Adhikarana दिनचर्याध्यायः (२) · Śloka २
अथातो दिनचर्याध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथेति सर्वेष्वध्यायेषु मङ्गलार्थः| तथा अत इत्यानन्तर्ये प्रस्तुताभिसम्बन्धे वा| अथेत्यादिशब्दानां पूर्वाध्याये वर्णित एवार्थः| माङ्गलिको ह्याचार्यः प्रत्यध्यायारम्भे मङ्गलार्थमथशब्दं प्रयुङ्क्ते| दिने दिने चर्या दिनचर्या, दिनस्य वा चर्या दिनचर्या| चरणं चर्या| उभयलोकहितमाहारविहारचेष्टितमिति यावत्, प्रतिदिने यत्कर्तव्यम्| दिनचर्या यस्मिन्नध्यायेऽस्तीति पूर्ववत् छप्रत्ययमुत्पाद्य तल्लोपे प्रकृतिभावत्वं च प्रतिपाद्य दिनचर्येति निष्पाद्यते, तमध्यायं व्याख्यास्यामः| ननु, प्रस्तुतादायुष्कामीयादध्यायादनन्तरं कोऽस्य सम्बन्धः ?| उच्यते| यस्मादायुष्कामेण पुरुषेण यत्प्रधानमायुष्यं तदासेव्यं प्रथमतः, तदन्वन्यानि यान्यायुष्याणि| अतः प्रथमं तावदाचारप्रधानेन भवितव्यम्| यतः, "आचारादायुर्लभ्यते" इत्याचार्याः| यद्यप्यत्र रात्रिचर्याऽपि विहिता, तथापि प्राधान्याद्दिनचर्या अस्मिन्नध्याये निर्दिष्टा| अतो दिनचर्याध्यायोऽयमुच्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० दिनचर्याध्यायं व्याख्यातुं प्रतिजानीते-अथात इति| यतः पूर्वाध्याये व्याधिप्रतीकारः सामान्यसंक्षेपाभ्यां व्याख्यातः| स एवेदानीं विशेषविस्तराभ्यां व्याख्येयः| स च हेत्वादिक्रमेण| तत्रादौ बहुवक्तव्यत्वाद्बहिरङ्गो हेतुः| स द्वेधा-विहारः आहारश्च| विहारो द्वेधा-नियतकालोऽनियतकालश्च| नियतकालोऽद्वेधा-दैनन्दिनः आर्तवश्च| तत्र दैनन्दिनोऽस्मिन्नध्याये| अत एवायं दिनचर्याख्यः| स च प्रबोधादिः|
Adhikarana ब्राह्मे मुहूर्त उत्थानम् (१) · Śloka १
अस्मिंस्तन्त्रे आयुःपालनं प्रकृतम्|
तद्विविधम्, स्वस्थवृत्तमातुरवृत्तं च|
तत्र मङ्गल्यत्वात् स्वल्पवक्तव्यत्वादातुरोपयोगित्वाच्च स्वस्थवृत्तमेवादावुच्यते ब्राह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः|
|१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रात्रेश्चतुर्दशो मुहूर्तो ब्राह्मो मुहूर्तः, विषुवति समरात्रिंदिवे काले द्विघटिकोपलक्षणः| मुहूर्तस्य चेह द्विघटिकोपलक्षणार्थत्वात्सर्वस्मिन् काले रात्रेश्चतुर्घटिकावशेषे समुत्थानं कार्यमिति स्थितम्| (स्वस्थो-नीरोगः कल्यः| स आयुषो यथोपचरितस्य जीवितस्य रक्षार्थं ब्राह्मे मुहूर्त उत्तिष्ठेदभ्युत्थानं कुर्यात्| मुहूर्तो-नाडिकाद्वयम्| ब्रह्म-ज्ञानं, तदर्थमध्ययनाद्यपि ब्रह्म, तस्य योग्यो मुहूर्तो ब्राह्मः, पश्चिमयामस्य नाडिकाद्वयम्|) तस्मिन् ब्राह्मे मुहूर्त उत्तिष्ठेत्| किम्भूतः ? स्वस्थोऽनातुरः| (सुश्रुते सू.अ.१५/४८)- "समदोषः समाग्निश्च समधातुमलक्रियः| प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते" इति स्वस्थलक्षणम्| किमर्थमुत्तिष्ठेत् ? रक्षार्थमायुषो जीवितस्य| तदा ह्युत्तिष्ठतो व्याध्यलक्ष्म्याद्यभाव एवायुषो रक्षा भवति| आतुरेण धातुसाम्यार्थं स्वप्तव्यमेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- तत्र प्रबोधं विधत्ते-ब्राह्मो मूहूर्त इति| रात्रेरुपान्त्यो मुहूर्ता ब्राह्मः| तत्र उत्तिष्ठेत्-प्रबुध्येत्| स्वस्थोनीरोगः| रोगिणस्त्वनियमः|
Adhikarana शौचविधिः दन्तधावनम् (१-३) · Śloka ३
|
शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः||१||
अर्कन्यग्रोधखदिरकरञ्जककुभादिजम्|
प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम्||२||
कनीन्यग्रसमस्थौल्यं प्रगुणं द्वादशाङ्गुलम्|
भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्||३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शरीरस्य चिन्ता शरीरचिन्ता- जीर्णाजीर्णनिरूपणादिका, तां निर्वर्त्य, ततो मूत्रपुरीषादेः कृतशौचविधानः, ततोऽनन्तरं दन्तपवनमर्कादिकं भक्षयेत्| सङ्ग्रहेऽप्युक्तम् (सू.अ.३)- "ब्राह्मे मुहूर्त उत्तिष्ठेज्जीर्णाजीर्णं निरूपयन्" इत्यादि| अर्कः- सूर्याह्वः| न्यग्रोधो- यक्षावासः| खदिरो- गायत्री| करञ्जश्चिरिबिल्वः| ककुभोऽर्जुनः| आदिशब्देन मालतीकरवीरादिपरिग्रहः| कथं भक्षयेत् ? दन्तानां मांसान्यबाधयन्नपीडयन्| प्रातः- प्रत्युषसि, भुक्त्वा च- आहारं भक्षयित्वा च| मृद्वग्रं- कूर्चिताग्रम्| तथा कषायकटुतिक्तम्, रसत्रयेण ह्यनेन मुखवैरस्यारोचकश्लेष्माद्यपनयाः सम्यक् सम्पद्यन्ते| अर्काद्युपादानादेव कषायादित्वे लब्धे, कषायादिग्रहणं सङ्ग्रहादिगृहीतस्य सङ्ग्रहार्थं स्पष्टार्थं च| अर्कादिग्रहणमुदाहरणार्थं ज्ञेयम्| अत्र संक्षेपविवक्षया न दन्तपवनस्य गणसङ्ग्रहः| द्वादशाद्यङ्गुलप्रमाणत्वं श्लेष्मातकाद्यनिष्टदन्तपवननिषेधश्च तन्त्रान्तरोक्त (सङ्ग्रहोक्त) मपि नेहोक्तम्| सुश्रुतेनोक्तम् (?) "अजग्धमनुपक्लिष्टं षडष्टद्वादशाङ्गुलम्| प्रदेशनीमुखसमं मृदु स्याद्दन्तधावनम्| कूर्चिताग्रं" इत्यादि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- शौचं विधत्ते-शरीरचिन्तामिति| ततः-प्रबोधानन्तरम्| कृतशैचविधिर्भवेत्-स्मृत्युक्तविधिना मलोत्सर्गाद्याचमनपर्यन्तं कुर्यात्| किं कृत्वा शरीरचिन्तां निर्वर्त्य-निष्पाद्य| कीदृशं मे शरीरं, किञ्च मया अस्य हितमनुष्ठितं, किंवा अद्यानुष्ठेयमित्यादि विमर्शः शरीरचिन्ता| वक्ष्यति हि (सू. अ. २/४७)- "नक्तंदिनानि मे यान्ति कथम्भूतस्य सम्प्रति| दुःखभाङ्ग भवत्येवं नित्यं सन्निहितः स्मृतिः||" धर्मशास्त्रेऽपि-"ब्राह्मो मुहूर्त उत्थाय चिन्तयेदात्मनो हितम्" इति| तदा हि कृतो विमर्शो यथार्थो भवति, मनसः प्रसन्नत्वात्| दन्तधावनं विधत्ते-अर्केति| प्रातर्भुक्त्वा चेति द्विकालं दन्तपवनं भक्षयेत्| दन्ताः पूयन्ते शोध्यन्तेऽनेनेति दन्तपवनं-दन्तकाष्ठम्| तच्चार्कादिजम्| ककुभोऽर्जुनः| आदिशब्दादसनादयः| तच्च मूलम्| उक्तं हि सङ्ग्रहे (सू. अ. ३)- "वटासनार्कखदिरकरञ्जकरवीरजम्| सर्जारिमेदापामार्गमालतीककुभोद्भवम्|| कषायतिक्तकटुकं मूलमन्यदपीदृशम्| विज्ञातवृक्षं क्षुण्णाग्रमृज्वग्रन्थि सुभूमिजम्||" इति| कनीन्यग्रसमस्थ्यौल्यं-कनिष्ठिकाङ्गुल्यग्रभागवत्स्थूलम्| प्रगुणंऋजु| कषायादिरसमर्कादिभ्योऽन्यदपि ग्राह्यम्, अर्काद्यनभिव्यक्तकषायादिरसमपि ग्राह्यामित्युभयोर्ग्रहणम्| भक्षणेन भक्षणपूर्वकं दन्तघर्षणं लक्ष्यते, दन्तमांसबाधननिषेधान्यथानुपपत्तेः| न हि भक्षणमात्रेण दन्तमांसानां पीडा| उक्तं च सङ्ग्रहे (सू. अ. ३)- "प्रातर्भुक्त्वा च यतवाग्भक्षयेद्दन्तधावनम्| वाप्यत्रिवर्गत्रितयक्षौद्राक्तेन च घर्षयेत्| वाप्यं-कुष्ठम्| त्रिवर्गत्रितयं-त्रिफला, त्रिकटुकं, त्रिजातकं च| शनैस्तेन ततो दन्तान् दन्तमांसान्यबाधयन्" इति| घर्षणं चाधोदन्तपुर्वकम्| उक्तं हि सङ्ग्रहे (सू. अ. ३)- "दन्तान् पूर्वमधो घर्षेत्प्रातः सिञ्चेच्च लोचने| तोयपूर्णमुखो ग्रीष्मशरदोः शीतवारिणा" इति| ऋत्वन्तरे कोष्णवारिणेत्यर्थः|
Adhikarana दन्तधावननिषेधः (४) · Śloka ४
नाद्यादजीर्णवमथुश्वासकासज्वरार्दिती|
तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत्||४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अजीर्णादीनां द्वन्द्वः| एतानि विद्यन्ते यस्येति 'अत इनिठनौ' इति इनिः| एवं तृष्णास्येत्यादौ द्वन्द्वादिनिश्च| तद्दन्तपवनमजीर्णी न भक्षयेत्| एवं वमथ्वादीनां कर्णामय्यन्तानां सम्बन्धो योज्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- रोगविशेषे दन्तधावनं निषेधति-नाद्यादिति| अजीर्णादिरोगी, तद्दन्तपवनं, नाद्यान्न भक्षयेत्| अर्दितंएकायामः| सङ्ग्रहे तु (सू. अ. ३)- "नैव श्लेष्मातकारिष्टबिभीतधवधन्वजान्| बिल्वबब्बूलनिर्गुण्डीशिग्रुतिन्दुकतिल्वकान्|| कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलून्| पारिभद्रकमम्लीकामोचक्यौ शाल्मलीं शणम्|| स्वाद्वम्ललवणं शुष्कं सुषिरं पूति पिच्छिलम्| पालाशमासनं दन्तधावनं पादुके त्यजेत्||" इति|
Adhikarana सौवीराञ्जनम् (५) · Śloka ५
सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्|
|५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ततो-दन्तपवनभक्षणानन्तरं, सौवीराख्यमञ्जनं भजेत्| कस्मात् ? यतो हितमक्ष्णोः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अञ्जनं विधत्ते-सौवीरमिति| ततो-दन्तधावनान्तरं, सौवीराख्यमञ्जनं भजेत्| यस्मादक्ष्णोर्नेत्रयोः नित्यं-सर्वदा, हितं-पथ्यम्| अस्य च मृदुचूर्णाञ्जनत्वात्तिस्रः शलाका मानम्| सङ्ग्रहे तु फलमुक्तम् (सू. अ. ३)- "लोचने तेन भवतो मनोज्ञे सूक्ष्मदर्शने| व्यक्तत्रिवर्णे विमले सुस्निग्धघनपक्ष्मणी||" इति| सुश्रुतस्तु (चि. अ. २४/१८) स्रोतोञ्जनमाह-"मतं स्रोतोञ्जनं श्रेष्ठं विशुद्धं सिन्धुसम्भवम्| दाहकण्डूमलघ्नं च दृष्टेः क्लेदरुजापहम्||" इति| उभयोः प्रामाण्याद्विकल्पः|
Adhikarana रसाञ्जनम् (५-६) · Śloka ६
|
चक्षुस्तेजोमयं तस्य विशेषात् श्लेष्मतो भयम्||५||
योजयेत्सप्तरात्रेऽस्मात्स्रावणार्थं रसाञ्जनम्|
