Adhikarana अध्यायोपक्रमः (१) · Śloka १
अस्मादनन्तरं बस्तिव्यापत्सिद्धिर्व्याख्यायते||१||
🔊 Audio coming soon
Show commentary
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-
Adhikarana अध्यायोपक्रमः (१) · Śloka १
अस्मादनन्तरं बस्तिव्यापत्सिद्धिर्व्याख्यायते||१||
🔊 Audio coming soon
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-
Adhikarana बस्तिव्यापत्सिद्धिरध्यायः (२) · Śloka २
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अथात इति पूर्ववत्| (असम्यक् प्रयुक्तेषु बस्तिषु या व्यापदः, तासां साधनायास्याध्यायस्यारम्भः|)
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-बस्तिव्यापत्सिद्धिमध्यायं व्याख्यातुं प्रतिजानीते-अथेति| बस्तिव्यापदश्च द्वादशोक्ताः सङ्ग्रहे (क.अ.६)- "विबन्धगौरवाध्मानशिरोरुग्वाहनोर्ध्वगाः| कुक्षिशूलाङ्गरुघिध्माहृत्पीडाकर्तनस्रवाः|| अयोगादतियोगाच्च बस्तेः स्युः षट् षडापदः|" इति|
Adhikarana निरूहव्यापदः, अयोगव्यापदः, विबन्धाख्या व्यापत्तत्सिद्धिश्च (१-६) · Śloka ६
अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः| शीतोऽल्पस्नेहलवणद्रव्यमात्रो घनोऽपि वा||१|| बस्तिः सङ्क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्| करोत्ययोगं तेन स्याद्वातमूत्रशकृदग्रहः||२|| नाभिबस्तिरुजा दाहो हृल्लेपः श्वयथुर्गुदे| कण्डूर्गण्डानि वैवर्ण्यमरतिर्वह्निमार्दवम्||३|| क्वाथद्वयं प्राग्विहितं मध्यदोषेऽतिसारिणि| उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते||४|| फलवर्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम्| बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्||५|| सुरादिमूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्| |६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अस्त्रिग्धादिगुणस्य पुंसः शिशिरस्तथाऽल्पस्नेहलवणोऽल्पद्रव्यमात्रः-अल्पद्रव्यकल्पः(ल्कः), तथा घनो-बहुद्रव्यकल्को, बस्तिर्योजितः सन् बस्तिसाध्यं दोषं सङ्क्षोभ्य दुर्बलत्वादनिर्हरन् अयोगं करोति| तेन-अयोगेन, वातादिग्रहः स्यात्| प्राक्-अतिसारचिकित्सिते (चि. अ. ९/६) क्वाथद्वयं-पाचनयुगुलं-मध्य दोषेऽतिसारिणि विहितं भूतीकपिप्पल्यादिरेको बिल्वधनिको द्वितीयः, तस्मात्-क्वाथद्वयात्, एकस्य-अन्यतरस्य क्वाथस्योष्णस्य, तत्रावस्थायां पानं प्रशस्यते, तथा फलवर्तयः स्वेदाश्च नानाविधाः, अवस्थाश्च ज्ञात्वा विरेचनं शस्यते| तथा बिल्वादिमान् बस्तिस्तथा सुरादिमान् बस्तिः, सप्राक्पेष्यः-"बलां गुडूचीं" (क. अ. ४/१) इत्यादौ बस्तौ यः पेष्यो यवान्यादिकृत् तेन प्राक्पेष्येण सह वर्तत इति सप्राक्पेष्यः| तमत्र दत्तवस्तिनोत्क्लिष्टं दोषमानयेत्-आकर्षयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विबन्धाख्यां व्यापदमाह-अस्निग्धेति| द्रव्यंक्वाथ्यं पेष्यं च| तं दोषं-यदर्थं दत्तः| क्वाथद्वयं-"पिबेत् प्रकवथितास्तोये मध्यदोषो विशोषयन्| भुतीकपिप्पलीशुण्ठीवचाधान्यहरीतकीः|| अथवा बिल्वधनिकामुस्तनागरवालकम्|" (हृ.चि.अ. ९१५) इत्युक्तम्| भूतीकं-कट्तृणम्| प्राक्पेष्यं-"पूतोयवानीफलबिल्वकुष्ठवचाशताव्हाघनपिप्पलीनाम्| कल्कैः (हृ.क.अ. ४/२) इत्युक्तम्| सुरा-मदिरा| आदिशब्दादन्यदप्यम्लम्| गौरवाख्यां व्यापदं त्वाह सङ्ग्रहे (क.अ. ६)-"सशेषामे निरूहेण मृदुना दोष ईरितः| मूर्च्छयत्यनिलं मार्गं रूणध्द्यग्निंहिनस्ति च|| गौरवक्लमहृच्छूलदाहसम्मोहवेष्टनम्| ततः कुर्यादुपचरेत्तं रूक्षस्वेदपाचनैः|| पिप्पलीकट्तृणोशीरदारुमूर्वाशृतं जलम्| पिबेत्सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम्|| वचानागरशठ्यो वा घृतमण्डेन मूर्च्छिताः| पेयाः प्रसन्नया वा स्युररिष्टनासवेन वा|| दारु त्रिकटुकं पथ्यां पलाशं चित्रकं शठीम्| पिष्ठ्वा कुष्ठं च मूत्रेण पिबेत् क्षारांश्छ दीपनान्|| बस्तिमस्य विदध्याच्च समूत्रं दाशमूलिकम्|" इति|
Adhikarana आध्मानाख्या व्यापत्तत्सिद्धिश्च (६-१०) · Śloka १०
