Adhikarana अध्यायोपक्रमः · Śloka
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
श्रेएगणेशाय नमः| चिकित्सितस्थानादन्तरं कल्पस्थानमारभ्यते चिकित्सितस्थानस्य कल्पस्थानापेक्षत्वात्| तथा हि प्रागध्यगेएष्ट (हृ. चि. अ. १/८) - "तर्पणेन रसेनेक्षोर्मद्यैः कल्पोदितानि वा| वमनानि प्रयुज्येत" इति| तदेवमाद्युपदेशात् सपेक्षत्वमस्य| तस्मात् कल्पस्थानमुच्यत इत्याह --
Adhikarana वमनकल्पाध्यायः (२) · Śloka २
तस्मात् कल्पस्थानमुच्यत इत्याह अथातो वमनकल्पं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वमनं-ऊर्ध्वं मुखेन दोषहरणम् , तस्य कल्प:-कल्पनं योजनमित्यर्थ:| शेषमायुष्कामीयाध्यायवद्व्याख्येयम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-श्रीगणेशाय नमः| अथ कल्पस्थानारम्भः| वमनकल्पं व्याख्यातुं प्रतिजानीते-अथेति| अथ वमनकल्पः| तत्र सङ्ग्रहे (क. अ. १)-"वमन्द्रव्याणां मदनफलजीमूतकेक्ष्वाकुद्विकोशातकीकुटजफलानि श्रेष्ठानि| तेष्वपि मदनफलम्| दोषदूष्यादिवशाच्चैषामेतत्कल्पनानां च प्राधान्यम्| दोषादीनामेव चातिबह्ववस्थाभेदाद्वमनादिषु कल्पनानां व्यापदां साधनानां च यदसङ्ख्येयत्वं, अतो बुद्धिमतां विकल्पमार्गदर्शनार्थमुदाहरणमात्रं कल्पसिद्धिस्थानमुपदेक्ष्यते|" इति|
Adhikarana मदनकल्पः,वमने मदनं श्रेष्ठम् विरेचने त्रिवृन्मूलं श्रेष्ठम्,व्याधिवशाज्जीमूतादेर्विशिष्टता (१) · Śloka १
प्राधान्याच्च वमनकल्पे मदनमेव शस्यत इत्याह अथ मदनकल्पः|
वमने मदनं श्रेष्ठं, त्रिवृन्मूलं विरेचने|
नित्यमन्यस्य तु व्याधिविशेषेण विशिष्टता||१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वमनविषये नित्यं मदनं श्रेष्ठम् , निरपायित्वादन्यद्रव्यविषयेऽपि वा तस्योपयोगात् सर्वत्रानिषिद्धप्रसरत्वाच्च| लाघवमिच्छंश्च तन्त्रकृदिदमवोचत्-`त्रिवृन्मूलं विरेचने'इति| यथा मदनं वमने नित्यं श्रेष्ठं , तथा त्रिवृन्मूलं विरेचने , निरपायित्वादिहेतुना| मदनं वर्जयित्वा व्याधिवशादन्यस्य-जीमूतादेः , विशिष्टता| वक्ष्यति हि (श्लो. १९)- "जीमूतं तु विशेषतः| प्रयोक्तव्यं ज्वरश्वासकासहिध्मादिरोगिणाम्| " इति| एवं त्रिवृन्मूलं वर्जयित्वा परस्य विरेचनद्रव्यस्य व्याधिविशेषेण विशिष्टत्वम्, न तु त्रिवृन्मूलवत्सर्वत्रानिषिद्धप्रसरत्वं निरपायित्वं च| तथा चोक्तम् (सङ्ग्रहे सू. अ. १३)- "त्रिवृत्सुखविरेचनानाम्| " इति| तदेवं वमने मदनं श्रेष्ठं त्रिवृन्मूलं विरचने सर्वदेति स्थितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मानत्रिवृतोः श्रेष्ठत्वमाह-वमन इति| नित्यं अव्यभिचारेण|
Adhikarana मदनफलानां संस्कारः (२-६) · Śloka ६
फलानि नातिपाण्डूनि न चातिहरितान्यपि|
आदायाह्नि प्रशस्तर्क्षे मध्ये ग्रीष्मवसन्तयोः||२||
प्रमृज्य कुशमुत्तोल्यां क्षिप्त्वा बध्वा प्रलेपयेत्|
गोमयेनानु मुत्तोलीं धान्यमध्ये निधापयेत्||३||
मृदुभूतानि मध्विष्टगन्धानि कुशवेष्टनात्|
निष्कृष्टानि गतेऽष्टाहे शोषयेत्तान्यथातपे||४||
तेषां ततः सुशुष्काणामुद्धृत्य फलपिप्पलीः|
दधिमध्वाज्यपललैर्मृदित्वा शोषयेत्पुनः||५||
ततः सुगुप्तं संस्थाप्य र्कायकाले प्रयोजयेत्|
|६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथशब्दोऽत्र प्रस्तुतौ मदनस्य प्रस्तावे| मदनस्य फलानि पाण्डूनि गृहीत्वा, न त्वतिपाण्डून्यतिक्रान्तपाकत्वात्, न चातिहरितान्यामत्वात्| कदाऽऽदाय ? प्रशस्तनक्षत्रे दिवसे| कस्मिन्नृतौ ? मध्ये ग्रीष्मवसन्तयोः| एवमृतुसन्धौ गृहीतानि प्रमृज्य-व्यपगतमलादिदोषाणि कृत्वा, कुशमय्यां मुत्तोल्यां-मूटिकायां, क्षिप्त्वा पुनरुपरिष्टाद्बद्ध्द्वा च ततो गोमयेन तां मुत्तोलीं लिम्पेत्| अनन्तरं धान्यमध्ये निधापयेत्-स्थापयेत्| कुशानां समूहो रचनाविशेषनिष्पादितः कुशमुत्तोलीत्युच्यते| मृदुभीतानि तानि मध्विष्टगन्धानि- कदाचिन्मधुगन्धानि कदाचिदिष्टगन्धानि,कुशवेष्टनादष्टाहेन