Skip to content

. द्रव्यकल्पाध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

अथ भेषजकल्पो व्याख़्यातुमारभ्यते| बस्तिव्यापदां ह्युत्पन्नानां सिद्धिः-साधनं, सद्भेषजप्रयोगात्|

Adhikarana द्रव्यकल्पाध्यायः (२) · Śloka

अपि च सर्वेषां रोगाणं या सिद्धिः-प्रशमोपायः, सोऽपि सद्भेषजप्रयोगादेव| इत्याह अथातो द्रव्यकल्पं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-भेषजस्य कल्पो-योजना, भेषजकल्पः| शेषं पूर्ववत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- भेषजकल्पं व्याख्यातुं प्रतिजानीते-अथेति|

Adhikarana औषधस्य देशः गुणः (१-४) · Śloka

धन्वे साधारणे देशे समे सन्मृत्तिके शुचौ| श्मशानचैत्यायतनश्वभ्रवल्मीकवर्जिते|१| मृदौ प्रदक्षिणजले कुशरोहिषसंस्तृते| अफालकृष्टेऽनाक्रान्ते पादपैर्बलवत्तरैः||२|| शस्यते भेषजं जातं, युक्तं वर्णरसादिभिः| जन्त्वजग्धं दवादग्धमविदग्धं च वैकृतैः||३|| भूतैश्छायायातपाम्ब्वाद्यैर्यथाकालं च सेवितम्| अवगाढमहामूलमुदीचीं दिशमाश्रितम्||४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-धन्वदेशे, तथा साधारणे देशे, तथा समे-अनिम्नोन्नते, तथा सन्मृत्तिके, तथा श्मशानादिवर्जिते, चैत्यं-दिनचर्याध्याये (हृ. सू. अ. २/३३) उक्तम्| तथा मृदौ-सुस्पर्शे, तथा प्रदक्षिणं-अनुकूलं जलं यस्मिन्, तथा कुशरोहिषसंस्तृते, तथाऽफालकुष्टे-खिले, तथा वृक्षैर्महत्तरैरनाक्रान्ते देशे, यद्भेषजं जातं युक्तं यथास्वम् वर्णरसादिभिः, तद्भेषजं शस्यते| तथा जन्तुभिः- कीटैः, अजग्धं-अभक्षितं, दवेन-दावाग्निना, अदग्धं-अप्रुष्टं, तथाऽविदग्धं वैकृतैर्भूतैः-स्वभावं परित्यज्य धर्मबाधाद्विकृतैराकाशा(पृथिव्या)दिभिर्यदनासेवितं तदविदग्धम्| विकृतमेव वैकृतम्, प्रज्ञादित्वादण्| तथा छायादिभिर्यथाकालं कालमनतिक्रम्य सेवितं, यदा तस्यभेजषस्य वृद्धौ छायादीनामन्यतमं वस्तुजातमुपयुज्यते तदा तेन सेवितमित्यर्थः| तथाऽवगाढं-दूरं गतं, महत्-पृथु, मूलं यस्य तदवगाढमहामूलम्| तथोदिचीं-उत्तरां, दिशमाश्रितं-तामाश्रित्य स्थितम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- स च देशगुणकालकल्पनामानैः पञ्चधा| तत्र देशमाह-धन्व इति| धन्वे-जाङ्गले| सन्मृत्तिके-स्निग्धकृष्णसुवर्णवर्णमधुररसमृत्तिके| आयतनं-वधस्थानं देवयजनागारं च| गुणमाह-युक्तमिति| अवगाढं-गम्भीरम्| सङ्ग्रहे तु (क. अ. ८)- "विशेषतस्त्वश्मवती स्थिरा गुर्वी श्यामा कृष्णा व स्थूलतृणवृक्षसस्यप्राया पृथ्वी स्वगुणभूयिष्ठा| नानावर्णा लघुपुष्पवती प्रविरलपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा| रूक्षा रासभभस्मवर्णा रुक्षतनुकोटरवृक्षप्रायाऽल्परसप्ररोहाऽनिलगुणभूयिष्ठा| मृद्वीसमा श्वभ्रवत्यव्यक्तरसजला महापर्वतवृक्षा श्यामाऽऽकाशगुणभूतिष्ठा| तत्राम्बुपृथ्वीगुणभुयिष्ठासु भूमिषु जातानि विरेचनानि बृंहणानि च शस्यन्ते| अनलानिलाकाशगुणभूयिष्ठासु वमनानि| सर्वगुणयुक्तासूभयतो भागानि| आकाशगुणभूयिष्ठासु शमनानि| एवं बलवत्तमानि भवन्ति| तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यम्| ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानाम्| शरदि त्वक्कन्दक्षीराणि| हेमन्ते साराणि| यथर्तु पुष्पफलम्| अन्ये पुनराहुः, सौम्यान्यौषधानि सौम्येष्वृतुस्षु, आग्नेयान्याग्नेयेषु, एवमव्यापन्नान्यापूर्णतररसवीर्याणि भवन्ति|" इति| एतच्च " यथाकालं च सेवितम्" इत्यत्र तन्त्रकारेण सङ्गृहीतम्|