| युक्तोऽल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशयेऽथवा||६|| बस्तिर्दोषावृतो रूद्धमार्गो रुन्ध्यात्समीरणम्| स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम्||७|| विदाहं गुदकोष्ठस्य मुष्कवङ्क्षणवेदनाम्| रुणद्धि हृदयं शूलैरितश्चेतश्च धावति||८|| स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत्| बिल्वादिश्च निरूहः स्यात्पीलुसर्षपमूत्रवान्||९|| सरलामरदारुभ्यां साधितं चानुवासनम्| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दोषाढ्ये तथा रूक्षे क्रूरकोष्ठे वा बस्तिरल्पवीर्यो दत्तो दोषैः-वाय्वाद्यवरकैरावृतः, अनन्तरं स बस्ती रुद्धमार्गः-प्रतिहतगतिप्रसरणो, वायुं रुन्ध्यात्| सोऽनिलो विमार्गग आध्मानं कुर्यात्| तथा हृदयादीनां मर्मणां व्यधनं-पीडनं, तथा गुदकोष्ठस्य विदाहं, तथा मुष्कवङ्क्षणवेदनां च कुर्यात्| तथा शूलैः-नानाविधाभिर्भग्नरुद्धमृदितपीडितावनद्धादिभिः पीडाभिः, हृदयं रुणद्धि-आवृणोति| हृदयमावृत्यानन्तरम्, इतश्चेतश्च-अनियते देशे, धावति पवनः| तत्र-अवस्थाविशेषे, सुष्ट्वभ्यक्ताङ्गस्य स्विन्नाङ्गस्य च फलवर्तिं प्रयोजयेत्| बिल्वादिकश्च निरुहः स्यात् पीलुसर्षपमूत्रवान्| सरलदेवदारुभ्यां साधितं तैलं चानुवासनं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आध्मानाख्यां व्यापदमाह-युक्त इति| बिल्वादिः-विबन्धव्यापद्युक्तः| पीलु-पीलुफलम्| शिरोरुजाख्यां व्यापदं त्वाह सङ्ग्रहे (क.अ. ६)-"बहुदोषेऽबले क्रूरकोष्ठे बस्तिस्तनुर्मृदुः| शीतोऽल्पश्छावृतो दोषैः प्रतिहन्ति समीरणम्|| ऊर्ध्वं सोऽनुसरन् देहं कुर्याद्वायुः शिरोरुजम्| ग्रीवास्तम्भं प्रतिश्यायं बाधिर्यं दृष्टिविभ्रमम्|| तमुष्णतैललवणप्रदिग्धस्विन्नमर्दितम्| तीक्ष्णैर्धूमैः प्रधमनैर्नस्यैरास्यविरेचनैः|| विरेकैर्बस्तिभिश्छाशु योजयेदानुलोमिकैः|" इति| वाहानाख्यां च व्यापदमाह सङ्ग्रहे (क.अ. ६)-"स्निग्धस्विन्ने महादोषे बस्तिमृद्वल्पभेषजः| उत्क्लेश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम्|| शोफं बस्तावपाने च सदनं चोरुजङ्घयोः| विबद्धमारुतो जन्तुरभीक्ष्णं स प्रवाहते|| स्वेदाभ्यङ्गान्निरुहांश्छ शोधनीयानुलोमिकान्| विदध्याल्लङ्घयित्वा च वृत्तिं तस्य विरिक्तवत्||" इति|
Adhikarana ऊर्ध्वमारूताख्या व्यापत्तत्सिद्धिश्च (१०-२१) · Śloka २१
| कुर्वतो वेगसंरोधं पीडितो वाऽतिमात्रया||१०|| अस्निग्धलवणोष्णो वा बस्तिरल्पोऽल्पभेषजः| मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात्||११|| निरेति मूर्च्छाहृल्लासतृड्दाहादीन् प्रवर्तयन्| मूर्च्छाविकारं दृष्ट्वाऽस्य सिञ्चेच्छीताम्बुना मुखम्||१२|| व्येजदाक्लमनाशाच्च प्राणायामं च कारयेत्| पृष्ठपार्श्वोदरं मृज्यात् करैरुष्णैरधोमुखम्||१३|| केशेषूत्क्षिप्य धुन्वीत भीषयेद्व्यालदंष्ट्रिभिः| शस्त्रोल्काराजपुरुषैर्बस्तिरेति तथा ह्यधः||१४|| पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते तथा| प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः||१५|| अपानः पवनो बस्तिं तमाश्वेवापकर्षति| कुष्ठक्रमुककल्कं च पायेताम्लसंयुतम्||१६|| ओष्ण्यात्तैक्ष्ण्यात्सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत् गोमूत्रेण त्रिवृत्पथ्याकल्कं वाऽधोनुलोमनम्||१७|| पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः| यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः||१८|| बस्तिर्गोमूत्रसिद्धैर्वा सामृतावंशपल्लवैः| पूतीकरञ्जत्वक्पत्रशठीदेवाह्वरोहिषैः||१९|| सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान्| बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते||२०|| शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः| |२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वेगसंरोधं-वेगविधारणं, कुर्वतः पुंसो यः पीडितो बस्तिरतिमात्रया वा पीडितोऽस्निग्धलवणोष्णो वा तथाऽल्पो मात्रया, अल्पभेषजश्च मृदुर्वा, स तथाभूतो मारुतेनोर्ध्वं क्षिप्तो मूखनासिकात् निरेति-निर्गच्छति| मूर्च्छादीन् प्रवर्तयेत्(यन्)| अस्य तु-तथाविधबस्तेः पुरुषस्य, मूर्च्छादिविकारं दृष्ट्वा शीताम्बुना मुखं सिञ्चेत्| तथा क्लमनाशं यावत् तं तालवृन्तादिना वीजयेत्| तथा तं पुरुषं प्राणायामं च कारयेत्, प्राणायामेन