|६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्मात्कारणात्, स्रावणार्थं सप्तरात्रे सति, रसाञ्जनं दार्वीक्वाथसमुद्भवाख्यं, योजयेत्| यस्माच्चक्षुस्तेजोमयमाग्नेयम्| यद्यपि पञ्चमहाभूतात्मकं सर्वमपि, तथापि बाहुल्येन व्यपदेशात्तेजोमयमुच्यते| अत एव तद्रूपाण्यालोचयति| तथा च लोके कश्चिदाह-- "नरपतिरेति" इति| न चासौ नराणामेव पतिः किन्तर्हि नारीणामपीति| तस्य हि चक्षुषो वातपित्ताभ्यामपि भयमस्ति, विशेषेण तु कफाद्भयम्, ततो रसाञ्जनं योजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सौवीरापवादेन रसाञ्जनं विधत्ते-चक्षुरिति| सप्तरात्रे रसाञ्जनं योजयेत्| अन्तरार्थे सप्तमी, सप्तरात्रमन्तरं कृत्वेत्यर्थः| किमर्थं ? स्रावणार्थं,- श्लेष्मनिबर्हणार्थम्| यस्माच्चक्षुस्तेजोमयम्, ततस्तस्य श्लेष्मतः-कफाज्जलात्मकात्, विशेषाद्भयम्| वातपित्तयोस्तु विशेषभयाभावान्नित्याञ्जनेन च प्रसादनेनोपशमात् पृथक् प्रतीकाराभावः| अस्य च तीक्ष्णपिण्डाञ्जनत्वाद्धरेणुमात्रत्वम्| पिण्डत्वं च दार्वीक्काथजत्वात्| उक्तं हि-"दार्वीक्काथमजाक्षीरपादं पक्त्वा यदा घनम्| तदा रसाञ्जनाख्यं तन्नेत्रयोश्च प्रयोजयेत्||" इति| ननु "पञ्चसप्ताष्टरात्रे वा स्रावणार्थं रसाञ्जनम्|" इति (सू. अ. ५/१२) चरकवचनम्| इह तु सप्तरात्र इति विरोधः| मैवम्| पञ्चसप्ताष्टरात्राणां बहुमध्याल्पकफविषयत्वात्| ननु "निशायां तु ध्रुवमञ्जनमिष्यते" इति (सू. अ. ५/१४) चरकेणाञ्जनस्य रात्रिः काल उक्तः| इह तु दन्तधावनान्तरमिति विरोधः| मैवम्| चरकवाक्यस्य ह्ययमर्थः| यदा नित्याञ्जनं बाधित्वा पूर्वाह्णे रसाञ्जनं प्रयुज्यते तदा ध्रुवं नित्यसेव्यमञ्जनं निशायामिष्यते, अन्यदा तु प्रातरेवेत्यविरोधः| तथा च मनुः (अ. ४/१५२)- "मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम्| पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम्|" इति| मैत्रं-सूर्याराधनम्|
Adhikarana नस्यादिसेवनम् (६) · Śloka ६
|
ततो नावनगण्डूषधूमताम्बूलभाग्भवेत्||६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नावनादीनां गुणाः नस्यादिविधिषु वक्ष्यमाणा विधानं च| ताम्बूलस्य तु वैशद्यारुचिहरत्वसौगन्ध्यादिगुणाः प्रसिद्धा एव| नावनादीनां ताम्बूलान्तानां द्वन्द्वः| ततोऽञ्जनादनन्तरं, नावनगण्डूषधूमताम्बूलानि भजते यः स एवंविधो भवेत्| 'भजो ण्विः' इति ण्विः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नस्यादीन् विधत्ते-तत इति| ततोऽञ्जनादनन्तरं, क्रमेण नावनादीन् भजेत्| उक्तं हि सङ्ग्रहे (सू. अ. ३)- "अणुतैलं ततो नस्यं ततो गण्डूषधारणम्| घनोन्नतप्रसन्नत्वक्स्कन्धग्रीवाऽऽस्यवक्षसः|| सुगन्धिवदनाः स्निग्धनिस्वना विमलेन्द्रियाः| निर्वलीपलितव्यङ्गा भवेयुर्नस्यशीलिनः" इति| गण्डूषश्च स्नेहकषायोष्णोदकैः क्रमात् कार्यः| उक्तं हि सङ्ग्रहे (सू. अ. ३)- "ओष्ठस्फुटनपारुष्यमुखशोषद्विजामयाः| न स्युः स्वरोपघाताश्च स्नेहगण्डूषधारणात्|| खदिरक्षीरवृक्षारिमेदाम्बुकवलग्रहः| अरोचकास्यवैरस्यमलपुतिप्रसेकजित्|| सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम्| प्रायोगिकं ततो धूमं गन्धमाल्यादि चाचरेत्| धूमपस्योर्ध्वजत्रूत्था न स्युर्वातकफामयाः| अञ्जनोत्क्लेशितं नस्यैः कवलैर्नावनेरितम्| धूमेन कवलोत्क्लिष्टं क्रमाद्वातकफं जयेत्" इति| ताम्बूलं तु जातीफलादियुक्तम्| उक्तं हि सङ्ग्रहे (सू. अ. ३)- "रुचिवैशद्यसौगन्ध्यमिच्छन्वक्त्रेण धारयेत्| जातीलवङ्गकर्पूरकङ्कोलकटुकैः सह|| कटुकं-लताकस्तूरिकाफलम्| ताम्बूलीनां किसलयं हृद्यं पूगफलान्वितम्" इति|
Adhikarana ताम्बूलनिषेधः (७) · Śloka ७
येषां तु ताम्बूलमपथ्यं, तानाह ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम्|
विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि||७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षतं विद्यते येषां ते क्षताः| अर्श आदित्वादच्| एवं पित्तास्रा रूक्षाश्च| उत्कुपितमभिष्यन्नं चक्षुरेकं द्वे वा येषां त एवम्| क्षताश्च पित्तास्राश्च रूक्षाश्चोत्कुपितचक्षुषश्च, तेषामपथ्यमहितम्| तथा विषार्तानां मूर्च्छार्तानां मदार्तानां शोषिणां च, इत्यपिशब्दस्यार्थः| शोषिणो- राजयक्ष्मिणः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-क्षतादौ ताम्बूलं निषेधति-ताम्बूलमिति| क्षतंक्षतकासः| पित्तास्रं-रक्तपित्तम्| रूक्षो-निःस्नेहाङ्गः| उत्कुपितचक्षुः-अभिष्यन्दाख्योऽक्षिरोगः| शोषो-मुखशोषो राजयक्ष्मा च| उक्तं हि सुश्रुते (चि. अ. २४/२४)-"रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम्| रूक्षदुर्बलमत्तानां न हितं मुखशोषिणाम्||" इति| ताम्बूलं सुप्तोत्थितादौ तु पथ्यम्| उक्तं हि सङ्ग्रहे (सू. अ. ३)-"पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे| द्विपत्रमेकं पूगं च सचूर्णखदिरं च तत्" इति|
Adhikarana अभ्यङ्गः (८) · Śloka ८
तदेतत्सर्वं विधाय, भोजनासन्ने कालेऽभ्यङ्ग आचरणीय इत्याह अभ्यङ्गमाचरेन्नित्यं, स जराश्रमवातहा|
दृष्टिप्रसादपुष्ट्यायुःस्वप्नसुत्वक्त्वदार्ढ्यकृत्||८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अभ्यङ्गं नित्यं सततमाचरेत्| नित्यग्रहणं चोपलक्षणार्थम्| एकद्वित्रिदिनान्तरमपि यथोदितमाचरतो न दोषः| सोऽभ्यङ्गः, आचर्यमाणो जरा च श्रमश्च वातश्च तान् हन्तीति क्विप्| तथा दृष्टीत्यादि| दृष्टेः प्रसादो- वैमल्यं दृष्टिप्रसादः| शोभना चासौ त्वक् च सुत्वक्, तस्या भावः सुत्वक्त्वम्| दृढस्य भावो दार्ढ्यम्| "वर्णदृढादिभ्यः ष्यञ्च" इति ष्यञ्| दृष्टिप्रसादादीनां द्वन्द्वः| तानि करोति योऽभ्यङ्गः, स एवम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अभ्यङ्गं विधत्ते-अभ्यङ्गमिति| स चोत्पन्नायां क्षुधि विधेयः| तदा हि शुद्धस्रोतस्तया रोमकूपैः स्नेहो देहं व्याप्नोति, तं चोष्मा पचति| उक्तं च सङ्ग्रहे (सू. अ. ३)- "अथ जातान्नपानेच्छो मारुतघ्नैः सुगन्धिभिः| यथर्तुसंस्पर्शसुखैस्तैलैरभ्यङ्गमाचरेत्||" इति| अभ्यङ्गफलमाह- स इति| सोऽभ्यङ्गः , जरादीन् हन्ति, दृष्टिप्रसादादींश्च करोति| सुत्वक्त्वं-निर्मलनिर्वलीकत्वं त्वचः| सङ्रहे तु (सू.अ. ३)- "रथाक्षचर्मघटवद्भवन्त्यभ्यङ्गतो गुणाः| स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम्|| त्वच्यश्च परमभ्यङ्गो यस्मात्तं शीलयेदतः "| इति|
Adhikarana शिरादौ विशेषेण शीलनम् (९) · Śloka ९
शिरःश्रवणपादेषु तं विशेषेण शीलयेत्|
|९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तमभ्यङ्गम्, शिरःश्रवणपादेषु, विशेषेणातिशयेन, शीलयेदभ्यसेत्, इति वचनाच्चावश्यं न तथा सर्वशरीरेऽभ्यङ्गः कार्यः, यथैतेषु शिरःश्रवणपादेषु| अत्र च पूर्ववदेकत्वाभावः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अभ्यङ्गाभ्यासं विधत्ते-शिर इति| तमभ्यङ्गं, शीलयेदभ्यसेत् सर्वेष्वङ्गेषु, विशेषान्मूर्धकर्णाङ्घ्रिषु| एकस्मिन्नेव प्रयोगे पुनः पुनः योजनमभ्यासः| प्रत्यहं प्रयोगाभ्यासस्तु नित्यमित्यनेनैवोक्तः| सङ्ग्रहे (सू. अ. ३) तु-"स केश्यः शीलितो मूर्ध्नि कपालेन्द्रियतर्पणः| हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम्|| पादाभ्यङ्गस्तु तत्स्थैर्यनिद्राद्दष्टिप्रसादकृतु| पादसुप्तिश्रमस्तम्भसङ्कोचस्फुटनप्रणुत्||" इति|
Adhikarana अभ्यङ्गनिषेधः (९) · Śloka ९
अथेतदपवादमाह |
वर्ज्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः||९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अभ्यङ्गो वर्ज्यो- वर्जनीयः| कफग्रस्तेन कृतसंशुद्धिना अजीर्णिना च| ग्रस्तग्रहणमतिशयप्रतिपादनार्थम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अभ्यङ्गं कफग्रस्तादौ निषेधति-वर्ज्य इति| कफग्रस्तः-अतिवृद्धश्लेष्मा, कृतसंशुद्धिः-कृतवमनविरेकः, अजीर्णी च, अभ्यङ्गं वर्जयेत्| कृतसंशुद्धेस्तदहरेव निषिद्धः| उक्तं हि सुश्रुते (चि. अ. २४/३६)- "तरुणज्वर्यजीर्णी च नाभ्यक्तव्यः कथञ्चन| तथा वान्तो विरिक्तश्च निरूढो यश्च मानवः|| पूर्वयोः कृच्छ्रता व्याध्योरसाध्यत्वमथापि वा|| शेषाणां तदहः प्रोक्ता अग्निसादादयो गदाः||" इति|
Adhikarana व्यायामः (१०) · Śloka १०
लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः|
विभक्तघनगात्रत्वं व्यायामादुपजायते||१०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शरीरायासजननं कर्म व्यायाम उच्यते| तस्मात्पञ्चगुणाः लाघवादयो निष्पद्यन्ते| विभक्तानि-विभागेन स्थितानि, घनानि- दृढानि, गात्राणि यस्य स विभक्तघनगात्रः, तस्य भावस्तत्त्वमिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-इष्टसाधनत्वकथनद्वारा व्यायामं विधत्ते-लाघवमिति| व्यायामात् लाघवाद्युपजायते| तस्मात्तं कुर्यादित्यर्थसिद्धम्| विभक्तघनगात्रत्वं-सुसन्निविष्टनिबिडावयवत्वम्| आयासमात्रफलं शारीरं कर्म व्यायामः|उक्तं हि सङ्ग्रहे (सू. अ. ३)- "शरीरायासजनकं कर्म व्यायाम उच्यते" इति| तच्च नियुद्धादि| तच्चाभ्यक्तगात्रैः क्रियते, इत्यभ्यङ्गानन्तरमुक्तम्| वक्ष्यति हि (सू. अ. ३/१०)- "वातघ्नतैलैरभ्यङ्गं मूर्धतैलं विमर्दनम्| नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः" इति|