ज्ञात्वा अनन्तरमष्टाहेऽतिक्रान्ते कुशमुत्तोल्याः निष्कृष्टानि-बहिष्कृतानि, अनन्तरमातपे शोषयेत्| ततः-अनन्तरं तेषां-मदनफलानां, [सुष्ठु] शुष्काणां फलपिप्पलीरुद्धृत्य दधिमध्वाज्यपललैर्मृदित्वा-सङ्क्षुद्य,पुनरातपे शोषयेत्| ततः-अनन्तरं, सुष्ठु गुप्तं धारयित्वा कार्यकाले-वमनावसरे, ताः प्रयोजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मदनसंस्कारमाह-फलानीति| फलानि-मदनफलानि| प्रमृज्य-विशोध्य| कुशमुत्तोल्यां-कुशमयरज्जुवेष्टनिकायाम्| तां च मुत्तोलीं रज्जुभिर्बद्ध्वा गोमयेन लेपयेत्| अनु-पश्चात्, धान्यराशौ निधापयेत्| सङ्ग्रहे तु (क. अ.१) -"यवबुसमाषशालिव्रीहिकुलत्थमुद्गान्यतमराशौ" इति| ततोऽष्टाहे गते मृदुभूतानि मधुवदिष्टगन्धानि कुशवेष्टनान्निष्कृष्य आतपे शोषयेत्| ततः सुशुष्काणां फलपिप्पलीः-मज्जानं, उद्धरेत्| ततो दध्यादिभिर्मर्दयेत्| ततः पुनः शोषयेत्| ततो गुप्तं स्थापयेत्| सङ्ग्रहे तु (क. अ. १)-"नवं कलशमरजस्कमाकण्ठं पूरयित्वा" इत्यधिकम्|
Adhikarana मदनप्रयोगः (६-९) · Śloka ९
|
अथादाय ततो मात्रां जर्जरीकृत्य वासयेत्||६||
शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले|
कर्बुदारस्य बिम्ब्या वा नीपस्य विदुलस्य वा||७||
शणपुष्प्याः सदापुष्प्याः प्रत्यक्पुष्प्युदकेऽथवा|
ततः पिबेत्कषायं तं प्रातर्मृदितगालितम्||८||
सूत्रोदितेन विधिना साधु तेन तथा वमेत्|
|९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथ-अनन्तरं, ततः-पिप्पिलीभ्यो, मात्रां-परिमाणं प्रायेण देशकालादिवशाद्वा मात्रां, विकल्प्यानन्तरं तां मात्रां जर्जरीकृत्य-सञ्चूर्ण्य, मधुयष्टयादीनामन्यतमस्य जले शर्वरीं-सकलां रात्रिं, वासयेदभिषवणाय| ततः-अनन्तरं, [प्रातः] तं कषायं मृदितगालितं पूर्वं मृदितं पश्चाद्गालितं-वस्त्रपूतं कृत्वा, सूत्रोदितेन विधिना-"श्वो वम्यं" (सू. अ. १८|१२) इत्यादिग्रन्थोक्तेन, पिबेत्| [तथा-] एवं कृते सति, तेन साधु वमेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० - मदनप्रयोगमाह-अथेति| ततः-फलपिप्पलीभ्यः, मात्रां-अन्तर्नखमुष्टिं, यावद्वा साधु मन्येत| कोविदारः-काञ्चनारः| कर्बुदारः-श्लेष्मातकः| बिम्बी-तुण्डिकेरी| नीपः-कदम्बभेदः| विदुलो-वेतसः| शणपुष्पी-घण्टारवा| सदापुष्पी-वनकार्पासी| प्रत्यक्पुष्पी-अपामार्गः| तेन-तथाकृतेन कषायेण, साधु वमेत्| अन्यथा त्वसाधु|
Adhikarana श्लेष्मज्वरादौ विशेषः (९-१०) · Śloka १०
|
श्लेष्मज्वरप्रतिश्यायगुल्मान्तर्विद्रधीषु च||९||
प्रच्छर्दयेद्विशेषेण यावत्पित्तस्य दर्शनम्|
|१०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विशेषेण श्लेष्मज्वरादिषु वमेत्| यावत्पित्तस्य दर्शनम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-श्लेष्मज्वरादौ विशेषमाह-श्लेष्मज्वरेति| श्लेष्मज्वरादिषु तु विशेषेण पुनःपुनर्वामयेदापित्तदर्शनात्|
Adhikarana ज्वरारुच्यादिषु वमनयोगः (१०-११) · Śloka ११
|
फलपिप्पलिचूर्णं वा क्वाथेन स्वेन भावितम्||१०||
त्रिभागत्रिफलाचूर्णं कोविदारादिवारिणा|
पिबेज्ज्वरारुचिष्ठेवग्रन्थ्यपच्यर्बुदोदरी||११||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स० -अथवा मदनफलपिप्पलीचूर्णं स्वेन-फलपिप्पलीक्वाथेन, भावितं त्रिभागत्रिफलाचूर्णान्वितं कोविदारादिजलेन पिबेत्, ज्वरादिषूदरान्तेषु|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -वमनान्तरमाह-फलपिप्पलीति| स्वेन-फलपिप्पलीक्वाथेन| त्रिभागं-तृतीयभागतुल्यं, सम्मीलितं त्रिफलाचूर्णं यस्मिंस्तत्तथा| ज्वरादिमान् पिबेत्| ष्ठेवः-कफप्रसेकः|
Adhikarana कफस्थानगे पित्ते (१२) · Śloka १२
पित्ते कफस्थानगते जीमूतादिजलेन तत्|