ह्यूर्ध्वं विक्षिप्तो बस्तिरधो याति| उष्णैः करैः पृष्ठं पार्श्वमुदरं च मृज्यात्| तथा तं पुरुषमधोमुखं कृत्वा केशैरुत्क्षिप्योर्ध्वं नीत्वा वपुर्धुन्वीत| तथा व्यालादिभिर्भीषयेत्| तथोर्ध्वं प्रवृत्तो बस्तिर्यस्मादधो गच्छति| तथा पाणिवस्त्रैर्गलापीडं कुर्याद्यथा न म्रियेत| एवं सति प्राणोदाननिरोधः सम्पद्यते, प्राणोदाननिरोधाद्यस्मादधोगः सुप्रसिद्धतरायनो भूत्वाऽपानो वायुस्तं बस्तिं द्रागेवापकर्षति-ऊर्ध्वादधः क्षिपति| सुष्ठु-प्रकर्षेण, प्रसिद्धतरमयनं यस्य स सुप्रसिद्धतरायनः| कुष्ठादिकल्कं चाम्लसंयुतं पाययेत्| [ सः ] कल्कः, अस्य-आतुरस्य, उष्णादिगुणयोगात्तं बस्तिमनुलोमयेत्| त्रिवृतादिकल्कं पीतं गोमूत्रेणाधोनुलोमनम्| पक्वाशयस्थिते दोषे स्निग्धे (स्विन्ने) निरुहो दाशमूलिको विधातव्यः| यवादिभिश्च गोमूत्रसाधितैर्बस्तिर्विधेयः| अथवा गोमूत्रसिद्धैर्गुडूच्यादिभिस्तैलगुडसैन्धवयुक्तो बस्तिर्विरेकद्रव्यकल्कवान् विधेयः| उरसि स्थिते बिल्वादिपञ्चमूलेन सिद्धो बस्तिर्विधातव्यः| शिरसि स्थिते बस्तौ नस्यं धूमश्च, शिरश्च सर्षपकल्केन प्रच्छादनीयम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-ऊर्ध्वमारुताख्यां व्यापदमाह-कुर्वत इति| मृज्यात्-मर्दयेत्| भीषयेत्-त्रासयेत्| पाणिभिश्च वस्त्रैश्च| सुप्रसिद्धतरं-गुदं मेढ्रं च, अयनमस्य स तथा| क्रमुकं-पूगः| दशमूलयवादीनां मूत्रे क्वाथः, अमृतादीनां वा सप्तानाम्| अमृता-गुडूची| त्वक् पत्रं च पूतीकरञ्जस्य| तैलादियोगस्तु द्वयोरपि क्वाथयोः, बिल्वादिक्वाथस्यापि| इत्ययोगव्यापदः|
Adhikarana अतियोगव्यापदः (२१-२३) · Śloka २३
| बस्तिरत्युष्णतीक्ष्णाम्लघनोऽतिस्वेदितस्य वा||२१|| अल्पे दोषे मृदौ कोष्ठे प्रयुक्तो वा पुनःपुनः| अतियोगत्वमापन्नो भवेत्कुक्षिरुजाकरः||२२|| विरेचनातियोगेन स तुल्याकृतिसाधनः| |२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अत्युष्णतीक्ष्णाम्लघनो बस्तिः प्रयुक्तोऽतिस्वेदितस्य वा पुंसोऽल्पे दोषे तथा मृदौ कोष्ठे मुहुर्मुहुः प्रयुक्तत्वादतियोगत्वं प्राप्तोऽयम् कुक्षिरुग्जनकः स्यात्| सः-तथाविधो बस्तिः, विरेचनातियोगेन तुल्ये-सदृशे, लक्षणचिकित्सिते यस्य स एवं स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथातियोगव्यापदः| कुक्षिशूलाख्यव्यापदमाह-बस्तिरिति| सङ्ग्रहे तु (क.अ. ६)-"पृश्निपर्णी स्थिरां पद्मं काश्मर्यं मधुकोल्पले| पिष्ट्वा द्राक्षां मधूकं च क्षीरे तन्दुलधावने|| द्राक्षायाः पक्वलोष्ठस्य प्रसादे मधुकस्य वा| विनीय सघृतं बस्तिं युञ्ज्याद्दाहेऽतियोगतः||" इति| विरेचनतुल्यत्वोक्त्या दाहोऽप्युक्तः| अङ्गरुगादिव्यापञ्चतुष्कं त्वाह सङ्ग्रहे (क.अ. ६)- "स्नेहस्वेदैरसम्पाद्य गुरुतीक्ष्णोऽतिमात्रकः| दुःस्थिताय प्रणिहितो बस्तिर्दुःशयिताय वा|| अतिप्रवृत्तो मरुतंकोपयेत्स विमार्गगः| करोत्यङ्गरुजां जृम्भां स्तम्भं भेदं च पर्वणाम्|| तं तैललवणाभ्यक्तं स्वेदितं संस्तरादिभिः| बिल्वकोलयवैरण्डवर्षाभूबृहतीद्वयैः|| सकुलत्थैः शृतैर्मस्तुफलसौवीरकान्वितैः| आस्थापयेत्ससिन्धूत्थैर्जाङ्गलैराशितं रसैः|| तैलेनानिलजद्द्रव्यविपक्वेनानुवासयेत्| मृदुकोष्ठेऽबले बस्तिरतितीक्ष्णोऽतिनिर्हरन्|| कुर्याद्धिध्मां हितं तत्र हिध्माघ्नं बृंहणं च यत्| बलाबृहत्यादिवराकाश्मर्यरससैन्धवैः| सप्रसन्नारनालाम्लैस्तैलं पक्त्वाऽनुवासयेत्| उष्णाम्बुनाऽक्षं पिप्पल्या दद्याल्लवणसंयुतम्|| धूमलेहरसक्षीरस्वेदाश्चान्नं च वातजित्| अतितीक्ष्णः सवातो वा न वा सम्यक् प्रपीडितः|| घट्टयेद्दृदयं बस्तिस्तत्र काशकुशोत्कटैः| स्यात्साम्ललवणस्कन्धकरीरबदरीफलैः|| शृतैर्बस्तिर्हितः सिद्धो वातघ्नैश्चानुवासनम्| मृदुकोष्ठाल्पदोषस्य रूक्षतीक्ष्णातिमात्रकः|| हृत्वा बस्तिर्मलान् शीघ्रं वातपित्ते प्रकोपयेत्| नाभिबस्तिगुदांस्ते हि कृन्ततोऽस्य मुहुर्मुहुः|| विवर्णस्याल्पमुत्थानं बस्तिर्निलेखनाद्भवेत्| स्वादुशीतौषधैस्तत्र पयस्येक्ष्वादिभिः शृतः|| यष्ट्याव्हतिलकल्काभ्यां बस्तिः स्यात् क्षीरभोजिनः| ससर्जरसयष्ट्याव्हं जिङ्गिणीकर्दमाञ्जनम्|| विनीय दुग्धे बस्तिः स्याव्द्यक्ताम्लरसभोजिनः| पिच्छिलश्छ हितो बस्तिः स्नेहश्छ मधुरैः शृतः||" इति|
