तु किञ्चिदेव व्रणविरोधीनि यानि तैरुचितैरुपक्रमेदिति बोध्यम्, नातिशब्दप्रयोगात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अपक्वपाटने चिकित्सामाह-व्यम्लं त्विति| व्यम्लं-विदग्धम्, तत्र हिरक्तं विगताम्लरसं भवति| इति पाटनविधिः|

Adhikarana सीवनस्य विषयः (४९-५१) · Śloka ५१

सद्यः सद्योव्रणान् सीव्येद्विवृतानभिघातजान्| मेदोजाल्लिखितान् ग्रन्थीन् ह्रस्वाः पालीश्च कर्णयोः||४९|| शिरोक्षिकूटनासौष्ठगण्डकर्णोरुबाहुषु| ग्रीवाललाटमुष्कस्फिङ्मेढ्रपायूदरादिषु||५०|| गम्भीरेषु प्रदेशेषु मांसलेष्वचलेषु च| |५१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सद्योव्रणानभिघातजान् विवृतान्-विस्तीर्णमुखान्, सद्यः-तत्क्षणादेव, सीव्येत्| सङ्कुचितवदनास्तु ते न सीव्याः| अभिघाताज्जन्म येषां तानेवम्| सद्योव्रणानिति सद्योग्रहणमभिघातजेष्वपि चिरकालस्थितेषु नायं विधिरिति द्योतयति| मेदोजान् ग्रन्थीन् लिखितान्-शस्त्रलिखितान्, सूच्या सीव्येत्| कर्णयोश्च ह्रखाः पालीर्लिखिताः सीव्येत्| शिरोक्षिप्रभृतिषु प्रदेशेषु प्रभूतमांसेष्वचलेषु च स्थितान् व्रणान् सीव्येत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथ सीवनविधिः| तत्र सीवनस्य विषयमाह-सद्य इति| सद्यः-व्रणोत्पत्तिदिने| सद्योव्रणान्-शोफ़पाकादिपूर्वरूपरहितान्| तेषामभिधातजत्वात् व्यभिचारेऽपि तदुपादानं दोषसंसर्गव्युदासार्थम्| लिखितान्लिखनोद्धृतमेदसः| कर्णपालीश्च लिखिताः-लिखनोद्धृतहस्वत्वहेतुदुष्टावयवाः| शिरःप्रभृतौ ये गम्भीरा मांसला अचलाश्च प्रदेशास्तेषु स्थितान् व्रणान्|

Adhikarana सीवनाविषयः (५१-५२) · Śloka ५२

| न तु वङ्क्षणकक्षादावल्पमांसे चले व्रणान्||५१|| वायुनिर्वाहिणाः शल्यगर्भान् क्षारविषाग्निजान्| |५२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वङ्क्षणादिस्थितानां व्रणानां गम्भीरादिप्रदेशत्वात्सीवनं प्राप्तं तन्निषिध्यते| मांसलेषु स्थिरेषु च व्रणान् सीव्येदित्युक्त्यैवाल्पमांसे चले स्थाने व्रणान्न सीव्येदित्यर्थे लब्धे, अल्पमांसांश्चलांश्च व्रणान् न सीव्येदिति वचनमतिशयार्थम्| जातुचिदभिघातजान् विवृतानप्येवंविधान् व्रणान् न सीव्येदिति गमयति| तथा, वायुं निर्वहन्ति-निःश्वसन्ति, तान् वायुनिर्वाहिणो न सीव्येत्| तथा शल्यं गर्भे येषां तान् शल्यगर्भान्, तथा क्षारविषाग्निभ्यो जातान् व्रणान् न सीव्येत्| सीवनात्पूर्वं यत्क्रियते तद्दर्शयति-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- सीवनाविषयमाह-न त्विति| वायुनिर्वाहिणः=वायुनिर्गमद्वारभूतान्|

