Skip to content

. अर्शोनिदनाध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

मदात्ययनिदानादनन्तरमर्शोनिदानारम्भो युक्तः| यतः "अरिभिर्निजैः परिष्वङ्ग" (हृ. नि. अ. ६|४०) इत्युक्तम्, अर्शांसि च रिपुसदृशानीति वक्ष्यति, तस्मादर्शोनिदानं प्रक्रम्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

००

Adhikarana अर्शसां निर्वचनम् (२) · Śloka

अथातोऽर्शसां निदानं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे|२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-व्याख्या पूर्ववत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अर्शसां संप्राप्तिः (१-२) · Śloka

अरिवत्प्राणिनो मांसकीलका विशसन्ति यत्| अर्शांसि तस्मादुच्यन्ते गुदमार्गनिरोधतः||१|| दोषास्त्वङ्मांसमेदांसि सन्दूष्य विविधाकृतीन्| मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि तान् जगुः||२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अनेन सर्वेषामप्यर्शसां गुदमेढ्रादिजानां सामान्येन सम्प्राप्त्याकृती निरूपयति| दोषाः-वातादयः, त्वङ्मांसमेदांसि दूषयित्वाऽपानादौ यन्मांसाङ्कुरान् कुर्वन्ति तानर्शांसि जगुः, तन्त्रकृत इति शेषः| आदिशब्देन कर्णनासादीनां ग्रहणम्| किम्भूतान् मांसाङ्कुरान् ? विविधाकृतीन्-नानासंस्थानान्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अर्शसां द्वैविध्यम् (३) · Śloka

सहजन्मोत्तरोत्थानभेदाद्द्वेधा समासतः| शुष्कस्राविविभेदाच्च|३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तानि च समासतः-सङ्क्षेपतो, द्वेधा-द्विप्रकाराणि| कथम् ? इत्याह-सहेत्यादि| सह जन्मना, सहजन्म चोत्तरं च सहजन्मोत्तरे, तयोरुत्थानं सहजन्मोत्तरोत्थानं, तेन भेदो-विशेषः, तस्मात्| कानिचिच्छरीरेण सह जातानि कानिचिज्जन्मोत्तरभावीनि| तथा, शुष्कस्राविविभेदाच्च द्वेधा,-कानिचिच्छुष्काणि कानिचित्स्रावीणि|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana गुदस्य स्वरूपम्, गुदे तिस्रो बल्यः तासामर्थानुगतानि नामानि गुदौष्ठस्य स्वरूपम्, (३-५) · Śloka

"अपानादौ" इत्युक्तम्| अथ तदेव गुदापरपर्यायं लक्षयति - - - - | गुदः स्थूलान्त्रसंश्रयः||३|| अर्धपञ्चाङ्गुलस्तस्मिंस्तिस्रोऽध्यर्धाङ्गुलाः स्थिताः| वल्यः, प्रवाहिणी तासामन्तर्मध्ये विसर्जनी||४|| बाह्या संवरणी तस्या गुदौष्ठो बहिरङ्गुले| यवाध्यर्धः प्रमाणेन रोमाण्यत्र ततः परम्||५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्थूलान्त्रं संश्रयः-आश्रयो, यस्य स एवंविधो गुदः| स्थूलं यदन्त्रं तत्र प्रतिबद्ध इत्यर्थः| किंप्रमाणोऽसौ ? अर्धपञ्चाङ्गुलः| अर्धेनोनानि पञ्च-अर्धपञ्च| शाकपार्थिवादित्वात्समासः| अर्धपञ्च अङ्गुलानि यस्य सोऽर्धपञ्चाङ्गुलः,-सार्धचतुरङ्गुलपरिमाणः| तस्मिन्-गुदे, तिस्रो वल्यः-त्रिसङ्ख्याः स्थिताः| किंपरिमाणाः ? अध्यर्धाङ्गुलाः, अधिकमर्धमङ्गुलं प्रत्येकं परिमाणं यासां ता एवम्| अथ तांसां-तिसृणाम्, अर्थानुगतानि नामान्याह-तत्र-मलप्रवाहणादन्तः-अन्तरे स्थिता वली, प्रवाहिणीति कथ्यते| मध्ये-मध्यस्थिता वली, मलस्य प्रवहतो बहिर्विसर्जनात् विसर्जनीति भण्यते| गुदस्य बाह्ये स्थिता मलस्य संवरणात् संवरणीत्युच्यते| तस्याः-संवरणीसंज्ञाया वलेः, अङ्गुले-तत्परिमाणे, बहिः-बाह्ये, गुदौष्ठः स्थितः| प्रमाणेन-परिमाणतो, गुदौष्ठौ यवाध्यर्धः-सार्धयवप्रमाणः| ततो-गुदौष्ठात्, परं-परतो बहिः, रोमाण्यत्र गुदे, जायन्ते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana सहोत्थानामर्शसां हेतुरसाध्यत्वं च कुलोद्भवानां सर्वेषां रोगाणामसाध्यत्वम् (६-७) · Śloka