Adhikarana कुक्षिशूलाख्या व्यापत्तत्सिद्धिश्च स्रवाख्या व्यापत्तत्सिद्धिश्च (२३-२८) · Śloka २८
| बस्तिः क्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा||२३|| गुदं दहन् लिखन् क्षिण्वन् करोत्यस्य परिस्रवम्| स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः||२४|| बहुशश्चातिवेगेन मोहं गच्छति सोऽसकृत्| रक्तपित्तातिसारघ्नी क्रिया तत्र प्रशस्यते||२५|| दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत्| तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकान् जयेत्||२६|| विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम्| युञ्याद्वाऽतिविरिक्तस्य क्षीणविट्कस्य भोजनम्||२७|| माषयूषेण कुल्माषान् पानं दध्यथवा सुराम्| सिद्धिर्वस्त्यापदामेवं|२८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षाराम्लतीक्ष्णोष्णलवणो बस्तिः प्रयुक्तः पैत्तिकस्य वा प्रयुक्तो गुदं दहन्निव विलिखन्निव क्षिपन्निवास्य-नरस्य, परिस्रवं करोति| सः-पुरुषः, तदा विदग्धमस्रं स्रवति| तथा बहुषो-बहून् वारान्, अतिवेगेन भूरिभिः- बहुभिः, वर्णैः पित्तं स्रवति| तथा मोहमसकृद् गच्छति| तत्रावस्थायां रक्तपित्तघ्नी तथा रक्तातिसारघ्नी क्रिया च प्रशस्यते| दाहमोहादिषु त्रिवृत्कल्कं द्राक्षाजलेन पिबेत्| यस्मात् तत्-त्रिवृत्कल्कयुतं द्राक्षावारि, पित्तशकृद्वातान् हत्वा दाहादीन् जयेत्| विशुद्धश्च सशर्करां शीतां पेयां पिबेत्| अतिविरिक्तस्य क्षीणपुरीषस्य पुंसः कुल्माषान् माषयूषेण सह भोजनं युञ्ज्यात्| दध्यथवा सुरां पानं दद्यात्| बस्त्यापदां-निरुहव्यापत्तीनां, एवं सिद्धिः-चिकित्सितं, स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्नवाख्यां व्यापदमाह-बस्तिरिति| सङ्ग्रहे तु (क.अ. ६)-"तत्रार्द्रशाल्मलीवृन्तैः क्षुण्णैराजं पयः शृतम्| पूतं घृतान्वितं बस्तिं दद्यादन्यांश्च पिच्छिलान्|| वटादिपल्लवेष्वेवं कल्पो यवतिलेषु च| सुवर्चलोपोदकयोः कर्बुदारे च शस्यते|| गुदे च शीतमधुरान् कुर्यात्सेकप्रलेपनान्|" इति| तथा (सङ्ग्रहे क.अ. ६)-"आमं यः कुणपं रुग्वानुपवेश्येत सारुचिः| सघनातिविषाकुष्ठनतदारुवचाः पिबेत्|| शकृद्वातमसृक्पित्तं कफं वा योऽतिसार्यते| पक्वं तत्र स्ववर्गीयो बस्तिः श्रेष्ठं भिषग्जितम्|| षण्णामेषां द्विसंसर्गात्रिंशद्भेदा भवन्ति तु| केवलैः सह षट्त्रिंशद्विद्यात्सोपद्रबांश्छ तान्|| शूलप्रवाहिकाध्मानपरिकर्तारुचिज्वरान्| तृण्मोहदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्|| तत्रामेऽन्तरपानं तु कट्वम्ललवणैर्युतम्| पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते|| वातघ्नग्राहिवर्गीयो बस्तिः शकृति शस्यते| स्वाद्वम्लो व्यक्तलवणः स्नेहबस्तिः समीरणे|| रक्ते रक्तेन पित्ते तु कषायस्वादुतिक्तकः| सार्यमाणे कफे बस्तिः कषायकटुतिक्तकः|| शकृता वायुना चामे तेन वर्चस्यथानिले| संसृष्टेऽन्तरपानम् स्यात् कट्वम्ललवणैर्युतम्|| पित्तेनामेऽसृजा तद्वत्तयोरामेन वा पुनः| संसृष्टयोर्भवेत्पानं सकटुस्वादुतिक्तकम्|| तथाऽऽमे कफसंसृष्टे कषायकटुतिक्तकम्| आमेन तु कफे युक्ते कषायलवणौषधम्|| वातेन विशि पित्ते वा विट्पित्तास्रैस्तथाऽनिले| स्यात् कषायाम्लमधुरः संसृष्टे बस्तिरुत्तमः|| बस्तिर्वातेन रक्ते तु कार्यः खाद्वम्लतिक्तकः| शकृच्छोणितयोः पित्तशकृतोरस्नपित्तयोः|| बस्तिरन्योन्यसंसर्गे कषायस्वादुतिक्तकः| कफेन विशि पित्ते वा कफे विट्पित्तशोणितैः|| कटुतिक्तकषायः स्यात्संसृष्टे बस्तिरुत्तमः| मधुरोषणतिक्तस्तु रक्ते कफविमूर्च्छिते|| मारुते कफसंस्रुष्टे कट्वम्लवणो भवेत्| स्याद्बस्तिः कटुतिक्ताम्लः संसृष्टे वायुना कफे|| त्रिचतुःपञ्चषट्योगानेवमेव विकल्पयेत्| युक्तिश्छैषाऽतिसारोक्ता सर्वरोगेष्वपि स्मृता|| युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत्| निरामाणां च पञ्चानां बस्तिः षड्रसिको हितः|| उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः| शङ्खं सर्जरसं लाक्षां कट्तृणं च पलांशिकम्|| पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत्| अतीसारेषु सर्वेषु पेयमेतद्यथाबलम्|| कच्छुराधातुकीबिल्वसमङ्गारक्तमूलिभिः| मसूराश्वत्थशुङ्गैश्छ यवागूः स्याज्जले शृतैः|| बालोदुम्बरकट्वङ्गसमङ्गाप्लक्षपल्लवैः| मसूरधारकीपुष्पबलाभिश्छ तथा भवेत्|| नानाप्रकारा जायन्ते व्यापदो बस्तिविभ्रमात्| यथायथं यथावस्थं तांसां कुर्वीत साधनम्||" इति निरूहव्यापदः|