Adhikarana सीवनस्य विधिः (५२-५४) · Śloka ५४

| सीव्येच्चलास्थिशुष्कास्रतृणरोमापनीय तु||५२|| प्रलम्बि मांसं विच्छिन्नं निवेश्य स्वनिवेशने| सन्ध्यस्थि च स्थिते रक्ते स्नाय्वा सूत्रेण वल्कलैः||५३|| सीव्येन्न दूरे नासन्ने गृह्णन्नाल्पं न वा बहु| |५४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्थानाच्चलितमस्थ्यपनीय-निरस्य, तथा शुष्करक्तं तृणानि रोमाणि चापास्य, तथा शस्त्रादिना प्रकर्षेण लम्बि व्रणे यद्विद्यते मांसं तत् स्वनिवेशने-आत्मीये स्थाने, निवेश्य-संस्थाप्य, तथा सन्ध्यस्थि स्वे स्थाने संस्थाप्य, स्थिते रक्ते अस्त्रवद्रूपत्वं प्राप्ते सति, व्रणं सीव्येत्| केन ? स्नाय्वादिना, तथा वल्कलैः| वल्कलानि-शणाश्मन्तकादित्वगुद्भवानि, तैः| कथं सीव्येत् ? न दूरे-न विप्रकृष्टे, न चासन्ने-नातिनिकटे नाल्पं व्रणांशं न च बहु गृह्णन्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- सीवनस्य विधिमाह-सीव्येदिति| चलं यदस्थि शुष्कं च यदसृक् तदपनीय, तृणानि रोमाणि च सन्धिगतमस्थि च स्वनिवेशने निवेश्य| स्थिते-स्त्रावान्निव्ऱ्त्ते| वल्कले विशेष उक्तः सङ्ग्रहे (सू.अ. ३८)- "शणाश्मन्तकमूर्वातसीनां वा वल्कलैः|" इति| तथा (सं. सू. अ. ३८)- " सीवनविकल्पास्तु समासेन चत्वारः| गोष्फणिका तुन्नसेवनी वेल्लितकं राजग्रन्थिबन्धनमिति| तेषां नामभिरेवाकृतिविभागः, प्रहारवशाच्चोपयोगः|" इति|

Adhikarana सीवनानन्तरं कर्तव्यम् (५४-५५) · Śloka ५५

| सान्त्वयित्वा ततश्चार्तं व्रणे मधुघृतद्रुतैः||५४|| अञ्जनक्षौ मजमषीफलिनीशल्लकीफलैः| सरोध्रमधुकैर्दिग्धे युञ्ज्याद्बन्धादि पूर्ववत्||५५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ततः-तस्मात्सीवनादनन्तरं, आतुरं सान्त्वयित्वा- समाश्वास्य शीताम्बुस्पर्शव्यजनादिभिः, अनन्तरमुक्तैर्लिप्ते व्रणे सति| कैः ? अञ्जनादिभिः| किम्भूतैः ? मधुघृताभ्यां द्रुतैः-आलोडितैः| पूर्ववद्बन्धादि युञ्ज्यात्,- तृतीयान्ताद्वतिः, पूर्वोद्दिष्टेन कर्मणा तुल्यं कषायक्षालनादि कवलिकादिकं च योज्यमित्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- सीवनानन्तरं कर्तव्यमाह-सान्त्वयित्वेति| अञ्जनं-स्त्रोतोञ्जनम्| फलिनी-प्रियङ्गुः पूर्ववत्-पाटनवत्|

Adhikarana शुष्कं व्रणमार्दं कृत्वा सीव्येत् (५६) · Śloka ५६

व्रणे निःशोणितौष्ठो यः किञ्चिदेवावलिख़्य तम्| सञ्जातरुधिरं सीव्येत्सन्धानं ह्यस्य शोणितम्||५६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अविद्यमानशोणितौ ओष्टौ-पार्श्वौ, यस्य तमेवंभूतं व्रणं किञ्चिदेव-ईषन्मात्रमेव शस्त्रेणावलिख्य, तं सञ्जातरुधिरं सन्तं सीव्येत्, न त्वेवमेव| यस्मादस्य-व्रणस्य, सन्धानं शोणितमेव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शुष्कं व्रणमार्द्रं कृत्वा सीव्येदित्याह-व्रण इति| निःशोणित ओष्ठो-व्यधनियप्रदेशो, यस्य स तथा| इति सीवनविधिः|

