Adhikarana १ (१-२) · Śloka २
अथातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Show commentary
वातपित्तकफकृतानभिष्यन्दान् प्रतिपाद्य परिशिष्टं रक्ताभिष्यन्दप्रतिषेधमाह- अथात इत्यादि||१-२||
Adhikarana १ (१-२) · Śloka २
अथातो रक्ताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
वातपित्तकफकृतानभिष्यन्दान् प्रतिपाद्य परिशिष्टं रक्ताभिष्यन्दप्रतिषेधमाह- अथात इत्यादि||१-२||
Adhikarana २ (३) · Śloka ३
मन्थं स्यन्दं सिरोत्पातं सिराहर्षं च रक्तजम् | एकेनैव विधानेन चिकित्सेच्चतुरो गदान् ||३||
🔊 Audio coming soon
मन्थमित्यादि| अत्र मन्थस्य प्रागुपादानं स्यन्दाद्गरीयस्त्वख्यापनार्थम्||३||
Adhikarana ३ (४) · Śloka ४
व्याध्यार्तांश्चतुरोऽप्येतान् स्निग्धान्कौम्भेन सर्पिषा | रसैरुदारैरथवा सिरामोक्षेण योजयेत् ||४||
🔊 Audio coming soon
तदेव विधानमाह- व्याध्यार्तानित्यादि| व्याधिभिरार्ताः पीडिता व्याध्यार्ताः| कौम्भेन शतवर्षस्थितेनेत्यर्थः| रसैरुदारैरथवेति मांसरसैरधिकस्नेहैर्वा स्निग्धानित्यर्थः| दूष्यहरणं प्रतिपादयन्नाह- सिरेत्यादि||४||
Adhikarana ४ (५) · Śloka ६
विरिक्तानां प्रकामं च शिरांस्येषां विशोधयेत् | वैरेचनिकसिद्धेन सितायुक्तेन सर्पिषा ||५|| (मज्ज्ञा वा तद्विमिश्रेण मेदसा तच्छृतेन वा) |६|
🔊 Audio coming soon
दूष्यहरणं प्रतिपाद्य दोषहरणं प्रतिपादयन्नाह- विरिक्तानामित्यादि| शिरांसीति बहुवचनं प्रतिरोगापेक्षया दूष्येऽपहृते विरेचनेन दोषहरणं, ततः शिरोविरेचनं; तदपि सर्पिषा नतु तैलेन, घृतस्य चक्षुष्यत्वात्, रक्ताविरुद्धत्वाच्च| तस्य संस्कारमाह- वैरेचनिकसिद्धेनेति; शिरोविरेचनद्रव्यसिद्धेन, केचित् त्रिवृतादिद्रव्यसिद्धेनेत्याहुः| केचिदत्र ‘मज्ज्ञा वा तद्विपक्वेन’ इत्यादिपाठं पठन्ति, स चानार्षः||५||
Adhikarana ५ (६) · Śloka ६
ततः प्रदेहाः परिषेचनानि नस्यानि धूमाश्च यथास्वमेव | आश्च्योतनाभ्यञ्जनतर्पणानि स्निग्धाश्च कार्याः पुटपाकयोगाः ||६||
🔊 Audio coming soon
अन्तःशुद्धिकरं क्रियाक्रममुक्त्वा बहिःशुद्धिकरं क्रियाक्रमसङ्ग्रहमुद्दिशन्नाह- तत इत्यादि| धूमाश्च यथास्वमात्मीयानतिक्रमेण, रक्तस्य दूष्यस्य कफानुबन्धे कफहरद्रव्यवर्तिकृताः, वातानुबन्धे तु स्नैहिकाः; एवमन्यत्रापि यथास्वमिति सम्बन्धनीयम्| अभ्यञ्जनम् अञ्जनं; तच्च प्रसादनं रक्तपित्ते, सव्रणशुक्रादौ तु रोपणं; अन्ये पुनरभ्यञ्जनमेव शतधौतघृतादिनेच्छन्ति||६||
Adhikarana ६ (७) · Śloka ७
नीलोत्पलोशीरकटङ्कटेरीकालीययष्टीमधुमुस्तरोध्रैः | सपद्मकैर्धौतघृतप्रदिग्धैरक्ष्णोः प्रलेपं परितः प्रकुर्यात् ||७||