तत्र हेतुः सहोत्थानां वलीबीजोपतप्तता| अर्शसां, बीजतप्तिस्तु मातापित्रपचारतः||६|| दैवाच्च, ताभ्यां कोपो हि सन्निपातस्य तान्यतः| असाध्यान्वेवमाख्याताः सर्वे रोगाः कुलोद्भवाः||७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्रेति निर्धारणे, सहजोत्तरकालभाविष्वर्शःसु मध्ये, सहोत्थानामर्शसां हेतुः वलीबीजोपतप्तता| वल्याः-सम्बन्धि बीजं-शुक्रार्तवांशो, यस्मात्सा वली उत्पद्यते| उपतप्तस्य भाव उपतप्तता,-अर्शोविकारकरणसमर्थैर्वातपित्तकफैः पीडनं, बलीबीजस्योपतप्ततोच्यते| सा च बीजोपतप्तिः-बीजोपतापो, मातापित्रपचारतः| माता च पिता च मातापितरौ, तयोरपचारः-अपराध आहारविहारादिकृतः, तस्मात्| तथा दैवात्-तथाविधात् प्राक्कृतादशुभकर्मणो, बीजोपतप्तिः| ताभ्यां-मातापित्रपचारदैवाभ्यां, यस्मात्सन्निपातस्य कोपः, तस्मात्तानि-अर्शांसि, असाध्यानि| एवं-अनेन प्रकारेण, प्राणिनां सर्वे रोगाः कुलोद्भवा आख्याताः| बीजोपतप्तत्वादसाध्या इत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana सहजानां लक्षणम् (८) · Śloka

सहजानि विशेषेण रूक्षदुर्दर्शनानि च| अन्तर्मुखानि पाण्डूनि दारुणोपद्रवाणि च||८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सहजान्यर्शांसि विशेषेण रूक्षादिगुणयुतानि भवन्ति| विशेषेणेत्यनेनैतद् द्योतयति,-उत्तरजातान्यप्येवंभूतानि भवन्तीति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana जन्मोत्तरजानामर्शसां षड्विधत्वम् (९) · Śloka

षोढाऽन्यानि पृथग्दोषसंसर्गनिचयास्रतः| |९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अन्यानि-उत्तरजातान्यर्शांसि, षट्प्रकाराणि| पृथग्दोषैर्वातपित्तकफैस्त्रीणि, तथा संसर्गेणैकं, तथा निचयेन [ एकं ] तथा रक्तेन [एकं], इति षट्त्वम्| षोढाशब्दः पृषोदरादिः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana शुष्कार्द्रार्शसां दोषानुबन्धः (९) · Śloka

| शुष्काणि वातश्लेष्मभ्यामार्द्राणि त्वस्रपित्ततः||९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-"शुष्कस्राविविभेदाच्च द्विधा" (श्लो. ३) इत्युक्तम्| तत्र शुष्काणि प्रायेण वातकफाभ्यां व्यस्तसमस्ताभ्याम्| यानि त्वार्द्राणि तान्यस्रपित्ततः, तथैव व्यस्तसमस्ताभ्यां भवन्ति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अर्शसां निदानम् (१०-१५) · Śloka १५

