Adhikarana अध्यायोपक्रमः · Śloka
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अर्शोनिदानादनन्तरमतिसारग्रहणीरोगनिदानारम्भः| यतो वक्ष्यति (हृ. चि. अ. ८|१६४) - "अर्शोतिसारग्रहणीविकाराः प्रायेण चान्योन्यनिदानभूताः|" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana अतीसारग्रहणीरोगनिदानाध्यायः (२) · Śloka २
तस्मादतीसारग्रहणीरोगनिदानं प्रक्रम्यत इत्याह - - - - अथातोऽतीसारग्रहणीदोषनिदानं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पूर्ववद्व्याख्या|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana अतीसारः षड्विधः (१) · Śloka १
दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः|
अतीसारः|१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषैर्व्यस्तैः-पृथग्वातपित्तकफैः, समस्तैः-सन्निपातेन, तथा भयात् शोकाच्चेति षड्विधोऽतीसारः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana अतीसारस्य निदानम् (१-४) · Śloka ४
|
स सुतरां जायतेऽत्यम्बुपानतः||१||
कृशशुष्कामिषासात्म्यतिलपिष्टविरूढकैः|
मद्यरूक्षातिमात्रान्नैरर्शोभिः स्नेहविभ्रमात्||२||
कृमिभ्यो वेगरोधाच्च तद्विधैः कुपितोऽनिलः|
विस्रंसयत्यधोऽब्धातुं हत्वा तेनैव चानलम्||३||
व्यापद्यानुशकृत्कोष्ठं पुरीषं द्रवतां नयन्|
प्रकल्पतेऽतिसाराय|४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स च सुतरामत्यम्बुपानात् जायते| कृशशुष्कामिषादिभिस्तथा तद्विधैः-वातप्रकोपहेतुभिरिहानुक्तैरपि, अनिलः कुपितोऽब्धातुं शरीरगतमधो विस्रंसयति-अधस्तान्नयति| स्नेहविभ्रमः-स्नेहव्यापत्तिः| तेनैव-अब्धातुना, अनलं-जठराग्निं, हत्वा-मन्दत्वं नीत्वा, तथा कोष्ठं व्यापद्य-शून्यतां कोष्ठस्य कारयित्वा, अनुशकृत्-शकृतः समीपे, न तु सर्वं कोष्ठम्| पुरीषं च तेनैव धातुना द्रवतां नयन्-प्रापयन्| अतीसाराय कल्पते-सम्पद्यते| अनिल इति योज्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana अतीसारस्य पूर्वरूपम् (४-५) · Śloka ५
|
लक्षणं तस्य भाविनः||४||
तोदो हृद्गुदकोष्ठेषु गात्रसादो मलग्रहः|
आध्मानमविपाकश्च|५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्य-अतीसारस्य, भाविनो-भविष्यतो लक्षणं, तोदो हृदादिषु गात्रसादादि च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana वातजानां लक्षणम् (५-७) · Śloka ७
|
तत्र वातेन विड्जलम्||५||
अल्पाल्पं शब्दशूलाढ्यं विबद्धमुपवेश्यते|
रूक्षं सफेनमच्छं च ग्रथितं वा मुहुर्मुहुः||६||
तथा दग्धगुडाभासं सपिच्छापरिकर्तिकम्|
शुष्कास्यो भ्रष्टपायुश्च हृष्टरोमा विनिष्टनन्||७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-[तत्र-] तेषु षडतीसारेषु, वातेनातीसारे विड्जलादिकं शुष्कमुखादिको नर उपवेश्यते| किं कुर्वन् ? विनिष्टनन्| कोऽर्थः ? निःकुथन्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana पित्तजानां लक्षणम् (८-९) · Śloka ९
पित्तेन पीतमसितं हारिद्रं शाद्वलप्रभम्|
सरक्तमतिदुर्गन्धं तृण्मूर्च्छास्वेददाहवान्||८||
सशूलं पायुसन्तापपाकवान्|
|९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तेन तृडादिमान्नरः पीतादिकमुपवेश्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
००००
Adhikarana कफजानां लक्षणम् (९-११) · Śloka ११
श्लेष्मणा घनम्|
पिच्छिलं तन्तुमच्छ्वेतं स्निग्धमामं कफान्वितम्||९||
अभीक्ष्णं गुरु दुर्गन्धं विबद्धमनुबद्धरुक्|
निद्रालुरलसोऽन्नद्विडल्पाल्पं सप्रवाहिकम्||१०||
सरोमहर्षः सोत्क्लेशो गुरुबस्तिगुदोदरः|
कृतेऽप्यकृतसंज्ञश्च|११|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लेष्मणा घनादिगुणं नर उपवेश्यते| निद्रालुस्तथाऽलसोऽन्नद्वेषी च स्तोकं स्तोकं सह प्रवाहिकया वर्तते सप्रवाहिकं चोपवेश्यते| तथा, सरोमहर्षादिकः स्यात्| कृतेऽप्यकृतसंज्ञश्च-तथा कृतेऽप्यकृतसंज्ञश्च पुरीषोत्सर्गेऽकृतसंज्ञः कृतपुरीषोत्सर्ग इति संवेदना न भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana त्रिदोषस्य लक्षणम् (११) · Śloka ११
|
सर्वात्मा सर्वलक्षणः||११||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वात्मा-सन्निपातेन, सर्वदोषलिङ्गः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
००००
Adhikarana भयजस्य लक्षणम् (१२-१३) · Śloka १३