|१२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्ते कफस्थानगते सति ग्रन्थ्या (ज्वरा) दिमान्नरस्तत्-मदनफलं, जीमूतादिजलेन पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनान्तरमाह-पित्त इति| कफस्थानगते पित्ते तत्-फलपिप्पलीचूर्णं, जीमूतादिजलेन पिबेत्| जीमूतादयः-श्रेष्ठेषूक्ताः|
Adhikarana हृद्दाहादौ वमनयोगः (१२-१३) · Śloka १३
|
हृद्दाहेऽधोस्त्रपित्ते च क्षीरं तत्पिप्पलीशृतम्||१२||
क्षैरेयीं वा|
|१३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-हृदयदाहेऽधोगे रक्तपिते [च] तस्य-मदनफलस्य, पिप्पलीभिः क्वथितं क्षीरं क्षैरेयीं वा पिबेत्| तन्त्रान्तरे च क्षीरश्रपणविधिरुक्तः-"द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः||" इति| अस्रपित्त इत्येतावत्युक्त ऊर्ध्वगोभयगयोरस्रपित्तयोर्वमनायोग्यत्वादेवाधोग्रहणे सिद्धे पुनरधोग्रहणं सुखतरप्रतिपत्त्यर्थम्| क्षैरेयीमिति "क्षीराड् ढञ्" इति ढञ्, "टिड् ढाण" इति ङीप्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-अन्यदाह-हृद्दाह इति| फलपिप्पलीशृतं क्षीरं क्षैरेयीं वा हृद्दाहेऽधोस्रपित्ते च पिबेत्| क्षैरेयीं-क्षीरपेयाम्| क्षीरं च-तत्पिप्पलीशृतमेव| सङ्ग्रहे तु (क. अ.१)-"तस्य वा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरःकण्ठहृदये च तनुकफोपदिग्धे|" इति|
Adhikarana कफच्छर्द्यादौ वमनयोगः (१३) · Śloka १३
कफच्छर्दिप्रसेकतमकेषु तु|
दध्युत्तरं वा दधि वा तच्छृतक्षीरसम्भवम्||१३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफच्छर्दिप्रसेकतमकेषु दध्युत्तरं-दधिसरमेव हितम्| अथवा दधि हितम्| उभयमपि वमने हितं तच्छृतक्षीरसम्भवम्| तच्छृतं-मदनपिप्पलीशृतम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -अन्यदाह-कफच्छर्दीति| कफच्छर्द्यादिषु तु तच्छृतक्षीरजं दधि दध्युत्तरं वा|
Adhikarana सुखकारको वमनयोगः (१४) · Śloka १४
फलादिक्वाथकल्काभ्यां सिद्धं तत्सिद्धदुग्धजम्|
सर्पिः कफाभिभूतेऽग्नौ शुष्यद्देहे च वामनम्||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्वाथश्च कल्कश्च क्वाथकल्कौ, फलादीनां-मदनफलजीमूतकेक्ष्वादीनां क्वाथकल्कौ, ताभ्यां सिद्धं-पक्वं, सर्पिः कफेनाभिभूतेऽग्नौ शुष्यच्छरीरे च वामनं हितम्| किम्भूतं सर्पिः ? तत्सिद्धदुग्धजम् ,- तैश्च-फलादिभिः शृतं(सिद्धं), तत्सिद्धं च तद्दुग्धं च तस्मादुद्भूतम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -अन्यदाह-फलादिति| फलादीनि-श्रेष्ठत्वेनोक्तानि, तेषां क्वाथः, तेषामेव कल्कः, तेषामेव क्षीराज्जातं सर्पिः, एकत्र सिद्धं मन्दाग्नौ कार्श्ये च पिबेत्| सङ्ग्रहे तु (क. अ. १)-"फलमज्जचूर्णमिश्रेण वाऽऽरग्वधादिद्रव्याणां गोपघोण्टाभूनिम्बबाणवर्जानां ससोमवल्कपञ्चकोलकानामन्यतमस्य निर्यूहेण साधितं लेहमुपयुञ्जीत| फलमज्जचूर्णमिश्रेण वा रेणुकैलाशताह्वाकुस्तुम्बुरुतगरकुष्ठत्वक्चोरकमरुबकागुरुगुग्गुलुवालकश्रीवेष्टकपरिपेलवमांसीशैलेयकस्थौणेयकसुरसा- पालेवतपूत्यशोकरोहिणीनां द्वाविंशतेरन्यतमस्य कषायेण साधितामुत्कारिकामोदनं वा भक्षयेत्| फलपिप्पलीस्वरसकषायपरिपीतैर्वा तिलशालितन्दुलपिष्टैस्तत्कषायोपसृष्टैः सुरसादिद्रव्यान्यतमनिर्यूहोपसृष्टैर्वा शष्कुलीरपूपानन्यं वा भक्ष्यं साधियित्वा भक्षयेत्|" इति|
Adhikarana भक्ष्यभोज्येषु वमनयोगः (१५-१६) · Śloka १६
स्वरसं फलमज्ज्ञो वा भल्लातकविधिशृतम्|
आदर्वीलेपनात्सिद्धं लीढ्वा प्रच्छर्दयेत्सुखम्||१५||
तं लेहं भक्ष्यभोज्येषु तत्कषायांश्च योजयेत्|
|१६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-फलमज्ज्ञो वा स्वरसं भल्लातकविधानेन शृतं दर्वीलेपं यावत् पक्त्वा लीढ्वा सुखं वमेत्| तं च लेहं भक्ष्यादिषु तथा तस्य-मदनफलस्य, कषायान् योजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-अन्यदाह-स्वरसमिति| भल्लातकविधिः-उक्तो रसायनेषु (हृ.उ.अ. ३९/७२)|
Adhikarana सन्तर्पणव्याधिषु वमनयोगः (१६-१७) · Śloka १७
|
वत्सकादिप्रतीवापः कषायः फलमज्जजः||१६||