Adhikarana व्यायाम निषेधः (११) · Śloka ११
इदानीं येनासौ न कार्यस्तं दर्शयति वातपित्तामयी बालो वृद्धोऽजीर्णो च तं त्यजेत्|
|११|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातपित्तामयी, बालः- आषोडशाद्वर्षात्, वृद्धः- सप्ततेरूर्ध्वम्, अजीर्णी च, तं जह्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वातरोगादौ व्यायामं निषेधति-वातपित्तामयीति| तं-व्यायामम्|
Adhikarana व्यायाममात्रा,व्यायामकालः (११-१२) · Śloka १२
|
अर्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः||११||
शीतकाले वसन्ते च, मन्दमेव ततोऽन्यदा|
|१२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तुरवधारणे| बलवद्भिः पुरुषैः स्निग्धभोजिभिरर्धशक्त्यैव निषेव्यो व्यायामः| प्राक् श्रमाद्वायामवर्जनं कार्यमित्यर्थः| कदासौ विधातव्यः ? इत्याह- शीतकाल इति| हेमन्ते शिशिरे वसन्ते च सेव्यः| शीतर्तुवसन्ताभ्यामन्यदा मन्दमेव सेव्यः| मन्दमिति क्रियाविशेषणम्| क्रियाविशेषणानां च कर्मत्वमेकत्वं नपुंसकत्वं च वक्तव्यमिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-व्यायाममात्रामाह-अर्धशक्त्येति| अर्धशक्त्या व्यायामो निषेव्यः| किं सर्वैः? नेत्याह-बलिभिरिति| बलिभिः स्निग्धभोजिभिरिति मिलितं विशेषणम्| किं सर्वदा? नेत्याह-शीतकाल इति| शीतकाले-हेमन्तशिशिरयोः| अन्यदा तु ततोऽर्धशक्तेर्मन्दमल्पमात्रं निषेव्यः| अन्यदेत्यन्यस्यामवस्थायां अन्यस्मिंश्च ऋतौ| अन्यावस्था-बलित्वस्निग्धभोजित्वविपर्ययः| अन्यर्तुः- ग्रीष्मादित्रयम्| एव शब्देन मन्दत्वविषये अर्धशक्तेर्न प्रवेशः,अर्धशक्तिविषये तु मन्दत्वप्रवेशोऽस्तीति द्योत्यते|अर्धशक्तिलक्षणम् सुश्रुतेनोक्तम् (चि. अ. २४/४३)- "हृदि स्थानस्थितो वायुर्यदा वक्रं प्रपद्यते| व्यायामं कुर्वतो जन्तोस्तद्वलार्धस्य लक्षणम् " इति|
Adhikarana देहमर्दनम् (१२) · Śloka १२
|
तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः||१२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तं- व्यायामं, कृत्वा, अनुसुखं- यथा शरीरे बाधा न स्यात्तथा, देहं मर्दयेत्| समन्ततः- परितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० - मर्दनं विधत्ते-तं कृत्वेति| अनुसुखं-सुखानतिक्रमेण| समन्ततः-सर्वाङ्गेषु| अतिव्यायामदोषकथनात्पूर्वं मर्दनविधानं मर्दनस्य व्यायामाङ्गत्वख्यापनार्थम्| अङ्गत्वं चोक्तमेव, तं कृत्वेति| अत एवोक्तं सुश्रुतव्याख्यायां जैज्जटेन-"मर्दनमपि व्यायामान्तःपात्येव" इति| तच्च विशेषात्पद्भ्याम्| उक्तं हि सुश्रुतेन (चि. अ. २४/४३)- "व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च|| व्याधयो नोपसर्पन्ति सिंहं क्षुद्रमृगा इव||" इति|
Adhikarana अतिव्यायामनिषेधः (१३) · Śloka १३
तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः|
अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते||१३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतिव्यायामात्तृष्णादयो भवन्ति| तृष्णेति पृथक् पदम्| (तेन तृष्णादीनां पदानामकृतसमासानां निर्देशो दोषदेशाद्यनुरोधेनैकस्य द्वयोस्त्रिचतुराणां बहुतराणां सर्वेषां चाति व्यायामव्यापत्त्वद्योतनार्थः|) अतिव्यायामप्रसङ्गेनातिजागरादीनामपि व्यापदो दर्शयति-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-व्यायामप्रमाणातिक्रमे दोषमाह-तृष्णेति| क्षयो-राजयक्ष्मा| प्रतमकः-तमकश्वासभेदः| श्रमः-कर्मेन्द्रियाणां स्वव्यापाराक्षमत्वम्, क्लमो-बुद्धीन्द्रियाणाम्|
Adhikarana अतिव्यायामादिना व्यापदः (१४) · Śloka १४
व्यायामजागराध्वस्त्रीहास्यभाष्यादि साहसम्|
गजं सिंह इवाकर्षन् भजन्नति विनश्यति||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-व्यायामादीनां भाष्यान्तानां द्वन्द्वः| तान्यादिर्यस्य साहसस्य धनुराकर्षणादेस्तदेवम्| अयथाबलमारम्भः साहसम्, तद्भजन्सेवमानो विनश्यति| क इव ? सिंह इव, सिंहो विक्रमवानप्यतिबलं गजपतिं महावर्ष्माणमाकर्षन्नाक्रामन् यथा विनश्यति, तथाऽयथाबलमारब्धेन व्यायामादिना नरो मार्यत इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-व्यायामप्रसङ्गाज्जागरादीनां यथोक्तप्रमाणातिक्रमे दोषमाह-व्यायामेति| गजमाकर्षन् सिंह इव| यतःसाहसतः| अयथाबलमारम्भः साहसम्| न हि व्यायामाद्यतिभजनपर्याप्तं पुंसां बलमस्ति| अध्वस्त्रीशब्दाभ्यां गमनसम्भोगो लक्ष्येते| आदिशब्देन धनुराकर्षणादि|
Adhikarana उद्वर्तनगुणाः (१५) · Śloka १५
उद्वर्तनं कफहरं मेदसः प्रविलायनम्|
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्||१५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उद्वर्तनस्य कफहरादयश्चत्वारो गुणाः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-इष्टसाधनत्वकथनद्वारोद्वर्तनं विधत्ते-उद्वर्तनमिति| उद्वर्तनं कफहरणादिगुणम्| अतः कुर्यादित्यर्थसिद्धम्| प्रविलायनं-द्रवीकरणम्| द्रवीकृत्य मेदसः शोषणमित्यर्थः| उद्वर्तनं-कषायादिचूर्णैर्गात्रोद्धर्षणम्|
Adhikarana स्नानगुणाः (१६) · Śloka १६
दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम्|
कण्डूमलश्रमस्वेदतन्द्रातृड्दाहपाप्मजित्||१६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्नानं दीपनं वृष्यामायुष्यं च भवति| ऊर्जा- उत्साहः, बलं- प्राणः, एते प्रददाति- करोति यत्तदेवम्| कण्ड्वित्यादि| कण्ड्वादीनां द्वन्द्वः| एतान् जयति| स्नानस्य प्रभावादायुष्यत्ववृष्यत्वदीपनत्वानि बोद्दव्यानि| अथवा स्नानेन प्रहर्षो भवति, प्रहर्षणत्वाच्च वृष्यत्वम्| तथा च वक्ष्यति (उ.अ.४०/३५)- "यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्धनम्| मनसो हर्षणं यच्च तत्सर्वं वृष्यमुच्यते" इति| तथा, स्नानं जाठराग्नेर्बहिर्निर्गतानि रोमकूपाश्रितान्यर्चींषि रुद्ध्वाऽन्तर्नयति, ततश्चाग्नेः प्रबलत्वं कुर्वद् दीपनं सम्पद्यते| यथा- शीतकाले शीतानिलस्पर्शसंरुद्धस्य जाठराग्नेः प्रबलत्वम्| बालादित्यस्तु व्याचक्षिष्ट "स्नानेन भ्राजकाख्यं त्वगाश्रितं पित्तमन्तः प्रविशदूष्माणं संवर्धयति, तेन तद्दीपनम्"| अत एव परिषेके जलमुष्णमिष्यते| यस्माच्छीतं निर्वापयति तेजो न देहस्यान्तः प्रवेशयति| शीतकाले तु यच्छीतानिलस्पर्शसंरुद्धस्याग्नेः प्रबलत्वं तत्काल एवं तस्मिन्, कालस्वाभाव्यादिति बोद्धव्यम्| तथा चान्यर्तौ शीते सति मन्दाग्नित्वमेव दृश्यते| यथा- वर्षासु| अग्निमान्द्यादेवात्र हि वह्निसन्धुक्षणं भोजनं समुपदिष्टम्| तथा च मुनिः (च.सू.अ.६/३६)- "व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि| विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-इष्टसाधनत्वकथनद्वारा स्नानं विधत्ते-दीपनमिति| स्नानं दीपनत्वादिगुणम्| अतः कुर्यादित्यर्थसिद्धम्| दीपनं प्रभावात्| केचिदत्र युक्तिमाहुः-"बाह्योऽङ्गसेकैः शीताद्यैरूष्माऽन्तर्याति पीडितः| नरस्य स्नातमात्रस्य दीप्यते तेन पावकः||" इति| वृष्यं-वृषाय स्त्रीप्रसङ्गिने हितं, शुक्रवर्धनमित्यर्थः| ऊर्जोत्साहः| मलस्त्वगुपलेपः| मनःकर्मेन्द्रियव्यापारे सति बुद्धीन्द्रियोपरमस्तन्द्रा| दह्यमानवत् दुःखं दाहः| पाप्मा-पापम्|
Adhikarana उष्णशीताम्बुस्नानविषयः (१७) · Śloka १७
उष्णाम्बुनाऽधःकायस्य परिषेको बलावहः|
तेनैव तूत्तमाङ्गस्य बलहृत्केशचक्षुषाम्||१७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-उष्णाम्बुना अधःकायस्य परिषेको बलावहः- प्राणकृत्| तेनैवोष्णोदकेनैव, उत्तमाङ्गस्य- शिरसः, परिषेको विधीयमानः केशचक्षुषां बलहृत्| प्राण्यङ्गानां समाहार एव द्वन्द्व इत्यस्य प्रायिकत्वात्केशचक्षुषामित्युपपन्नमेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उष्णशीतभेदभिन्नस्य स्नानस्य विषयमाह-उष्णाम्बुनेति| उष्णाम्बुना यः परिषेकः, सोऽधःकायस्य बलावहः| स एवोत्तमाङ्गस्योर्ध्वकायस्य केशानां चक्षुषोश्च बलहृत्| तस्मात्केशचक्षुर्बलार्थिभिः शीतेन वारिणा स्नातव्यम्, इतरैरुष्णेन, इत्यर्थसिद्धम्| न त्वेकस्मिन् स्नाने शीतोष्णयोः प्रयोगः, क्रियासङ्करदोषापत्ते| सङ्ग्रहे (सू. अ. ३) तु-"नानाप्लुत्य शिरः स्नायान्न जलेऽल्पे न शीतले|" इति|
Adhikarana स्नाननिषेधः (१८) · Śloka १८
स्नानं येषामपथ्यम्, तान् दर्शयितुमाह स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु|
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम्||१८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नेत्रे चास्यं च कर्णौ च तत्र रोगाः| अर्दितं च नेत्रास्यकर्णरोगाश्चातिसारश्च ते विद्यन्ते येषां त एवम्| तेषु गर्हितमहितम्| एवं शेषेषु योज्यम्| आध्मानादीनां द्वन्द्वस्ततो मतुप्| तेन आध्मानवत्सु गर्हितमिति योज्यम्| एवं शेषेष्वपि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अर्दितादौ स्नानं निषेधति-स्नानमिति| अर्दितः-एकायामः| आध्मानमुदरापूरणम्| भुक्तवान्-कृतभोजनः| गर्हितं-निषिद्धम्|