Adhikarana अनुवासनव्यापदः (२८) · Śloka २८
| स्नेहबस्तेस्तु वक्ष्यते||२८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्नेहबस्तेः-अनुवासनस्य, सिद्धिर्वक्ष्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अथानुवासनव्यापदः| ताश्चोक्ताः सङ्ग्रहे (क. अ. ७)-"स्नेहबस्तौ मरुत्पित्तकफात्याशविडावृते| अभुक्तशूनपाय्वामदत्तेऽष्टौ व्यापदः स्मृताः||" इति|
Adhikarana तत्र पञ्चव्यापदां कारणम् (२९-३०) · Śloka ३०
शीतोऽल्पो वाऽधिके वाते पित्तेऽत्युष्णः कफे मृदुः| अतिभुक्ते गुरुर्वर्चःसञ्चयेऽल्पबलस्तथा||२९|| दत्तस्तैरावृतः स्नेहो नायात्यभिभवादपि| |३०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शीतो बस्तिरल्पो वाऽधिके वाते दत्तः, तथा पित्तेऽत्युष्णः, तथा कफे मृदुः, अयोगः सम्पद्यते| अतिभुक्ते गुरुर्बस्तिर्दत्तः, तथा वर्चसः-पुरीषस्य, सञ्चयेऽल्पबलः-उभयथा मात्रया वीर्यतश्च, दत्तः, तैः-शीतादिकारणाद्वातादिभिः, स्नेहबस्तिरावृतो नायाति-गुदमार्गान्न प्रत्यागच्छति, अभिभवादप्येतैरेव|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तत्र पञ्चानां व्यापदां कारणमाह-शीतोऽल्प इति| गुरुः-चिरपाकः| अल्पबलः-अनुलोमनासमर्थः| शीतादिगुणस्वावृतत्वम्| अल्पस्याभिभवः|
Adhikarana वातावृतस्य लक्षणं चिकित्सितं च (३०-३३) · Śloka ३३
| स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः||३०|| पार्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम्| स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः||३१|| सौवीरकसुराकोलकुलत्थयवसाधितैः| निरूहैर्निर्हरेत्सम्यक् समूत्रैः पाञ्चमूलिकैः||३२|| ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्| |३३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्तम्भोरुसादादिभिर्वायुना स्नेहमावृतं विद्यात्| तं एवंविधं, स्नेहं-स्नेहबस्तिं, निरुहैः सम्यक् स्निग्धाम्ललवणोष्णैर्निर्हरेत्| तानेव निरूहानाह-सौवीरकसुरादिसाधितैस्तथा गोमूत्रान्वितैस्तथा पञ्चमूलनिर्वृत्तैः पञ्चमूलक्वाथवद्भिरित्यर्थः| तथा रास्ना च पीतद्रुश्च रास्नापीतद्रू, ताभ्यां साधिते तैले रास्नापीतद्रुतैले, ते विद्यते येषां निरूहाणां तैः, क्वचित्पुटके रास्नातैलं क्वचिद्धरिद्रातैलं योज्यमित्यर्थः| ताभ्यमिति द्विवचननिर्देशात् पृथगेतत् तैलद्वयमुपयोगीति गम्यते| च-समुच्चये, न केवलं तं निरूहयेत्, रास्नातैलेन पीतद्रुतैलेन वा दोषाद्यनुरोधादनुवासयेच्च| सायं भुक्ते-न तु प्रातर्भुक्ते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वातावृतस्य लक्षणं चिकित्सितं चाह-स्तम्भोरुसदनेति| वेष्टनं-पिण्डिकोद्वेष्टनम्| पीतद्रुः-सरलः| रास्नातैलेन पीतद्रुतैलेन च संस्कृतैः| बिल्वादिपञ्चमूलयवकोलकुलत्थानां क्वाथः| ताभ्यां-रास्नापीतद्रुतैलाभ्याम्|
Adhikarana पित्तावृतस्य लक्षणं चिकित्सितं च (३३-३४) · Śloka ३४
| तृड्दाहरागसम्मोहवैवर्ण्यतमकज्वरैः||३३|| विद्यात्पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्| |३४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तं तृड्दाहादिभिः पित्तावृतं स्नेहबस्तिं विद्यात्| स्वादुतिक्तैर्बस्तिभिर्विनिर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पित्तावृतस्य लक्षणं चिकित्सितं चाह-तृट्दाहेति| तमकः-तमःप्रवेशः|
Adhikarana कफावृतस्य लक्षणं चिकित्सितं च (३४-३६) · Śloka ३६
| तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः||३४|| सम्मूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्| कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः||३५|| फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्| |३६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तन्द्रादिभिः कफावृतं स्नेहबस्तिं विद्यात्| तं कषायकटुतिक्तकैः सुरामूत्रोपसाधितैः फलतैलयुतैः साम्लैर्बस्तिभिः निरूहैः, विनिर्हरेत्| फलानां-उष्णवीर्याणामक्षोटादीनां, तैलं फलतैलम्| केचित्तुं फलं-मदनफलं, तिलतैलं च, ताभ्यां युतास्तैरिति व्याचक्षते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कफावृतस्य लक्षणं चिकित्सितं चाह-तन्द्रेति| फलतैलं-मदनफलतैलम्|