दोषप्रकोपहेतुस्तु प्रागुक्तस्तेन सादिते| अग्नौ, मलेऽतिनिचिते, पुनश्चातिव्यवायतः||१०|| यानसङ्क्षोभविषमकठिनोत्कटकासनात्| बस्तिनेत्राश्मलोष्ठोर्वीतलचैलादिघट्टनात्||११|| भृशं शीताम्बुसंस्पर्शात्प्रततातिप्रवाहणात्| वातमूत्रशकृद्वेगधारणात्तदुदीरणात्||१२|| ज्वरगुल्मातिसारामग्रहणीशोफपाण्डुभिः| कर्शनाद्विषमाभ्यश्च चेष्टाभ्यो, योषितां पुनः||१३|| आमगर्भप्रपतनाद्गर्भवृद्धिप्रपीडनात्| ईदृशैश्चापरैर्वायुरपानः कुपितो मलम्||१४|| पायोर्वलीषु तं धत्ते तास्वभिष्यण्णमूर्तिषु| जायन्तेऽर्शांसि|१५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्राक्-पूर्वं सर्वरोगविदाने, दोषप्रकोपहेतुः [ उक्तो-] दर्शितः| तेन-दोषप्रकोपकारणेन, वह्नौ सादिते-मन्दत्वं गमिते| अग्निमान्द्यादाहारः सम्यक्पाकमगच्छन् भूयसा मलत्वेनैव सम्पद्यते| तत इदमाह-मलेऽतिनिचिते| मले-पुरीषाख्ये, अतिनिचिते-प्रवृद्धे मांसाङ्कुरजननयोग्ये, वायुरपानाख्यः पायोः सम्बन्धिनीषु वलीषु, तं मलं निचितं धत्ते| तद्देशमलव्यतिसम्पर्कात्ता वलयोऽभिष्यण्णमूर्तयः प्रक्लिन्नदेहाः सम्पद्यन्ते| तासु चाभिष्यण्णमूर्तिश्वर्शांसि जायन्ते| इत्युत्तरकालजानामर्शसां सम्प्राप्तिः| तथा च केन वायुः कुपितो मलं धत्ते ? इत्याह-पुनश्चातिव्यवायत इत्यादि| पुनरिति निर्देशात् पूर्वोक्तेन हेतुना वायुः कुपितः, तथाऽतिव्यवायादिभिः कुपित इति गमयति| बस्त्यादीनां घट्टनेन सम्बन्धः| प्रततातिप्रवाहणेन दोषादिवेगानां प्रवर्तनम्| वातमूत्रशकृद्वेगानां तूदीरणमिहोक्तमिति प्रवाहणोदीरणयोर्द्वयोरुपादानम्| ज्वरादिभिः कर्षणादिति योज्यम्| विषमाभ्यश्च चेष्टाभ्य इति साहसादिविषमाचरणादिकाभ्यः| योषितां पुनरीति पुनःशब्देन पूर्वोक्तेभ्यः प्रकारेभ्यः प्रकारान्तरमामगर्भप्रपतनादिकं गृह्यते| ईदृशैरपरैरप्यनिर्दिष्टैरिह तत्प्रकोपहेतुभिर्वायुः कुपित इति योज्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अर्शसां पूर्वलक्षणम् (१५-२०) · Śloka २०