भयेन क्षोभिते चित्ते सपित्तो द्रावयेच्छकृत्|
वायुस्ततोऽतिसार्येत क्षिप्रमुष्णं द्रवं प्लवम्||१२||
वातपित्तसमं लिङ्गैराहुः|
|१३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भयेन चित्ते क्षोभिते सति पित्तसहितो वायुः शकृद्द्रावयेत्| ततोऽनन्तरमतिसार्येत, क्षिप्रादिगुणयुक्तं लिङ्गैर्वातपित्ततुल्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana शोकजस्य लक्षणम् (१३) · Śloka १३
तद्वच्च शोकतः|
|१३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तद्वच्च-भयेन तुल्यलिङ्गं, शोकादतिसार्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana षण्णामतीसाराणां प्रत्येकं द्वैविध्यद्विकम् (१३-१४) · Śloka १४
|
अतीसारः समासेन द्विधा सामो निरामकः||१३||
सासृङ्निरस्रः|
|१४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतीसारः षोढा भवन् द्विप्रकारः सङ्क्षेपेण| एकः सामो द्वितीयो निरामकः| तथा, एकः सरक्तो द्वितीयो निरस्रः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana सामस्य लक्षणम् (१४) · Śloka १४
तत्राद्ये गौरवादप्सु मज्जति|
शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तस्मिन्, आद्ये-सामेऽतीसारे, गौरवादप्सु पतितं पुरीषं मज्जति-ब्रुडति, दुर्गन्धं च स्यात्| आटोपादियुतस्य पुंसः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana निरामस्य लक्षणम् (१५) · Śloka १५
विपरीतो निरामस्तु कफात्पक्वोऽपि मज्जति|
|१५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-निरामस्त्वतीसारोऽतो विपरीतः-अप्सु प्लवति, आटोपादिरहितस्य पुंसः| स०-कफात्पुनः स्वभावगुरुत्वात् पक्वोऽपि मज्जति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana ग्रहणीरोगस्य निदानम् (१५-१६) · Śloka १६
अथ ग्रहणीरोगं लक्षयति - - - - |
अतीसारेषु यो नातियत्नवान् ग्रहणीगदः||१५||
तस्य स्यादग्निविध्वंसकरैरन्यस्य सेवितैः|
|१६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतीसारेषु योऽतियत्नवान्न भवति तस्य ग्रहणीगदो भवेदिति ग्रहण्या निदानम्| अन्यस्य-अनतिसारिणः, अग्निविध्वंसकरैः-वह्निमान्द्यहेतुभिरन्नपानैः, शीलितैर्ग्रहणीरोगः स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana अतीसारस्य मेदकलक्षणम् (१६-१७) · Śloka १७
अतीसारग्रहणीरोगयोः समानाभासत्वात् को विशेषः ? इत्याह - - - - |
सामं शकृन्निरामं वा जीर्णे येनातिसार्यते||१६||
सोऽतिसारोऽतिसरणादाशुकारी स्वभावतः|
|१७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सामं पुरीषमथवा निरामं जीर्ण आहारे सति येन-व्याधिना, अतिसार्यते-अत्यर्थं बहिर्निःसार्यते, स व्याधिरतीसारः| अतिसरणाद्धेतोः| अतिसरणशब्दनिर्देशेन चास्यान्वर्थत्वं द्योतितम्| तदेवमतिसरणादतीसार इत्युच्यते| ननु, एवं सति यदा ग्रहणीदोषेऽप्यतिसरणं कथञ्चित्स्यात्तदा तस्याप्यतीसारत्वं स्यादित्याशङ्क्याह-आशुकारीत्यादि| प्रभावप्रधानोऽयं निर्देशः| हेतौ प्रथमा| स्वभावेनाशुकारित्वादतीसारो ग्रहणीदोषादन्य इत्यर्थः| ग्रहणीदोषो हि नाशुकारी, किन्तर्हि ? चिरकृत्| तथा चाह (श्लो. १८)- "चिरकृद्ग्रहणीदोषः" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana ग्रहणीरोगस्य मेदकलक्षणम् (१७-१८) · Śloka १८
अथ ग्रहणीदोषस्य स्वरूपं वर्णयन्नतीसाराद्भूयो मेदमाह - - - - |
सामं सान्नमजीर्णेऽन्ने जीर्णे पक्वं तु नैव वा||१७||
अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः|
चिरकृद्ग्रहणीदोषः सञ्चयाच्चोपवेशयेत्||१८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ग्रहणीदोषोऽजीर्णेऽन्ने सामं कदाचित्सान्नं, कदाचिज्जीर्णेऽन्ने पक्वं तथा नैव वा| अकस्मात्-कदाचिन्निमित्तमन्तरेणापि, मुहुर्मुहुः-पुनःपुनर्बद्धं, कदाचिन्निमित्तं विना मुहुः शिथिलं, सञ्चयादुपवेशयेदिति योज्यम्| अयं तु ग्रहणीदोषश्चिरकृत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana ग्रहणीरोगश्चतुर्धा (१९) · Śloka १९
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते|
|१९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सः-ग्रहणीदोषः, पृथग्दोषैः-वातपित्तकफैः, सन्निपातेन चेति चतुष्प्रकारो जायते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana ग्रहणीरोगस्य पूर्वरूपम् (१९-२०) · Śloka २०