Adhikarana जीर्णे हितभोजनम्वेगोदीर्णधारणनिषेधः व्याध्युपेश्चानिषेधः (१९) · Śloka १९
जीर्णो हितं मितं चाद्यान्न वेगानीरयेद्बलात्|
न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयम्||१९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीर्णे- सम्यक्परिणते पूर्व आहारे, अद्यात्- भुञ्जीत| किमद्यात् ? हितं- पथ्यम्| मितं- मात्रया युक्तम्| पथ्यमपि ह्यतिमात्रं हीनमात्रं वा भुक्तं दोषाय स्यात्, अतो मितम्| न वेगानित्यादि| वातविण्मूत्रादीनां सम्बन्धिनो वेगाननुन्मुखीभूतान् बलान्नैरयेन्न प्रवर्तयेत्| न वेगित इत्यादि| सञ्जातवातविण्मूत्रवेगस्तमकृत्वा नान्यकार्यः स्यात्| नान्यत्कार्यं कुर्यादित्यर्थः| नाजित्वेत्यादि| साधयितुं शक्यः साध्यः, तं रोगमजित्वा नान्यकार्यः स्यादिति योज्यम्| स ह्युपेक्षितो दुःसाध्योऽसाध्यो वा स्यात्| साध्यशब्दोपादानादसाध्यामयं प्रति यत्नो न कार्यः, चिकित्सानैष्फल्यादिति द्योतयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-भोजनं विधत्ते-जीर्ण इति| ह्यस्तने जीर्णेऽन्ने सति, अद्यात्-भुञ्जीत| किम् ? हितं,-देशकालाद्युचितम्, मितं-यथोक्तमात्रम्| ननु, विहारेष्वाहारस्योक्तिरप्रस्तुता| मैवम्| क्रियाप्राधान्याद्विहारत्वमाहारस्य| क्रियाप्रधानो हि विहारः, क्रियाद्रव्यप्रधान आहारः, अयमेव विहाराहारयोर्भेदः, क्रियाद्रव्ययोरुभयत्र भावात्| सङ्ग्रहे (सू. अ. ३) तु-"अन्नपानविधानेन भुञ्जीतान्नं विनाऽत्ययात्| अभिनन्द्य प्रसन्नात्मा हुत्वा दत्त्वा च शक्तितः|| पाकं सजलमेकान्ते यथासुखमिति ब्रुवन्| प्रयच्छेत्सर्वमुद्दिश्य पाचयेन्नान्नमात्मने| नान्नमद्यान्मूमूर्षूणां मृतानां दुःखजीविनाम्| स्त्रीजितक्लीबपतितक्रूरदुष्कर्मकारिणाम्|| गणारिगणिकासत्रधूर्तानां पणिनां न च| नोत्सङ्गे भक्षयेद्भक्ष्यान् जलं नाञ्जलिना पिबेत्|| सर्वं च तिलसम्बद्धं नाद्यादस्तमिते रवौ|| न भुक्तमात्र आयस्येन्न निषिद्धं भजेत्सुखम्||" इति| एवं प्रबोधादयो भोजनान्ता बद्धक्रमा विहारा उक्ताः| तांश्चावश्यकर्तव्यान्मन्यमानेषु नरेषु वेगोदीरणवेगधारणव्याध्युपेक्षाः सम्भाव्येरन्| अतस्तत्प्रतिषेधं करोति| तत्र वेगोदीरणं निषेधति-न वेगानिति| वेगाः-वातविण्मूत्रादयः| किं प्रवर्तमानानपि न प्रवर्तयेत् ? नेत्याह-बलात्, अप्रवृत्तान्न प्रवर्तयेदित्यर्थः| वेगधारणं निषेधति-न वेगित इति| वेगितः-सञ्जातवेगः सन्, अन्यकार्यो न स्याद्वेगानेवोत्सृजेदित्यर्थः| व्याध्युपेक्षां निषेधति-नाजित्वेति| आमयमजित्वाऽन्यकार्यो न स्यात्, आमयमेव जयेदित्यर्थः| किं सर्वम् ? नेत्यत आह-साध्यम्, असाध्यस्तु प्रयत्नवैयर्थ्यादुपेक्ष्य एव| इति बद्धक्रमविहारा व्याख्याताः|
Adhikarana धर्मप्राधान्यम् (२०) · Śloka २०
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः|
सुखं च न विना धर्मात्तस्माद्धर्मपरो भवेत्||२०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वभूतानामशेषप्राणिनां, यस्मात्सुखार्थाः प्रवृत्तयः- कर्माणि, मताः- अभिप्रेताः| सुखं च शर्माख्यं, धर्माद्विना न भवति, तस्मात्कारणात्, धर्मपरो- धर्मप्रधानः, स्यात्| धर्मादिति "पृथग्विना" इति पञ्चमी|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथाबद्धक्रमान् विहारान् व्याचष्टे, ते च प्रायेण धर्मरूपाः| तत्र धर्मस्यायुर्वेदाङ्गत्वे हेतुमाह-सुखार्था इति| सुखमारोग्यम्| उक्तं हि चरके (सू. अ. ९/४)- "सुखसंज्ञकमारोग्यं, विकारो दुःखमेव च" इति| यद्यपि षोडशात्मकाच्चिकित्सितादारोग्यं, तथापि धर्मसहकृतादेव| इति धर्मस्यायुर्वेदाङ्गत्वम्|
Adhikarana मित्रामित्राणां स्वीकारपरित्यागौ (२१) · Śloka २१
भक्त्या कल्याणमित्राणि सेवेतेतरदूरगः|
|२१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कल्याणे- शुभकर्मणि, मित्राणि- सहायाः, उपदेशादिना कल्याणमित्राणि, तानि भक्त्या- अदम्भमतिः सन्, भजेत्| इतराणि- कल्याणमित्रापेक्षयेतराणि पापमित्राणि, तेभ्यो दूरगस्तद्वर्जनपरः| तत्सङ्गो हि दृष्टादृष्टानर्थकरः| दूरग इत्यत्र "अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः" इति डः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सन्मित्रसेवां विधत्ते-भक्त्येति| कल्याणानि कल्याणहेतुत्वात्| इतराण्यकल्याणानि, तेभ्यो दूरगः सन्, कल्याणानि मित्राणी, सेवेत| कया? भक्त्या| यद्यपि भक्तिः सेवैव, तथापि फलानुसन्धाननिवृत्यर्थमेवमुक्तम्| एवं हि कृतं कर्म महाफलं भवति| अत एव वक्ष्यमाणान्यपि कर्माणि अवश्यकर्तव्यबुद्ध्या कर्तव्यानि, न तु फलानुसन्धानेन|
Adhikarana हिंसादिपापनिषेधः (२१-२२) · Śloka २२
|
हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृते||२१||
सम्भिन्नालापं व्यापादमभिध्यां दृग्विपर्ययम्|
पापं कर्मेति दशधा कायवाङ्मनसैस्त्यजेत्||२२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हिंसा- प्राण्युपघातः, स्तेयं- चौर्यम्, अन्यथाकामो- निषिद्धकामसेवा पशुस्त्रीगुरुदारगमनादि, एतत्त्रिविधं कायिकं पापं कर्म| पैशुन्यं- परेषां भेदकृद्वचनम्, परुषममृदुवचनम्, अनृतसत्यवचनम्, सम्भिन्नालापोऽसम्बद्धप्रलपनम्, चतुर्विधमेतद्वाचिकम्| व्यापादः- प्राण्युपघातचिन्ता, अभिध्या- परगुणाद्यसहिष्णुता, विषयस्पृहा वा. दृग्विपर्ययं- शास्त्रदृष्टिवैपरीत्यं नास्तिकत्वादि, त्रिविधमेतन्मानसम्| तदेतद्धिंसादि दशधा पापं कर्म कायवाङ्मनसैस्त्यजेन्न कुर्यादित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पापं निषेधति-हिंसेति| तच्च दशविधम्| तत्र हिंसा-प्राणिवधः| स्तेयं-प्राणिवधः| स्तेयं-चोर्यम्| अन्यथाकामोऽगम्यागमनम्| पैशुन्यं-परस्याऽप्रत्यक्षं तद्दोषकीर्तनम्| प्रत्यक्षं तु परुषम्| अनृतमसत्यम्| सम्भिन्नालापोऽसत्प्रलापः| व्यापादः-परानिष्टचिन्तनम्| अभिध्या-परस्वापहरणेच्छा| दृग्विपर्ययः-आप्तवाक्येष्वप्रमाणबुद्धिः| दृक्शब्देनाप्तदृष्टोऽर्थ उच्यते|
Adhikarana शक्तितोऽवृत्याद्यानुवर्तनम् (२३) · Śloka २३
अवृत्तिव्याधिशोकार्ताननुवर्तेत शक्तितः|
|२३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-न विद्यते वृत्तिर्येषां तानवृत्तीन्| शक्तितः- यथासामर्थ्यम्, अनुवर्तेत- अनुकूलं गच्छेत्| तथा, व्याधिना शोकेन चार्तांश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आर्तानुवृत्तिं विधत्ते-अवृतीति| अवृत्तिः-जीवनोपायाभावः| शोकः-इष्टवियोगजं दुःखम्| अनुवर्तेत-आर्तिनिवारणे प्रयतेत|
Adhikarana कीटादिष्वात्मवद्दर्शनम् (२३) · Śloka २३
|
आत्मवत्सततं पश्येदपि कीटपिपीलिकम्||२३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कीटान् पिपीलिकांश्चात्मवत्पश्येत्| स्वशरीरतुल्यानित्यर्थः| किमुत साधूनसाधूंश्च| कीटपिपीलिकमप्यात्मवत्पश्येदित्यपिशब्दस्यार्थः| कीटपिपीलिकमिति "क्षुद्रजन्तवः" इत्येकत्वम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-भूतदयां विधत्ते-आत्मवदिति| कीटपिपीलिकमप्यात्मवत्पश्येत्, किं पुनर्ब्राह्मणादिकम्| "आत्मनः प्रतिकूलानि परेषां न समाचरेत्" इत्यर्थः|||
Adhikarana देवाद्यर्चनम् (२४) · Śloka २४
अर्चयेद्देवगोविप्रवृद्धवैद्यनृपातिथीन्|
|२४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-देवादीनां द्वन्द्वः| देवादीनर्चयेत्| वृद्धाः- ज्ञानवृद्धाः शीलतपोवृद्धाश्च| नृपो- राजा| अतिथिः- असमानग्रामी वैश्वदेवान्ते समुपस्थितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पूज्यपूजां विधत्ते-अर्चयेदिति| पूज्याश्च देवादयः| वृद्धः-श्रुतादिभिरात्मनोऽधिकः|
Adhikarana याचकद्वेषनिषेधः (२४) · Śloka २४
|
विमुखान्नार्थिनः कुर्यान्नावमन्येत नाक्षिपेत्||२४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अर्थिनो- याचकान्, प्रत्याख्यानेन विमुखान्न कुर्यात्| नावमन्येत्- नावमानयेत्| न च परुषवचनादिना आक्षिपेत्- परिभवेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-याचकद्वेषं निषेधति-विमुखानिति| स त्रेधा, विमुखीकरणम् अवज्ञा परुपभाषणं चेति|
Adhikarana परोपकारः (२५) · Śloka २५
उपकारप्रधानः स्यादपकारपरेऽप्यरौ|
|२५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अरौ शत्रावपकारपरेऽपि सत्युपकारप्रधानः स्यात्| ननु, रिपुरपकारक एव, तत्किमपकारपर इति विशेषणेन| तथा च माघः (सर्गः २/३७)- "उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा| उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः" इति| उच्यते| न हि सर्वदैवारिरपकारं कर्तुं शक्यः स्यात्, किं तर्हि कदाचिदेव| हेत्वाद्यधीनत्वादपकारकारित्वस्य| वातादिदोषवत्| यथा- वातादयो दोषा दूषणस्वभावा अपि सन्तः कदाचिद्विकारकारित्वे समर्था भवन्ति कदाचिन्नैव| दोषत्वं तु सर्वदैव तेषाम्| तस्मादपकारपर इति युक्तं विशेषणम्| अपकारिण्युपकारकृत्स्यात् किं पुनरुपकारक इत्यपिशब्दार्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- परोपकारं विधत्ते-उपकारेति| अपकारपरेप्यरौ उपकारप्रधानः स्यात्, किं पुनरुपकारपरे मित्रादौ| अपकारासमर्थोऽप्यरिरस्तीति न पौनरुक्त्यम्|