🔊 Audio coming soon
इदानीं प्रलेपद्रव्याण्याह- नीलोत्पलेत्यादि| कटङ्कटेरी दारुहरिद्रा| कालीयकं दारुहरिद्रानुकारि प्रसिद्धम्| धौतघृतप्रदिग्धैः मिश्रैरित्यर्थः||७||
Adhikarana ७ (८-९) · Śloka ९
रुजायां चाप्यतिभृशं स्वेदाश्च मृदवो हिताः | अक्ष्णोः समन्ततः कार्यं पातनं च जलौकसाम् ||८|| घृतस्य महती मात्रा पीता चार्तिं नियच्छति | पित्ताभिष्यन्दशमनो विधिश्चाप्युपपादितः ||९||
🔊 Audio coming soon
परिषेचनाद्युद्दिष्टं यदनिर्दिष्टं तत्पित्ताभिष्यन्दनिर्दिष्टद्रव्यैरतिदिशन् क्रियाक्रमेऽनिर्दिष्टं च निर्दिशन्नाह- रुजायामित्यादि| रुजो हि भवन्ति सिराव्यधादिकृतवातानुबन्धात्, वातावृताद्रक्ताद्वा; तत्र वातजायां तीव्ररुजायां मृदवः स्वेदाः, दूष्यरक्तावरोधाद्बहुशोणितजायां जलौकःपातनं; वातजायामेवान्तरमौषधं घृतस्य महत्या मात्रया पानम्; अल्पशोणितजायां पित्ताभिष्यन्दशमनो विधिः| नियच्छति निवारयति||८-९||
Adhikarana ८ (१०) · Śloka १०
कशेरुमधुकाभ्यां वा चूर्णमम्बरसंवृतम् | न्यस्तमप्स्वान्तरिक्षासु हितमाश्च्योतनं भवेत् ||१०||
🔊 Audio coming soon
आश्च्योतनमाह- कशेर्वित्यादि| अम्बरसंवृतं वस्त्रवेष्टितं, न्यस्तं क्षिप्तं, आन्तरिक्षोदकालाभे आकाशगुणभूयिष्ठं भूमिस्थमुदकं गृह्यते| केचित् परिषेकमप्यनेनैवेच्छन्ति||१०||
Adhikarana ९ (११-१२) · Śloka १२
पाटल्यर्जुनश्रीपर्णीधातकीधात्रिबिल्वतः | पुष्पाण्यथ बृहत्योश्च बिम्बीलोटाच्च तुल्यशः ||११|| समञ्जिष्ठानि मधुना पिष्टानीक्षुरसेन वा | रक्ताभिष्यन्दशान्त्यर्थमेतदञ्जनमिष्यते ||१२||
🔊 Audio coming soon
रक्ताभिष्यन्देऽञ्जनमाह- पाटलीत्यादि| श्रीपर्णी काश्मरी| धात्री आमलकी, बिम्बीलोटो भिल्लोटो हिमाद्रिजो वृक्षः| विरेचनादिभिर्विशुद्धदोषस्य पुरुषस्य शेषदोषोपशान्त्यर्थमञ्जनं योज्यं, न पुनरशुद्धदोषस्येति||११-१२||
Adhikarana १० (१३-१४) · Śloka १४
चन्दनं कुमुदं पत्रं शिलाजतु सकुङ्कुमम् | अयस्ताम्ररजस्तुत्थं निम्बनिर्यासमञ्जनम् ||१३|| त्रपु कांस्यमलं चापि पिष्ट्वा पुष्परसेन तु | विपुला याः कृता वर्त्यः पूजिताश्चाञ्जने सदा ||१४||
🔊 Audio coming soon
चन्दनमित्यादि| पत्रं पत्रकम्| अञ्जनं रसाञ्जनम्| पुष्परसेनेति मधुनेत्यर्थः| विपुला यास्ता एव मन्थादिषु चतुर्षु लेखनादिकर्मणि सामर्थ्यात् पूजिता वर्तयः| तदुक्तं,- “हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः| प्रसादनस्य चाध्यर्धा द्विगुणा रोपणस्य तु”- इति||१३-१४||
Adhikarana ११ (१५-१६) · Śloka १७