Adhikarana अत्यशनावृतस्य लक्षणं चिकित्सितं च (३६-३८) · Śloka ३८
| छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः||३६|| आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्| कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्||३७|| मृदुर्विरेकः सर्वं च तत्रामविहितं हितम्| |३८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-छर्द्यादिभिरामलिङ्गैर्दाहयुतैः स्नेहमत्यशनावृतं विद्यात्| कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनं हितम्| तथा मृदुभिः-अतीक्ष्णैः, विरेकः| तथा तस्मिन् सर्वमामविहितमौषधं हितम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अत्यशनावृतस्य लक्षणं चिकित्सितं चाह-छर्दिमूर्च्छेति| आमं-आमाजीर्णम्| क्वाथैः कटूनामेव, चूर्णैः कटूनां लवणानां च|
Adhikarana विडावृतस्य लक्षणं चिकित्सितं च (३८-४०) · Śloka ४०
| विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः||३८|| स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः| श्यामाबिल्वादिसिद्धैश्च निरुहैः सानुवासनैः||३९|| निर्हरेद्विधिना सम्यगुदावर्तहरेण च| |४०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विण्मूत्रादिभिर्विडावृतं स्नेहं विदित्वा, स्नेहादिभिस्तथा श्यामादिभिः सिद्धैर्निरूहैरनुवासनैश्च, तथोदावर्तहरेण विधिना, सम्यग् निर्हरेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-विडावृतस्य लक्षणं चिकित्सितं चाह-विण्मूत्रानिलेति| अर्तिः-शूलम्| श्यामादिः-गणः| बिल्वादिपञ्चमूलम्|
Adhikarana अभुक्तादिदत्तस्य लक्षणं चिकित्सितं च (४०-४३) · Śloka ४३
| अभुक्ते शूनपायौ वा पेयामात्राशितस्य वा||४०|| गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः| ऊर्ध्वं कायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि||४१|| मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्| तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः||४२|| कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः| छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निबर्हणम्||४३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अभुक्ते स्नेहबस्तिः, तथा शूनः पायुर्यस्य तस्मिन् प्रणिहितो बस्तिः, अथवा पेयामात्रमेवाशितं येन स पेयामात्राशितस्तस्य गुदे प्रणिहितः स्नेहबस्तिः, अनावृतः सन् वेगादूर्ध्वं कायं धावति| ततः कण्ठादूर्ध्वेभ्यश्च खेभ्यः एति-पतति| तत्र गोमूत्रादिसिद्धो यो यवादिमान् क्वाथस्तेन क्वाथेन सिद्धतैलैर्निरूहमनुवासनं [ च ] दद्यात्| कण्ठादागच्छतः स्नेहस्य स्तम्भकण्ठग्रहादिभिश्छर्दिघ्नीभिः क्रियाभिश्च तन्निर्हरणं कुर्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अभुक्तदत्तशूनपायुदत्तयोर्लक्षणं चिकित्सितं चाह-अभुक्त इति| मात्रा-स्तोकम्| पेयाशितस्य चाभुक्ततुल्यत्वान्न पृथगुद्देशः कृतः| कण्ठादेति-निर्गच्छति| ऊर्ध्वेभ्योऽपि खेभ्यः-नासानेत्रकर्णेभ्यः| श्यामात्रिवृत्यवकोलकुलत्थानां मूत्रेण क्वाथः| तेषामेव कल्केन मुत्रेण च सिद्धं तैलम्| तत्र क्वाथतैलाभ्यां निरूहः| तैलेनानुवासनः| स्तम्भः-उच्छ्वासरोधः|
Adhikarana आमदत्तस्य लक्षणं चिकित्सितं च (४४-४५) · Śloka ४५