Adhikarana सम्पदादौ समचित्तता, ईर्ष्यानिषेधः (२५) · Śloka २५
|
सम्पद्विपत्स्वेकमना, हेतावीर्ष्येत्फले न तु||२५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सम्पत्सु विपत्सु चैकमनाः- समचित्तः| सम्पत्सु हर्षेण, विपत्सु विषादादिना, न भाव्यमित्यर्थः| हेतावित्यादि| हेतौ- कारणे, ईर्ष्येत्| यथा- अयमेवं श्रुतत्यागादिगुणवान् कस्मात्, कस्मादहमप्येवं न भवेयम्| फले न तु- परकीये शोभने फले वस्त्रालङ्कारादिके नेर्ष्येत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-निर्विकारत्वं विधत्ते-सम्पद्विपत्स्विति| हेतुषु सम्पत्सु, चिषादहेतुषु विपत्सु, एकमनाः-हर्षविषादरहितचित्तो, भवेत्| ईर्ष्यां निषेधति-हेताविति| परोत्कर्षासहनमीर्ष्या| तां न कुर्यात्| यो हि बुद्धिमान्, स हेतौ-फलसाधने, ईर्ष्येत्, न तु फले| एतदुक्तं भवति, एकं फलमुद्दिश्य, तत्साधनमनुतिष्ठद्भिः परस्परेर्ष्ययाऽनुष्ठेयम्| तथा ह्यनुष्ठितं कर्म सम्यगाशु निष्पद्यते| अथ दैवानुकूल्यादेकस्य फले सिद्धे, तत्रेतरैरीर्ष्या न कर्तव्या| सा हि न फलस्य साधनम्, प्रत्युत पापरितापयोरिति|
Adhikarana भाषणम् (२६) · Śloka २६
काले हितं मितं ब्रूयादविसंवादि पेशलम्|
|२६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-काले- प्रस्तावे, हितं- पथ्यम्, मितं- न बहु, अविसंवादि- सत्यम्, पेशलं- मनोज्ञं, ब्रूयात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-भाषणं विधत्ते-काल इति| काले-प्रस्तावे, ब्रूयात्| तच्च हितं-पथ्यम्| मितं-विवक्षितार्थप्रकाशनमात्रम्| अविसंवादि-सत्यम्| पेशलं-मधुरम्|
Adhikarana सद्वर्तनप्रकारः (२६-२७) · Śloka २७
|
पूर्वाभिभाषी, सुमुखः सुशीलः करुणामृदुः||२६||
नैकः सुखी, न सर्वत्र विश्रब्धो, न च शङ्कितः|
|२७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पूर्वाभिभाषी- पूर्वालापी, स्यात्| सुमुखो- गतभ्रुकुटिः| सुशीलः- शोभनस्वभावः| तथा, करुणया मृदुरार्द्रसन्तानो मातेव पुत्रे| एकोऽद्वितीयः सन्सुखी न स्यात्| तथा, सर्वत्र- सर्वस्मिन् जने, विश्रब्धो- विश्वस्तो, न स्यात्| तथा च भगवान् व्यासः- "मायाचारे मायया वर्तितव्यम्" इति| तथा, सर्वत्र- मित्रस्वजनादिष्वपि, शङ्कितोऽविश्वस्तो, न स्यात्, तेषां वैमुख्य- दोषप्रसङ्गभयात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पूर्वाभिभाषित्वादिकं विधत्ते-पूर्वाभिभाषीति| पूर्वाभिभाषी-यदृच्छया सङ्गते सुहृदि तद्वचनात्पूर्वं कुशलप्रश्नादिकारी, भवेत्| तथा, सुमुखः-प्रसन्नवदनः| सुशीलः शिष्टानुमतव्यवहारवान्| करुणामृदुः-सत्यपि सामर्थ्ये कृपालुत्वात्परापकारसहिष्णुः| एकसुखित्वादिकं निषेधति- नैक इति| एकः सुखी न भवेत्-ज्ञातिभृत्यादिभ्यो यथायथमविभज्य सुखसाधनं नोपयुञ्जीत| तथा सर्वत्र न विश्रब्धो न च शङ्कितो भवेत्- अविश्वसनीयेषु विश्वासमशङ्कनीयेषु च शङ्कां न कुर्यात्|
Adhikarana शत्रुत्वादेरप्रकाशनम् (२७-२८) · Śloka २८
|
न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रिपुम्||२७||
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः|
|२८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आत्मनः शत्रुं कञ्चिदपि न प्रकाशयेत्| तत्प्रकाशनाद्धिः भेदः स्यात्| नात्मानं कस्यचिद्रिपुं प्रकाशयेत्| पूर्वोक्तादेव हेतोः| अपमानं- असत्कारं, कस्यचिन्न प्रकाशयेत्| प्रभोः स्वामिनः सम्बन्धिनीं निःस्नेहतां न प्रकाशयेत्| तत्प्रकाशनादसौ प्रभुर्जातावसरैर्भेदकैः सुतरां निःस्नेहीक्रियते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आत्मनः शत्रुत्वादिप्रकाशनं निषेधति-न कञ्चिदिति| आत्मनः शत्रुं न कञ्चित्प्रकाशयेत्-ममायं वैरीति न द्योतयेत्| तथा, आत्मानमपि कस्यचिद्रिपुं न प्रकाशयेत् अहमस्य वैरीति न द्योतयेत्| तथा, अपमानं-कुतोऽपि जातं तिरस्कारं, न प्रकाशयेत्| तथा, प्रभोर्निःस्नेहतां न प्रकाशयेत्-मां प्रति स्वमी सम्प्रति निःस्नेह इति न द्योतयेत्|
Adhikarana लोकप्रकृत्यनुसारेण वर्तनम् (२८-२९) · Śloka २९
|
जनस्याशयमालक्ष्य यो यथा परितुष्यति||२८||
तं तथैवानुवर्तेत पराराधनपण्डितः|
|२९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जनस्याशयमालक्ष्य- लोकस्य अभिप्रायं बुद्ध्वा परिच्छिद्य, यो जनो यथा परितुष्यति तथा तेनैव प्रकारेण दानप्रियवचनादिना तमनुवर्तेताराधयेत्| कीदृशो भूत्वा ? पराराधने पण्डितस्तज्ज्ञः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लोकरञ्जनं विधत्ते-जनस्येति| लोकस्याभिप्रायंज्ञात्वा, यो यथा परितुष्यति तं तथैवानुवर्तेत| कीदृशः ? पराराधनपण्डितः-परसन्तोषोत्पादनप्रकारेषु सुनिष्ठितो भूत्वा|
Adhikarana इन्द्रियाणां लालनपीडननिषेधः (२९) · Śloka २९
न पीडयेदिन्द्रियाणि व चैतान्यति लालयेत्||२९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इन्द्रियाणि- रसनादीनि, कदन्नाशनादिना न पीडयेन्न निगृह्णीयात्| न चैतानीन्द्रियाण्यति लालयेदतिशयेन विलासयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-इन्द्रियपीडां इन्द्रियातिलालनं च निषेधति न पीडयेदिति| स्पष्टम्|
Adhikarana त्रिवर्गशून्यकर्मानारम्भः (३०) · Śloka ३०
त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन्|
|३०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्रयाणां धर्मार्थाकामानां वर्गस्त्रिवर्गः, तेन शून्यं- रहितं, आरम्भमुद्यमं, न भजेत्- न कुर्यात्| कथं भजेत् ? तं च त्रिवर्गमविरोधयन्- परस्परमबाधयन्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-त्रिवर्गशून्यमारम्भं निषेधति-त्रिवर्गशून्यमिति| त्रिवर्गो-धर्मार्थकामाः, तैः शून्यं-तेषामन्यतमं यो न फलति तं, न सेवेत| त्रिवर्गपरस्परविरोधयुक्तमारम्भं निषेधति- तं चाविरोधयन्निति| तं त्रिवर्गं परस्परं विरोधयन्नारम्भं न भजेत्| यत्रारम्भे धर्मादिष्वेको नश्यत्येक उत्पद्यते, तं त्यजेदित्यर्थः|
Adhikarana सर्वधर्मैषु मध्यममार्गानुवर्तनम् नीचरोमत्वादिकम् (३०) · Śloka ३०
|
अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम्||३०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वधर्मेषु मध्यमां प्रतिपदं प्रतिपत्तिमनुयायात्- सर्वेष्वाचारेषु मध्यमं मार्गमनुवर्तेत| नैकत्रासक्तिं कुर्यादित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सर्वधर्मानुसरणं विधत्ते-अनुयायादिति| सर्वधर्मेषु मध्यमां प्रतिपदमनुयायात्-सर्वेष्वात्मकृत्येषु रागद्वेषरहितां बुद्धिमनुसरेत्| मध्यस्थः सर्वान् धर्माननुतिष्ठेदित्यर्थः|
Adhikarana नीचरोमत्वादिकम् स्नानशीलादिः (३१) · Śloka ३१
नीचरोमनखश्मश्रुर्निर्मलाङ्घ्रिमलायनः|
स्नानशीलः सुसुरभिः सुवेषोऽनुल्बणोज्ज्वलः||३१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नीचान्यदीर्घाणि रोमनखश्मश्रूणि यस्य स एवंभूतो भवेत्| रोमाणि- बाहूरुप्रभृतिषु रोमाणि केशाश्चोच्यन्ते| तथा च "हृषेर्लोमसु" इत्यत्र सूत्रे विवृतम्- 'लोमानि मूर्धजान्यङ्गजानि चेह गृह्यन्ते' इति| नीचलोमादिकफलं च मुनिनोक्तम् (च.सू.अ.५/९६)- "पौष्टिकं धन्यमायुष्यं शुचि रूपविराजनम्| केशलोमनखादीनां कृन्तनं सम्प्रसाधनम्" इति| तथाङ्घ्री- पादौ| मलायनानि- घ्राणकर्णादीनि| निर्मलान्यङ्घ्रिमलायनानि यस्य स एवम्| अस्य च फलम् (च.सू.अ.५/९५)-- "मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्| पादयोर्मलमार्गाणां शौचादानमभीक्ष्णशः" इति| स्नानं शीलयतीति स्नानशीलो- नित्यस्नायी स्यात्| तथा, सुसुरभिः- सुगन्धिः| शोभनो जीर्णमलिनवस्त्रादिविवर्जितो वेषो यस्य स सुवेषः| अनुल्बणोऽनुद्धतः, स चासावुज्ज्वलश्चानुल्बणोज्ज्वलः| अनुद्धतवेषः उज्ज्वलश्च स्यादित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नीचरोमत्वादिकं विधत्ते-नीचेति| नीचत्वं छेदेन कार्यम्| रोमशब्देन केशा अपि गृह्यन्ते| उक्तं हि चरके (सू.अ. ८/१८)-"त्रिः पक्षस्य केशश्मश्रुतोमनखान्संहारयेत्" इति| तथा, निर्मलाङ्घ्रिमलायनः| मलायनं-श्रोत्रादि| स्नानशीलः-कालद्वयेऽपि स्नाननिष्ठः, प्रत्यहं स्नानस्य प्राग्विहितत्वात्| उक्तं च चरकेण (सू. अ. ८/१८)- "द्वौ कालावुपस्पृशेत्" इति| सुसुरभिर्गन्धमाल्यादिधारणेन| सुवेषो वस्त्रालङ्कारादिधारणेन| अनुल्बणोज्ज्वलोऽनुद्धतशृङ्गारः| उज्ज्वलः-शृङ्गाररसः|
Adhikarana रत्नादिधारणम् (३२) · Śloka ३२
धारयेत्सततं रत्नसिद्धमन्त्रमहौषधीः|
|३२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- धारयेदित्यादि| रत्नानि- मणयो वज्रपद्मरागादयः| सिद्धमन्त्रोऽपराजितादिः| महौषधिः- सहदेव्यादिका| रत्नादीनां द्वन्द्वः| रत्नादीर्बाहुग्रीवादिषु, सततं- सदैव, धारयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रत्नादिधारणं विधत्ते-धारयेदिति|
Adhikarana सञ्चारप्रकारः (३२) · Śloka ३२