स्यादञ्जनं घृतं क्षौद्रं सिरोत्पातस्य भेषजम् | तद्वत्सैन्धवकासीसं स्तन्यघृष्टं च पूजितम् ||१५|| मधुना शङ्खनैपालीतुत्थदार्व्यः ससैन्धवाः | रसः शिरीषपुष्पाच्च सुरामरिचमाक्षिकैः ||१६|| युक्तं तु मधुना वाऽपि गैरिकं हितमञ्जने |१७|
🔊 Audio coming soon
मन्थादीनां चतुर्णां सामान्यचिकित्सितमुक्त्वा सिरोत्पाते विशेषचिकित्सितमाह- स्यादञ्जनमित्यादि| अञ्जनं रसाञ्जनं , घृतं गव्यघृतम्| नेपाली मनःशिला| मरिचं प्रसिद्धं, केचित् मरिचशब्देन सितमरिचं शोभाञ्जनफलापरपर्यायं वदन्ति| गैरिकं स्वर्णगैरिकम्| एतान्यञ्जनान्यर्धश्लौकिकान्यप्युक्तानि||१५-१६||-
Adhikarana १२ (१७-१८) · Śloka १८
सिराहर्षेऽञ्जनं कुर्यात् फाणितं मधुसंयुतम् ||१७|| मधुना तार्क्ष्यजं वाऽपि कासीसं वा ससैन्धवम् | वेत्राम्लस्तन्यसंयुक्तं फाणितं च ससैन्धवम् ||१८||
🔊 Audio coming soon
सिराहर्ष इत्यादि| फाणितं मधुयुक्तमेकमञ्जनमिति; मधुयुक्तं तार्क्ष्यजं द्वितीयमञ्जनं, तत्र तार्क्ष्यजं रसाञ्जनं; कासीसं ससैन्धवं मधुयुक्तं तृतीयमञ्जनं; वेत्राम्लस्तन्यसंयुक्तं फाणितं चतुर्थमञ्जनं; तत्र वेत्राम्लम् अम्लवेतसं, अन्ये तु वेत्रं वेत्रकरीरं, अम्लम् अम्लवेतसम्, अम्लीका वेति व्याख्यानयन्ति; यत्तु जेज्जटाचार्येण दूषितम्||१७-१८||
Adhikarana १३ (१९-२३) · Śloka २४
पैत्तं विधिमशेषेण कुर्यादर्जुनशान्तये | इक्षुक्षौद्रसितास्तन्यदार्वीमधुकसैन्धवैः ||१९|| सेकाञ्जनं चात्र हितमम्लैराश्च्योतनं तथा | सितामधुककट्वङ्गमस्तुक्षौद्राम्लसैन्धवैः ||२०|| बीजपूरककोलाम्लदाडिमाम्लैश्च युक्तितः | एकशो वा द्विशो वाऽपि योजितं वा त्रिभिस्त्रिभिः ||२१|| स्फटिकं विद्रुमं शङ्खो मधुकं मधु चैव हि | शङ्खक्षौद्रसितायुक्तः सामुद्रः फेन एव वा ||२२|| द्वाविमौ विहितौ योगावञ्जनेऽर्जुननाशनौ | सैन्धवक्षौद्रकतकाः सक्षौद्रं वा रसाञ्जनम् ||२३|| कासीसं मधुना वाऽपि योज्यमत्राञ्जने सदा |२४|
🔊 Audio coming soon
रक्तार्जुनचिकित्सामाह- पैत्तमित्यादि| पैत्तं पित्ताभिष्यन्दोदितम्| अत्र अर्जुने| अम्लैः धान्याम्लादिभिः| तत्र इक्षुक्षौद्रादिभिः सेकाञ्जने कर्तव्ये, अम्लैः पुनराश्च्योतनमेव कर्तव्यम्| अर्जुनेऽपरमप्याश्च्योतनमाह- सितेत्यादि| एतैः सितादिभिर्दाडिमाम्लपर्यन्तैर्व्यस्तैः समस्तैर्वा युक्तितो दोषबलापेक्षयाऽऽश्च्योतनं कार्यमिति पिण्डार्थः| अर्जुनेऽञ्जनमाह- स्फटिकमित्यादि| विदृमः प्रवालः| अर्जुनेऽपरमप्यञ्जनमाह- सैन्धवेत्यादि| सैन्धवक्षौद्रकतका इत्येकमञ्जनं, सक्षौद्रं वा रसाञ्जनमित्यपरं, कासीसं मधुना वाऽपीति तृतीयमञ्जनम्| अत्र अर्जुने||१९-२३||-