निम्बार्कान्यतरक्वाथसमायुक्तो नियच्छति|
बद्धमूलानपि व्याधीन् सर्वान् सन्तर्पणोद्भवान्||१७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मदनफलमज्जजो वा कषायो वत्सकादिगणप्रतीवापो (हृ. सू. अ. १५|३३) निम्बार्कान्यतरक्वाथसंयुक्तो व्याधीन् समूलानपि नियच्छति| कीद्दशान् ? सन्तर्पणजान्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-अन्यदाह-वत्सकादीति|
Adhikarana फलाभावे पुष्पं शलाटु वा (१८-२) · Śloka २
राठपुष्पफलश्लक्ष्णचूर्णैर्माल्यं सुरूक्षितम्|
वमेन्मण्डरसादीनां तृप्तो जिघ्रन् सुखं सुखी||१८||
एवमेव फलाभावे कल्प्यं पुष्पं शलाटु वा|
|१९|
इति मदनकल्पः||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मदनपुष्पफलसूक्ष्मचूर्णैः सुरूक्षितं-तद्रजसाऽतिधूसरितं, पुष्पं जिघ्रन् मण्डरसादीनां तृप्तः , आदिग्रहणात् कृशराक्षीरयवागूनां परिग्रहः , तथाविधो जिघ्रन् सुखी-क्लेशमसहिष्णुः , सुखेन वमेत्| एवमेव-अनेनैव क्रमेण, फलाभावे सति पुष्पं प्रकृतत्वान्मदनस्य, कल्पनीयम्| "अथादाय ततो मात्रां जर्जरीकृत्य वासयेत्| शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले||" (श्लो. ६) इत्यादिविधिना शलाटु वा-बालमदनं अपक्वं फलं वा, एवं कल्पनीयम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० - अन्यदाह-राठपुष्पफलेति| राठो-मदनः| सुरुषितं-सुष्ठु अवकीर्णम्| शलाटु-बालं फलम्| सङ्ग्रहे तु (क. अ. १)-"फलपिप्पलीनां वा फलादिनिर्यूहेणैकविंशतिकृत्वः सुभावितानां कुसुमरजःसदृशेन चूर्णेनावचूर्णयेत् सरसि सरोरुहं बृहत्सायाह्ने तद्रात्रिमुषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृशराक्षीरयवागूनामन्यतमं सैन्धवगुडफाणितोपेतमाकण्ठं पीतवानुपजिघ्रन् सुकुमारः समुचितगन्धसम्पदुत्क्लिष्टकफपित्तो भेषजद्वेषी च तथा सुखेन छर्दयति| एतेन सर्वमाल्यगन्धप्रावरणपटा व्याख्याताः|" इति|
Adhikarana जीमूतकल्पः (१९) · Śloka १९
अथ जीमूतकल्प:|
|
जीमूताद्याश्च फलवत्|१९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीमूततुम्बीकोशातक्याद्याः कुटजफलपर्यन्ताः फलवत्-मदनफलतुल्यविधिना, कल्प्याः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-मदनविधिं जीमूतादिष्वतिदिशति-जीमूताद्या इति|
Adhikarana ज्वरश्वासादौ जीमूतो योज्यः (१९-२०) · Śloka २०
|
जीमूतं तु विशेषतः||१९||
प्रयोक्तव्यं ज्वरश्वासकासहिध्मादिरोगिणाम्|
|२०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विशेषेण तु जीमूतो ज्वरादिषु योज्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -अथ जीमूतकल्पः| तत्र विषयमाह-जीमूतमिति| जीमूतं-देवदाली|
Adhikarana तुम्बीकोशातकीष्वपीयं कल्पना (२०-२२) · Śloka २२
|
पयः पुष्पेऽस्य निर्वृत्ते, फले पेया पयस्कृता||२०||
लोमशे क्षीरसन्तानं, दध्युत्तरमलोमशे|
शॄते पयसि दध्यम्लं जातं हरितपाण्डुके||२१||
आसुत्य वारुणीमण्डं पिबेन्मृदितगालितम्|
कफादरोचके कासे पाण्डुत्वे राजयक्ष्मणि||२२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्य-जीमूतस्य, पुष्पे सम्पन्ने पयः-क्षीरं, जीमूतकशृतं प्रयोज्यम्| फलेऽस्य निष्पन्ने पयस्कृता-जीमूतशृतक्षीरनिष्पादिता, पेया योज्या| जीमूतफलस्य लोमशालोमशतया मृदुकठिनभेदेन द्वैविध्यम्| लोमशे तस्मिन् जीमूतफले शृतक्षीरस्य या सन्तानिका-शीतीभूतस्योपरिष्टाद्धनोऽवयवः , तं वमने पिबेत्| अलोमशे जीमूतफले-काठिन्यमागते, तच्चूर्णयुतं दध्युत्तरं-दधिसरं, पिबेत्| शृते पयसि प्रकृतत्वाज्जीमूतफलैः शृते| किम्भूते ? हरितपाण्डुके,-लोमशालोमशयोर्मध्यमावस्थां प्राप्ते सति, दध्यम्लं जातं पिबेत्| अम्लमेव दधि-दध्यम्लम्, केचित्तु मस्तु दध्यम्लमित्याहुः| जीमूतफलेन वाऽऽसुत्य वारुणीमण्डं पिबेत्| किम्भूतम् ? मृदितगालितं,-पूर्वं मृदितं खजादिना, पश्चाद् गालितं-प्रस्रतम्| केषु ? कफारोचकादिषु|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-प्रयोगमाह-पय इति| अस्य-जीमूतस्य, पुष्पे निर्वृत्ते पुष्पसिद्धं पयः प्रयोक्तव्यम्| फले फलसिद्धक्षीरपेया| लोमशे फले तत्सिद्धक्षीरसन्तानिका| च्युतलोमनि फले तत्सिद्धक्षीरदधिसरं दधि वा| हरितपाण्डुनि फले तत्सिद्धक्षीरजमम्लं दधि क्षीरं वा| हरितपाण्डुभिर्वारुणीमण्डं आसुनुयात्-अवस्थान्तरं नयेत्| ततो मृदितगालितं कफजेष्वरोचकादिषु पिबेत्|