|
सातपत्रपदत्राणो विचरेद्युगमात्रदृक्||३२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-युगमात्रदृग्विचरेद्भ्रमेत्| युगं- हस्तचतुष्टयम्, तत्पश्यति यः स एवम्| एवं कुर्वन्सम्मुखमागच्छद्भिर्गवाश्वादिभिर्नोपद्रूयते| तथा, सहातपत्रेण- छत्रेण, पदत्राणेन- पदाधारपर्यायेण, यो वर्तते स एवम्| पादत्रच्छत्रयोश्च गुणा उक्ताः- "मारुतस्यानुलोम्याय खुडस्तम्भश्रमापहम्| अन्वर्थसंज्ञं पादत्रं बलदृक्शुक्ररक्षणम्| वर्ण्यं नेत्रहितं छत्रं वातवर्षातपापहम्" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पर्यटनं नियच्छति-सातपत्रेति| आतपत्रं छत्रम्| पदत्राणे-उपानहौ| युगं-हस्तचतुष्टयम्, तन्मात्रं पुरः पश्यन्विचरेत्|
Adhikarana निशि सञ्चारे विशेषः (३३) · Śloka ३३
निशि चात्ययिके कार्ये दण्डी मौली सहायवान्|
|३३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रात्रौ चात्ययिके कार्ये दण्डी सन् विचरेत्| दण्डेन सर्पादीनामुत्त्रासमपि चोक्तम्| तथा (सुश्रुते चि.अ.२४/७६)- "शुनः सरीसृपव्यालविषाणिभ्यो भयापहम्| श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते| सत्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम्| अवष्टम्भकरं चापि भयघ्नं दण्डधारणम्||" इति| तथा च (चरके सू.अ.५/९९)- "स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम्| अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्" इति| मौलीशिरोवेष्टनयुक्तः| अनेनोपरिष्टात् पततां पतङ्गकीटादिमूत्रपुरीषादीनां रक्षा| तथा, सहायवान्| अनेनापि चित्तावष्टम्भः| दण्डशब्दात् "अत इनिठनौ" इति इनिः, मौलिशब्दाच्च व्रीह्यादित्वात्, तस्य ह्याकृतिगणत्वमिति केचित्| आत्ययिक इति| अत्ययः- कृच्छ्रम्| तस्मिन् भवमित्यध्यात्मादित्वाठ्ठञ्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रात्रिपर्यटनं नियच्छति-निशीति| यत्कार्यं कालप्रतीक्षां न सहते तदात्ययिकम्| तस्मिन्सति दण्डादियुक्तः सन् रात्रौ विचरेत्| मौलिः-शिरोवेष्टनम्|
Adhikarana चैत्यादिच्छायाद्याक्रमणनिषेधः (३३-३४) · Śloka ३४
|
चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन्||३३||
नाक्रामेच्छर्करालोष्टबलिस्नानभुवो न च|
|३४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चैत्यो- विशिष्टदेवताधिष्ठितो लोकप्रसिद्धो वृक्षविशेषः, बुद्धालय इत्यन्ये| पूज्यो- गुरुपित्रादिः| ध्वजश्चिह्नम्| अशस्ताश्चण्डालादयः, अशस्तममङ्गल्यं वस्तु इत्यन्ये| एषां छायाम्| तथा, भस्म-भूतिः| तुषो- धान्यादित्वक्| अशुचिर्विट्, यद्वा उच्छिष्टं वस्तु| तदेतन्नाक्रामेत्| शर्करा- सूक्ष्मपाषाणाकृतिर्मृत्खण्डिका| तथा, लोष्टं- मृत्पिण्डादिखण्डः| बलिर्देवताद्यर्चनम्| स्नानं प्रसिद्धम्| बलिश्च स्नानं च बलिस्नाने, तयोर्भुवौ बलिस्नानभुवौ| शर्करा च लोष्टं च बलिस्नानभुवौ च ता नाक्रामेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-चैत्यादिच्छायाद्याक्रमणं निषेधति-चैत्येति| चैत्यो-ग्रहाधिष्ठितो वृक्षः पूज्यो-देवादिः, ध्वजो-यूपादिः, अशस्तश्चण्डालादिः, तेषां छायां नाक्रमेत्| तथा, भस्मभूतिम्| तुषं-धान्यत्वचम्| अशुचीन्-विण्मूत्रोच्छिष्टनि| शर्करादिव्याप्तान्| शर्करा-वालुका, लोष्टं-मृत्पिण्डः, बलिः-पूजोपहारः| स्नानं-स्नानोदकम्|
Adhikarana बाहुभ्यां नदीतरणनिषेधादि (३४-३५) · Śloka ३५
|
नदीं तरेन्न बाहुभ्यां, नाग्निस्कन्धमभिव्रजेत्||३४||
सन्दिग्धनावं वृक्षं च नारोहेद्दुष्टयानवत्|
|३५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- नदीं- तरङ्गिणीं, दोर्भ्यां न तरेत्| अग्निस्कन्धमभि- अग्निराशेरभिमुखं, न व्रजेत्| सन्दिग्धा चासौ नौश्च तां, नारोहेन्नोच्चलेत्| सन्दिग्धायाः शिथिलबन्धनत्वाज्जर्जरत्वादतिभाराक्रान्तत्वात्पारगमनं प्रति सन्देहः| चेति समुच्चये| वृक्षं च नारोहेत्| कथम् ? दुष्टयानवत्| यथा दुष्टयानमश्वादिकं नारोहेत् तथेति| दुष्टयानारोहणमपि चोक्तयाऽनया निषिद्धम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बाहुभ्यां नदीतरणं निषेधति-नदीमिति| अग्निकन्धाभिमुखं गमनं निषेधति-नाग्निस्कन्धमिति| अग्निस्कन्धो-महानग्निराशिः| सन्दिग्धनावाद्यारोहणं निषेधति-सन्दिग्धनावमिति| सन्धिग्धा-शङ्क्यमानमज्जना| दुष्टं यानं-शङ्क्यमानपतनमश्वादि| तस्य च दृष्टान्तत्वेनोपादानं तदारोहणस्य निषेधविषयत्वख्यापनार्थम्|
Adhikarana क्षुत्यादिकरणप्रकारः (३५) · Śloka ३५
|
नासंवृतमुखः कुर्यात्क्षुतिहास्यविजृम्भणम्||३५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नासंवृतास्यः क्षुत्यादीन् कुर्यात्| हस्तादिना मुखं पिधाय कुर्यादित्यर्थः| क्षुतिः- छिक्का, हास्यं- हसनम्, विजृम्भणं- जृम्भिका, एषां समाहारद्वन्द्वः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अनाच्छादितमुखस्य क्षवथ्वादिकं निषेधतिनासंवृतमुख इति|
Adhikarana नासाविकोषणनिषेधादि (३६) · Śloka ३६
नासिकां न विकुष्णीयान्नाकस्माद्विलिखेद्भुवम्|
नाङ्गैश्चेष्टेत विगुणं, नासीतोत्कटकश्चिरम्||३६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नासां न विकर्षेत्| मलोत्सारणमात्रं तु कार्यमेव, इति विशब्देन द्योतयति| अकस्मात्- कारणं विना, भुवं- पृथ्वीं, न विलिखेत्- नोत्कर्षेत्| अङ्गैर्हस्तपादादिभिः, विगुणं- अननुगुणं यथा भवति तथा, न चेष्टेत- न व्याप्रियेत| उत्कटकं स्थितमवस्थानं यस्य स एवम्भूतो नासीत| चिरं च तिष्ठेदित्यर्थः, अर्शोरोगाद्युत्पत्तेः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नासिकानिष्कोषणं निषेधति-नासिकामिति| नासिका छिद्रोपलक्षणम्| तेन गलकर्णनासिकास्रोतोदशनाक्षिविवराणि| उक्तं हि सुश्रुते (चि. अ. २४/९५)- "न गलकर्णनासास्रोतोदशनाक्षिविवराण्यभिनिष्कुष्णीयात्" इति| निष्कारणं भूमिविलेखनं निषेधति-नाकस्मादिति| विगुणामङ्गचेष्टां निषेधति-नाङ्गैरिति| विगुणं-अनार्जवम्| चिरकालमुत्कटकासनं निषेधति-नासीतेति|
Adhikarana श्रमात्प्राग्दोहवाक्चेष्टाः (३७) · Śloka ३७
देहवाक्चेतसां चेष्टाः प्राक् श्रमाद्विनिवर्तयेत्|
नोर्ध्वजानुश्चिरं तिष्ठेत्|३७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-देहादीनां द्वन्द्वः| एषां सम्बन्धिनीश्चेष्टाः क्रियाः श्रमात्खेदात् पूर्वं विनिवर्तयेत्| तावद्धनुराकर्षादि कुर्याद्यावन्नातीव श्रमः स्यादित्यर्थः| तथा, ऊर्ध्वे जानुनी यस्य स ऊर्ध्वजानुश्चिरं नासीत|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-श्रमोत्पत्तेः प्रागेव सर्वचेष्टोपरमं विधत्तेदेहेति| व्यायामस्य श्रमैकफलत्वान्निवृत्तिकालाभिधानाच्च तद्द्यतिरिक्ताऽत्र देहचेष्टा ग्राह्या| चिरकालमूर्ध्वजानुस्थितं निषेधति-नोर्ध्वजानुरिति| यो जङ्घे सङ्कोच्योत्तानः शेते, यश्चोर्ध्वं तिष्ठति, स ऊर्ध्वजानुः|
Adhikarana रात्रौ द्रुमादिसेवननिषेधः,सूनादिसेवननिषेधः (३७-३८) · Śloka ३८
नक्तं सेवेत न द्रुमम्||३७||
तथा चत्वरचैत्यान्तश्चतुष्पथसुरालयान्|
सूनाटवीशून्यगृहश्मशानानि दिवाऽपि न||३८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नक्तं- रात्रौ, द्रुमं- तरुं, न सेवेत| तदाश्रितकीटमूत्रशकृदादिपातरक्षार्थम्| चत्वरं- त्रिपथम्| अन्ये त्वाहुः- "यत्र प्रदेशे नगरनिवासिनो ग्राम्या वा समेत्य नानाविधाः कथाः कुर्वन्ति, स चत्वर उच्यते"| चैत्यान्तः- चैत्यसमीपम्, चतुष्पथं- मार्गचतुष्टयसङ्गमः, सुरालयो- देवगृहम्, एतांश्च नक्तं न सेवेत| सूना- वधस्थानम्, अटवी- निर्जनो देशः, शून्यगृहं- उज्जटं भवनम्, श्मशानं- पितृवनम्, एतानि दिवाऽपि न सेवेत| अपि शब्देन रात्रौ नितरामसेवनमाह|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-रात्रौ द्रुमादिसेवां निषेधति-नक्तमिति| ग्रामाद्बहिर्यत्रोपविश्य ग्राम्याः सर्वे कथाः कुर्वते, यश्च त्रयाणां पथां सङ्गमः, स चत्वरः| चैत्यान्तः-चैत्यसमीपम्| चतुष्पथः-चतुर्णां पथां सङ्गमः| सुरालयो-देवकुलम्| सूनादिसेवां निषेधयति-सूनेति| सूना- वधस्थानम्| अटवी-अरण्यम्| अपिशब्दाद्रात्रावपि न|
Adhikarana उद्यदादित्यदर्शननिषेधादि (३९) · Śloka ३९
सर्वथेक्षेत नादित्यं, न भारं शिरसा वहेत्|
नेक्षेत प्रततं सूक्ष्मं दीप्तामेध्याप्रियाणि च||३९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आदित्यं सर्वथा- उद्यन्तमस्तं यान्तं प्रतिमागतमुपरक्तं वा, नेक्षेत| तथा, भारं शिरसा न च वहेन्न नयेत्| प्रततं- अनवरतं, सूक्ष्मं वस्तु नेक्षेत| दीप्तं चामेध्यं चाप्रियं च तानि प्रततं नेक्षेत| ननु, तर्हि सर्वथा नेक्षेतेत्यनेन कोऽर्थः ? यतो रविरपि दीप्तः, दीप्तग्रहणेनैवास्य दर्शननिषेधः सिद्धः| अस्त्येवैतत्| किन्तु सर्वप्रकारमादित्यं नेक्षेत| दीप्तं त्वनवरतं नेक्षेतेति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आदित्यदर्शनं निषेधति-सर्वथेति| ननु "नोद्यन्तमस्तमायान्तं तपन्तं प्रतिमागतम्| उपरक्तं च भास्वन्तं वाससा वा तिरोहितम्||" इति सङ्ग्रहे (सू. अ. ३)| इह तु सर्वथा, इति विरोधः| मैवम्| यो ह्यदृष्टमेव दोषं जिहासुः, तं प्रत्युदयादिनिषेधः| यस्तु, दृष्टमपि, तं प्रति सर्वप्रकारेणेत्यविरोधः| पुरस्ताद्दीप्तनिषेधादेव निषेधे सिद्धेऽप्युदयाद्यदीप्तावस्थासु निषेधार्थमिदम्| शिरसा भारवहनं निषेधति- न भारमिति|प्रततादिदर्शनम् निषेधयति- नेक्षेतेति| प्रततं- विस्फारिताक्षम्, क्रियाविशेषणमिदम्| सूक्ष्मं- अणु| दीप्तम्-तेजस्वि|अमेध्यम्-अशुचि|अप्रियम्-द्विष्टम्|