Adhikarana औषधस्य ग्रहणस्थापनावचारणावधिः (१-७) · Śloka

|महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि| तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै||१|| मन्त्रेणानेन मतिमान् सर्वमप्यौषधं नयेत्| ] अथ कल्याणचरितः श्राद्धः शुचिरुपोषितः| गृह्णीयादौषधं सुस्थं स्थितं काले च कल्पयेत्||५|| सक्षीरं तदसम्पत्तावनतिक्रान्तवत्सरम्| ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः||६|| पयो बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम्| वयोबलवतां धातुपिच्छशृङ्गखुरादिकम्||७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथेत्यानन्तर्यमङ्गलसूचकम्| भेषजमेवंविधं विदित्वाऽनन्तरं कल्याणं-स्वस्त्ययनादि, चरितं-अनुष्ठितं, येनासौ कल्याणचरितः, तथा श्राद्धः-भेषजहरणं प्रति श्रद्धावान्, तथा शुचिः-स्नानादिना शुद्धः तथोपोषितः-कृतोपवासः, एवंविधमौषधमेवंविधः पुमान् गृह्णीयात्| तच्च भेषजं [सुस्थं-] स्वस्थं कृत्वा, स्थितं काले सक्षीरं-आर्द्रं, कल्पयेत्| तदसम्पत्तौ तु तथाविधस्य सक्षीरस्यौषधस्यासम्पत्तौ, अनतिक्रान्तवत्सरं भेषजं कल्पयेत्| किं सर्वं द्रव्यमनतिक्रान्तवत्सरं कल्पयेत्? ऋत इत्यादि| गुडादीन् वर्जयित्वा परमौषधमनतिक्रान्तवत्सरं कल्पयेत्| गुडादींस्तु अतिक्रान्तवत्सरान् कल्पयेत्| क्षीरं बष्कयण्याः सम्बन्धि ग्राह्यम्| विट् मूत्रं च, तच्चक्षीरं च, नीरुजं-अपगतदोषं, ग्राह्यम्| वयोबलवतां धातुपिच्छादिकं ग्राह्यम्| आदिग्रहणात् चिकित्सितोपयोगि केशनखचर्मादिकं गृह्यते| वयःशब्दोपादानात् विशिष्टं तरुणं वयो गृह्यते, न ह्यवयाः कश्चिदस्ति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- ग्रहणस्थापनावचारणावधिमाह-अथेति| श्राद्धः-श्रद्धावान्| सक्षीरं-आर्द्रम्, तदभावे शुष्कम्| तच्च वर्षावधि, घृतादीनि विना| धान्यं-शाल्यादि| कृष्णा-पिप्पिली| बाष्कयणं,-बष्कयणी-प्रौढवत्सा, तस्या विण्मुत्रं क्षीरं च| तन्नीरुजां-अरोगाणां, तरुणानां बलिनां च ग्राह्यम्| धात्वादिकं तद्वत्| सङ्ग्रहे तु (क. अ. ८)- "अथ मङ्गलाचारः कल्याणवृत्तिः शुचिः शुक्ल्वासाः संपूज्य देवतामश्विनौ गोब्राह्य्णांश्च कृतोपवास उदङ्नुखः प्राङ्नुखो वागृण्हीयात्| गृहीत्वा चानुरूपगुणवद्भाजनसंस्थान्यागारेषु पूर्वोत्तरद्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मसु, अग्निसलिलोपस्वेदधूमरजोमूषिकचतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत्|" इति|

Adhikarana कषाययोनयः पञ्चरसाः, कल्पना पञ्चधैव (८-९) · Śloka

कषाययोनयः पञ्च रसा लवणवर्जिताः| रसः कल्कः शृतः शीतः फाण्टश्चेति प्रकल्पना||८|| पञ्चधैव कषायाणां पूर्वं पुर्वं बलाधिका| |९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कषायस्य योनयः-आकराः, लवणवर्जिता मधुरादयः पञ्च रसाः| तेभ्य एव कषायाः-स्वरसादयः, पञ्च सम्भवन्ति| लवणस्य तु स्वरसकल्पनायोगो न सम्भवति, सदैव शुष्करूपत्वात्| कल्ककल्पनाऽपि न सम्भवति, यतो यद् द्रव्यं द्रवेण सिक्तं पीण्डीभवति न तु विलीयते तत् कल्कसंज्ञामासादयति| तथा यद् द्रव्यं क्वाथयित्वा जलादुद्ध्रियते द्रव्यावयवास्तूदकमनुप्रविशन्ति, तत्रैव शृतकल्पना| लवणस्य तु विलीनरूपत्वादेवं न सम्भवति इति शृतकल्पनाया अप्यसम्भवः| एवं शीतफाण्टयोरप्यनेनैव न्यायेनासम्भव इत्युक्तं लवणवर्ज्या रसाः कषाययोनय इति| मुनिनाऽप्युक्तं (च. सू. अ. ४/६)-["कल्पनावशतः पञ्चानां रसानां कषायसंज्ञाव्यवहार इति| लवणस्य कल्पनायोगाभावात् ] मधुरकषायोऽम्लकषायस्तिक्तकषायः कटु कषायः कषायकषायश्चेति|" इति| रसानां स्वरसादि कल्पनायोगो न सम्भवति| उक्तं चैतत्| तस्मात् गुणगुणिनोरभेदोपचारादिह रसग्रहणेन तदाश्रयाणां द्रव्याणां ग्रहणं मन्तव्यम्| रसः कल्कः शृतः शीतः फाण्टश्चेति प्रकल्पना पञ्चधैव कषायाणां स्वरसादीनाम्| सा च कल्पना पूर्वं पूर्वं-यथापूर्वं, बलाधिका-अधिकशक्तिः| एवं फाण्टाख्या कल्पना सबला| ततोऽप्यधिकशक्तिः शीताख्या| ततोऽप्यधिकवीर्या शृताख्या| ततोऽप्यधिकशक्तिः कल्काख्या| कल्काख्यायां चूर्णाख्यायाश्च कल्पनाया अन्तर्भावादपृथग्ग्रहणम्| कल्काख्यायाश्च कल्पनायाः स्वरसाख्या कल्पना अधिकशक्तिः| ननु, चूर्णादनन्तरं कल्कः क्रियते न तु कल्कादनन्तरं चूर्णम्| तस्मात् पञ्चानां कल्पनानां मध्ये चूर्णकल्पनैव निर्देष्टुं युक्ता, न तु कल्ककल्पना| युक्तमाह भवान्| किन्तु लवणस्य कषायसंज्ञायां समावेशो माभूदिति कल्पनानां मध्ये कल्क इति निर्देशः कृतो न चूर्ण इति| तस्माल्लवणे न सम्भवति कषायसंज्ञासमावेशः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- कल्पनामाह-कषाययोनय इति| द्रव्यादुद्धृतसारभागः कषायः| लवणस्य तदभावत्वादयोनित्वम्| ते रसादयो यथापुर्वं बलवत्तराः| [तन्त्रान्तरे-"रसः व्काथो हिमः फाण्टः कल्कश्चूर्णं विवर्तिका| लेहः स्नेहोऽथ सन्धानं दशैता द्रव्यकल्पनाः|| सद्यः समुद्धृतात् क्षुण्णात् पटनिष्पीडितात् स्त्रवेत्| द्रव्यात्तु स च निर्यासो रसः स्वरस उच्यते|| द्विरष्टपलिके तोये क्षुण्णद्रव्यपलं स्मृतम्| तुर्यशेषं स निर्यूहः स्मृतः व्काथः कषायकः|| शृतः कषायो निर्यूहः क्वाथो यूषः कृतश्च सः| कृतयूषः प्रमथ्या च द्रव्यात्कालीकृता स्मृता|| द्विपल मानमेतस्य केचिदाहुश्चतुः| पलम्|" इति|]