| तत्पूर्वलक्षणं मन्दवह्निता||१५|| विष्टम्भः सक्थिसदनं पिण्डिकोद्वेष्टनं भ्रमः| सादोऽङ्गे नेत्रयोः शोफः शकृद्भेदोऽथवा ग्रहः||१६|| मारुतः प्रचुरो मूढः प्रायो नाभेरधश्चरन्| सरुक् सपरिकर्तश्च कृच्छ्रान्निर्गच्छति स्वनन्||१७|| अन्त्रकूजनमाटोपः क्षामतोद्गारभूरिता| प्रभूतं मूत्रमल्पा विडश्रद्धा धूमकोऽम्लकः||१८|| शिरःपृष्ठोरसां शूलमालस्यं भिन्नवर्णता| तन्द्रेन्द्रियाणां दौर्बल्यं क्रोधो दुःखोपचारता||१९|| आशङ्का ग्रहणीदोषपाण्डुगुल्मोदरेषु च| |२०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तेषामर्शसां पूर्वलक्षणं तत्पूर्वलक्षणं मन्दवह्नितेत्यादिकं शकृद्ग्रहपर्यन्तम्| अत्र च पूर्वलक्षणमध्ये "शकृद्भेदोऽथवा ग्रहः" इति निर्दिष्टम्, कस्यचित्पुरुषस्योत्पित्सुष्वर्शःसु भिन्नवर्चस्त्वं कस्यचिद्बद्धवर्चस्त्वमित्यथवाशब्दस्यार्थः| मारुत इति सामर्थ्यादपानाख्यः, प्रायो-भूयिष्ठं कृत्वा, नाभेरधश्चरन्-गच्छन्, प्रचुरो भवति| तथा, मूढो-मूढ इव मूढः| क्रियामात्मीयां हित्वेव वर्तमानः| तथा, सरुक्-सशूलः| तथा, सह पारिकर्तेन वर्तते सपरिकर्तः| छिन्दन्निव कृच्छ्रान्निर्गच्छति, स्वनन्-शब्दायमानः| तथा, अन्त्रकूजनादिकं भवति| तथा च ग्रहणीदोषादिष्वाशङ्का भवति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अर्शसां सामान्यलक्षणम् (२०-२८) · Śloka २८

| एतान्येव विवर्द्धन्ते जातेषु हतनामसु||२०|| निवर्तमानोऽपानो हि तैरधोमार्गरोधतः| क्षोभयन्ननिलानन्यान् सर्वेन्द्रियशरीरगान्||२१|| तथा मूत्रशकृत्पित्तकफान् धातूंश्च साशयान्| मृद्गात्यग्निं ततः सर्वो भवति प्रायशोऽर्शसः||२२|| कृशो भृशं हतोत्साहो दीनः क्षामोऽतिनिष्प्रभः| असारो विगतच्छायो जन्तुजुष्ट इव द्रुमः||२३|| कृत्स्नैरुपद्रवैर्गस्तो यथोक्तैर्मर्मपीडनैः| तथा कासपिपासास्यवैरस्यश्वासपीनसैः||२४|| क्लमाङ्गभङ्गवमथुक्षवथुश्वयथुज्वरैः| क्लैब्यबाधिर्यतैमिर्यशर्कराश्मरिपीडितः||२५|| क्षामभिन्नस्वरो ध्यायन्मुहुः ष्ठीवन्नरोचकी| सर्वपर्वास्थिहृन्नाभिपायुवङ्क्षणशूलवान्||२६|| गुदेन स्रवता पिच्छां पुलाकोदकसन्निभाम्| विबद्धमुक्तं शुष्कार्द्रं पक्कामं चान्तराऽन्तरा||२७|| पाण्डु पीतं हरिद्रक्तं पिच्छिलं चोपवेश्यते| |२८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एतान्येव-ग्रहणीदोषादीनि, हतनामसु-अर्शःसु, जातेषु विवर्द्धन्ते-वृद्धिमाप्नुवन्ति| स०-तैः-अर्शोभिः, अधोमार्गरोधादपानो निवर्तमान ऊर्ध्वं प्रवृत्तः सर्वा(अन्या)ननिलान्-समानोदानव्यानप्राणान्, सर्वेन्द्रियशरीरगान् प्रत्याहरणरूपतया क्षोभयन्-संरम्भान् कुर्वन्, तथा मूत्रादीन्, तथा धातून्-रसादींश्च, साशयान्-सहाधारेण वर्तमानान्, क्षोभयन्नग्निं मृद्गाति-मन्दीकरोति| ततः-अग्निमार्दवादिकात् कारणात्, प्रायेणार्शसो-दुर्नामवान्, कृशादिकः स्यात्| अर्शस इत्यत्र "अर्शादित्वात्" अच्| विगतच्छायो द्रुमो जन्तुजुष्टः पत्रौघविरहाद्यथा छायारहितः, तथैवार्शसः शोभारहित इति श्लेषोपमालङ्कारः| तथेति न केवलं पूर्वोक्तैरुपद्रवैर्ग्रस्तः, अपि तु कासादिभिरपीत्यर्थः| क्लेष्येत्यादि| अश्मरिपीडित इत्यत्र "ङ्यापोः" इत्यादिना बहुलवचनाद्ध्रस्वः| अथवा, 'अश्मनि पीडितः' इति पाठः| क्षामो भिन्नश्च स्वरो यस्य स एवम्| तथा, ध्यायन्-चिन्ताव्याप्तः| तथा, निष्ठीवनादिभिर्युतः| तथा, गुदेन पिच्छां पुलाकोदकसन्निभां स्रवता विबद्धादिकमुपवेश्यते| अप्राप्तपाकं धान्यं पुलाकशब्दवाच्यम्| आगमः-"धान्यं पुलाकोऽनिष्पन्नम्" इति| अथवा, पुलाकः-कुत्सितं धान्यम्, तस्योदकेन तुल्याम्| अन्ये तु यवगोधूमादिस्वेदः पुलाकोदकमित्याहुः, तेन तुल्याम्| विबद्धमुक्तमिति कदाचिदुदावृत्तं कदाचिदनुद्वृत्तं भवति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana वातार्शसां लक्षणम् (२८-३४) · Śloka ३४

