Adhikarana व्रणशोथस्य विशिष्टलक्षणम् (१-२) · Śloka २
अथ व्रणशोथनिदानम् |
एकदेशोत्थितः शोथो व्रणानां पूर्वलक्षणम् |
षड्विधः स्यात् पृथक्सर्वरक्तागन्तुनिमित्तजः ||१||
शोथाः षडेते विज्ञेयाः प्रागुक्तैः शोथलक्षणैः |
विशेषः कथ्यते चैषां पक्वापक्वादिनिश्चये ||२||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
प्रायेण चिकित्सासाधर्म्याद् भाविव्रणत्वसम्बन्धतुल्यत्वाच्च व्रणशोथनिदानमाह– एकदेशोत्थित इत्यादि| षड्विध इति सङ्ख्याकथनं द्वन्द्वजनिषेधार्थम्| प्रागुक्तैरिति आमपक्वैषणीयोक्तैः; तत्र हि “वातश्वयथुररुणः कृष्णो वा परुषो मृदुरनवस्थितः” (सु. सू. अ. १७) इत्यादिना षट्शोथलक्षणान्युक्तानि| विशेषः कथ्यते चैषामिति तत्रानुक्तो विशेषः कथ्यत इत्यर्थः| पक्वापक्वादिनिश्चय इति अत्रादिशब्देन पच्यमानस्य परिग्रहः||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
व्रणचिकित्सासामान्याद्भाविव्रणत्वसम्बन्धतुल्यत्वाच्च व्रणशोथनिदानारम्भः| तेषां प्राग्रूपेण सङ्ख्यामाह– एकेत्यादि| एकदेशे शोथः एतद्व्रणपूर्वरूपं; स च षड्विधः– त्रिभिर्दोषैस्त्रयः, सन्निपातेनैकः, रक्तेनैकः, अन्य आगन्तुकः अभिघातजः, एवं षट्, षड्विध इति सङ्ख्याकथनं द्वन्द्वजनिषेधार्थम्| तेषां लक्षणनिर्देशं दर्शयन्नाह– शोथा इति| प्रागुक्तैरिति| शोथनिदानोक्तैश्च, ‘रसस्तनुत्वक्परुषारुणादिकैः’ इत्यादि| साम्प्रतं पक्वापक्वादिनिश्चय इत्यत्रादिशब्देन पच्यमानावस्थायाः ग्रहणम्||१-२||
Adhikarana व्रणशोथस्य वातजादिभेदेन विशेषलक्षणम् (३) · Śloka ३
विषमं पच्यते वातात् पित्तोत्थश्चाचिराच्चिरम् |
कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवः ||३||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
वातादिभेदेन विशेषलक्षणमाह– विषममित्यादि| पित्तवदिति पित्तशोथवदचिरं पच्यते||३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
तमेव विशेषमाह– विषममित्यादि| श्वयथोरेकदेशे अर्धे वा, पित्तोत्थोऽचिरं शीघ्रं, कफजश्चिरं चरकलं, रक्तागन्तुजयोः पित्तवत् पित्तशोफवदचिरं पच्यते||३||
Adhikarana व्रणशोथस्यामलक्षणम् (४) · Śloka ४
मन्दोष्मताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता |
मन्दवेदनता चैतच्छोथानामामलक्षणम् ||४||
Show commentary
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
आमशोथलक्षणमाह– मन्देति| मन्दोष्मता ईषदुष्णता, त्वक्सवर्णता त्वक्सदृश एव वर्णः||४||
Adhikarana पच्यमानव्रणशोथलक्षणम् (५-८) · Śloka ८
दह्यते दहनेनेव क्षारेणेव च पच्यते |
पिपीलिकागणेनेव दश्यते छिद्यते तथा ||५||
भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते |
पीड्यते पाणिनेवान्तः सूचीभिरिव तुद्यते ||६||
सोषाचोषो विवर्णः स्यादङ्गुल्येवावघट्यते |
आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत् ||७||
न गच्छेदाततः शोथो भवेदाध्मातबस्तिवत् |
ज्वरस्तृष्णाऽरुचिश्चैव पच्यमानस्य लक्षणम् ||८||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पच्यमानलक्षणमाह– दह्यत इत्यादि| पच्यमानशोथे पित्तलिङ्गान्येव भूयसा भवन्ति, विदाहस्य पित्तप्रकोपजत्वात्; विदाहश्चात्र दोषादीनामेव| तेन ज्वरतृष्णारुच्यादयोऽत्र पित्तलिङ्गानि| छिद्यत इति द्विधा क्रियत इव| भिद्यत इति विदार्यते| सोषाचोष इति उषा दाहः, चोषः पार्श्वस्थाग्निसन्तापवद्व्यथा, ताभ्यां सह वर्तते यः स तथा||५-८||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
व्रणशोफस्य पच्यमानावस्थामाह– दह्यत इत्यादि| पच्यमानशोफे पित्तलिङ्गान्येव भूयसा भवन्ति, विदाहः पित्तप्रकोपात्, ज्वरतृष्णारुच्यादयोऽपि पित्तलिङ्गानि, अग्निना दह्यत इव, क्षारेण पच्यत इव, पिपीलिकाभिर्दश्यत इव, छिद्यते द्विधाक्रियत इव शस्त्रेण, भिद्यत इव, दण्डेन ताड्यत इव, अन्तर्मध्ये, हस्तेन पीड्यत इव, सूचीभिर्विध्यत इव| उषा एकदेशिको दाहः, चोषः पार्श्वस्थिताग्निसन्तापवद्व्यथा, ताभ्यां सह वर्तते यः स तथा, विवर्णः म्लानः, अङ्गुल्या इवावघट्यते चाल्यते| आसने तथा शयने तथा स्थाने ऊर्ध्वभवने वृश्चिकविद्धवत् शान्तिं न गच्छेत्| आध्मातबस्तिवत् वायुपूर्णबस्त्याख्यमूत्रकोशवत्, श्वयथुः सततो भवति, त्वक्सङ्कोचरहित इत्यर्थः| ज्वरतृष्णादयश्चोपद्रवा भवन्ति पच्यमानव्रणशोफे||५-८||
Adhikarana पक्वव्रणशोथलक्षणम् (९-११) · Śloka ११
वेदनोपशमः शोथोऽलोहितोऽल्पो न चोन्नतः |
प्रादुर्भावो वलीनां च तोदः कण्डूर्मुहुर्मुहुः ||९||
उपद्रवाणां प्रशमो निम्नता स्फुटनं त्वचाम् |
बस्ताविवाम्बुसञ्चारः स्याच्छोथेऽङ्गुलिपीडिते ||१०||
पूयस्य पीडयत्येकमन्तमन्ते च पीडीते |
भक्ताकाङ्क्षा भवेच्चैतच्छोथानां पक्वलक्षणम् ||११||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पक्वलक्षणमाह– वेदनोपशम इत्यादि| दाहादिवेदनोपशान्तिः, विदाहोपशमेन पित्तस्याबलवत्त्वात्| तोदः कण्डूश्चात्र वातकफलिङ्गम्| प्रादुर्भावो वलीनामिति मांसशैथिल्याद्वलीसम्भवः| उपद्रवाणां प्रशम इति पित्तकोपजनिता उषाचोषतृष्णारुच्यादयो रोगा एव उपद्रवास्तेषां प्रशमः| निम्नता स्वरूपतः, अङ्गुलिपीडनाद्वा| स्फुटनं त्वचामिति किञ्चित्त्वगवदरणम्| बस्ताविवेत्यादि| बस्तिश्चर्मपुटकम्, पूयस्येत्यत्र ‘सञ्चार’ इति शेषः| अयमर्थः– बस्तौ यथाऽम्बुसञ्चारस्तथा शोथेऽङ्गुलिपीडिते सति पूयस्य सञ्चारः| पीडयत्येकमन्तमन्ते च पीडित इति एकमन्तं देशम्, अन्ते अवयवे पीडिते पीडयति अवगाहते, ‘पूय’ इति शेषः||९-११||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