Adhikarana स्वरसलक्षणम् (९-१०) · Śloka १०

| सद्यःसमुद्धृतात् क्षुण्णाद्यः स्रवेत्पटपीडितात्||९|| स्वरसः स समुद्दिष्टः| |१०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सद्यः-तत्क्षणं, समभूमेः सम्यगुद्धृतं-उत्खातं, अनन्तरं क्षुण्णं-पिष्टं, सद्यःसमुद्धृतक्षुण्णं, तस्माद्वस्त्रपीडिताद्यः स्रवेत् स स्वरसः कल्पनाकषायः समुद्दिष्टः-संज्ञायां सङ्केतितः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- रसलक्षणमाह-सद्य इति| यस्मिन् दिने समुद्धृतं तस्मिन्नेव दिने प्रक्षाल्य क्षुण्णं पटपीडितं च यद्द्रव्यं तस्य रसः|

Adhikarana कल्कलक्षणम्, चूर्णलक्षणम् (१०) · Śloka १०

कल्कः पिष्टो द्रवाप्लुतः| चूर्णोऽप्लुतः|१०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-द्रवेणाऽऽप्लुतः पिष्टः सन् कल्क इति कल्पनाकषायः सङ्केतितः| यत् द्रव्यं द्रवेण अप्लुतं-शुष्कमेव पिष्टं, स कल्पनाकषायश्चूर्ण इति गदितः| तेन कल्कस्यैवायं भेद इति, नासौ कल्पनेति शङ्कनीयम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- कल्कलक्षणमाह-कल्क इति| शुष्कं द्रव्यं द्रवेणाप्लुत्य पिष्टं कल्कः, अनाप्लुत्य-चूर्णः| सङ्ग्रहे तु (क. अ. ८)- " उपलदशनापिष्टस्तु कल्कः| सूक्ष्मतान्तवच्युतश्चूर्णः| तस्य समस्तद्रव्यापरित्यागादाप्लुतोयोगाच्च कल्कादभेदः| इति| दशनपेषणे लालैव द्रवः| कल्कस्य पेषणे पाने चाप्लुतत्वम्| चूर्णस्य पान एव| समस्य्ग्रहणेऽप्यशक्यपेषणस्य त्यागान्न कषायलक्षणाभावः|

Adhikarana शृतलक्षणम् (१०) · Śloka १०

| शृतः क्वाथः|१०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यत् द्रव्यं द्रवेणाऽऽप्लुत्य शृतं स कल्पनाकषायः क्वाथ इति कथ्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-शृतलक्षणमाह-शृत इति क्वाथनोद्धृतः शुष्कद्रव्यरसः-शृतः| सङ्ग्रहे तु (क. अ. ८)- " स तु भेद्यान्यौ षधान्यणुशो भेदयित्वा छेद्यानि च छेदयित्वा प्रक्षाल्योदकेन शुचौ रूक्षायामधः प्रलित्पायां ताम्रायोमृन्मयान्यतमस्थाल्यां समावाप्य बव्हल्पपानीयग्राहितामौषधानामाकलय्य यावता मुक्तरसता स्यात्तावदुदकमासेचयेच्छोषयेच्च| अथाग्नावधिश्रित्य महत्यासने सुखोपविष्टः सर्वतः सततमवलोकयन् दर्व्या च विघट्टयन् मृदुना परितः समुपगच्छताऽनलेन साधयेत्| अवतार्य च सुपरिश्रुतं यथार्हस्पर्शं प्रयुञ्जीत| क्षीरादिसहितं च द्रव्यं न सम्यङ्नुक्तरसं भवतीति वारिक्वाथपूर्वकं क्षीराद्यैस्तदुपदेशेऽनुपदग्धं क्वाथयेत्|" इति| तदुपदेशे-क्षीरादिव्काथोपदेशे, वारिक्वाथं कृत्वा तं क्वाथं क्षीराद्यैः सह समं क्षीरादिशेषं क्वाथये| एवं ह्यनुपदग्धं द्रव्यं भवति| केवलक्षीरादिपाके तूपदग्धं स्यात्|

Adhikarana शीतलक्षणम् (१०) · Śloka १०

| शीतो रात्रिं द्रवे स्थितः||१०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यत् द्रव्यं द्रवे सकलां रात्रिं स्थितं स कल्पनाकषायः शीत इत्युच्यते|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शीतलक्षणमाह-शीत इति| क्वथनं विना क्वाथवत्सकलरात्रिस्थापितोद्धृतः-शीतः|

Adhikarana फाण्टलक्षणम् (११) · Śloka ११

सद्योऽभिषुतपूतस्तु फाण्टः| |११|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-यत् द्रव्यं द्रवेऽभिषुत्य सद्यः पूतं क्रियते स कल्पनाकषायः फाण्ट इति सङ्केतितः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- फाण्टलक्षणमाह-सद्य इति| सद्यः-आलोडनसमनन्तरमेव पूतः-फाण्टः| अभिषुतः-आलोडितः| आलोडनं चोष्णोदकेन| उक्तं हि सङ्ग्रहे (क. अ. ८)- "उष्णाम्भसि क्षुण्णाभिषुतपूतं फाण्टः|" इति|