Adhikarana १४ (२४-२६) · Śloka २७
लोहचूर्णानि सर्वाणि धातवो लवणानि च ||२४|| रत्नानि दन्ताः शृङ्गाणि गणश्चाप्यवसादनः | कुक्कुटाण्डकपालानि लशुनं कटुकत्रयम् ||२५|| करञ्जबीजमेला च लेख्याञ्जनमिदं स्मृतम् | पुटपाकावसानेन रक्तविस्रावणादिना ||२६|| सम्पादितस्य विधिना कृत्स्नेन स्यन्दघातिना |२७|
🔊 Audio coming soon
लेख्याञ्जनमाह- लोहेत्यादि| सर्वाणि सुवर्णत्रपुसीसताम्ररजतकृष्णलोहादिजातानि| धातवो मनःशिलागैरिकादयः| लवणानि सैन्धवादीनि पञ्च| रत्नानि वैदूर्यमरकतप्रभृतीनि| दन्ता गवादीनामश्वादीनां च| शृङ्गाणि गवादीनामेव| अवसादनो मिश्रकोक्तः कासीसादिः| एतदनिर्दिष्टानामपि लेख्याञ्जनसञ्ज्ञकं ज्ञेयम्| अपरमपि लेख्याञ्जनमाह- कुक्कुटाण्डेत्यादि| लेख्याञ्जनं कीदृग्विधस्यातुरस्य प्रयोज्यमित्याह- पुटपाकावसानेनेत्यादि| रक्तविस्रावणादिना पुटपाकावसानेन, स्यन्दघातिना अभिष्यन्दहननशीलेन, कृत्स्नेन सकलेन विधिना, सम्पादितस्य सम्यग्योजितस्य; स पुनर्विधिः सिराव्यधविरेचनशिरोविरेचनान्यन्तःपरिमार्जनानि; तथा हि,- “ततः प्रदेहान् परिषेचनानि नस्यानि धूमाश्च यथास्वमेव| आश्च्योतनाभ्यञ्जनतर्पणानि तथैव कार्याः पुटपाकयोगाः”- इति; लेख्याञ्जनं प्रयोजनीयमिति पिण्डार्थः| ‘पुटपाकावसादेन’ इति केचित् पठन्ति, पुटपाक एवावसादोऽवधिर्यस्य स तथा तेनेति ख्यानयन्ति||२४-२६||-
Adhikarana १५ (२७) · Śloka २७
अनेनापहरेच्छुक्रमव्रणं कुशलो भिषक् ||२७||
🔊 Audio coming soon
इमां चिकित्सामव्रणे शुक्रेऽप्यतिदिशन्नाह- अनेनेत्यादि| अनेन लेख्याञ्जनेन पूर्वोक्तेन रक्तविस्रावणाद्युपक्रमेण सम्पादितस्यातुरस्याव्रणं शुक्रमपहरेदिति वाक्यार्थः||२७||
Adhikarana १६ (२८-३५) · Śloka ३६
उत्तानमवगाढं वा कर्कशं वाऽपि सव्रणम् | शिरीषबीजमरिचपिप्पलीसैन्धवैरपि ||२८|| शुक्रस्य घर्षणं कार्यमथवा सैन्धवेन तु | कुर्यात्ताम्ररजःशङ्खशिलामरिचसैन्धवैः ||२९|| अन्त्याद्द्विगुणितैरेभिरञ्जनं शुक्रनाशनम् | कुर्यादञ्जनयोगौ वा सम्यक् श्लोकार्धिकाविमौ ||३०|| शङ्खकोलास्थिकतकद्राक्षामधुकमाक्षिकैः | क्षौद्रदन्तार्णवमलशिरीषकुसुमैरपि ||३१|| क्षाराञ्जनं वा वितरेद्बलासग्रथितापहम् | मुद्गान् वा निस्तुषान् भृष्टान् शङ्खक्षौद्रसितायुतान् ||३२|| मधूकसारं मधुना योजयेच्चाञ्जने सदा | बिभीतकास्थिमज्जा वा सक्षौद्रः शुक्रनाशनः ||३३|| शङ्खशुक्तिमधुद्राक्षामधुकं कतकानि च | द्वित्वग्गते सशूले वा वातघ्नं तर्पणं हितम् ||३४|| वंशजारुष्करौ तालं नारिकेलं च दाहयेत् | विस्राव्य क्षारवच्चूर्णं भावयेत्करभास्थिजम् ||३५|| बहुशोऽञ्जनमेतत्स्याच्छुक्रवैवर्ण्यनाशनम् |३६|