Adhikarana मद्यविक्रयादिनिषेधः (४०) · Śloka ४०
मद्यविक्रयसन्धानदानादानानि नाचरेत्|
|४०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विक्रयो- विनिमयः, इयत्प्रमाणमधुनेदं दीयत इति| सन्धीयते येन तत्सन्धानम्- अनेकद्रव्यसम्भारो येन तत्- मद्यं यथावत्प्रमाणेन सन्धीयते| दानं- यथाशास्त्रं स्वत्वनिवृत्तिः परस्वत्वापादानम्| आदानं- यथाशास्त्रमेव परस्माद् ग्रहणम्| एतेषां द्वन्द्वः| ततो मद्यशब्देन षष्टीसमासः| मद्यविक्रयादीनि नाचरेत्| द्विजविषयं चैतद्वाक्यमिति बोध्यम्| सर्वस्य तु निषेधात् क्रयादिव्यवहारोच्छेदः स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मद्यविक्रयादीनि निषेधति-मद्यविक्रयेति| विक्रयो-मूल्येन दानम्| सन्धानं- उत्पादनम्| आदानं प्रतिग्रहः| मद्यस्यौषधेषु विधानात् क्रयपानयोरनिषेधः|
Adhikarana पुरोवातादित्यागादि (४०-४४) · Śloka ४४
|
पुरोवातातपरजस्तुषारपरुषानिलान्||४०||
अनृजुः क्षवथूद्गारकासस्वप्नान्नमैथुनम्|
कूलछायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिनः||४१||
हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः|
सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम्||४२||
शत्रुसत्रगणाकीर्णगणिकापणिकाशनम्|
गात्रवक्त्रनखैर्वाद्यं हस्तकेशावधूननम्||४३||
तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्|
मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्त्रीषु च त्यजेत्||४४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त्यजेदिति क्रिया वक्ष्यमाणा| पुरःशब्दस्य वातातपाभ्यां प्रत्येकं सम्बन्धः| पुरोवातः- पूर्वदिगागतो वातः| पुर आतपः- पूर्वातपः| पुरोवातादीन् पञ्च त्यजेत्| अनृजुः- विषमस्थितशरीरः, क्षवथ्वादीन् षट् त्यजेत्| अनृज्विति क्रियाविशेषणमिति केचिह्याचक्षते| अन्नमत्र शाल्यादि| कूलं- वप्रः, तच्छायां त्यजेत्| तत्र हि तिष्ठतस्तत्पाताद्भयं स्यात्| नृपद्विष्टं- राज्ञोऽप्रियं, त्यजेत्| व्यालो- दुष्टहस्त्यादिः, दंष्ट्रिणः- सर्पाद्याः, विषाणिनो- गवाद्याः, तांस्त्यजेत्| हीनाः- कुलशीलवित्तादिभिर्न्यूनाः, अनार्याः- असाधवः, अतिनिपुणाः- अतिगणनापराः, तेषां सेवां त्यजेत्| उत्तमैरिति सहार्थे गम्यमाने तृतीया| उत्तमैः सह विग्रहं त्यजेत्| सन्ध्यास्वभ्यवहारादीन् पञ्च त्यजेत्| शत्रुसत्रेत्यादि| शत्र्वशनं त्यजेत्| सत्रं- यज्ञः, तस्याशनं त्यजेत्| ऋत्विजादीन् वर्जयित्वा, अन्यस्य हि तदशनं निषेधति| तथा हि- "यज्ञान्ते तदुद्भूतपापोपशमनीयं प्रायश्चित्तं श्रूयते"| गणाः- कथकचारणादयः, तैराकीर्णं- व्याप्तमशनं त्यजेत्| गणिका- वेश्या, तस्याः सम्बन्ध्यशनं त्यजेत्| तदशनाद्धि तप्तापसङ्क्रमणं स्यात्| पणिकः- पणोपजीवी, इतरवणिगित्यर्थः| (तथा हि (सङ्ग्रहे सू. अ, ३)- "गणारिगणिकासत्रधूर्तानां पणिनां न च " इति|) पणिका इति "नौद्व्यचष्ठन्" इति ठन्| पणिको हि पापीयान्निन्द्रितपण्यादिविक्रीणानः प्रशंसतीत्यादि हेतोः| गात्रेत्यादि| गात्राणि-अङ्गानि, तैस्तथा वक्त्रेण नखैश्च वाद्यं त्यजेत्| तथा, हस्तावधूननं केशावधूननं च त्यजेत्| (अवधूननं-कम्पनम्|) तोयेत्यादि| मध्यशब्दः प्रत्येकं सम्बध्यते| तोययोर्द्वयोर्मध्येन यानं त्यजेत्| न यायादित्यर्थः| एवमग्न्योर्मध्येन| तथा, पूज्ययोर्मध्येन| समासकरणात्तोयाग्न्योस्तोयपूज्ययोरग्निपूज्ययोरपि मध्येन न यायादिति बोद्धव्यम्| तथा, धूमं , शवाश्रयं-शवोद्भूतं, त्यजेत्| मध्येत्यादि| मध्येऽतिसक्तिः- अतिसेवा, तां त्यजेत्| स्त्रीषु-योषासु, विश्रम्भं-विश्वासं स्वातन्त्र्यं च त्यजेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पुरोवातादीन् निषेधति-पुरोवातेत्यादि| पुरोवातः-पूर्वदिग्वायुः| आतपो-घर्मः| रजो-धूलिः| तुषारो-अवश्यायः| परुषानिलः-चण्डवातः| अनृजुरिति क्षवथ्वादिषट्कविषयं कर्तृविशेषणम्| अन्नं-भोजनम्| कूलं-रोधः, तस्य छाया| नृपद्विष्टो- राजद्वेष्यः| व्यालो-दुष्टगजादिः| दंष्ट्री-सर्पादिः| विषाणी-महिषादि| सन्ध्यास्वित्यभ्यवहारादिपञ्चकविषयम्| अभ्यवहारो-भोजनम्| स्त्रीशब्देन सम्भोगोलक्ष्यते| चिन्तनं-अधीतपरामर्शः| शत्र्वादीनामशमम्| शत्रुः-वैरी| सत्रं-यज्ञः| गणाः-बहवो मिलित्वा दातारः| आकीर्णो-योग्यायोग्यमविचिन्त्यान्नदाता| गणिका-वेश्या| आपणिको-वणिक्| गात्रादिभिर्वाद्यम्| वाद्यं-शब्दानुकारि| वक्त्रेण वंशादेर्नखेन वीणादेर्वादनं निषेद्धुं पृथग्ग्रहणम्| अवधूननं-कम्पनम्| तोययोः, अग्न्योः, पूज्ययोः, तोयाग्न्योः, तोयपूज्ययोः, अग्निपूज्ययोश्च मध्येन यानम्| शवाश्रयो धूमः-प्रेतधूमः| मद्यातिसक्तिः-मद्यपानरतिः| स्त्रीष्विति विश्रम्भस्वातन्त्र्यविषयम्| विश्रम्भो-विश्वासः|
Adhikarana सर्वचेष्टासु लोकोपदेष्टृत्वम् (४५) · Śloka ४५
आचार्यः सर्वचेष्टासु लोक एव हि धीमतः|
अनुकुर्यात्तमेवातो लौकिकेऽर्थे परीक्षकः||४५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हि-यस्मात्, धीमतो- बुद्धियुक्तस्य, सर्वचेष्टासु- निः- शेषव्यापारेषु, लोक एवाचार्यः- उपदेष्टा, अतः- अस्माद्धेतोः, तमेव- लोकमेव, लौकिकेऽर्थे परीक्षकः पुरुषोऽनुकुर्यात्| यथा लोको व्यवहरति तथा व्यवह्नियादित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-लोकादेवाचारशिक्षां विधत्ते-आचार्य इति| हि-यस्मात्, धीमतः पुरुषस्य सर्वस्य सर्वत्र लोक एवाचार्यः-शिक्षकः| अतोऽस्मात्तमेवानुकुर्यात्| यथा लोक आचरति तथा आचरेदित्यर्थः| कथम्भूतः ? लौकिकेऽर्थे परीक्षकः,-लोके कः किमर्थं, किमाचरतीति परीक्षां कुर्वन्|
Adhikarana सद्व्रतस्वरूपम् (४६) · Śloka ४६
आर्द्रसन्तानता त्यागः कायवाक्चेतसां दमः|
स्वार्थबुद्धिः परार्थेषु पर्याप्तमिति सद्व्रतम्||४६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आर्द्रसन्तानता- सर्वसत्त्वेषु कृपालुत्वम्| त्यागो- दानम्| कायवाक्चेतसा त्रयाणां दमः- उपशमः| परार्थेषु- परप्रयोजनेषु, स्वार्थबुद्धिः- यथा अयमेव स्वार्थो यः परार्थः, इत्युभयलोकहितत्वम्| इति- एवंप्रकारं, सद्व्रतं पर्याप्तम्| समाप्तमित्यर्थः| सत् शोभनं च तद्व्रतं च सद्व्रतम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उक्तेषु विहारेषु धर्मं विवेचयति-आर्द्रसन्तानतेति| आर्द्रः-करुणरसभावितत्वात् त्यक्तकाठिन्यः, सन्तानः-चित्तवृत्तिपरम्परा, यस्येति आर्द्रसन्तानः| तस्य भावः आर्द्रसन्तानता, परमकारुणिकत्वम्| त्यागो-दानम्| कायादीनां दमः-तच्चापलनिग्रहः| परार्थेषु-परकार्येषु, स्वार्थबुद्धिः-स्वार्थवत्तात्पर्यम्| इति-एतच्चतुष्टयम्| पर्याप्तं-सम्पुर्णो धर्मः| सद्व्रतं-सतां व्रतमवश्यकर्तव्योऽर्थः|
Adhikarana आचारावहितत्वम् (४७) · Śloka ४७
नक्तंदिनानि मे यान्ति कथम्भूतस्य सम्प्रति|
दुःखभाङ्न भवत्येवं नित्यं सन्निहितस्मृतिः||४७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नक्तंदिनानि- रात्रिदिनानि, सम्प्रति- इदानीं, कथम्भूतस्य- कीदृशस्य सतः, मे- मम, यान्ति| एवं नित्यं सन्निहितस्मृतिः सन् पुमान् दुःखभाक् न भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-इष्टसाधनत्वकथनद्वारेणाचारावहितत्वं विधत्ते-नक्तंदिनानीति| किंदेशस्य, किंकालस्य, किंवयसः, किंमनसः, किंकार्यस्य मम, सम्प्रति नक्तंदिनानि यान्तीत्येवं सन्निहितस्मृतिः सन् दुःखभाक् न भवति| अतः सर्वदैवावहितेन भवितव्यमित्यर्थः|
Adhikarana आचारफलम् (२) · Śloka २
इत्याचारः समासेन, यं प्राप्नोति समाचरन्|
आयुरारोग्यमैश्वर्यं यशो लोकांश्च शाश्वतान्||४८||