Adhikarana बन्धनस्य साधनानि (५७-५९) · Śloka ५९

बन्धनानि तु देशादीन् वीक्ष्य युञ्जीत तेषु च| आविकाजिनकौशेयमुष्णम्, क्षौ मं तु शीतलम्||५७|| शीतोष्णम् तूलसन्तानकार्पासस्नायुवल्कजम्| ताम्रायस्त्रपुसीसानि व्रणे मेदःकफाधिके||५८|| भङ्गे च युञ्ज्यात्फलकं चर्मवल्ककुशादि च| |५९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बध्यते व्रण एभिरिति बन्धनानि,- आविकाजिनादीनि, तेषु-व्रणेषु, देशकालसात्म्यादीन् वीक्ष्य-निरूप्य, यथायोगमाविकाद्यन्यतमं युञ्ज्यात्| तेषां च बन्धनानां स्वरूपमाह-आविकेत्यादि| अविरेवाविकः, तस्येदमाविकम्| "अवेः कः" इति कः, "तस्येदम्" इत्यण्| अजिनं-चर्म| कोशात्सम्भूतं-कौशेयम्| "कोषाढ्ढञ्" इति ढञ्| आविकादिकं बन्धनत्रयमुष्णं-उष्णवीर्यम्| क्षौ मं तु बन्धनं शीतलं-शीतवीर्यम्| तूलसन्तानादिजं शीतोष्णं-उभयस्वभावम्| तूलं शाल्मल्यादिजं तस्य सन्तानः-सन्ततिः सूत्ररूपता, तेन निष्पादितम्| मेदःकफाधिके व्रणे ताम्रादीनि बन्धनार्थं युञ्ज्यात्| भङ्गे-अस्थिभङ्गे| न केवलं ताम्रादीनि मेदःकफाधिके व्रणे युञ्जयात्, यावच्चशब्दात्तानि भङ्गेऽपि युञ्ज्यात्| न च केवलं भङ्गे ताम्रादीनि युञ्ज्यात्, यावत्फलकादि च युञ्ज्यात्| कुशाशब्देन वंशादिकम्बिकोच्यते| अधुना बन्धप्रकारान्निर्दिशति-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अथ बन्धनविधिः| तत्र बन्धनस्य साधनान्याह-बन्धनानीति| सन्तानं-नन्तुः| फलकं-काष्ठपट्टिका| कुशा-वेणुदलम्|

