Adhikarana आमवातस्य निदानपूर्विका सम्प्राप्तिः (१-५) · Śloka ५
अथामवातनिदानम् | विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्य च | स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्वतस्तथा ||१|| वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति | तेनात्यर्थं विदग्धोऽसौ धमनीः प्रतिपद्यते ||२|| वातपित्तकफैर्भूयो दूषितः सोऽन्नजो रसः | स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ||३|| जनयत्याशु दौर्बल्यं गौरवं हृदयस्य च | व्याधीनामाश्रयो ह्येष आमसञ्ज्ञोऽतिदारुणः ||४|| युगपत्कुपितावन्तस्त्रिकसन्धिप्रवेशकौ | स्तब्धं च कुरुतो गात्रमामवातः स उच्यते ||५||
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
ऊरुस्तम्भे वायुः साम इत्युक्तम्, अतस्तदनन्तरमामवातनिदानमाह– विरुद्धेत्यादि| विरुद्धाहारः संयोगादिविरुद्धः, विरुद्धा च चेष्टा यथा– अजीर्णे व्यायामव्यवायजलप्रतरणादि| स्निग्धं भुक्तवतो व्यायामं कुर्वत इति मिलितो हेतुः, न पृथक्त्वेन| श्लेष्मस्थानमामाशयसन्ध्यादि| तेन वातेन विदग्धो दूषितोऽसावामो धमनीः प्रतिपद्यते, ‘धमनीभिः प्रतिपद्यत’ इति पाठान्तरे श्लेष्मस्थानमिति योज्यम्| सोऽन्नजो रस इति आमः, अन्नरसस्यैवापक्वस्य तन्त्रान्तरे आमव्यपदेशात्| यदुक्तम्– “ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते||” (वा. सू. अ. १३) इत्यादि| अन्यैरप्युक्तम्– “आमाशयस्थः कायाग्नेर्दौर्बल्यादविपाचितः| आद्य आहारधातुर्यः स आम इति कीर्तितः||” इति अपरे त्वाहुः– “अविपक्वमसंयुक्तं दुर्गन्धं बहु पिच्छिलम्| सदनं सर्वगात्राणामाम इत्यभिधीयते||” इति| अन्ये त्वाहुः– “आहारस्य रसः शेषो यो न पक्वोऽग्निलाघवात्| स मूलं सर्वरोगाणामाम इत्यभिधीयते||” इति| तथा चापरे– “आममन्नरसं केचित्, केचित्तु मलसञ्चयम्| प्रथमां दोषदुष्टिं च केचिदामं प्रचक्षते||” इति| नानावर्ण इति वातादिदूषितत्वाद्बहुवर्णः| युगपदित्यादि, वातकफौ युगपत्कुपितावन्तः कोष्ठे त्रिकसन्धिप्रवेशकौ भवतः, अथवा गात्रं स्तब्धं कुरुतः; त्रिकसन्धिषु प्रवेशस्तद्गतवेदनया बोध्यः||१-५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
ऊरुस्तम्भे वायुः साम इत्युक्तम्, अतस्तदन्तरमामवातनिदानमाह– विरुद्धेत्यादि| विरुद्धाहारचेष्टस्य तथा मन्दाग्नेरेवंविधस्य पुरुषस्य, निश्चलस्य व्यापाररहितस्य; विरुद्धाहारः क्षीरमत्स्यादिः संयोगादिविरुद्धः; विरुद्धा चेष्टाऽजीर्णे व्यायामव्यवायजलप्रतरणादिका| स्निग्धमन्नं भुक्तवतो व्यायामं कुर्वत इति मिलितो हेतुर्न पृथक्त्वेन| आमवाते विगतव्यायामत्वात्| अन्ये ‘व्यायामं वाऽप्यकुर्वत’ इत्यादि पठन्ति| तन्नातियुक्तं, निश्चलस्येत्यनेनैव लब्धत्वात्| श्लेष्मस्थानं प्रधावतीति श्लेष्मस्थानानि आमाशयोरःशिरःकण्ठसन्धय इति| श्लेष्मस्थाननिचितेन वातेन विदग्धो दूषित आमो धमनीः सिराः प्रतिपद्यते| ‘धमनीभिः प्रपद्यते’ इति पाठान्तरं, तत्र श्लेष्मस्थानमिति योज्यम्| अपक्वस्यैवाम इति सञ्ज्ञा, अन्नरसस्यैवाऽपक्वस्य तन्त्रान्तरे आम इति व्यपदेशात्| यदुक्तम्– “ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते|| जठरानलदौर्बल्यादविपक्वस्तु यो रसः| स आमसञ्ज्ञको देहे सर्वरोगप्रकोपकः||” इति| अन्यैरप्युक्तम्– “आमाशयस्थः कायाग्नेर्दौर्बल्यादविपाचितः| आद्य आहारधातुर्यः स आमः परिकीर्तितः||” इति| अन्यत्रापि– “अविपक्वमसंयुक्तं दुर्गन्धं बहु पिच्छिलम्| सदनं सर्वगात्राणामाम इत्यभिधीयते||” इति| तथाऽपरे– “अविपक्वरसं केचित्केचित्तं मलसञ्चयम्| प्रथमां दोषदुष्टिं वा केचिदामं प्रचक्षते||” इति| त्रिभिर्दोषैरतिशयदूषितोऽन्नरसः स्रोतांस्यभिष्यन्दयति लिम्पति, अतिपिच्छिलत्वात्| नानावर्ण इति वातादिदूषितत्वाद्बहुवर्णः| ततो वह्नेर्मन्दत्वं जनयति| हृदये गौरवं भवति, तस्य स्थानत्वात्| सर्वेषां रोगाणामयमेव कारणीभूत आमसञ्ज्ञकः| तस्यैव रूपमाह– युगपदिति| युगपदेकवारमेव कुपितौ वातकफौ अन्तःकोष्ठे त्रिकसन्धिप्रवेशकौ भवतः| (त्रिके कटिमन्याशयसन्धी तत्र, तथा सन्धिषु प्रविश्य) अथवा गात्रं स्तब्धं कुरुतः, स आमवातः कथ्यते| त्रिकसन्धिप्रवेशश्च तद्गतवेदनया बोद्धव्यः||१-५||