वातार्शसां लक्षणमाह - - - - गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमिचिमान्विताः||२८|| म्लानाः श्यावारुणाः स्तब्धा विषमाः परुषाः खराः| मिथो विसदृशा वक्रास्तीक्ष्णा विश्फुटिताननाः||२९|| बिम्बीकर्कन्धुखर्जूरकार्पासीफलसन्निभाः| केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः||३०|| शिरःपार्श्वांसकट्यूरुवङ्क्षणाभ्यधिकव्यथाः| क्षवथूद्गारविष्टम्भहृद्ग्रहारोचकप्रदाः||३१|| कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः| तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम्||३२|| रुक्फेनपिच्छानुगतं विबद्धमुपवेश्यते| कृष्णत्वङ्नखविण्मूत्रनेत्रवक्क्रश्च जायते||३३|| गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च|३४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वाताधिका गुदजाः शुष्कादिगुणयुक्ताः| विषमाः-विषमसंस्थाना ऊर्ध्वाधस्तिर्यगादिदुःसंस्थिताः| परुषाः-शाकपत्रादितुल्यस्पर्शाः| मिथो विसदृशाः-परस्परमतुल्यसन्निवेशाः| वक्राः-धनुष्कोट्यादिवत्| तथा, तीक्ष्णाः-दर्भाङ्कुरवत्| विस्फुटितं-केसरादिवत्, आननं येषां त एवम्| बिम्ब्याद्यनेकोपमानोपादानं तेषां विचित्ररूपदर्शनार्थम्| शिर आदिष्वधिकव्यथाः| तथा, क्षवथ्वादिप्रदाः| तथा, कासादिकृतः| तैरार्तः-पीडितो, ग्रथितादिकमुपवेश्यते| कृष्णत्वगादिश्च स्यात्| तत एव च गुदाङ्कुरेभ्यो गुल्मादिसम्भवः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana पित्तार्शसां लक्षणम् (३४-३७) · Śloka ३७