Adhikarana बन्धनप्रकाराः (५९-६१) · Śloka ६१

स्वनामानुगताकारा बन्धास्तु दश पञ्च च||५९|| कोशस्वस्तिकमुत्तोलीचीनदामानुवेल्लितम्| खट्वाविबन्धस्थगिकावितानोत्सङ्गतोष्फणाः||६०|| यमकं मण्डलाख्यं च पञ्चाङ्गी चेति योजयेत्| (विदध्यात्तेषु तेष्वेव कोशमङ्गुलिपर्वसु| स्वस्तिकं कर्णकक्षादिस्तनेषूक्तं च सन्धिषु||१|| मुत्तोलीं मेढ्रग्रीवादौ युञ्ज्याच्चीनमपाङ्गयोः| सम्बाधेऽङे तथा दाम, शाखास्वेवानुवेल्लितम्||२|| खट्टां गण्डे हनौ शङ्खे, विबन्धं पृष्ठकोदरे| अङ्गुष्ठाङ्गुलिमेढ्राग्रे स्थगिकामन्त्रवृद्धिषु||३|| वितानं पृथुलाङ्गादौ तथा शिरसि चेरयेत्| विलम्बिनि तथोत्सङ्गं, नासौष्ठचिबुकादिषु||४|| गोष्फणं सन्धिषु तथा, यमकं यमिके व्रणे| वृत्तेऽङ्घे मण्डलाख्यं, च पञ्चाङ्गी चोर्ध्वजत्रुषु||५|| ) यो यत्र सुनिविष्टः स्यात्तं तेषां तत्रे बुद्धिमान्||६१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्वं च तन्नाम च स्वनाम, तेनानुगतः-अनुबद्धः, आकारः-संस्थानविशेषो, येषां ते पञ्चदश बन्धा वक्ष्यमाणाः| तुशब्दोऽवधारणार्थः| अर्थात् पञ्चदशैवेति, न न्यूनाः| कोशादयः पञ्चाङ्ग्यन्ताः| तेषां-बन्धानां मध्ये, यो-बन्धविशेषो, यत्र-यस्मिन्देहदेशे, सुनिविष्टो भवेत्, तं-बन्धं कोशादिकं, तत्र-तस्मिन्देशे, योजयेत्| तत्र कोशोऽङ्गुलीपर्वसु चर्मादिकृतः| स्वस्तिकं सन्धिकूर्चभ्रूस्तनान्तरक्षाक्षिकपोलकर्णेषु| मुत्तोली ग्रीवामेढ्रयोः| चीनमपाङ्गयोः| दाम सम्बाधेऽङ्गे वङ्क्षणादौ| अनुवेल्लितं शाखासु| खट्वा हनुसन्धिगण्डेषु| विबन्धमुदरोरुपृष्ठेषु| स्थगिकाऽङ्गुष्ठाङ्गुलीमढ्रान्त्रमूत्रवृद्धिषु| वितानं मूर्द्धादौ पृथुलेऽङ्गे| उत्सङ्गमङ्गविशेषे लम्बिनि बाह्वादौ| गोष्फणं नासौष्ठचिबुकसक्थिषु| यमकं यमलव्रणयोः| मण्डलं वृत्तेऽङ्गे| पञ्चाङ्गी जत्रूर्ध्वमिति योजना कार्या| सम्प्रत्येषां बन्धानां गाढशिथिलादिबन्धत्वं देशाद्यनुरोधान्निरूपयति-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- बन्धानाह-स्वनामानुगताकारा इति| सङ्ग्रहे तु (सू. अ. ३८)- "तत्र कोशमङ्गुलिपर्वसु विदध्यात्| दाम सम्बाधेऽङ्गे| उत्सङ्गं विलम्बिनि| स्वस्तिकं सन्धिकूर्चभ्रूस्तनान्तरकक्षाक्षिकपोलकर्णेषु| अनुवेल्लितं शाहासु| मुत्तोलीं ग्रीवामेढ्रयोः| मण्डलं वृत्तेऽङ्गे| स्थगिकामङ्गुष्ठाङ्गुलिमेढ्राग्रमूत्रवृद्धिषु| यमकं यमलव्रणयोः| खट्वां हनुशङ्खगण्डेषु| चीनमपाङ्गयोः| विबन्धमुदरोरुपृष्ठेषु| वितानं मुर्द्धादौ पृथुलेऽग्गे| गोष्फ़णं नासौष्ठचिबुकसक्थषु| ~पञ्चाङ्गीं अत्रूर्ध्वमिति| न तु व्रणस्योपरि कुर्याद् ग्रन्थिं न चाबाधकरो यथा स्यात्| बन्ध्स्त्विष्टोऽनिले दुष्टे दष्टे भग्ने व्रणेषु च| तत्रान्त्ययोर्द्विधा बन्धः सव्यदक्षिणभेदतः|| त्रिविधस्त्वेव सर्वत्र गाढश्लथसमत्वतः| कफ़वाते घनो गाढः पित्तरक्ते तनुः श्लथः|| वातपित्ते समो बन्धः कफपित्तव्रणेशु च||" इति|