इति श्रीवैद्यपतिसिंहगुप्तसूनु श्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दिनचर्या नाम द्वितीयोऽध्यायः||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- इति- समाप्तौ| समासेन- संक्षेपेण, तावदयमाचारः पूर्वोक्तः| यं समाचरन्ननुतिष्टन् (पुरुषः) आयुरादीन् प्राप्नोति| तथा, लोकान्- भूर्भुवःस्वःप्रभृतीन्, शाश्वतान्- नित्यान्| ननु, शाश्वतशब्दो न युक्तः| यतः शश्वच्छब्दस्य कालवाचित्वात् "कालाठ्ठञ्" इति ठञ् प्राप्नोति| तथा, "अव्ययानां च सायम्प्रातिकाद्यर्थमुपसंख्यानम्" इति टिलोपश्च प्राप्नोति| नैतदस्ति| "नस्तद्धिते" इत्यत्र सूत्रे ह्युक्तम्- "शाश्वत इत्यादौ तु टिलोपो नेष्यते| कालादिति योगविभागाच्चाण्" इति| तस्माच्छाश्वतश्ब्दो न्याय्य एवेति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने द्वितीयोऽध्यायः समाप्तः|| २||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अध्यायार्थमुपसंहरति-इतीति| आचारः-शिष्टानुमतो व्यवहारः| समासेनेति धर्मशास्त्रापेक्षया, न त्वायुर्वेदान्तरापेक्षया, न्यूनत्वदोषापत्तेः, विस्तरत्वप्रतिज्ञाभङ्गापत्तेश्च| आचारफलमाह-यमिति| एश्वर्यं-अप्रतिहतशक्तित्वम्| शाश्वतान् लोकान्-विष्णुलोकादीन्| सङ्ग्रहे तु (सू. अ. ३)- "ब्राह्मो मुहूर्त उत्तिष्ठेत् जीर्णाजीर्णे निरूपयन्| रक्षार्थ मायुषः स्वस्थो जातवेगः समुत्सृजेत्|| उदङ्मुखो मूत्रशकृद्दक्षिणाभिमुखो निशि| वाचं नियम्य प्रयतः संवीताङ्गोऽवगुण्ठितः|| प्रवर्तयेत्प्रचलितं न तु यत्नादुदीरयेत्| नामेध्य मार्गमृद्भस्मगोस्थानाकीर्णगोमये|| पुरान्तिकाग्रिवल्मीकरम्योत्कृष्टचितिद्रुमे| न नारीपूज्यगोर्केन्दुवाय्यन्नाग्निजलं प्रति|| न चातिरस्कृत्य महीं, भयाशक्त्योस्तु कामतः| निःशल्यादुष्टमृत्पिण्डीपरिमृष्टमलायनः| अभ्युद्दृताभिः शुचिभिर्मृद्भिरद्भिश्च योजयेत्|| लेपगन्धापहं शौचमनुत्पतितबिन्दुभिः| स्पृष्ट्वा धातून्मलानश्रु वसाकेशनखांश्वयुतान्|| स्रात्वा भोक्तुमना भुक्त्वा सुप्त्वा क्षुत्वा सुरार्चने| रथ्यामाक्रम्य चाचामेदुपविष्ट उदङ्मुखः| प्राङ्मुखो वा विविक्तस्थो न बहिर्जानु नान्यदृक्| अजल्पन्नुत्तरासङ्गी स्वच्छैरङ्गुष्ठमूलगैः|| नोद्धृतैर्नानतो नोध्व नाग्निपक्वैर्न पूतिभिः| न फेनबुद्बुदक्षारैर्नैकहस्तार्पितैर्जलैः|| नार्द्रैकपाणिर्नामेध्यहस्तपादो न शब्दवत्| लिखेदनुसुखं जिह्वां जिह्वानिर्लेखनेन च| तथाऽस्य मलवैरस्यगन्धा जिह्वास्यदन्तजाः रुचिवैशद्यलघुता न भवन्ति भवन्ति च|| प्रणम्य देवान् वृद्धांश्च मङ्गलाष्टशतं शुभम्| शृण्वन् काञ्चनविन्यस्तं सर्पिःपश्येदनन्तरम्|" (सङ्ग्रहे शा. अ. १२)-"दधिघृतमधुलाजपुष्पाक्षतोदुम्बराश्वत्थमुक्तामणि छत्रदूर्वाकुशादर्शकन्याध्वजस्यन्दनाष्टापदाक्षाः नृपश्रीतरुभद्रपीठानि, सस्यानि, मत्स्याः, हयाः, हंसचाषा, वृषः केसरी, दक्षिणावर्तशङ्खाब्जसिद्धार्थकाः, रोचना, स्वस्तिकस्तोरणं, कीचका वेणवः, वरुणमधु, मदासिक्तगण्डो गजः, तोयलम्बोऽम्बुदः, पूर्णकुम्भो, हरिद्राद्रिरिन्द्रः, फलान्याममांसं, सितं चामरं, गौः सवत्सा, अङ्गना पुत्रिणी, मानुषं वर्धमानं, सहस्रं नराणां, प्रयुक्तानि यानानि, धन्वन्तरिर्वामनो, ब्राह्मणो, भूमिरभ्युद्दृता, सिद्धमन्नं, वराहश्च तोयात्थितः, त्रिनयनमधुसूदनस्कन्दपद्मासनाः, लोकपालाः, सुराः, खं, दिशोऽग्निः, सरांसि, स्रवन्त्यः, समुद्राः, मखाः, मारुतो, ज्योतिषं, धर्मशास्त्राणि, तीर्थानि, काव्यं, धर्मार्थकामामृतं, वालखिल्यादयो, वेदवाक्यं, निधिः, कौस्तुभः, काञ्चनं, माणिभद्रः, सुमेरुः, प्रियङ्गुः, प्रदीपो, वचा, मोदकौ, दितिरदितिररुन्धती, बुद्धिः, सावित्र्युमाऽऽशगङ्गा, शची, देवसेना, सुधा, शान्तिर्लक्ष्मीः, सरस्वत्यपत्य, क्षमा, स्वस्तिशब्दो, वषट्कारः, ओंकारपुण्याहधर्मक्रियाश्चैतदष्टोत्तरं मङ्गलानां शतं दर्शनात्स्पर्शनात्कीर्तनाच्चाशुभानि व्यपोह्यार्थसिद्धिं दिशत्युत्तमाम्"| अष्टापदं-शारिफलम्| अक्षः-पाशकः| वरुणमधु-वारुणी सुरा| (सङ्ग्रहे सू. अ. ३)- "गन्धमाल्यादिकं वृष्यमलक्ष्मीघ्नं प्रसाधनम्| वासो न धारयेज्जीर्णं मलिनं रक्तमुल्बणम्|| माल्यंन लम्बं न बहिर्न रक्तं जलजादृते| नैव चान्येन विधृतं वस्त्रं पुष्पमुपानहौ|| उत्तिष्ठेत ततोऽत्यर्थमर्थेष्वर्थानुबन्धिषु| निन्दितं दीर्घमप्यायुरसन्निहितसाधनम्| कृषिं वणिज्यां गोरक्षामुपायैर्गुणिनं नृपम्| लोकद्वयाविरुद्धां च धनार्थी संश्रयेत्क्रियाम्|| मुक्तवेगस्तु गमनस्वप्नाहारसभास्त्रियः| पाणिनाऽऽलम्य निष्क्रामेद्रत्नपूज्याज्यमङ्गलम्|| प्राव्रुत्य पर्यटेद्रात्रौ न प्रावृत्य शिरोऽहनि| मध्याह्ने सन्ध्ययो रात्रावर्धरात्रे चतुष्पथम्|| न सेवेत, न शर्वर्यां वृक्षचैत्यान्तचत्वरम्| न हुंकुर्याच्छवं , पूज्यं प्रशस्तान्मङ्गलानि च|| नापसव्यं परिक्रामेन्नेतराण्यनुदक्षिणम्| चतुष्पथं नमस्कुर्यात्प्रज्ञातांश्च वमस्पतीन्|| न व्यालिव्याधिताशस्तैर्नादान्तक्षुत्पिपासितैः| न छिन्नपुच्छैर्नैकाक्षैर्गोपृष्ठेन च न व्रजेत्|| नातिप्रगेऽतिसायं, वा न नभोमध्यगे रवौ| नासन्निहितपानीयो नातितूर्णं न सन्ततम्|| न शत्रुणा नाविदितैर्नैको नाधार्मिकैः सह| दद्याद्वर्त्मार्तवृद्धस्त्रीभारिचक्रिद्विजन्मने|| चक्री-रथी| स्नानभोजनपानानि बाह्येभ्यो नाचरेत्पुरः| (*निपातयेन्न लोष्टेन न फलेन फलं द्रुमात्|| न वार्यमाणः प्रविशेन्नाद्वारेण न चासने| स्वयं तिष्ठेत् परगृहे, युक्तनिद्रं न बोधयेत्|| नाचरेत् पाणिवाक्पाददृङ्मोढ्रोदरचापलम्| त्रिःपक्षस्य कचश्मश्रुनखरोमाणि कर्तयेत्|| न स्वहस्तेन दन्तैर्वा, स्नानं चानु समाचरेत्|) स्नानोदकावतरणे स्वप्नं नग्नो न चाचरेत्|| पञ्चपिण्डाननुद्धृत्य न स्नायात्परवारिणि| नात्मानमीक्षेत जले न तटस्थो जलाशयम्|| न प्रतिस्फालयेदम्बु पाणिना चरणेन वा| स्नात्वा न मृज्याद्गात्राणि धुनुयान्न शिरोरुहान्|| निवसीतार्द्र एवाशु सोष्णीषे धौतवाससी| न त्वम्बरं पूर्वधृतं न च तैलवसे स्पृशेत्|| वासोऽन्यदन्यच्छयने निर्गमे देवतार्चने| धर्मोत्तराभिरर्थ्याभिः कथाभिस्त्रिगुणात्मभिः|| मध्यं दिनस्य गमयदिष्टशिष्टसहायवान्| न लोकभूपविद्विष्टैः सङ्गच्छेत न नास्तिकैः|| कलिवैररुचिर्न स्याद्धीरः सम्पद्विपत्तिषु| श्रुतादन्यत्र सन्तुष्टस्तत्रैव च कुतूहली|| क्षान्तिमान् दक्षिणो दक्षः सुसमीक्षितकार्यकृत्| ह्नीमान् धीमान् महोत्साहः संविभागी प्रियातिथिः|| अक्षुद्रवृत्तिर्गम्भीरः साधुराश्रितवत्सलः| (* दाता पितृभ्यः पिण्डस्य यष्टा होता कृपात्मकः|| अनुज्ञाता सुवार्तानां दीनानामनुकम्पकः| आश्वासकारी भीतानां क्रुद्धानामनुनायकः||) वित्तबन्धुवयोविद्यावृत्तैः पूज्या यथोत्तरम्| आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम्| सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम्|| परस्य दण्डं नोद्यच्छेत्क्रुद्धोनैनं निपातयेत्| अन्यत्र पुत्राच्छिष्याद्वा शासनार्हाद्धिताशयः|| नृत्यवादित्रगीतादिषूल्बणां नाचरेत्क्रियाम्| (*प्रसिद्धकेशवाग्वेषशमसान्त्वपरायणः|) ऊर्ध्वं नाभेः शरीरस्य स्पृशेन्नाधरवाससा| न कुर्यान्मिथुनीभूय शौचं प्रति विलम्बनम्| पाणिद्वयेन युगपत्कण्डूयेन्नात्मनः शिरः|| (*वहेन्न भारं शिरसा युगपच्चाग्निवारिणी|) पादं पादेन नाक्रामेन्न कण्डूयेन्न शौचयेत्| न कांस्यभाजने तौ च नोपविष्टः प्रसारयेत्|| नासमिद्धमुपासीत हुताशं नैव चाशुचिः| नानुवातं न विवृतो न क्लान्तो नान्यमानसः|| धमेन्नास्येन न स्कन्देन्नाधः कुर्यान्न पादतः| न स्कन्देत्-न विकिरेत्| सततं न निरीक्षेत चलसूक्ष्माप्रियाणि च|| नाप्रशस्तं न विण्मूत्रं न दर्पणममार्जितम्| नान्यदप्यतितेजस्वि न क्रुद्धस्य गुरोर्मूखम्|| स्त्रीं न स्रवन्तीं नोदक्यां न नग्नां नान्यसङ्गताम्| न पत्नीं भोजनस्वप्नक्षुत्तृट्जृम्भासुखासने|| शयीतनैकशयने न चाश्नीयात्तया सह| तामनीर्ष्यंश्च गोपायेत् स्वैरिणीं नाधिवासयेत्|| नोच्छिष्टस्तारकाराहुतुहिनांशुदिवाकरान्| पश्येन्न यायान्न पठेन्न स्वप्यान्न स्पृशेच्छिरः|| पाययन्तीं चरन्तीं वा नान्यस्मै गां निवेदयेत्| अर्केन्दुपरिवेषोल्काशतक्रतुधनूंषि च|| नान्यद्देवार्चने कुर्यात्कर्म, धावेन्न वर्षति| तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेत्|| नात्मनो जन्मलग्नर्क्षधनसारं गृहे मलम्| सशब्दमनिलं हस्तभ्रूनेत्रोत्क्षेपणं त्यजेत्|| हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः| आरोग्यजीवितैश्वर्यविद्यासुस्थितिमानिताम्|| नैकाहमप्यधिवसेद्वास्तु तच्छास्त्रगर्हितम्| न देशं व्याधिबहुलं नावैद्यं नाप्यनायकम्|| नाधर्मिजनभूयिष्ठं नोपसृष्टं न पर्वतम्| वसेत् प्राज्याम्बुभैषज्यसमित्पुष्पतृणेन्धने|| सुभिक्षक्षेमतारोग्यपण्डितैर्मण्डिते पुरे| नामराणां न सिद्धानां शास्त्राणां वा जुगुप्सकः|| आराधकस्त्रिवर्गस्य यथायोग्यं जनस्य च| दश कर्मपथान् रक्षन् जयेदाभ्यन्तरानरीन्|| परोपघातक्रियया वर्जयेदर्जनं श्रियः| अर्थानां बह्वनर्थानामदाताऽपि ह्यसम्भवात्|| स्वर्गापवर्गविभवानयत्नेनाधितिष्ठति| सायं भुक्त्वा लघु हितं समाहितमनाः शुचिः|| शास्तारमनुसंस्मृत्य शर्वयां चाथ संविशेत्| देशे शुचावनाकीर्णे द्वित्राप्त परिचारकः|| युक्तोपधानं स्वास्तीर्णं विस्तीर्णाविषमं सुखम्| जानुतुल्यं मृदु शुभं सेवेत शयनासनम्|| प्राग्दक्षिणशिराः पादावकुर्वाणो गुरून् प्रति| पूर्वापरनिशाभागे धर्ममेवानुचिन्तयन्|| आददीत सदा देहादित्थं सारमसारतः| बिभ्यत्प्रतिक्षणं मृत्योरयथातथचेष्टितात्|| आरोग्यविभवप्रज्ञावयोधर्मक्रियावतः| सुखमायुर्हितं चोक्तं विपरीतं विपर्यये|| सर्वतेजोनिधानं हि नृप इत्युच्यते भुवि| अदूषयन्मनस्तस्माद्भक्तिमांस्तमुपाचरेत्|| पर्यस्तिकोपाश्रयकोपहासविवादनिष्ठीवनजृम्भणानि| सर्वाः प्रकृत्यभ्यधिकाश्च चेष्टास्तत्सन्निधाने परिवर्जयेच्च| सत्त्वाद्यवस्था विविधाश्च तास्ताः सम्यक् समीक्ष्यात्महितं विदध्यात्| अन्योऽपि यः कश्चिदिहास्ति मार्गो हितोपदेशेषु भजेत तं च||" इति| इत्यबद्धक्रमा विहाराः| इति हेमाद्रिटीकायामायुर्वेदरसायने| दिनचर्याप्रकरणम् सामस्त्येन निरूपितम्|| २||