नापक्वं प्रणयेत्स्नेहं गुदं स ह्युपलिम्पति| ततः कुर्यात्सरुङ्मोहकण्डूशोफान्, क्रियाऽत्र च||४४|| तीक्ष्णो बस्तिस्तथा तैलमर्कपत्ररसे शृतम्| |४५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अपक्वं स्नेहं न दद्यात्| यस्मात् सः-अपक्वः स्नेहो, गुदमुपलिम्पति| ततः-उपलिप्ते गुदे, रुजाभिः सह मोहादीन् कुर्यात्| अत्र चिकित्सितं तीक्ष्णो बस्तिस्तथाऽर्कपत्ररसे शृतं तैलम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-आमदत्तस्य लक्षणं चिकित्सितं चाह-नापक्वमिति| तैलमनुवासनार्थम्| इत्यनुवासनव्यापदः| अथ नेत्रबस्तिशय्याप्रणेतृदोषजा व्यापदः| ताश्छोक्ताः सङ्ग्रहे (क.अ.७)-"ह्रस्वं दीर्घं तनु स्थूलं जीर्णं शिथिलबन्धनम्| पार्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत्| अप्राप्त्यतिगतिक्षोभकषणक्षणनस्रवाः| गुदपीडा गतिर्जिह्या तेषां दोषा यथाक्रमम्| मांसलस्निग्धविषभजालवत्स्थूलवातलाः| छिद्रः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत्| गतिवैषम्यदौर्गन्ध्यजिह्यत्वस्रुतिदुर्ग्रहाः| फेनिलच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः| उच्चकैरत्यवाक्शीर्षमूर्ध्वसङ्कुचितस्थितम्| उत्तानं दक्षिणं पार्श्वं सप्त शय्याः परित्यजेत्| मूत्राघातोऽतिसम्प्राप्तिरप्राप्तिः साधु नागतिः| आश्वागतिर्मरुत्कोपस्तृप्तिः पक्वाशयस्य च| तद्दोषाः स्युर्विधातव्यं यथौपयकमत्र च| सवातातिद्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः|| अतिमन्दकबाह्यातिवेगदोषाः प्रणेतृतः|" इति|
Adhikarana सवातप्रणयनस्य लक्षणं चिकित्सितं च (४५-४६) · Śloka ४६
| अनुच्छ्वास्य तु बद्धे वा दत्ते निःशेष एव वा||४५|| प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत्| तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च||४६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अनुच्छ्वास्य बस्तेर्वदने बद्धे सति, अथवा निःशेषं दत्ते सति, प्रविश्यान्तरे वायुः कुपितः शूलतोदकरः स्यात्| तस्मिन्नभ्यङ्गो गुदे स्वेदश्च, तथा वातहन्तृणि भोजनानि च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-सवातप्रणनस्य लक्षणं चिकित्सितं चाह-अनुच्छ्वास्येति|
Adhikarana अतिद्रुतोत्क्षिप्तयोः लक्षणं चिकित्सितं च (४७-४८) · Śloka ४८
द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा| स्यात् कटीगुदजङ्घोरुबस्तिस्तम्भार्तिभेदनम्||४७|| भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सबस्तयः| |४८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शीघ्रं प्रणीते निष्कृष्टे सहसोत्क्षिप्ते च कट्यादिषु स्तम्भपीडाभेदनानि स्युः| तत्र वातघ्नमशनं स्वेदोऽभ्यङ्गश्च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अत्द्रुतोत्क्षिप्तयोर्लक्षणं चिकित्सितं चाहद्रुतमिति| प्रणीते-प्रवेशिते| निष्कृष्टे-निष्काशिते| उत्क्षिप्ते-पृष्ठवंशं प्रति नानीते| तिर्यङ्नेत्रस्य लक्षणं चिकित्सितं चाह सङ्ग्रहे (क.अ.७)- "तिर्यग्वल्यावृतद्वारे बद्धे वाऽपि न गच्छति| नेत्रे तद्दजु निष्कृष्य संशोध्य च पुनर्नयेत्||" इति|
Adhikarana उल्लुप्तस्य लक्षणं चिकित्सितं च (४८-४९) · Śloka ४९
| पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः||४८|| उरःशिरोरुजं सादमूर्वोश्च जनयेद्बली| बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान्||४९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पीड्यमाने बस्तिपुटकेऽन्तरा-मध्य एव, कदाचित्तस्मिन् मुक्ते, गुदेऽनिलः प्रतिहतो बलवान् उरःशिरोरुजमूरुसादं च जनयेत्| तत्र बिल्वादिभिर्बस्तिर्मदनफलश्यामादिमान् स्यात्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उल्लुप्तस्य लक्षणं चिकित्सितं चाह-पीड्यमान इति| फलं-मदनफलम्| कम्पितादीनां चतुर्णां लक्षणं चिकित्सितं चाह सङ्ग्रहे (क.अ. ७)-"स्याद्दाहो दवथुः शोफः कम्पनाभिहते गुदे| कषाया मधुराः शीताः सेकास्तत्र सबस्तयः|| अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः| स्यात्सार्तिदाहनिस्तोदगुरुवर्चःप्रवर्तनम्|| तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्छ शस्यते| न भावयति मन्दस्तु बाह्यश्चाशु निवर्तते|| स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता|" इति|
Adhikarana अतिवेगस्य लक्षणं चिकित्सितं च (५०) · Śloka ५०
अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्| तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च||५०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अतिप्रपीडितो बस्तिपुटकः कोष्ठे तिष्ठति, गलं वाऽऽयाति| तत्र बस्तिर्विरेकश्च गलपीडादि च कर्म शस्यते|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-अतिवेगस्य लक्षणं चिकित्सितं चाह-अतिप्रपीडित इति|