🔊 Audio coming soon
इदानीमव्रणशुक्रचिकित्सितमभिधाय सव्रणेऽपि पूर्वं चिकित्सितमुद्दिशन्नाह- उत्तानमित्यादि| सव्रणमपि शुक्रमुत्तानमेकपटलगतम्, अवगाढं वा द्वित्र्यादिपटलगतं, रक्तस्रावणेत्यादिना पूर्वोक्तेन विधिनोपपाद्य, लेखयेदिति समुदायार्थः| ननु सव्रणस्य सन्तर्पणसाध्यत्वात् कथं सव्रणे लेखनमुपयुज्यते? सत्यं, कर्कशावस्थायां पूर्वं लेखनं प्रयुज्यते पश्चात् सन्तर्पणमिति न दोषः| ‘कर्कशं वापि सव्रणं’ इत्यत्र ‘कर्षयेच्चापि सव्रणं’ इति केचित् पठन्ति| एतदवस्थे एव शुक्रे घर्षणमाह - शिरीषबीजेत्यादि| शिला मनःशिला| कुर्यादित्यादि| कौ तौ श्लोकार्धिकौ द्वौ योगावित्याह- शङ्खकोलास्थीत्यादि| कोलास्थि बदरास्थि, कतकं शशपुरीषानुकार्यम्बुप्रसादनं फलं, मधुकं यष्टीमधु, दन्तो गोदन्तः, अर्णवमलं समुद्रफेनम्| क्षाराञ्जनमित्यादि| क्षाराञ्जनं ‘नीलान् यवान् गव्यपयोऽनुपीतान्’ इत्यादिना श्लेष्माभिष्यन्दोक्तम्| मुद्गानित्यादि| मुद्गान् शङ्खक्षौद्रसितायुतानित्येको योगः, मधूकसारं मधुनेति द्वितीयो योगः| बिभीतकेत्यादि| बिभीतकास्थिमज्जा मधुनेत्येको योगः; शङ्खादिकतकपर्यन्तं मधुनेति द्वितीयो योगः, मधुकं यष्टीमधु| केचित् शङ्खशुक्तीत्यत्र शङ्खाश्मन्तेति पठन्ति| द्वित्वग्गत इत्यादि| द्वित्वग्गते द्विपटलाश्रिते शुक्र इत्यर्थः| केचिदमुं पाठं न पठन्ति, जेज्जटेन पठितत्वादस्माभिः पठितः| वंशजेत्यादि| वंशजो वंशकरीरः, वंशाङ्कुर इति यावत्| अरुष्करादीनां परिपक्वास्थि, अन्ये जटामाहुः| एतेषां वंशजादीनां तिलनालदीपितानां भस्म, तच्च करभास्थिचूर्णसमं प्रत्यहमाकृष्य, षड्गुणोदकेनाष्टगुणोदकेन वा निष्क्वाथ्य, पादशेषं बहुशो विस्राव्य, स्वस्थेन तेन सप्ताहं करभास्थिचूर्णं भावयित्वाऽऽतपे शोषयेत्, तच्चूर्णं पुनश्च चूर्णितं कृत्वा, मध्वाक्तेनाङ्गुल्यग्रेण शलाकया वा सङ्गृह्य शुक्रदेशमात्रं घर्षयेत्, ततस्त्रिफलोदकेनाक्षि प्रक्षालयेत्| शुक्रवैवर्ण्यनाशनमिति शुक्रस्य वैवर्ण्यं विनाशयति न तु शुक्रं, एतेन शुक्रस्य कृष्णतामुत्पादयतीत्यर्थः||२८-३५||-
Adhikarana १७ (३६-३७) · Śloka ३७
अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ||३६|| व्रणं गोमांसचूर्णेन पूरयेत् सर्पिषा सह | बहुशोऽवलिखेच्चापि वर्त्मास्योपगतं यदि ||३७||
🔊 Audio coming soon