Adhikarana कल्पनानां मानानां च विषयभेदाः (११-१२) · Śloka १२

तन्मानकल्पने| युञ्ज्याद्व्याध्यादिबलतस्तथा च वचनं मुनेः||११|| मात्राया न व्यवस्थाऽस्ति व्याधिं कोष्ठं बलं वयः| आलोच्य देशकालौ च योज्या तद्वच्च कल्पना||१२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मानं च कल्पना च मानकल्पने, तेषां-स्वरसादीनां, मानकल्पने [तन्मानकल्पने]| ते व्याध्यादिबलेन युञ्जयात्| आदिशब्देन कोष्ठबलादीनां ग्रहणम्| तत्र सम्यग्रसवीर्यादीन् दोषधात्वाद्यालोच्य प्रथममनन्तरं व्याध्यादिबलं च, ततः स्वरसादीनां मानकल्पने युञ्ज्यात्, न नियमं कृत्वेत्यत आह-तथा च वचनं मुनेः| मात्राया न व्यवस्थाऽस्ति व्याधिं कोष्ठं बलं वयः| आलोच्य देशकालौ च योज्या तद्वच्च कल्पनेति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- उक्तानां कल्पनानां वक्ष्यमाणानां च मानानां विषभेदानाह-तन्मानेति| व्याधिबलानुसारेण या कल्पनायया मात्रया यस्योचिता तां तया तस्य युञ्ज्यात्|

Adhikarana स्वरसस्य मध्यमं मानम् (१३) · Śloka १३

मध्यं तु मानं निर्दिष्टं स्वरसस्य चतुष्पलम्| |१३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मध्यमं मानं-मात्रा, स्वरसस्य चतुष्पलम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मन्दबुद्ध्यर्थं मध्यमं मानमुपदिश्यते| तत्र रसस्याह-मध्यमिति|

Adhikarana पेष्यस्य मध्यमं मानम् (१३) · Śloka १३

| पेष्यस्य कर्षमालोड्यं तद् द्रवस्य पलत्रये||१३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पेष्यस्य-उभयरूपस्य कल्कस्य चूर्णस्य वा, कर्षं मध्यमं मानम्| तच्च-पेष्यस्य कर्षं, द्रवस्य पलत्रये प्रक्षिप्यालोड्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पेष्यस्याह-पेष्यस्येति| कल्कचूर्णयोः कर्षं तदाऽऽलोडनद्रवस्य पलत्रयम्|

Adhikarana क्वाथस्य मध्यमं मानम् (१४) · Śloka १४

क्वाथं द्रव्यपले कुर्यात्प्रस्थार्धं पादशेषितम्| |१४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्वाथं द्रव्यपले, द्रवस्य प्रकृतत्वात् तस्य प्रस्थार्धं दत्त्वा, तच्च श्रपणेन पादशेषं कुर्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शृतस्याह-क्वाथमिति| शृते क्वाथ्यद्रव्यस्य पलं द्रवस्य षोडशपलानि, चत्वार्यवशेष्याणि|

Adhikarana शीतस्य मध्यमं मानम् (१४) · Śloka १४

| शीतं पले पलैः षड्भिः|१४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०- शीतं कषायं पले द्रव्यस्य, षड्भिः पलैर्द्रवस्य, कुर्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शीतस्याह-शीतमिति| शीते द्रव्यस्य पलं द्रवस्य षट् पलानि|

Adhikarana फाण्टस्य मध्यमं मानम् (१४) · Śloka १४

| चतुर्भिस्तु ततोऽपरम्||१४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ततः-शीतकषायात्, अपरं-फाण्टाख्यं प्रकृतत्वात् द्रव्यस्य पले चतुर्भिर्द्रवस्य पलैः कुर्यात्| पञ्चविधायां कषायकल्पनायां मध्यमं मानम्| अस्माच्च मानात् देशकालादीन् समीक्ष्योनाधिकभावो मात्रायाः स्वबुद्ध्या कल्प्यः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- फाण्टस्याह-चतुर्भिरिति| फाण्टे द्रव्यस्य पलं द्रवस्य चत्वारि पलानि| अनयोरनवशेष्यत्वं क्वथनाभावात्, यावत्पूतं तावत्पेयम्| अत्र तन्त्रान्तरोक्तो विशेषः-"कर्षश्चूर्णस्य कल्कस्य गुटिकानां च सर्वशः| द्रवशुक्त्याऽवलेढव्यः पातव्यश्च चतुर्द्रवः| क्वाथेन चूर्णपानं यत्तत्र क्वाथप्रधानता प्रवर्तते न तेनात्र चूर्णापेक्षी चतुर्द्रवः|| तेन द्विपले क्वाथे चूर्णकर्षः| मात्रा क्षौद्रघृतादीनां कल्कक्वाथेषु चूर्णवत्| आदिशब्दात् गुडतैलशर्करादीनि| षोडशाष्टचतुर्भागं वातपित्तकफार्तिषु| क्षौद्रं कषाये दातव्यं विपरीता तु शर्करा| इत्येके|| उत्तमा स्यात् पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमा| जघन्या सा पलार्द्धेन स्नेहक्वाथ्यौषधेषु च| दीप्तानलमहाकायं पाययन्त्यञ्जलिं जलम्| अन्ये त्वर्द्धं परित्यज्य प्रसृतिं तु चिकित्सकाः| क्वाथत्यागमनिच्छन्तस्त्वष्टभागावशेषितम्| पारंपर्योपदेशेन वृद्धवैद्याः पलद्वयम्|| स्याद्धितः साधितो यूषस्त्वष्टादशगुणे जले| चतुर्दशगुणे पेया यवागूः षङ्गुणे जले|| शृतं पञ्चगुणे भक्तं विलेपी च चतुर्गुणे| क्वाथ्यद्रव्याञ्जलिं क्षुण्णं श्रपयित्वा जलाढके| अर्द्धस्थितेन तेनात्र यवाग्वाद्युपयोजयेत्| वृद्धवैद्याः पलं द्रव्यम् ग्राहयन्त्याढकेऽम्भसि|| भेषजस्यातिबाहुल्यात् कदाचिदरुचिर्भवेत्| यदप्सु शतशीतासु षडङ्गादि प्रयुज्यते| कर्षमात्रं ततोद्रव्यं साधयेत्प्रास्थिकेऽम्भसि| अर्धस्थितं प्रयोक्तव्यं पानेपेयादिसंविधौ| कर्षार्धं वा कणाशुण्ठ्योः कल्कद्रव्यस्य वा पलम्| विनीय पाचयेद्युक्त्या वारिप्रस्थेन चापरान्| अत्र द्वात्रिंशत्पलजले क्वाथ्यस्य कर्षार्द्धं कर्षः पलं वा तीक्ष्णसौम्यातिसौम्यत्वे सति, कणाशुण्ट्योरिति षडङ्गादीति कल्कतिसौम्यत्वे सति, कणाशुण्ठ्योरिति षडङ्गादीति कल्कद्रव्यस्येति पदैस्तीक्ष्णादीनां ग्रहणात् यस्य कल्कोऽप्यतिसौम्यत्वात् पातुं शक्यते किं पुनः क्वाथस्तत्कल्कद्रव्यस्य| अपरान्-सार्धकर्षद्विकर्षादीन्, युक्त्या-तीक्ष्णाद्यवान्तरविशेषपर्यालोचनया, पाचयेत्| आढकेऽञ्जलिः पलं वेत्येतत प्रस्थे पलं कार्षो वेत्यनेन गतार्थमप्यरुचिर्यथा न स्यात् तथा कल्प्यमित्येवमर्थमुक्तम्| द्रव्यादष्टगुणं क्षीरं क्षीरात्तोयं चतुर्गुणम्| क्षीरावशेषः कर्तव्यः क्शीरपाके त्वयं विधिः|| न स्यान्मुक्तरसं सम्यग् द्रव्यं क्षीरादिभिः सह| तन्निर्देशे वारिपूर्वम् पादवत्साधयेद्भिषक्|| पूर्वं षोडशभागं वारि चतुर्भागावशेषं साधयेत्, पश्चात्तेन वारिणा तुल्यानि क्षीरादीन्यावारिक्षयात्पचेत्| शुष्कं द्रव्यमुपादाय स्वरसानामसम्भवे| वारि ण्यष्टगुणे साध्यं ग्राह्यं पादावशेषितम्|| आढकं द्रव्यचूर्णानामासुतं सलिलाढके| अहोरात्रस्थितं कुर्यात्स्वरसं स्वरसेऽसति|| मृदौ चतुर्गुणं वारि कठिनेऽष्टगुणं स्मृतम्| कठिनात्कठिनं यत्तु तत्र षोडशिकं जलम्|| मृद्वादिक्वाथ्यसङ्घाते मानानुक्तौ चिकित्सकाः| मध्यस्योभयगामित्वादिच्छन्त्यष्टगुणं जलम्|| पादशेषः स्नेहविधौ क्वाथस्तोये चतुर्गुणे|" इति|