Adhikarana प्रदेशविशेषेण बन्धनविशेषः (६२-६६) · Śloka ६६

बध्नीयाद्गाढमूरुस्फिक्कक्षावङ्क्षणमूर्धसु| शाख़ावदनकर्णारःपृष्ठपार्श्वगलोदरे||६२|| समं मेहनमुष्के च, नेत्रे सन्धिषु च श्लथम्| बध्नीयाच्छ्हिथिलस्थाने वातश्लेष्मोद्भवे समम्||६३|| गाढमेव समस्थाने, भृशं गाढं तदाशये| शीते वसन्तेऽपि च तौ मोक्षणीयौ त्र्यहात्र्यहात्||६४|| पित्तरक्तोत्थयोर्बन्धो गाढस्थाने समो मतः| समस्थाने श्लथो, नैव शिथिलस्याशये तथा||६५|| सायंप्रातस्तयोर्मोक्षो ग्रीष्मे शरदि चेष्यते| |६६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ऊरुस्फिगादिषु देशेषु गाढं बन्धं बध्नीयात्, न तु श्लथम्| शाखावदनादिषु समं बन्धं बध्नीयात्| चशब्दान्मेहने मुष्कयोश्च सममेव| नेत्रे-नयने, तथाऽस्थिसन्धिषु शिथिलं बन्धं बध्नीयात्| शिथिलस्थाने शिथिलो बन्ध उपदिष्टः तत्र स्थाने यौ व्रणौ वातश्लेष्मोद्भवौ तौ समं कृत्वा बध्नीयात्, न गाढं न शिथिलम्| समस्थाने समो बन्ध उपदिष्टः, तत्र स्थाने वातश्लेष्मोद्भवौ व्रणौ गाढमेव बध्नीयात्| भृशमित्यादि| तदित्यनेन गाढाशयः परामृश्यते| गाढबन्धोद्दिष्टे स्थाने वातश्लेष्मोद्भवौ व्रणौ भृशं-सुतरां, गाढं बध्नीयात्| तौ-वातश्लेष्मोद्भवौ व्रणौ, शीते-हेमन्तशिशिराख्ये काले, वसन्ते च त्र्यहात्त्र्यहात्-त्रिदिनं त्रिदिनमन्तरीकृत्य, मोक्षणियौ-मोक्षणार्हौ भवतः| पित्तरक्तोत्थयोर्व्रणयोर्गाढबन्धस्थाने समो बन्धो मतः, न शिथिलः| समस्थाने यत्र समो बन्धः उपदिष्टः शाखावदनादौ, तत्रस्थयोः पित्तरक्तोत्थयोर्व्रणयोः शिथिलो बन्धः कार्यः| शिथिलस्य बन्धस्याशये यत्र शिथिलो बन्धः कार्य इत्युक्तं, तत्र नैव बन्धः कार्य इति| एवकारोऽवधारणार्थः कृतः| तयोः-पित्तरक्तोत्थयोः, सायंप्रातर्द्वौ कालौ मोक्ष इष्यते| ग्रीष्मे शरदि चान्यदोषोत्थव्रणस्यापि सायंप्रातर्मोक्ष इष्यते| न तु बन्धेन विना व्रणो धार्य इत्याह-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- प्रदेशविशेषेण बन्धविशेषमाह-बन्धीयादिति| ऊर्वादिषु गाढम्| शाखादिषु समम्| नेत्रादौ श्लथम्| त्र्यहान्तर्मोक्षणं सायंप्रातर्मोक्षणं च सर्वर्तुषु प्रात्पस्यैकाहान्तरमोक्षणस्य क्रतुविशेषेऽपवादः|

Adhikarana बन्धाकरणे दोषः (६६-६७) · Śloka ६७

| अबद्धो दंशमशकशीतवातादिपीडितः||६६|| दुष्टिभवेच्चिरं चात्र न तिष्ठेत्स्नेहभेषजम्| कृच्छ्ह्रेण शुद्धिं रूढिं वा याति रूढो विवर्णताम्||६७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अबद्धो व्रणो दंशादिभिः पीडितो-व्यथितः, तथाऽऽदिशब्दात् रजोधूमादिभिश्च व्यथितः, अदुष्टोऽपि दुष्टीभवति| अत्र च-व्रणे, बन्धमन्तरेण व्रणघ्नः स्नेह उपयोजितो भेषजं चोपयोजितं चिरं न तिष्ठेत्| बन्धं च विना सम्यगुपचर्यमाणोऽपि व्रणः कष्टेन शुद्धिं याति| रूढिं च कृच्छ्रेण याति| रूढोऽपि सन् विवर्णतां याति, न शरीरवर्णताम्| इत्यबन्धनाद्दोषाः| इदानीं बन्धनाद्गुणानाह-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- बन्धाकरणे दोषमाह-अबद्ध इति| स्नेहश्च भेषजं चेति द्वन्द्वः| सङ्ग्रहे तु (सू. अ. ३८)- "स्नेहश्चात्र न चिरं तिष्ठति| भेषजमचिराच्छुष्यति|" इति|