असाध्यशुक्रवैवर्ण्यनाशनप्रसङ्गेनासाध्याजकाजातस्य वैकृतनाशनार्थं चिकित्सामाह- अजकामित्यादि| केचिदमुं पाठं न पठन्ति, जेज्जटपठितत्वादस्माभिः पठितः| अत्राजकायामवस्थायां लेखनमपि कर्मातिदिशन्नाह- बहुशोऽवलिखेदित्यादि| अस्य अजकाजातस्य, वर्त्म तुण्डं , उपगतं यद्युच्चतां प्राप्तं, तदा तं बहुशोऽवलिखेत्||३६-३७||
Adhikarana १८ (३८) · Śloka ३९
सशोफश्चाप्यशोफश्च द्वौ पाकौ यौ प्रकीर्तितौ | स्नेहस्वेदोपपन्नस्य तत्र विद्ध्वा सिरां भिषक् ||३८|| सेकाश्च्योतननस्यानि पुटपाकांश्च कारयेत् |३९|
🔊 Audio coming soon
इदानीं वातपित्तकफशोणितानां पृथगभिष्यन्दप्रतिषेधमभिधाय सान्निपातिकानामप्युपदेष्टुमाह- सशोफ इत्यादि| तत्रेति तयोः पाकयोः| सिराश्चात्र आपाङ्ग्या औपनासिका लालाठ्या वा| आश्च्योतनम् अक्षिपूरणम्||३८||-
Adhikarana १९ (३९-४१) · Śloka ४२
सर्वतश्चापि शुद्धस्य कर्तव्यमिदमञ्जनम् ||३९|| ताम्रपात्रस्थितं मासं सर्पिः सैन्धवसंयुतम् | मैरेयं वाऽपि दध्येवं दध्युत्तरकमेव वा ||४०|| घृतं कांस्यमलोपेतं स्तन्यं वाऽपि ससैन्धवम् | मधूकसारं मधुना तुल्यांशं गैरिकेण वा ||४१|| सर्पिःसैन्धवताम्राणि योषित्स्तन्ययुतानि वा |४२|
🔊 Audio coming soon
तयोरञ्जनावस्थामुद्दिशन्नाह- सर्वत इत्यादि| सर्वतश्चापि शुद्धस्येति अन्तःपरिमार्जनबहिःपरिमार्जनाभ्यां शुद्धस्येत्यर्थः| इदं वक्ष्यमाणम्| तदेवाञ्जनमाह- ताम्रपात्रस्थितमित्यादि| मैरेयं सुरासवयोरेकत्र सन्धानं, दधि प्रसिद्धं, एवमिति पूर्ववत् ताम्रपात्रस्थितं सैन्धवचूर्णयुक्तमित्यर्थः, दध्युत्तरकं दध्नः सरः| स्नेहाञ्जनं रक्तापकर्षणादिना विरूक्षिताक्षस्य योज्यं; वातोल्बणपाकस्य वा मैरेयं दधि च ताम्रपात्रस्थितं सैन्धवयुक्तं, पित्तोल्बणे नातिविरूक्षिते दध्युत्तरकं च, सशोफस्य च रक्तास्रावादिसम्पादितस्य घृतं कांस्यमलयुक्तञ्जनं स्तन्यं वा सैन्धवयुक्तमञ्जनं, मधूकसारं वा गैरिकेण तुल्यांशं मधुनाऽञ्जनं, घृतादीनि त्रीणि स्तन्येनाञ्जनं, एतानि सावशेषरक्तयोः पाकयोर्योज्यानि||३९-४१||-
Adhikarana २० (४२) · Śloka ४२
दाडिमारेवताशमन्तकोलाम्लैश्च ससैन्धवाम् | रसक्रियां वा वितरेत्सम्यक्पाकजिघांसया ||४२||
🔊 Audio coming soon
रसक्रियामाह- दाडिमेत्यादि| आरेवतः कृतमालकः; ‘ऐरावत’ इति केचित् पठन्ति, तत्र ऐरावतो नारङ्गम्| ससैन्धवाम् अल्पसैन्धवां, न समसैन्धवामित्यर्थः| रसक्रिया फाणिताकृतिः, तस्याश्च कल्पना पित्ताभिष्यन्दप्रतिषेधे व्याख्याता| ‘कोलाम्लैश्च ससैन्धवाम्’ इत्यत्र ‘कोलाम्लमधुसैन्धवैः’ इति केचित् पठन्ति||४२||
Adhikarana २१ (४३) · Śloka ४३
मासं सैन्धवसंयुक्तं स्थितं सर्पिषि नागरम् | आश्च्योतनाञ्जनं योज्यमबलाक्षीरसंयुतम् ||४३||
🔊 Audio coming soon