Adhikarana वातपित्तार्दिते वमनयोगः (२३) · Śloka २३
इयं च कल्पना कार्या तुम्बीकोशातकीष्वपि|
|२३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इयं च कल्पना-'पयः पुष्पेऽस्य निर्वृत्ते' इत्यादिका 'आसुत्य वारुणीमण्डं' इतिपर्यन्ता, तुम्बीकोशातकीष्वपि कार्या|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-जीमूतकल्पनां तुम्बीकोशातक्योरतिदिशतीयमिति| इयं-अवस्थाभेदेन, कल्पना तुम्ब्यां कोशातकीद्वये च|
Adhikarana पित्तश्लेष्मज्वरे वमनयोगः (२३-२५) · Śloka २५
|
पर्यागतानां शुष्काणां फलानां वेणिजन्मनाम्||२३||
चूर्णस्य पयसा शुक्तिं वातपित्तार्दितः पिबेत्|
द्वे वा त्रीण्यपि वाऽऽपोथ्य क्वाथे तिक्तोत्तमस्य वा||२४||
आरग्वधादिनवकादासुत्यान्यतमस्य वा|
विमृद्य पूतं तं क्वाथं पित्तश्लेष्मज्वरी पिबेत्||२५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पर्यागतानां-प्राप्तसम्यक्पाकानां, फलानां वेणिजन्मनां-देवदाल्युत्पन्नानां, चूर्णस्य शुक्तिं-अर्धपलं, पयसा वातपित्ताभ्यामर्दितः-आतुरः , पिबेत्| द्वे वा त्रीण्यपि वा जीमूतफलन्यापोथ्य-जर्जरीकृत्य, तिक्तोत्तमस्य-निम्बस्य, क्वाथं पित्तश्लेष्मज्वरी पिबेत्| अथवा, आरग्वधादिनवकात्-आरग्वधवर्गादाद्यौषधनवकात्, अन्यतमस्य क्वाथे द्वे वा त्रीण्यपि वा जीमूतफलान्यासुत्य-सन्धाय, तथा विमृद्य पूतं क्वाथ पित्तश्लेष्मज्वरी पिबेत्| गरागरी च वेणी च देवदाली च जीमूतं चेति पर्यायाः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -अन्यदाह-पर्यागतानामिति| पर्यागतानां-पक्वानाम्| वेणी-जीमूतः| शुक्तिं-अर्धपलम्| अन्यदाह-द्वे वेति| आपोथ्य-जर्जरीकृत्य| तिक्तोत्तमस्य-पटोलस्य| सङ्ग्रहे तु (क. अ. १)-"जीवकर्षभकेक्षुशतावरीनामन्यतमस्य स्वरसेन वा पित्तजे| अथवा पूर्ववत् घृतं सिद्धम्|" इति|ः
Adhikarana पित्त्ज्वरादौ वमनयोगः (२६-२) · Śloka २
जीमूतकल्कं चूर्णं वा पिबेच्छीतेन वारिणा|
ज्वरे पैत्ते, कवोष्णेन कफवातात्कफादपि||२६||
इति जिमूतकल्पः||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीमूतचुर्णं-फलमपि कल्कीकृत्याथवा तच्चूर्णं पित्तजज्वरे शीतेन जलेनालोड्य पिबेत्| तस्यैव कल्कं चूर्णं वा कफवातात् कफाच्चोद्भूते ज्वरे कवोष्णेन वारिणा पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदाह-जीमूतकल्कमिति|
Adhikarana कासश्वासादौ इक्ष्वाकुःशस्तः (२७) · Śloka २७
अथेक्ष्वाकुकल्पः|
कासश्वासविषच्छर्दिज्वरार्ते कफकर्शिते|
इक्ष्वाकुर्वमने शस्तः प्रताम्यति च मानवे||२७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कासाद्यार्ते कफार्दिते पुरुषे वमने-वमनविषये, इक्ष्वाकुः शस्तः| प्रताम्यति च मानवे प्रतमकाक्रान्तत्वाद्यः प्रताम्यति नरस्तस्मिंश्च, शस्तः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -अथेक्ष्वाकुकल्पः| तत्र विषयमाह-कासश्वासेति| इक्ष्वाकुः-कटुतुम्बी| प्रताम्यति-मूर्च्छायुक्ते|
Adhikarana पित्तश्लेष्मज्वरादोउ इक्ष्वाकु प्रयोगः (२८) · Śloka २८
फलपुष्पविहीनस्य प्रवालैस्तस्य साधितम्|
पित्तश्लेष्मज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत्||२८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-फलपुष्पविहीनस्य-असञ्जातफलपुष्पस्य, [तस्य-] इक्ष्वाकोः, किसलयैः क्षीरं साधितं पित्तश्लेष्मज्वरे पित्तोद्रिक्ते प्रयोजयेत्| फलपुष्पविहीनस्येत्यनेन कोमलत्वं प्रतिपादयति इक्ष्वाकोस्तन्त्रकृत्| अन्यथा "प्रवालैः साधितं क्षीरं पित्तोद्रिक्ते प्रयोजयेत्|" इति ब्रूयात्| इक्ष्वाकुफलस्य जरठावस्तस्य प्रयोगमाह-