| पित्तोत्तरा नीलमुखा रक्तप्तासितप्रभाः||३४|| तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाह्| शुकजिह्वायकृत्ऽऽखण्डजलौकोवक्क्रसन्निभाः||३५|| दाहपाकज्वरस्वेदतृण्मूर्च्छारुचितमोहदाः| सोष्माणो द्रवनीलोष्णपीतरक्तामवर्चसः||३६|| यवमध्या हरीत्पीतहारिद्रत्वङूनखादयः| |३७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तार्शसां नीलमुखा इत्यादि लक्षणं हारिद्रत्वङ्नखादय इतिपर्यन्तम्| तनु-अच्छं, अस्रं-रक्तं, नित्यं स्रवन्ति, इति "आभीक्ष्ण्ये" णिनिः| तथा, तनवो-न घनाः, श्लेष्म-गुदाङ्कुरवत्| मृदवः-शिरीषपुष्पादिवत्| श्लथाः-स्विन्नमांसादिवत्| शुकजिह्वेत्यादि बहूपमात्वं पूर्ववत् संस्थानवर्णवैचित्र्यार्थम्| द्रवादीनां वर्चसा सम्बन्धः| यवमध्याः-यवमध्यसंस्थानाः| हरितो-दूर्वावर्णाः, पीता हारिद्राश्च त्वगादयो येषां त एवम्| आदिशब्देन नयनविण्मूत्रादयो गृह्यन्ते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana कफार्शसां लक्षणम् (३७-४२) · Śloka ४२

| श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः||३७|| उच्छूनोपचिताः स्निग्धाः स्तब्धवृत्तगुरुस्थिराः| पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः||३८|| करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः| वङ्क्षणानाहिनः पायुबस्तिनाभिविकर्तिनः||३९|| सकासश्वासहृल्लासप्रसेकारुचिपीनसाः| मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः||४०|| क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः| वसाभसकफप्राज्यपुरीषाः सप्रवाहिकाः||४१|| न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः| |४२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-श्लेष्मार्शसां महामूलादिकं लक्षणं पाण्डुस्निग्धत्वगाद्यन्तम्| बह्वनिला इत्यनेन पित्तो[त्तरा इत्यनेन श्लेष्मो]ल्बणा इत्यनेन च निर्देशेन सर्वेषामेवार्शसां त्रिदोषजत्वं द्योतयति| तेन सर्वाण्यर्शांसि त्रिदोषजानि, भूयसा तु व्यपदेश इति वेद्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana द्विदोषार्शसां लक्षणम् (४२) · Śloka ४२

| संसृष्टलिङ्गाः संसर्गात्|४२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-संसर्गाद्गुदाङ्कुराः संसृष्टलिङ्गाः-संसृष्टरूपाः, स्युः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana त्रिदोषार्शसां लक्षणम् (४२) · Śloka ४२

| निचयात्सर्वलक्षणाः||४२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-निचयात्-सन्निपातात्, सर्वलक्षणाः-दोषत्रयलक्षणयुताः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana रक्तार्शसां लक्षणम् (४३-४५) · Śloka ४५

रक्तोल्बणा गुदेकीलाः पित्ताकृतिसमन्विताः| वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः||४३|| तेऽत्यर्थं दुष्टमुष्णं च गाढविट्प्रतिपीडिताः| स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः||४४|| भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः| हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः||४५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रक्तोल्बणाः-रक्ताधिकाः, गुदेकीलाः पित्तस्याकृत्या-लक्षणेन, समन्विता इत्यादिकं कलुषेन्द्रिय इति यावदेषां लक्षणं बोध्यम्| गुदाङ्कुरा इति प्रकृतेऽपि गुदेकिला इत्युक्तं वैचित्र्यार्थम्| ते च गुदेकीला अतिदुष्टमुष्णं च सहसा-अचिन्तितमेव शूलादिलिङ्गैः, रक्तं स्रवन्ति, गाढविट्प्रतिपीडिताः सन्तः| तस्य-रक्तस्य, अतिप्रवृत्तितो भेकाभो भवति| चोऽवधारणे, तस्यैव रक्तस्यातिप्रवर्तनान्मण्डूकाभः स्यात्, न कारणान्तरेणेत्यर्थः| शोणितक्षयसम्भवैर्दुःखैः-रोगैः, पीड्यते| "रक्तेऽम्लशिशिरप्रीतिसिराशैथिल्यरूक्षताः|" (हृ. सू. अ. ११|१७) इति रक्तक्षयजाः उक्ताः| तथा, हीनवर्णबलोत्साहादिः स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अर्शसामुदावर्त उपद्रवः (४६-५२) · Śloka ५२