Adhikarana बन्धकरणे गुणः (६८-७०) · Śloka ७०

बद्धस्तु चूर्णितो भग्नो विश्लष्टः पाटितोऽपि वा| छिन्नस्नायुसिरोऽप्याशु सुखं संरोहति व्रणः||६८|| उत्थानशयनाद्यासु सर्वेहासु न पीड्यते| उद्वृत्तौष्ठः समुत्सन्नो विषमः कठिनोऽतिरुक्||६९|| समो मृदुररुक् शीघ्रं व्रणः शुध्यति रोहति| |७०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तुरवधारणे| बद्ध एव व्रणो बन्धमाहात्म्यात्, चूर्णितः-अस्थिसमाश्रितो व्रणः, तथा भग्नः-अस्थिसमाश्रित एव व्रणः, तथा विश्लष्टः-सन्धिस्थानादन्यस्थानगतो व्रणो नेत्रादिस्थः, तथा पाटितः-सर्वदेशस्थितोऽपि, तथा छिन्नस्नायुसिरोऽप्याशु व्रणः सुखं सम्यग्रोहति| तथोत्थानशयनाद्यासु सर्वास्वीहासु-चेष्टासु, न पीड्यते-न व्यथते| ऊर्ध्वं वृत्तौ-वर्तुलौ, ओष्ठौ यस्य स उद्वृत्तौष्ठः, न समः| तथा, समुत्सन्नः-समान्तादुच्छूनरूपो यो व्रणो न समः| तथा, विषमः उद्वृत्तौष्ठसमुत्सन्नाभ्यां व्यतिरिक्तो विषमसंस्थानः| तथा, कठिनो-यो व्रणो न मृदुः| तथा, अतिरुक् च यो व्रणः| स सर्व उद्वृत्तौष्ठादिः पञ्चप्रकारोऽपि बन्धमाहात्म्यात् अशुभरूपतां हित्वा व्रणः { समो मृदुररुक् च भवति, तथा } शीघ्रं शुद्धिं याति रोहति| ननु, उद्वृत्तौष्ठसमुत्सन्नावपि विषमकठिनशब्देनैव (ब्दाभ्यामेव) ग्रहीष्येते, किमेताभ्यामुपात्ताभ्यां ? अस्त्येवैतत्| किन्त्वनयोः पृथङ्निर्देशेनातिदुश्चिकित्स्यतरत्वं गमयति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- बन्धकरणे गुणमाह-बद्धस्त्वति| उद्वृत्तः-ऊर्ध्वं चलितः, ओष्ठः-प्रान्तो, यस्य| समुत्सन्नो-विवृद्धमांसः| विषमः-क्वचिदुच्चः क्वविन्नीचः| सत्रिविधोऽपि समो भवति| तत्तद्दोषत्यागात् कठिनो मृदुर्भवति| अतिरुक् रुजाहीनो भवति| अशुद्धः शुध्यति| अरूढो रोहति|