आश्च्योतनमाह- मासमित्यादि| अबलाक्षीरं स्त्रीस्तन्यं, तच्च पेषणे बोद्धव्यम्| एतच्चाश्च्योतनं सशोफे पाके कफोल्बणे||४३||
Adhikarana २२ (४४) · Śloka ४४
जात्याः पुष्पं सैन्धवं शृङ्गवेरं कृष्णाबीजं कीटशत्रोश्च सारम् | एतत् पिष्टं नेत्रपाकेऽञ्जनार्थं क्षौद्रोपेतं निर्विशङ्कं प्रयोज्यम् ||४४||
🔊 Audio coming soon
जात्या इत्यादि| कृष्णाबीजं पिप्पलीतण्डुलः| कीटशत्रुः विडङ्गः| निर्विशङ्कं प्रयोज्यमिति पाकयोरञ्जनावस्थायां देयं तदञ्जनमिति तात्पर्यार्थः||४४||
Adhikarana २३ (४५) · Śloka ४५
पूयालसे शोणितमोक्षणं च हितं तथैवाप्युपनाहनं च | कृत्स्नो विधिश्चेक्षणपाकघाती यथाविधानं भिषजा प्रयोज्यः ||४५||
🔊 Audio coming soon
पूयालसे सन्निपातजे क्रियामाह- पूयालसे इत्यादि| शोणितमोक्षणं च स्नेहस्वेदपूर्वकमेव| उपनाहनमिति यथादोषहरव्रणशोधनचक्षुष्यद्रव्यकृतः प्रलेपो बन्धनं वा| कृत्स्नो विधिरिति अन्तःशुद्धिकरो बहिःशुद्धिकरश्चेत्यर्थः| यथाविधानमिति हितानतिक्रमेणेत्यर्थः||४५||
Adhikarana २४ (४६) · Śloka ४६
कासीससिन्धुप्रभवार्द्रकैस्तु हितं भवेदञ्जनमेव चात्र | क्षौद्रान्वितैरेभिरथोपयुञ्ज्यादन्यत्तु ताम्रायसचूर्णयुक्तैः ||४६||
🔊 Audio coming soon
कासीसादिरसक्रियाञ्जनमाह- कासीसेत्यादि| चकारात् पाकयोरुक्तमञ्जनं समुच्चीयते| अत्र पूयालसे| क्षौद्रान्वितैरित्यादि| एभिरेव कासीसादिभिर्मधुना पिष्टैस्ताम्रायसचूर्णयुक्तैरन्यदञ्जनमिति पिण्डार्थः| ‘क्षौद्रान्वितैरेभिरथोपयुञ्ज्यात्’ इत्यत्र ‘क्षौद्रान्वितैरेभिरवान्तरोक्तैः’ इति केचित् पठन्ति||४६||
Adhikarana २५ (४७) · Śloka ४७
स्नेहादिभिः सम्यगपास्य दोषांस्तृप्तिं विधायाथ यथास्वमेव | प्रक्लिन्नवर्त्मानमुपक्रमेत सेकाञ्जनाश्च्योतननस्यधूमैः ||४७||
🔊 Audio coming soon
इदानीं प्रक्लिन्नवर्त्मनः पिल्लाख्यस्य चिकित्सामुद्दिशन्नाह- स्नेहादिभिरित्यादि| स्नेहादिभिरिति स्नेहसिराव्यधविरेचनशिरोविरेचनास्थापनैः| अपास्य निर्हृत्य| तृप्तिः तर्पणम्| यथास्वं यथात्मीयम्||४७||
Adhikarana २६ (४८) · Śloka ४८
मुस्ताहरिद्रामधुकप्रियङ्गुसिद्धार्थरोध्रोत्पलसारिवाभिः | क्षुण्णाभिराश्च्योतनमेव कार्यमत्राञ्जनं चाञ्जनमाक्षिकं स्यात् ||४८||
🔊 Audio coming soon
सेकाश्च्योतनयोर्द्रव्याण्याह- मुस्तेत्यादि| क्षुण्णाभिरिति अन्तरीक्षोदके तद्गुणे वाऽन्यस्मिन् न्यस्ताभिरित्यर्थः | आश्च्योतनमेव कार्यमिति अत्रानुक्तोऽपि सेकः कार्यः| अन्ये एतैराश्च्योतनमेकमेवेच्छन्ति| अत्राञ्जनमित्यादि| अत्राक्लिन्नवर्त्मनि रसाञ्जनमाक्षिकमञ्जनं स्यात्| ‘रोध्रोत्पलसारिवाभिः’ इत्यत्र केचित् ‘लोध्रासितसारिवाभिः’ इति पठन्ति, असितसारिवा श्यामालता; असितं रसाञ्जनमित्यन्ये व्याख्यानयन्ति||४८||