मुद्गकोद्रवजूर्णाह्वकरीरचणकादिभिः| रूक्षैः सङ्ग्राहिभिर्वायुः स्वे स्थाने कुपितो बली||४६|| अधोवहानि स्रोतांसि संरुध्याधः प्रशोषयन्| पुरीषं वातविण्मूत्रसङ्गं कुर्वीत दारुणम्||४७|| तेन तीव्रा रुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत्| आध्मानमुदरावेष्ठो हृल्लासः परिकर्तनम्||४८|| बस्तौ च सुतरां शूलं गण्डश्वयथुसम्भवः| पवनस्योर्ध्वगामित्वं ततश्च्छर्द्यरुचिज्वराः||४९|| हृद्रोगग्रहणीदोषमूत्रसङ्गप्रवाहिकाः| बाधिर्यतिमिरश्वासशिरोरुक्कासपीनसाः||५०|| मनोविकारस्तृष्णास्रपित्तगुल्मोदरादयः| ते ते च वातजा रोगा जायन्ते भृशदारुणाः||५१|| दुर्नाम्नामित्युदावर्तः परमोऽयमुपद्रवः| वाताभिभूतकोष्ठानां तैर्विनाऽपि स जायते||५२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आदिशब्देन मसूरादीनां ग्रहणम्| मुद्गादिभी रूक्षैः सङ्ग्राहिभिर्वायुः-अपानाख्यः, स्वे स्थाने-बस्त्यादिलक्षणे, कुपितोऽत एव बलवान्, स्वस्थाने कुपितो बली स्यात्| बली पवनो वातादिसङ्गं [दारुणं] कुर्वीत| किं कृत्वा ? अधोवहानि स्रोतांसि संरुध्य| किं कुर्वन् ? अधः पुरीषं प्रशोषयन्| तेन-वातविण्मूत्रसङ्गेन हेतुना, तेन वा-तथाविधेन वायुकोपेन, तीव्रा-दारुणा, पीडा कोष्ठादिगा भवेत्| तथा, आध्मानादयः स्युः परिकर्तनं च| बस्तौ चेति चशब्दो भिन्नक्रमः, शूलं चेत्यर्थः| गण्डयोः श्वयथुर्गण्डश्वयथुः, तस्य सम्भवः| पवनस्य-प्रकृतत्वादपानाख्यस्य, ऊर्ध्वगामित्वं स्यात्| ततः-ऊर्ध्वगमनात्, छर्द्यादयः स्युः| ते ते च वातजा रोगाः-अनेके नखभेदादयो, भृशदारुणाः-अतिशयेन दुःखावहाः, जायन्ते| दुर्नाम्नामिति-एवं पूर्वोक्तेन प्रकारेण, अयं उदावर्तः परमो-महान्, उपस्रवः स्मृतो मुनीन्द्रैरिति शेषः| वातेत्यादि| वातेनाभूभितो-व्याप्तः, कोष्ठो येषां त एवं तेषां [तैः-] दुर्नामभिर्विनाऽपि, सः-उदावर्तो जायते, न केवलं तैः, इत्यपिशब्दार्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अर्शसामसाध्यत्वम्, अर्शसां याप्यत्वम् (५३) · Śloka ५३

अधुना साध्यासाध्यविभागमेषामाह - - - - सहजानि त्रिदोषाणि यानि चाभ्यन्तरे वलौ| स्थितानि तान्यसाध्यानि, याप्यन्तेऽग्निबलादिभिः||५३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सहजान्यर्शांसि, तथा त्रिदोषजानि यथोत्तरकालजान्यपि, आभ्यन्तरे वलौ यानि स्थितान्येकदोषजानि तान्यप्यसाध्यानि| बलिशब्दः पुंस्त्रीलिङ्गः| अर्शसामसाध्यानां किं कार्यम् ? इत्याह-याप्यन्त इत्यादि| अग्निबलमादि येषां त एवम्, तैर्याप्यन्ते| अग्निबलेऽक्षीण आयुषि च पादसम्पदि चेत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अर्शसां कृछ्रसाध्यत्वम् (५४) · Śloka ५४