Adhikarana स्नेहपाके मध्यमं मानम् (१५) · Śloka १५

स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम्| कल्कस्नेहद्रवं योज्यम्|१५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-स्नेहपाके विधातव्ये कल्कस्नेहद्रवाणाममानोक्तौ-मान वचनस्य विशिष्टस्यानिर्देशे, चतुर्गुणविवर्धितं कल्कस्नेहद्रवं योज्यम्| कल्कश्च स्नेहश्च द्रवश्च तेषां समाहारः कल्कस्नेहद्रवम्| तदेवं कल्कात् स्नेहश्च्तुर्गुणः स्नेहात् द्रवश्चतुर्गुण इति बोध्यम्| पञ्चप्रभृति तु द्रवं पृथक् स्नेहसमं दद्यादित्यत्र योज्यमिति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- स्नेहपाके मानमाह-स्नेहपाक इति| कल्काच्चतुर्गुणः स्नेहः, स्नेहाच्चतुर्गुणं द्रवम्|

Adhikarana स्नेहपाके शौनकमतम् (१५-१६) · Śloka १६

| अधीते शौनकः पुनः||१५|| स्नेहेसिध्द्यति शुद्धाम्बुनिःक्वाथस्वरसैः क्रमात्| कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम्||१६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शौनकाख्यस्तु तन्त्रकृदधीते-एवं पठति| स्नेह इत्यादि| स्नेहः कदाचिच्छुद्धाम्बुना पच्यते कदाचिन्निःक्वाथेन कदाचित्स्वरसेनेति| तैः शुद्धाम्बुनिःक्वाथस्वरसैः स्नेहे सिद्ध्यति सति क्रमेण कल्कस्यांशं चतुर्थं षष्ठमष्टमं योजयेदिति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शौनकमतमाह-अधीत इति| निष्व्काथे द्रवे कल्कात्षङ्गुणः स्नेहः, स्वरसेऽष्टगुणः स्नेहः, अन्यत्र चतुर्गुणः| क्षीरादिषु शुद्धाम्बुप्रक्षेपस्यावकाशत्वात् रसव्काथयोः परस्परमन्यैर्वा सङ्करे सामान्यपरिभाषाविषयत्वात्| सङ्कीर्णं हि द्रवान्तरम्| "शणस्य कोविदारस्य वृषस्य ककुभस्य च| कल्काढ्यात्वात्प्रशंसन्ति पुष्पकल्कं चतुर्थकम्||" इति|

Adhikarana स्नेहपाके विशेषः (१७) · Śloka १७

पृथक् स्नेहसमं दद्यात्पञ्चप्रभृति तु द्रवम्| |१७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स्०- स्नेहपाकलक्षणमधुना लक्षयन्नाह-

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- विशेषान्तरमाह-पृथक् स्नेहसममिति| यत्र चतुर्भ्योऽधिकानि द्रवाणि तत्र तु परस्परसाम्येन मिलितानि स्नेहाच्चतुर्गुणानि| सङ्ग्रहेऽप्युक्तम् (क. अ. ८)- "समुदितद्रवस्य पादेन सेहो योज्यः|" इति| सर्वद्रवाणां युगापत्प्रक्षेपः, अथैकध्यं प्रति संसृज्याधिश्रित्य च निर्यूहवत्साधयेत्|" इति (क. अ. ८) सङ्ग्रहवचनात्| अनिरूपितकल्पनं च भैषज्यं कल्कीकुर्यात्| कल्कानुक्तौ निरूपितकल्पनमिति, " यतः व्काथस्ततः कष्कः केवलकाथभाषिते|" इति वचनात्|