Adhikarana २७ (४९) · Śloka ५०
पत्रं फलं चामलकस्य पक्त्वा क्रियां विदध्यादथवाऽञ्जनार्थे | वंशस्य मूलेन रसक्रियां वा वर्तीकृतां ताम्रकपालपक्वाम् ||४९|| रसक्रियां वा त्रिफलाविपक्वां पलाशपुष्पैः खरमञ्जरेर्वा |५०|
🔊 Audio coming soon
रसक्रियाञ्जनमाह- पत्रमित्यादि| पक्त्वेति कषायकल्पेन विपाच्येत्यर्थः| क्रियां रसाक्रियां, वंशस्य मूलरसेन वा रसक्रियां, तामेव वा रसक्रियामतिशोषणेन वर्तीकृताम्| ताम्रकपालं ताम्रकटाहः| त्रिफलाया अन्या रसक्रिया, पलाशपुष्पैरन्या, खरमञ्जरेरपामार्गस्यान्या रसक्रियेति||४९||-
Adhikarana २८ (५०) · Śloka ५१
पिष्ट्वा छगल्याः पयसा मलं वा कांसस्य दग्ध्वा सह तान्तवेन ||५०|| प्रत्यञ्जनं तन्मरिचैरुपेतं चूर्णेन ताम्रस्य सहोपयोज्यम् |५१|
🔊 Audio coming soon
इदानीं तीक्ष्णाञ्जनदुर्बलस्य नयनस्य प्रत्याश्वासनार्थं प्रत्यञ्जनमाह- पिष्ट्वेत्यादि| कांस्यस्य मलं कार्पासवस्त्रेण सह दग्ध्वा सितमरिचताम्रजोयुक्तं छगलीदुग्धेन पिष्ट्वा प्रत्यञ्जनं योज्यमिति पिण्डार्थः| पश्चात् प्रशान्तदोषे यदञ्जनं क्रियते तत् प्रत्यञ्जनशब्दवाच्यम्||५०||-
Adhikarana २९ (५१) · Śloka ५२
समुद्रफेनं लवणोत्तमं च शङ्खोऽथ मुद्गो मरिचं च शुक्लम् ||५१|| चूर्णाञ्जनं जाड्यमथापि कण्डूमक्लिन्नवर्त्मान्युपहन्ति शीघ्रम् |५२|
🔊 Audio coming soon
चूर्णाञ्जनमाह- समुद्रफेनमित्यादि| लवणोत्तमं सैन्धवम्||५१||
Adhikarana ३० (५२) · Śloka ५२
प्रक्लिन्नवर्त्मन्यपि चैत एव योगाः प्रयोज्याश्च समीक्ष्य दोषम् ||५२||
🔊 Audio coming soon
सर्वानप्यक्लिन्नर्त्मोक्तान् प्रक्लिन्नवर्त्मन्यतिदिशन्नाह- प्रक्लिन्नेत्यादि| एत एवेति पूर्वोक्ताः| समीक्ष्य दोषमिति प्रक्लिन्नवर्त्मनः कफजत्वादेषु मध्ये ये कफहरा योगास्ते प्रयोज्या इत्यर्थः||५२||
Adhikarana ३१ (५३) · Śloka ५३
सकज्जलं ताम्रघटे च घृष्ठं सर्पिर्युतं तुत्थकमञ्जनं च ||५३||
🔊 Audio coming soon
प्रक्लिन्नवर्त्मनः सामान्यचिकित्सामुक्त्वा विशेषचिकित्सामाह- सकज्जलमित्यादि| तुत्थकं कज्जलतुल्यभागं ताम्रपात्रे घृष्टं सर्पिर्युतमञ्जनमिति||५३||
Adhikarana पुष्पिका · Śloka १२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतेन्त्रे रक्ताभिष्यन्दप्रतिषेधो नाम द्वादशोऽध्यायः ||१२||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे द्वादशोऽध्यायः समाप्तः||१२||