द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च| कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च||५४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-द्वन्द्वजानि-सङ्करोत्पन्नानि, यानि च द्वितीयायां वलौ संश्रितानि, तानि कृच्छ्रसाध्यान्याहुः, मुनय इति शेषः| तथा परिसंवत्सराणि च कृच्छ्रसाध्यानि| परिगतानि संवत्सरं परिसंवत्सराणि, प्रादिसमासः, वर्षातिक्रान्तानीत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अर्शसां सुखसाध्यत्वम् (५५) · Śloka ५५

बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च| अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च||५५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बाह्यायां वलौ जातानि यानि तथैकदोषोल्बणानि च तथा न चिरोत्पतितानि-संवत्सरादर्वाग्जातानि, तानि च सुखसाध्यानि|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana मेढ्रादिष्वप्यर्शांसि वक्ष्यन्ते (५६) · Śloka ५६

मेढ्रादिष्वपि वक्ष्यन्ते यथास्वम्| |५६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मेढ्रभयनासाकर्णादिषु चार्शांसि वक्ष्यन्ते| यथास्वं-स्वीये स्वीयेऽध्याये गुह्यरोगविज्ञाने नासारोगविज्ञाने कर्णरोगविज्ञानादौ चेति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana नाभिजार्शसां लक्षणम् (५६) · Śloka ५६

नाभिजानि तु| गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च||५६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नाभिजानि तु-नाभौ जातानि पुनर्गण्डूपदास्यरूपाणि, गण्डूपदानां-किञ्चुलुकानामास्यं तदिव रूपं येषां तान्येवम्| तथा पिच्छिलानि-पिच्छावन्ति, तथा मृदूनि च भवन्ति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana चर्मकीलानां संप्राप्तिः (५७) · Śloka ५७

चर्मकीलान्याह - - - - व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः| कीलोपमं स्थिरखरं चर्मकीलं तु तं विदुः||५७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-व्यानाख्यो वायुः श्लेष्माणं गृहीत्वाऽर्शः करोति| क्क ? त्वचो बहिः-बाह्यप्रदेशे| किम्भूतम् ? कीलोपमं तथा स्थिरं खरं च| तं च-गुदाङ्कुरं, चर्मकीलं विदुः, मुनय इति शेषः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana वातजानां लक्षणम्, पित्तजानां लक्षणम्, कफजानां लक्षणम् (५८) · Śloka ५८

वातेन तोदः पारुष्यं, पित्तादसितरक्तता| श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्ण्ता||५८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र वातेनाधिकेन तोदपारुष्ये भवतः| पित्तादसितरक्तता भवति| श्लेष्मणा तस्य-चर्मकीलस्य, स्निग्धतादिकं स्यात्| ग्रथितत्वं-ग्रन्थिसदृशत्वम्| सवर्णता-प्राकृतशरीरतुल्यवर्णता|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अर्शसां प्रशमे शीघ्रं यत्नः कार्यः (७) · Śloka

अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान्| तान्याशु हि गुदं बद्धा कुर्युर्बद्धगुदोदरम्||५९|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थानेऽर्शसां निदानं नाम सप्तमोऽध्यायः||७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अर्शसां प्रशमे-शान्तौ, मतिमान् शीघ्रं यत्नं कुर्वीत| किमिति चेत् ? तदाह-तानीत्यादि| यस्मात्तानि-अर्शांसि, गुदं बद्धा-निरूद्ध्य, बद्धगुदोदरं शीघ्रं कुर्युरिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां तृतीये निदानस्थानेऽर्शसां नाम सप्तमोऽध्यायः समाप्तः|| ७||

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००