पक्वावस्थस्य शोफस्य लक्षणमाह– वेदनोपशम इत्यादि| विदाहोपशमेन पित्तस्याबलत्वात्| अलोहितः पाण्डुः धूसरो वा, यदुक्तं सुश्रुते– “ पाण्डुताऽल्पशोथता” इति अल्पवेदनया इति ईषत् पीडा वेदनोपशमः, इति| यदुक्तम्– उक्तः वेदनापेक्षया प्रादुर्भावो वलीनामिति मांसशैथिल्याद्वलीसम्भव इति| तोदः कण्डुश्चात्र वातकफलिङ्गम्| उपद्रवाणामित्यादि| पित्तकोपजनिता उषाचोषतृष्णाऽरुच्यादय उपद्रवास्तेषामुपशमः| निम्नता स्वरूपतोऽङ्गुलिनिपीडनाद्वा| स्फुटनं त्वचामिति किञ्चित्त्वगवदरणम्| बस्ताविवेत्यादि– बस्तिश्चर्मपुटकम्| पूयस्येत्यत्र ‘सञ्चार’ इति शेषः| अयमर्थः– बस्तौ यथाऽम्बुसञ्चारः, तथाऽङ्गुलिपीडिते शोथेऽपि पूयस्य सञ्चारः| एकमन्तं देशम्, अन्ते अवयवे पीडिते पीडयति अवगाहते ‘पूय’ इति शेषः| भक्ताकाङ्क्षेति वेदनापगमादेव||९-११||
Adhikarana एकदोषारब्धेऽपि शोथे पाककाले सर्वदोषसम्बन्धः (१२) · Śloka १२
नर्तेऽनिलाद्रुङ्न विना च पित्तं पाकः कफं चापि विना न पूयः |
तस्माद्धि सर्वे परिपाककाले पचन्ति शोथांस्त्रय एव दोषाः ||१२||
(सु. सू. अ. १७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
एकदोषारब्धेऽपि शोथे पाककाले सर्वदोषसम्बन्धमाह– नर्तेऽनिलाद्रुगित्यादि| रुग्रुजा तोदादिरूपा| सुश्रुते– “त्रिभिरेतैः शोणितचतुर्थैश्च शरीरमिदं धार्यते” (सु. सू. अ. २१) इति द्वितीयं दर्शनं शोणितप्राधान्याख्यापकमाश्रित्योक्तम्– “कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य| पचत्यतः शोणितमेष पाको मतः परेषां विदुषां द्वितीयः||” (सु. सू. अ. १७) इति| अत्र दर्शने पित्तं विदाहकुपितं शोणितं दूष्यं कर्मभूतं पचति, वातकफौ वशे कृत्वा क्रोडीकृत्य; हीनार्थो वा वशेशब्दः, वातकफौ हीनौ कृत्वेत्यर्थः; शोणितं कर्तृभूतं वा, तेन पक्त्यनुकूलत्वाद्विवक्षितं; पूर्वदर्शने कफात् पूयः, अत्र दर्शने शोणितात् पूय इति विशेषः| गम्भीरपाके शोथे सकलामपच्यमानलक्षणानुदयादज्ञायमाने लक्षणान्तरमुक्तं सुश्रुतेन| तद्यथा– “कफजेषु खलु शोथेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तं पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति भिषङ्मोहमुपैति, यत्र हि त्वक्सवर्णता शीतशोथता अल्परुजता अश्मवद्घनता च, न तत्र मोहमुपेयात्|” (सु. सू. अ. १७) इति| अस्यार्थः– यदा रागदाहादिवेदनासमुदायानन्तरं त्वक्सवर्णतादीनि भवन्ति तदा न मोहमज्ञानतामुपेयात् पक्वमेवेति निश्चिनुयात्| गदाधरेण तु त्वक्सवर्णतादीनि संशयहेतून्युक्तानि; यतस्तेन “गम्भीरपाकित्वादन्तः पाको बहिः पुनस्त्वक्सावर्ण्यं, गम्भीरपाकित्वादेव बहिः शीतता, कफारब्धत्वान्मन्दरुजताऽश्मवच्च घनता” इत्यभिधाय “शेषं पक्वलक्षणैर्जानीयात्” इत्युक्तम्||१२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