Adhikarana पक्वस्नेहस्य लक्षणम् (१७-१८) · Śloka १८

| नाङ्गुलिग्राहिता कल्के न स्नेहेऽग्नौ सशब्दता||१७|| वर्णादिसम्पच्च यदा तदैनं शीघ्रमाहरेत्| घृतस्य फेनोपशमस्तैलस्य तु तदुद्भवः||१८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कल्कविषयेऽङ्गुलिग्राहित्वं यदा न भवति, अग्नौ प्रक्षिप्ते वा स्नेहे सशब्दता-चटचटायित्वं न भवति, तथा वर्णगन्धरसस्पर्शानां यदा सम्पत्-शुभत्वं स्यात्, तदा-तस्मिन् काले, अश्यामलच्छायामन्तं स्नेहं शीघ्रमाहरेत्| अग्रितः स्नेहस्य कटाहस्थितस्य स कालोऽवतरण इत्यर्थः| अन्यदपि स्नेहपाकलक्षणमस्ति-घृतस्येति| घृताख्यस्य स्नेहस्य सम्यक्पाकं प्राप्तस्य फेनोपशमो यदा जायते, तैलाख्यस्य च स्नेहस्य पच्यमानस्य तदुद्भवः-फेनोत्पत्तिः स्यात्, तदा घृततैलयोः पाको भवति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पव्कस्नेहहलक्षणमाह-नाङ्गुलिग्राहितेति| उक्तं च वृन्देन (ज्वराधिकारे श्लो २६५)- "स्नेहकल्को यदाऽङ्गुल्या वर्तितो वर्तिवद्भवेत्| वह्नौ क्षिप्ते च नो शब्दस्तदा सिद्धं विनिर्दिशेत्|| शब्दस्योपरमे प्रात्पे फेनस्योपरमे तथा| गन्धवर्णरसानां च सम्पत्तौ सिद्ध्मादिशेत्|" इति| घृततैलयोःफेनोपशमोद्भवौ विशेषौ|

Adhikarana पक्वलेहस्य लक्षणम् (१९) · Śloka १९

लेहस्य तन्तुमत्ताऽप्सु मज्जनं सरणं न च| |१९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-लेहस्य पाकं प्राप्तस्य तन्तुमत्ता-तन्तुप्रादुर्भावः पाकः| तथाऽप्सु मज्जनं पाकलक्षणं सरणासरणरूपतया द्विधा सम्भवत्यत इदमाह-सरणं न च| सर्वलेहस्याप्सु मज्जनं भवति न तु सरणं-अवयवशो गमनम्, तथाऽपि तस्य पाकः सम्पन्न इति वेद्यम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- पव्केलेहलक्षणमाह-लेहस्येति| तन्तुमत्वमुदकमज्जनमविसरणं च| स्नेहलेहौक्वाथभेदौ| तयोर्मानं "उत्तमास्यात्पलं मात्रा" इत्यादिनोक्तम्, क्वाथ्यौषधशब्देन लेहस्यापि ग्रहणात्|

Adhikarana स्नेहपाकभेदाः (१९-२१) · Śloka २१

| पाकस्तु त्रिविधो मन्दश्चिक्कणः खरचिक्कणः||१९|| मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे| किञ्चित्सीदति कृष्णे च वर्त्य(र्ति)माने च पश्चिमः||२०|| दग्धोऽत ऊर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत्| |२१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पाकस्त्रिप्रकारो मन्दश्चिक्कणः खरचिक्कणाख्यः [ च ]| स्नेहपाकविधौ किट्टाख्ये वस्तुजाते कल्कसमे यथा कल्कोऽङ्गुलिनाऽवष्टभ्नाति, तथा किट्टेऽपि स्नेहपाकस्याङ्गुलिग्राहिता न भवति, स स्नेहपाको मन्द उच्यते| मदनोपमे किट्टे सत्येवमङ्गुलिग्राहिणि स्नेहपाकस्य स चिक्कणः पाकः| किञ्चित्-ईषत्, किट्टे सीदति सति तथा वर्णतः कृष्णे च तस्मिन्, तथा वर्त्य(र्ति)माने-वर्तिमा(तां)गच्छति सति, पश्चिमः-खरचिक्कणाख्यः पाकः| अतः अस्मात् खरचिक्कणात्, ऊर्ध्वं-अनन्तरं, दग्धो भवति स्नेहः| स च निष्कार्यः स्यात्-यथानिरूपितकार्यकरणो न भवेत्, निर्वीर्यत्वात्| आमः-ईषत्पाकः स्नेहः, पुनरग्निसादकृत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- स्नेहपाकभेदानाह-पाकस्त्विति| तत्र कल्कसमे किट्टे मन्दः| पाकेन स्नेहात्पृथग्भूतः कल्कः-किट्टः| वैवर्ण्याद्यभावात् कल्कसमत्वम्| मदनोपमे चिक्कणः| मदनं मधूच्छिष्टम्| पश्चिमः-खरचिक्कणः| सीदति-म्लायति| अत ऊर्ध्व-पश्रिमादूर्ध्वम् दग्धः, स च निष्फलः| मन्दादर्वाक्-आमः, स चाग्निमान्द्यकॄत्|

Adhikarana मृदुखरचिक्कणानां विषयभेदाः (२१) · Śloka २१

| मृदुर्नस्ये, खरोऽभ्यङ्गे, पाने बस्तौ च चिक्कणः||२१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मृदुः-मन्दपाकः स्नेहो, नस्ये-तद्विषये, प्रयोज्यः| खरः-खरचिक्कणः स्नेहः, अभ्यङ्गे-तद्विषये, प्रयोज्यः| पाने तथा बस्तौ-तद्विषये, चिक्कणः प्रयोज्यः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- त्रयाणां विषयभेदानाह-मृदुरिति|