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-प्रयोगमाह-फलपुष्पविहीनस्येति| विहीनत्वं-अनुत्पत्त्या|
Adhikarana कफकासादौ वमनयोगः (२९) · Śloka २९
हॄतमध्ये फले जीर्णे स्थितं क्षीरं यदा दधि|
स्यात्तदा कफजे कासे श्वासे वम्यं च पाययेत्||२९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
इक्ष्वाकुफलस्य जरठावस्थस्य प्रयोगमाह स०-हृतमध्ये जीर्णे-सुपक्वे, तस्मिन् इक्ष्वाको: फले हृतमध्यभागत्वाच्छून्यमध्ये क्षीरं स्थितं सत् यदा दधि जातं स्यात्तदा कफकासादिषु वमनार्थं पाययेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदाह-हृतमध्य इति| हृतमध्ये-निष्कुलीकृते| जीर्णे-पक्वे|
Adhikarana पाण्डुकुष्ठादौ वमनयोगः (३०) · Śloka ३०
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः|
तेन तक्रं विपक्वं वा पिबेतत्समधुसैन्धवम्||३०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इक्षाकुफलमध्यं वा मस्तुना पाण्ड्वाद्यर्दितः पिबेत्| तेन-इक्ष्वाकुफलमध्येन, तक्रं वा विपक्वं मधुसैन्धवयुतं पिबेत्| समधुसैन्धवमित्युक्तं स्पष्टार्थम् वमनविधौ हि समधुसैन्धवस्य वमनस्यानुज्ञानात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -अन्यदाह-मुस्तुनेति| तेन-फलमध्येन| सङ्ग्रहे तु (क.अ. १)-"तदेव वा मध्यं सगुडपललं भक्षयेत्| इक्ष्वाकुफलतैलं वा पिबेत्|" इति|
Adhikarana विषगुल्मादौ वमनयोगः (३१) · Śloka ३१
भावयित्वाऽऽजदुग्धेन बीजं तेनैव वा पिबेत्|
विषगुल्मौदरग्रन्थिगण्डेषु श्लीपदेषु च||३१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अजादुग्धेन तद्बीजं भावयित्वा तेनैव-छगलीक्षीरेण, विषगुल्मादिषु पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -अन्यदाह-भावयित्वेति| तेनैव-आजदुग्धेन, विषादिषु षट्सु पिबेत्|
Adhikarana कफज्वरादौ वमनयोगः (३२) · Śloka ३२
सक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः|
कफोद्भवे ज्वरे कासे गलरोगेष्वरोचके||३२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सक्तुभिः-यवसक्तुभिः, तुम्बीस्वरसभावितैर्मन्थं वा पिबेत्| कफोद्भवेषु ज्वरादिषु|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदाह-सक्तुभिरिति| कफजेषु ज्वरादिषु मन्थं पिबेत्|
Adhikarana गुल्मज्वरादौ वमनयोगः (३३) · Śloka ३३
गुल्मे ज्वरे प्रसक्ते च कल्कं मांसरसैः पिबेत्|
नरः साधु वमत्येवं न च दौर्बल्यमश्नुते||३३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कल्कं तुम्ब्या मांसरसैः पिबेत्| गुल्मे तथा ज्वरे प्रसक्ते-दीर्घकालानुबन्धिनि| एवं सति पुरुषः साधुकृत्वा वमति| दौर्बल्यं च न प्राप्नोति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -अन्यदाह-गुल्म इति| गुल्मे चिरकालज्वरे च मांसरसैः कल्कं पिबेत्|
Adhikarana सुखिषु आध्रापको वमनयोगः (३४-३) · Śloka ३
तुम्ब्याः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम्|
छर्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः||३४||
इतीक्ष्वाकुकल्पः||३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स-(तुम्ब्याः फलरसैः पुष्परसैश्चावचूर्णितं शुष्कैः-शोषितैः,तुम्बिफलरसैस्तुम्बिपुष्पचूर्णमिश्रितैरवचूर्णितं माल्यामाघ्राय सुखं वमेत्| गन्धसम्पत्-गन्धसम्पत्तिमत्|)