एकदोषारब्धेऽपि शोथे पाककाले सर्वदोषसम्बन्धमाह– नेत्यादि| अनिलाद्वातादृते रुङ् न भवति, पित्तं विना पाको न भवति, कफं विना पूयो न भवति, तस्माद्धेतोः सर्वे शोफाः परिपाककाले त्रिभिरेव दोषैः पाकं गच्छन्ति, रुक् रुजा तोदादिरूपा, शेषं सुगमम्| सुश्रुते– ‘त्रिभिरेतैः शोणितचतुर्थैः शरीरमिदं धार्यते|’ इति द्वितीयं निदर्शनं शोणितप्राधान्याख्यापकमाश्रित्योक्तं मतान्तरमाह– कालान्तरेणेत्यादि| पित्तप्रकोपप्रसरस्थानसङ्ग्रहकालावधिना अभि समन्ततो भावेनाभ्युदितं कुपितं पित्तं, पित्तमत्र दोषो ज्ञेयः, शोणितं दूष्यं, तुशब्दोऽत्र पुनरर्थे, वातकफौ वशे कृत्वा आत्मसात् कृत्वा, पाकक्रियायां पित्तस्य प्राधान्यात्| पूर्वमते कफात् पूयः, अत्र तु शोणितादिभिरिति तात्पर्यार्थः||१२||
Adhikarana अविनिःसृतस्य पूयस्य विकारान्तरकर्तृत्वम् (१३-१४) · Śloka १४
कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य |
पचत्यतः शोणितमेष पाको मतः परेषां विदुषां द्वितीयः ||१३||
कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः सन्दहति प्रसह्य |
तथैव पूयो ह्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह ||१४||
(सु. सू. अ. १७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अविनिःसृतस्य पूयस्य दोषमाह– कक्षमित्यादि| कक्षं समासाद्येति कक्षं तृणादिगहनम्||१३-१४||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अनिर्हृतस्य पूयस्य दोषं दर्शयन्नाह– कक्षमित्यादि| कक्षं तृणादीनां समूहं, स्नायुमूलाः सिराः, वाय्वीरितः वायुप्रेरितः||१३-१४||
Adhikarana आमशोथं छेदयतः पक्वं चोपेक्षतो वैद्यस्य निन्दा (१५-१६) · Śloka १६
आमं विदह्यमानं च सम्यक् पक्वं च यो भिषक् |
जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ||१५||
यश्छिनत्त्याममज्ञानाद्यो वा पक्वमुपेक्षते |
श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ||१६||
(सु. सू. अ. १७) |
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
श्वपचाविव चण्डालाविव, मन्तव्यौ ज्ञातव्यौ| शेषास्तस्करवृत्तय इति लोभमात्रप्रयुक्तत्वात्तस्करा इव शेषाः||१५-१६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
आमादिलक्षणज्ञाने गुणमज्ञाने च दोषं दर्शयन्नाह– आममित्यादि| आममपक्वं, विदह्यमानं पच्यमानं, सम्यक् पक्वं च, यो भिषक् जानीयात्, स वैद्यो भवेत् आयुर्वेदवित् स्यात्, शेषा अन्ये आमादिज्ञानवर्जिताः लोभमात्रप्रयुक्तत्वात्तस्करा एव| पक्वापक्वयोश्छेदनाछेदनेन वैद्यदोषमाह– य इत्यादि| श्वपचश्चाण्डालः, स हि सर्वभक्षित्वात् श्वानमपि पचति| शेषं सुगमम्||१५-१६||
Adhikarana पुष्पिका · Śloka ४१
इति श्रीमाधवकरविरचिते माधवनिदाने व्रणशोथनिदानं समाप्तम् ||४१||
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
इति श्रीकण्ठदत्तविरचितायां मधुकोशव्याख्यायां व्रणशोथनिदानं समाप्तम्||४१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां व्रणशोथनिदानम्||४१||