Adhikarana मानभेदाः (२२) · Śloka २२

अधुना मानसङ्ख्यायाः यथास्वं संज्ञासंविधानार्थमाह शाणं पाणितलं मुष्टिं कुडवं प्रस्थमाढकम्| द्रोणं वहं च क्रमशो विजानीयाच्चतुर्गुणम्||२२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शाणादयो वहपर्यन्ताः क्रमेण चतुर्गुणाः पाणितलादिसंज्ञा वेद्याः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- मानभेदानाह-शणमिति| शाणादयोऽष्टौ यथोत्तरं चतुर्गुणाः| शाणमानं तु सङ्ग्रहेणोक्तम् (क.अ.८)- "षड्वंश्यो-मरीचिः| ताः षट्-सर्षपः| तेऽष्टौ-तण्डुलः| तौ-धान्यमाषः| तौ-यवः| अतः परं चतुर्गुणवृच्या अण्डिकामाषकशाणाः|" इति| वंशी-वंशरन्ध्रप्रविष्टरश्मिस्थं रजः|

Adhikarana आर्द्रद्रवयोर्मानविशेषः (२३) · Śloka २३

द्विगुणं योजयेदार्द्रं कुडवादि तथा द्रवम्| |२३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शुष्कार्द्रयोरेकस्मिन् योगे तुल्यपरिमाणेन निर्दिष्टयोः शुष्कद्रव्यादार्द्रं द्रव्यं द्विगुणं दत्त्वा योजयेत्| शुष्कार्द्रयोर्वा द्रव्ययोस्तुल्यपरिमाणनिर्दिष्टयोः शुष्कद्रव्याभावे सत्यार्द्रं द्रव्यं द्विगुणं कृत्वा योजयेत्| शुष्कद्रवद्रव्यययोरेकस्मिन् योगे तुल्यपरिमाणेन निर्दिष्टयोः शुष्कद्रव्यात् द्रवद्रव्यम् कुडवादिपरिमाण संज्ञया निर्दिष्टं द्विगुणं कृत्वा योजयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- आर्द्रद्रवयोर्विशेषमाह-द्विगुणमिति| आद्रं त्वौषधं द्विगुणं योजयेत्, पलमित्युक्ते पलद्वयम्| कुडवादि द्रवं च, कुडवैत्युक्ते कुडवद्वयम्| " वासाकुटजकूष्माण्डशतपुष्पासहाचराः| नित्यमार्द्राः प्रयोक्तव्या मानतो द्विगुणा न ते||" इत्येके|

Adhikarana अनुक्तद्रवादौ जलादियोजना (२३-२५) · Śloka २५

| पेषणालोडने वारि स्नेहपाके च निर्द्रवे||२३|| कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम्| कल्कीकुर्याच्च भैषज्यमनिरूपितकल्पनम्||२४|| अङ्गानुक्तौ तु मूलं स्यादप्रसिद्धौ तदेव तु| |२५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-निर्द्रवे-अनुक्तद्रवे, पेषणालोडनार्थं वारि योजयेत्| स्नेहपाके चानुक्तद्रवे वार्येव योजयेत्| यत्र यत्र प्रयोगे द्रव्याणां परिमाणं विशिष्टं नोक्तं तत्र तत्र द्रव्याणां सदृशान् भागान् कल्पयेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- अनुक्तज्ञानार्थमाह-पेषणालोडन इति| पेषणालोडनस्नेहपाकेष्वनुक्तद्रवेषु वारि योज्यम्| प्रमाणानुक्तौ समभागत्वम्| कल्पनानुक्तौ कल्कः| अङ्गानुक्तौ मूलम्| अप्रसिद्धौ तदेव| यथा-हरीतकीत्युक्ते फलम्| " अनिर्दिष्टाप्रसिद्धेषु मूलं ग्राह्यं त्वगादिषु|" इति (क. अ. ८) सङ्ग्रहवचनात्|