Adhikarana व्रणविशेषे लेपस्य पत्राच्छादनम् (७०-७२) · Śloka ७२

| स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम्||७०|| प्रच्छ्हाद्यमौषधं पत्रैर्यथादोषं यथर्तु च| अजीर्णतरुणाच्छ्हिद्रैः समन्तात्सुनिवेशितैः||७१|| धौतैरकर्कशैः क्षीरिभूर्जार्जुनकदम्बजैः| |७२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्थिराणां व्रणानां दीर्घकालानुषङ्गिणां, तथाऽल्पमांसानां-अनुपचितपललानां, अत एव हेतोः, तथा रौक्ष्यादनुपरोहतां-रूढिमगच्छतां, औषधं-कल्कस्नेहादिकं यदुपयुज्यते, तत् पत्रैः क्षीरिभूर्जार्जुनकदम्बजैः प्रच्छद्यं-स्थगितव्यम्| यथादोषं-दोषानतिक्रमेण, यथर्तु-ऋत्वनतिक्रमेण च, तद्वशाद्यथायोगम्| यथा-वातव्रणे शीतता स्निग्धोष्णैः पत्रैः, पित्तव्रणे घर्मकाले शीतस्वभावैः, कफव्रणे उष्णकाले रूक्षोष्णप्रायैः एवं च प्रावृषि काले मिश्रदोषे च कल्पनीयम्| किम्भूतैः पत्रैः ? अजीर्णानि-अजर्जराणि, तरुणानि-प्रत्यग्राणि, अच्छिद्राणि-छिद्ररहितानि, तैरजीर्णतरुणाच्छिद्रैः| तथा, समन्तात्-सर्वतः सुष्ठु निवेशितैः| तथा, धौतैः-जलादिना निर्मलीकृतैः| तथा, अकर्कशैः-अकठिनैः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- व्रणविशेषे लेपस्य पत्राच्छादनमाह- स्थिराणामिति| यहादोषं-शीते दोषे उष्णैः, उष्णे शीतैः| एवं यथर्तु| अजीर्णतरुणैः-वृद्धत्वबालत्वरहितैः| क्षीरिणः- अश्वत्थादयः|

Adhikarana व्रणविशेषे बन्धननिषेधः (७२-७४) · Śloka ७४

| कुष्ठिनामग्निदग्धानां पिटिकामधुमेहिनाम्||७२|| कर्णिकाश्चोन्दुरुविषे क्षारदग्धा विषान्विताः| बन्धनीया न मांस्पाके गुदपाके च दारुणे||७३|| शीर्यमाणाः सरुग्दाहाः शोफावस्थाविसर्पिणः| |७४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कुष्ठ्यादीनां ये व्रणास्ते न बन्धनीयाः| तथा, उन्दुरुविषे याः कर्णिकाः कोठरूपाः, ताश्च न बन्धनीयाः| तथा, क्षारदग्धा ये व्रणास्तथा विषदग्धा ये व्रणास्ते च न बन्धनीयाः| तथा, मांस्पाके व्रणास्तथा दारुणे च गुदपाके-न गुदपाकमात्रे, व्रणास्ते च न बन्धनीयाः| मांस्पाक इति "मांसस्य पचियुड्घञोः" इत्यलोपः| तथा, शीर्यमाणाः-शदनावस्थां भजमानाः, तथा सरुग्दाहाः तथा शोफावस्थाः-अनेकावस्था भजन्तोऽपि ये शोफावस्थावस्थिताः, तथा विसर्पिणो-विसर्पावस्थास्थिताः ते च न बन्धनीयाः| इदानीं सकृमीणां व्रणानां चिकित्सामाह-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- व्रणविशेषे बन्धनं निषेधति-कुष्ठिनामिति| ते च कुष्ठादिव्रणास्त्रयोदश| तत्र मधुमेहिनां पिटिकाः| उन्दुरुविषे कर्णिकाः- मूषकविषोत्थपद्मकर्णिकाकारमांसवृद्धयः विसर्पिणः-इतस्ततो व्रणाः|

Adhikarana व्रणे कृमिप्रतीकारः (७४-७७) · Śloka ७७

| अरक्षया व्रणे यस्मिन् मक्षिका निक्षिपेत्कृमीन्||७४|| ते भक्षयन्तः कुर्वन्ति रुजाशोफास्रसंस्रवान्| सुरसादिं प्रयुञ्जीत तत्र धावनपूरणे||७५|| सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः| गोमूत्रकल्कितो लेपः सेकः क्षाराम्बुना हितः||७६|| प्रच्छ्हाद्य मांसपेश्या वा व्रणं तानाशु निर्हरेत्| |७७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अरक्षया-अपालनेन. यस्मिन् व्रणे मक्षिका कृमीन्निक्षिपेत्| ते-तत्रस्थाः कृमयो, व्रणं भक्षयन्तो रुजादीन् कुर्वन्ति| तत्र-सकृमौ व्रणे, सुरसादिगणं धावनपूरणे-तन्निमित्तं, प्रयुञ्जीत| धावनं च पूरणं च तस्मिन्| तथा तस्मिन्व्रणे सप्तपर्णादीनां त्वचो गोमूत्रकल्किताः-पिष्टाः, लेपो हितः| तथा, क्षाराम्बुना सेको हितः| अथवा मांसपेश्या व्रणं प्रच्छद्य, तान्-कृमीन्, आशु निर्हरेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- व्रणे कृमिप्रतीकारमाह-अरक्षयेति| सुरसादिगणस्य व्काथेन धावनं, चूर्णेन पूरणम्| राजादनः-राजाह्वः| मांसपेश्या-मांसगर्भया पेश्या| तान्-मांसलोभात् पेशीप्रविष्टान् कृमीन्|