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र्० -अन्यदाह-तुम्ब्या इति| तुम्बीफलरसैः तुम्बीपुष्पचूर्णमिश्रितैः शोषितैरवचूर्णितं माल्यमाघ्राय सुखं वमेत्| गन्धसम्पत्-गन्धसम्पत्तिमत्| सङ्ग्रहे तु (क. अ. १)-"इक्ष्वकुफलस्वरसं वा त्रिगुणक्षीरसाधितमुरःस्थिते कफे पीनसे स्वरसादे च पिबेत्| बिल्वमूलप्रस्थक्वाथेन वा तुम्बीबीजानि क्वाथयेत्| ततस्तमिंस्त्रिभागघृते घृतसमानि च पिष्ट्वा तुम्बीबीजानि तदर्धांशिकानि च प्रत्येकं जीमूतमहाजालिनीवत्सककृतवेधनानि क्वाथतुल्यमेव च त्रिकटुकमावपेत्| ततः पुनरधिश्रित्य लेहं साधयेत्| तमवलिह्य प्रमथ्यामनु पिबेत्| अयमेव च कल्पः काश्मर्यादिषु चतुर्षु महापञ्चमूलाङ्गेषु पृथक् पृथगुक्तो वेदितब्यः वातकफगुल्मप्रसक्तज्वरेषु||" इति|
Adhikarana कासगुल्मादौ धामार्गवः इष्टः (३५-३६) · Śloka ३६
अथ धामार्गवकल्पः|
कासगुल्मोदरगरे वाते श्लेष्माशयस्थिते|
कफे च कण्ठवक्त्रस्थे कफसञ्चयजेषु च||३५||
धामार्गवो गदेष्विष्टः स्थिरेषु च महत्सु च|
|३६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कासादिषु, तथा कफस्थानस्थे वाते, श्र्लेष्मणि गलस्थे मुखस्थे च तथा कफसञ्चयजेष्वरोचकदिषु तथा,स्थिरेषु-दीर्घकालप्ररूढेषु, महत्सु-चात्यन्तं प्रवृद्धेषु, रोगेषु धामार्गवः-कोशफलाख्यः,इष्टः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ द्विकोशातकीकल्पः| तत्रादौ धामार्गवकल्पः| तत्र विषयमाह-कासगुल्मेति| धामार्गवो-राजकोशातकी|
Adhikarana कासादौ धामार्गवप्रयोगः (३६-३८) · Śloka ३८
|
जीवकर्षभकौ वीरा कपिकच्छूः शतावरी||३६||
काकोली श्रावाणी मेदा महामेदा मधूलिका|
तद्रजोभिः पृथग्लेहा धमार्गवरजोन्विताः||३७||
कासे हृदयदाहे च शस्ता मधुसिताद्रुताः|
|३८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवकर्षभादीनां पृथक्-प्रयेकं, तेषां रजोभिश्चूर्णैर्मधुसिताभ्यामत्यन्तं द्रुताः-द्रवीकृताः, धामार्गवरजोन्विताः तच्चूर्णमिश्राः, लेहाः कासे हृदयदाहे च शस्ताः| मधूलिका मधुयष्टिः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० - प्रयोगमाह-जीवकर्षभकाविति| वीरा-विदारी| श्रावणी-मुण्डी| मधूलिका-जलजं यष्टीमधु| पाकं विनाऽपि मधुसितायोगेनैव लेहत्वम्|
Adhikarana सपित्तोष्मे कफे प्रयोगः (३८) · Śloka ३८
|
ते सुखाम्भोनुपानाः स्युः पित्तोष्मसहिते कफे||३८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-त एव-पूर्वोक्ता लेहाः, उष्णोदकानुपाना वमनाय भवेयुः| कफे पित्तोष्मसहिते सति-पित्तेन तथा पित्तकार्येणोष्मणा युक्ते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ते-जीवकादिलेहाः| सुखाम्भः-कोष्णमुदकम्| पित्तोष्मा-पित्तजस्तापः| सङ्ग्रहे तु (क. अ. १)-"जीवनीयान्यतमचूर्णसंयुक्तान् समधुशर्करांस्तत्कषायैर्लेहान् पित्तोपसर्जने श्लेष्मणि विदध्यात्|" इति|
Adhikarana विषापहः प्रयोगः (३९) · Śloka ३९
धान्यतुम्बरुयूषेण कल्कस्तस्य विषापहः|
|३९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तस्य-धामार्गवस्य, कल्को धान्यतुम्बरुभ्यां यूषेण क्वाथेन,उपयुक्तो विषघ्नः स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -अन्यदाह-धान्येति| धान्यं-कुस्तुम्बरी| यूषः-क्वाथः|
Adhikarana मानसरोगे प्रयोगः (३९-४) · Śloka ४
|
बिम्याः पुनर्नवाया वा कासमर्दस्य वा रसे||३९||
एकं धामार्गवं द्वे वा मानसे मृदितं पिबेत्|
तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः||४०||
इति धामार्गवकल्पः||४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बिम्ब्यादीनामन्यतमस्य रसे-क्वाथे, धामार्गवफलमेकं मृदितं कृत्वा, अथवा द्वे फले, मानसे-मानोविकारे, वमनं ( नार्थं) पिबेत्| अथवा, तच्छृतक्षीरजं सर्पिः-धामार्गवफलसाधितं क्षीरोद्भवं [घृतं], फलादिभिः साधितं-मदनफलजीमूतकेक्ष्वाकुधामार्गवकोशातकीकुटजैः षड्भिः पक्वं,मानसे वमनार्थं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदह-बिम्ब्या इति| फलादिभिः-षड्भिःश्रेष्ठैः| सङ्ग्रहे तु (क. अ. १)-"सुमनः सौमनस्यायनीहरिद्राचोरकहैमवतीमहासहाक्षुद्रसहावृश्चीवबिम्बीपुनर्नवाकासमर्दान्यतमकषायेण धामार्गवमेकं द्वे वा मनोविकारेषु|" इति|