Adhikarana मानसंज्ञान्तरम् (१-२९) · Śloka २९

| षड्वंश्यस्तु मरीची स्यात्, षण्मरीच्यस्तु सर्षपः| तण्डुलः सर्षपास्त्वष्टौ, धान्यमाषस्तु तौ, यवः||१|| तावण्डिका चतुर्भिस्तैर्माषकः शाणकस्तथा| ] द्वौ शाणौ वटकः कोलं बदरं द्रंक्षणश्च, तौ||२५|| अक्षम् पिचुः पाणितलं सुवर्णं कवलग्रहः| कर्षो बिडालपदकं तिन्दुकः पाणिमानिका||२६|| शब्दान्यत्वमभिन्नेऽर्थे शुक्तिरष्टमिका पिचू| पलं प्रकुञ्चो बिल्वं च मुष्टिराम्रं चतुर्थिका||२७|| द्वे पले प्रसृतस्तौ द्वावञ्जलिस्तौ तु मानिका| आढकं भाजनं कंसो, द्रोणः कुम्भो घटोऽर्मणम्||२८|| तुला पलशतं, तानि विंशतिर्भार उच्यते| |२९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-द्बौ शाणौ वटकः कोलं बदरं द्रंक्षणश्चेत्यत्र शब्दान्यत्वम्, न तु तत्त्वतो भेदः| तौ द्वौ द्रंक्षणावक्षं तथा पिचुस्तथा पाणितलं तथा सुवर्णं तथा कवलग्रहस्तथा कर्षस्तथा बिडालपदं तथा तिन्दुकस्तथा पाणिमानिका, इत्यत्राभिन्नेऽर्थे शब्दानेकत्वम्| तथा द्वौ पिचू शक्तिस्तथाऽष्टमिका, इत्यत्रापि शब्दान्यत्वमर्थस्यैक्ये सति| पलं प्रकुञ्चो बिल्वं च मुष्टिराम्रं चतुर्थिका, इत्यत्रापि शब्दानां वैलक्षण्ये सति नार्थतो भेदः| द्वे पले प्रसृत इत्युच्यते| तौ द्वौ प्रसृतावञ्जलिः कथ्यते| तौ द्वावञ्जली मानिका,- अष्टौ पलानीत्येव| आढकादीनां शब्दनां स्वरूपतो भिन्नानां नार्थतो भेदः| तथैव द्रोणादीनां शब्दानाम्| पलशतं तुला निगद्यते| तानि-पलशतनि, विंशतिर्भार उच्यते| क्वाथादीनां तूत्तमादिमात्राः सङ्ग्रहादवधार्याः| सङ्ग्रहे त्वेवं पठ्यते (क. अ. ८)- "क्वाथो निर्यूहः| तत्र भेद्यान्यौषधान्यणुशो भेदयित्वा छेद्यानि च छेदयित्वा प्रक्षाल्योदकेन शुचौ रूक्षायामधःप्रलिप्तायां ताम्रायोमृन्मयाद्यन्यतमायां स्थाल्यां समावाप्य बह्वल्पपानीयग्राहितामौषधानामाकलय्य यावता मुक्तरसता स्यात् तावदुदकमासेचयेच्छोषयेच्च| [अग्रावधिश्रयेत्| यावन्मात्रोदकदाने तथा तदवशिष्टत्वे च तत्र नियमसामर्थ्यात् क्वाथ्यद्रव्यपरिमाणस्य| अत्रेयत्परिमाणानि द्रव्याणि, उदकमियत्प्रमाणं, तदवशिष्टता चेयत्प्रमाणा, इति न नियमोक्तिरेवंविधा विद्यते| किं तर्हि? अभ्यूहनीयमेतत्सर्वमिति| अत्र विधिः|] अथाग्नावधिश्रित्य महत्यासने सुखोपविष्टः सर्वतः सततमवलोकयन् दर्व्या च विघट्टयन् मृदुना च परितः समुपगच्छताऽनलेन साधयेत्| अवतार्य च सुपरिस्रुतं यथार्हस्पर्शं प्रयुञ्जीत| क्षीरादिसहितं च द्रव्यं न सम्यङ्मुक्तरसं भवतीति वारिक्वाथपूर्वकं क्षीराद्यैस्तदुपदेशेऽनुपदग्धं क्वाथयेत्| शीतसलिलाप्लुतं तु निशापर्युषितं पूतं शीतः कषायः| उष्णाम्भसि क्षुण्णाभिषुतः पूतः फाण्ट इति| तत्र सम्यग्रसवीर्यादीन्यौषधस्य समीक्ष्य व्याध्यातुरादिबलतश्च निर्यासादीनां कल्पनां मात्रां च संप्रयोजयेत्| तथा च केचिदाहुः| मात्राया न व्यवस्थाऽस्ति व्याधिं कोष्ठं बलं वयः| आलोच्य देशकालौ च भैषज्यमवचारयेत्|| [ एवं च सर्वमभ्यूह्यात्र कर्तव्यं निश्चितं कृत्वोक्तेन विधिनेति| ] एतदेवमुपदिष्टं बुद्धिमतां ज्ञानप्रबोधाय| यथा तु सर्वे भिषजो विज्ञास्यन्ति तथैवोपदेक्ष्यत इति| निर्यासे मध्यमा मात्रा चतुष्पलम्| कल्कचूर्णयोः कर्षः पलत्रयं तदालोडने| निर्यूहे भेषजपलमुदकार्धप्रस्थेऽधिशत्य पादशेषमवतारयेत्| शीतफाण्टयोरौषधपलं षड्भिश्चतुर्भिरम्बुपलैरासुतमिति|" इति| तथा शाणपरिमाणस्य पाणितलवाचकस्य [ च ] किमपि परिमाणं नोक्तं येनासौ [ न ] परिच्छिद्यत इति न वाच्यम्, सङ्ग्रहे तत्परिमाणस्योक्तत्वात्| तत्र ह्येवमुक्तम् ( सं.क.अ.८)-"षड्वंश्यो मरीची| ताः षट् मरीच्यः सर्षप उच्यते| अष्टौ सर्षपास्तण्डुलः| तौ द्वौ तण्डुलावेको धान्यमाषः| तौ द्वौ धान्यमाषौ यवः| अतः परं चतुर्गुणवृध्द्याऽण्डिकामाषकशाणकर्षपलकुडवप्रस्थाढकद्रोणवहाः कल्प्यन्ते| [ एवं चतुर्भिर्माषकैः शाणस्य परिमाणं परिच्छिद्यते| ] धरणं तु पलस्य दशमो भागः| माषकस्य तु पर्यायो हेमः| कर्षस्य षोडशिका| आढकस्य तु पर्यायाः कंसः पात्रं भाजनं च| द्रोणस्य पर्यायो नल्वणः, तथा अर्मणः, तथोन्मानः, तथा घटः कुम्भः कलशश्च| द्रोणद्वयस्य च शूर्पः|" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- संज्ञान्तरमाह-द्वौ शाणाविति| शाणद्वयस्य वटकादयश्चतस्त्रः संज्ञाः| वटकद्वयस्याक्षादयो नव षोडशिका च| पलद्वयस्य प्रसृतः| प्रसृतद्वयस्याञ्जलिः कुडवश्च| अञ्जलिद्वयस्य मानिका| आढकादयस्तिस्त्र एकार्थाः| द्रोणादयश्चतस्त्रः [च्]| पलशतं-तुला| विंशतिस्तु भारः| सङ्ग्रहे तु (क. अ. ८)- "धरणं तु पलस्य दशमो भागः| माषकस्य पर्यायो हेमो धानकश्च| पलद्वयस्याष्टमानम्| द्रोणद्वयस्य शूर्पः|" इति|

Adhikarana शैलभेदाद्द्रव्यविशेषः (६) · Śloka

हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा||२९|| सौम्यं पथ्यं च तत्राद्यमाग्नेयं वैन्ध्यमौषधम्| २९ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने द्रव्यकल्पो नाम षष्ठोऽध्यायः||६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हिमवत्पर्वतेन विन्ध्यशैलेन च बाहुल्येन वसुन्धरा व्याप्ता| तत्र-तयोर्मध्यात्, आद्यं-हैमवतमौषधं, सौम्यं पथ्यं च स्वभावाद्भवति| वैन्ध्यं चौषधमाग्नेयं-न तथा देहस्य सदा पथ्यं, स्यादिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां पञ्चमे कल्पसिद्धिस्थाने द्रव्यकल्पो नाम षष्ठोऽध्यायः समाप्तः|| ६||

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०- शैलभेदाद्द्रव्यविशेषमाह-हिमवदिति| इति हेमाद्रिटीकायामायुर्वेदरसायने| द्रव्यकल्पप्रकरणं सामस्त्येन निरूपितम्||