Adhikarana वमनादिशुद्धस्य विशेषतोऽपचारनिषेधः (५१-५२) · Śloka ५२
वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम्| यथाऽण्डं तरुणं पूर्णं तैलपात्रं यथा तथा||५१|| भिषक् प्रयत्नतो रक्षेत्सर्वस्मादपचारतः| |५२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वमनविरेकाद्यैश्च विशुद्धं क्षामदेहं क्षामबलं क्षामानलं च पुरुषं वैद्यः प्रयत्नेन सर्वस्मादपचाराद्रक्षेत्| किमिव? यथा तरुणं-अभिनवं जातमण्डं, यथा च तैलपूर्णं पात्रं रक्ष्यते, तथा प्रयत्नेन रक्षेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-वमनादिशुद्धस्य विशेषतोऽपचारं निषेधति वमनाद्यैरिति|
Adhikarana शुद्धस्योपचारः (५) · Śloka ५
| दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ||५२|| स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः| अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः||५३|| व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्| सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः||५४|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम पञ्चमोऽध्यायः||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०- तस्मिन् मधुरहृद्यानि दद्यात्| अनन्तरमम्ललवणौ रसौ, ततः स्वादुतिक्तरसौ, ततः कषायकटुकरसौ दद्यात्| अन्योन्यप्रत्यनीकानां-परस्परप्रतिपक्षाणां रसानां, तथा स्निग्धरूक्षयोरन्योन्यप्रत्यनीकयोः, व्यत्यासात्-विपर्ययात्, उपयोगेन-यथास्वमुपयोगेन, यथा-मधुररसमुपयुज्य पुनरम्लाद्यन्यतमं तत्प्रतिपक्षं युञ्ज्यात्, अम्लमुपयुज्य पुनर्मधुराद्यन्यतमं तत्प्रतिपक्षं युञ्ज्यात्, एवं स्निग्धरूक्षयोरुपयोगं कुर्यात्| तथा तं पुरुषं वमनादिभिर्विशुद्धं, प्रकृतिं यथोचितां स्वां नयेत्| सर्वंसहः-अशेषक्षमः, तथा स्थिरबलः, प्रकृतिं प्राप्तः पुमान् वेद्यः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां पञ्चमे कल्पसिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम पञ्चमोऽध्यायः समाप्तः|| ५||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-शुद्धस्योपचारमाह-दद्यादिति| सङ्ग्रहे तु (क. अ. ७)-"अत्रान्तरे त्यजेदष्टौ भाष्यादीनि विशेषतः| उच्चैर्भाष्याच्छिरोरोगतिमिरोरःस्वरव्यथाः|| रक्तनिष्ठेवतमकज्वराद्यास्तत्र साधनम्|| अभ्यङ्गस्वेदनस्याधोभक्तस्नेहोपसेवनम्|| मौनं विधिर्वातहरो यथास्वं च विकारजित्| अत्यास्यायनयानाभ्यां सन्धिमूर्धत्रिकादिरुक्| अतिचङ्क्रमणात्पादजङ्घोरुसदनादयः| तेषां वातहरं सर्वं स्नेहस्वेदादि शस्यते| अजीर्णभोजनादामविषच्छर्दिज्वरादयः| तत्र मात्राशितीयोक्तो विधेयो विधिरामहा|| अहितान्नाद्यथादोषं रोगाः स्युर्भेषजानि च| हलीमकादयः प्रोक्ता दिवास्वप्नात् पुरा गदाः|| विदध्यात् कफजित्तेषु धूमरूक्षान्नलङ्घनम्| व्यवायाज्जीवितभ्रंशस्तैरस्यानिलामयैः|| गुदोऽवलुप्यत इव भ्रमतीव च चेतना| मेढ्रं धूमायति मनस्तमसीव प्रवेश्यते|| जीवनीयशृतक्षीरसर्पिषोरुपयोजनम्| आहारो बृंहणस्तत्र वृष्यास्ते ते च बस्तयः|| वेगरोधोर्ध्ववातत्वात् प्रागुक्ता ये सदातुराः| तेषां विबद्धे पवने सर्वदेहोपतापिनि|| फलवर्तिं पुरा दद्यादथ बस्तिं चलापहम्| निकुम्भकुम्भाग्न्युरुबूकधावनीपुनर्नवादारु महच्च पञ्चकम्| फलं च मुत्रे क्वथितं समस्तु घृतं सतैलं लवणानि पञ्च|| निरूहितं धन्वरसेन भोजयेन्निकुम्भतैलेन ततोऽनुवासयेत्| बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं कृतमालकात्फलम्|| यवान् कुलत्थांश्च पचेज्जले रसः समुस्तपाठेन्द्रयवैश्छ कल्कवान्| सतैलसर्पिर्गुडसैन्धवो हितः सदाऽऽतुराणां बलपुष्टिवर्णदः|| तथाऽनुवास्यं मधुकेन साधितं बालेन बिल्वेन शताव्हयाऽथवा| सजीवनीयस्तु रसोऽनुवासने निरूहणे चालवणः शिशोर्हितः|| न चान्यदाऽऽश्वङ्गबलाभिवर्द्धनं निरूहबस्तेः शिशुवृद्धयोर्हितम्|| निरूहबस्तेर्नैव स्यादन्यत् स्थविरबालयोः| बलाङ्गवर्द्धनं शीघ्रमादृतो योजयेदतः||" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| बस्तिव्यापत्प्रकरणं सामत्स्येन निरूपितम्|| ५||