Adhikarana कुष्ठादौ क्ष्वेडः शस्यते (४१) · Śloka ४१
अथ क्ष्वेडकल्पः|
क्ष्वेडोऽतिकटुतीक्ष्णोष्णः प्रगाढेषु प्रशस्यते|
कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु||४१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्ष्वेडः-तिक्तकोशातकी, अतितीक्ष्णोष्ण्कटुकत्वात् कुष्ठादिषु प्रगाढेषु-अत्यन्तचिरकालजत्वाद् दृढेषु प्ररूढेषु,प्रशस्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथ क्ष्वेडकल्पः| तत्र विषयमाह-क्ष्वेड इति| क्ष्वेडः-कोशातकी|
Adhikarana क्ष्वेडस्य वमनप्रयोगः (४२) · Śloka ४२
पृथक् फलादिषट्कस्य क्वाथे मांसमनूपजम्|
कोशातक्या समं सिद्धं तद्रसं लवणं पिबेत्||४२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पृथक् फलादिषट्कस्य- मदनफलेक्ष्वाक्वादिकस्य, क्वाथे मांसमनूपजं कोशातक्या समं-तया तुल्यं, सिद्धं-पक्वं,तद्रसं तस्य मांसस्य रसं, लवणान्वितं पिबेत् |
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रयोगमाह-पृथगिति|
Adhikarana क्ष्वेडस्य अन्यः प्रयोगः (४३) · Śloka ४३
फलादिपिप्पलीतुल्यं सिद्धं क्ष्वेडरसेऽथवा|
|४३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-फलादिपिप्पल्यो- मदनफलजीमूतेक्ष्वाकुफलमध्यबीजानि, ताभिस्तुल्यमानूपं मांसं समक्ष्वेडरसेन सिद्धं वा पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदाह-फलादीति| पिप्पल्यो-बीजानि, तैस्तुल्यमानूपमांसम्|
Adhikarana क्ष्वेडस्य अन्यः प्रयोगः (४३-४) · Śloka ४
|
क्ष्वेडक्वाथं पिबेतत्सिद्धं मिश्रमिक्षुरसेन वा||४३||
इति क्ष्वेडकल्पः||४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यद्वा, इक्षुरसेन मिश्रं क्षेडक्वाथे सिद्धमानूपजं मांसरसं सलवणं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अन्यदाह-क्ष्वेडक्वाथमिति|
Adhikarana सुकुमारादिषु कौटजं श्रेष्ठम् (४४) · Śloka ४४
अथ कुटजफलकल्पः|
कौटजं सुकुमारेषु पित्तरक्तकफोदये|
ज्वरे विसर्पे हृद्रोगे खुडे कुष्ठे च पूजितम्||४४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कुटजं सुकुमारेषु-अत्यन्तवमनासहिष्णुषु, पित्तरक्तकफोदये-अतिशयेनाधिके तस्मिन्, तथा ज्वरादिषु, वमने श्रेष्ठम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र० -अथ कुटजकल्पः| तत्र विषयमाह-कौटजमिति|
Adhikarana कौटजस्य वमनप्रयोगः (४५-५) · Śloka ५
सर्षपाणां मधूकानां तोयेन लवणस्य वा|
पाययेत्कौटजं बीजं युक्तं कृशरयाऽथवा||४५||
सप्ताहं वाऽर्कदुग्धाक्तं तच्चूर्णं पाययेत्पृथक्|
फलजीमूतकेक्ष्वाकुजीवन्तीजीवकोदकैः||४६||
इति कुटजफलकल्पः||५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सर्षपादीनां पृथक् तोयेन-क्वाथेन, सैन्धवस्य च जलेन, कुटजबीजं पाययेत्| अथवा,कृशरया सह कौटजं पाययेत्| अथवा, सप्ताहमर्कदुग्धाक्तं कुटजबीजचूर्णं पॄथक् मदनफलाद्युदकैः पाययेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-प्रयोगमाह-सर्षपाणामिति|
Adhikarana वमनयोगानामुपसंहारः (१) · Śloka १
वमनौषधमुख्यानामिति कल्पदिगीरिता|
बीजेनानेन मतिमानन्यान्यपि च कल्पयेत्||४७||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने वमनकल्पो नाम प्रथमोऽध्यायः||१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- वमनौषधमुख्यानां-छर्दिषि प्राधनानामौषधानां,इति एवं प्रकारेण, कल्पस्य दिक्-गतिः,ईरिता-कल्पमार्ग उदितः| अनेन बीजेन-अनया दिशा, सुमतिरन्यान्यपि वमनौषधानि कल्पयेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां पञ्चमे कल्पसिद्दिस्थाने वमनकल्पो नाम् प्रथमोऽध्यायः समाप्तः||१||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-वमनयोगानुपसंहरति-वमनौषधेति| इति हेमाद्रिटीकायामायुर्वेदरसायने| वान्त्यौषधप्रकरणं सामस्त्येन निरूपितम्||१||