|
प्राग्रूपं तस्य सदनं चिरात्पचनमम्लकः||१९||
प्रसेको वक्क्रवैरस्यमरुचिस्तृट् क्लमो भ्रमः|
आनद्धोदरता छर्दिः कर्णक्ष्वेडोऽन्त्रकूजनम्||२०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्य-ग्रहणीदोषस्य, प्राग्रूपं सदनं चिरात्पचनादि च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana ग्रहणीरोगस्य सामान्यलक्षणम् (२१) · Śloka २१
सामान्यं लक्षणं कार्श्यं धूमकस्तमको ज्वरः|
मूर्च्छा शिरोरुग्विष्टम्भः श्वयथुः करपादयोः||२१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चतुर्विधस्यास्य ग्रहणीगदस्य सामान्यं लक्षणं कार्श्यादिकम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana वातजस्य लक्षणम् (२२-२५) · Śloka २५
तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः|
पार्श्वोरुवङ्क्षणग्रीवारुजाऽभीक्ष्णं विषूचिका||२२||
रसेषु गृद्धिः सर्वेषु क्षुत्तृष्णा परिकर्तिका|
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते||२३||
वातहृद्रोगगुल्मार्शःप्लीहपाण्डुत्वशङ्कितः|
चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्||२४||
पुनःपुनः सृजेद्वर्चः पायुरुक्श्वासकासवान्|
|२५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु चतुर्षु गदेषु मध्ये, वातात्तालुशोषादि स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana पित्तजस्य लक्षणम् (२५-२६) · Śloka २६
|
पित्तेन नीलपीताभं पीताभः सृजति द्रवम्||२५||
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः|
|२६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तेन पीताभः सन् तथा पूत्यम्लोद्गाराद्यर्दितो नीलवर्णादिकं वर्चः सृजति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana कफजस्य लक्षणम् (२६-२९) · Śloka २९
|
श्लेष्मणा पच्यते दुःखमन्नं छर्दिररोचकः||२६||
आस्योपदेहेनिष्ठीवकासहृल्लासपीनसाः|
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु||२७||
उद्गारो दुष्टमधुरः सदनं स्त्रीष्वहर्षणम्|
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्||२८||
अकृशस्यापि दौर्बल्यम्|
|२९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लेष्मणा दुःखं-कृच्छ्रेण, अन्नं पच्यते| छर्द्यादि च स्यात्| तथा, हृदयं स्त्यानं-पिण्डितमिव, मन्यते| जठरं निश्चलं गुरु च| उद्गारश्च दुष्टमधुरः स्यात्| सदनं शरीरस्य| स्त्रीष्वहर्षणादि च स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana सन्निपातजस्य लक्षणम् (२९) · Śloka २९
सर्वजे सर्वसङ्करः|
|२९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्वजे-सन्निपातजे, सर्वेषां लक्षणानां सङ्करो-मिश्रत्वं, भवति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana विषमाद्यास्त्रयोऽग्नयोऽपि ग्रहणीदोषाः (२९-३०) · Śloka ३०
|
विभागेऽङ्गस्य ये चोक्ता विषमाद्यास्त्रयोऽग्नयः||२९||
तेऽपि स्युर्ग्रहणीदोषाः|
|३०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अङ्गस्य विभागे च ये विषमाद्याः-विषमतीक्ष्णमन्दाः, त्रयोऽग्नय उक्तास्तेऽपि ग्रहणीदोषाः स्युः| ननु, एवं सति सप्त ग्रहणीदोषा इति प्राप्नोति| मैवम्| मुख्याः सप्राप्तिपूर्वरूपरूपनिर्देशादियुक्ताश्चत्वार एव ग्रहणीगदाः| ये तु विषमाद्यास्त्रयस्ते ग्रहणीरोगाभासा इति बोध्यम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana समोऽग्निः स्वास्थ्यदः (३०) · Śloka ३०
समस्तु स्वास्थ्यकारणम्|
|३०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-समः पुनरग्निः स्वास्थ्यस्य-आरोग्यस्य, कारणम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००
Adhikarana अष्टौ महारोगाः (८) · Śloka ८
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः|
अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः||३०||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थानेऽतीसारग्रहणीदोषनिदानं नामाष्टमोऽध्यायः||८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातव्याध्यादयोऽष्टौ महारोगाः सुदुस्तराः-विषमाः| तस्मात्तेषु यत्नः कार्य इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थानेऽतिसारग्रहणीदोषनिदानं नामाष्टमोऽध्यायः समाप्तः|| ८||
आयुर्वेदरसायनम् व्याख्या ( कृत)
०००००