Adhikarana अशुद्धस्य रोपणनिषेधः (७७-७८) · Śloka ७८

| न चैनं त्वरमाणोऽन्तः सदोषमुपरोहयेत्||७७|| सोऽल्पेनाप्यपचारेण भूयो विकुरुते यतः| |७८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-न चैनं-व्रणमन्तः सदोषं त्वरमाणो वैद्य उपरोहयेत्| कस्मात् ? इत्याह-स इत्याति| यतो-यस्मात्, सः-अन्तः स्थितदोषो व्रणो, रूढोऽपि भूयः-पुनः, स्तोकेनाप्यपचारेण विकृतिं याति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अशुद्धस्य रोपणं निषेधति-न चैनमिति|

Adhikarana रूढव्रणस्य सप्तमासावधिर्नियमः (७८-७९) · Śloka ७९

| रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत्||७८|| हर्षं क्रोधं भयं चापि यावदास्थैर्यसम्भवात्| आदरेणानुवर्त्योऽयं मासान् षट् सप्त वा विधिः||७९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रूढेऽपि सत्यजीर्णादीन् विवर्जयेत्| { स्थैर्यं यावत् हर्षादीन् वर्जयेत्| } अयं-अजीर्णव्यायामव्यवायादिपरिवर्जनलक्षणो, विधिः षट् सप्त वा मासान् आदरेण-यत्नवता, अनुवर्त्यः-अनुष्ठातव्यः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- रूढव्रणस्य सत्पमासावाधिं नियममाह-रूढ इति| आदिशब्दात् क्रोधशिकभयादयः|

Adhikarana अनुक्तं स्वयमूहनीयम् (२९) · Śloka २९

उत्पद्यमानासु च तासु तासु वार्तासु दोषादिबलानुसारी| तैस्तैरुपायैः प्रयतश्चिकित्से दालोचयन् विस्तरमुत्तरोक्तम्||८०|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शस्त्रकर्मविधिर्नामैकोनत्रिंशोऽध्यायः||२९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- यथा,- मक्षिकाभिः कृमिनिक्षेपात् कृमिप्राबल्ये जाते चिकित्सा विहिता| तथा, अन्यास्वपि तासु तासु वार्तासु अवस्थास्वनिर्दिष्टस्वरूपाभिधानासु, उत्पद्यमानासु, तैस्तैः- उक्तानुक्तैः, उपायैः- साधनैः, चिकित्सेद्वैद्यः| किम्भूतो वैद्यः ? दोषादिबलानुसारी,-दोषादीनां बलं दोषादिबलम्, आदिशब्दाद्देशकालादयो गृह्यन्ते, तदनुसरत्येवंविदो यो वैद्यः सः| तथा, प्रयति-यत्नपरः| तथा, उत्तरे- उत्तरतन्त्रे व्रणभङ्गविधाने, उक्तं-निर्दिष्टं, विस्तरमालोचयन्-निरूपयन्, न तु यदृच्छयेति भावः| इन्द्रवज्रावृत्तम्| इति श्रीमृकाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने शस्त्रकर्मविधिर्नामैकोनत्रिंशोऽध्यायः समाप्तः|| २९||

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- नुक्तं स्वयमूहनीयमित्याह-उत्पद्यमानास्विति| वार्तासु-अवस्थासु| उत्तरोक्तं-उत्तरस्थानोक्तम्| इति हेमाद्रिटीकायामायुर्वेदरसायने| शस्त्रकर्मप्रकरणं सामस्त्येन निरूपितम्||