Skip to content

२५. आमवातनिदानम्

Adhikarana आमवातस्य निदानपूर्विका सम्प्राप्तिः (१-५) · Śloka

अथामवातनिदानम् | विरुद्धाहारचेष्टस्य मन्दाग्नेर्निश्चलस्य च | स्निग्धं भुक्तवतो ह्यन्नं व्यायामं कुर्वतस्तथा ||१|| वायुना प्रेरितो ह्यामः श्लेष्मस्थानं प्रधावति | तेनात्यर्थं विदग्धोऽसौ धमनीः प्रतिपद्यते ||२|| वातपित्तकफैर्भूयो दूषितः सोऽन्नजो रसः | स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ||३|| जनयत्याशु दौर्बल्यं गौरवं हृदयस्य च | व्याधीनामाश्रयो ह्येष आमसञ्ज्ञोऽतिदारुणः ||४|| युगपत्कुपितावन्तस्त्रिकसन्धिप्रवेशकौ | स्तब्धं च कुरुतो गात्रमामवातः स उच्यते ||५||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

ऊरुस्तम्भे वायुः साम इत्युक्तम्, अतस्तदनन्तरमामवातनिदानमाह– विरुद्धेत्यादि| विरुद्धाहारः संयोगादिविरुद्धः, विरुद्धा च चेष्टा यथा– अजीर्णे व्यायामव्यवायजलप्रतरणादि| स्निग्धं भुक्तवतो व्यायामं कुर्वत इति मिलितो हेतुः, न पृथक्त्वेन| श्लेष्मस्थानमामाशयसन्ध्यादि| तेन वातेन विदग्धो दूषितोऽसावामो धमनीः प्रतिपद्यते, ‘धमनीभिः प्रतिपद्यत’ इति पाठान्तरे श्लेष्मस्थानमिति योज्यम्| सोऽन्नजो रस इति आमः, अन्नरसस्यैवापक्वस्य तन्त्रान्तरे आमव्यपदेशात्| यदुक्तम्– “ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते||” (वा. सू. अ. १३) इत्यादि| अन्यैरप्युक्तम्– “आमाशयस्थः कायाग्नेर्दौर्बल्यादविपाचितः| आद्य आहारधातुर्यः स आम इति कीर्तितः||” इति अपरे त्वाहुः– “अविपक्वमसंयुक्तं दुर्गन्धं बहु पिच्छिलम्| सदनं सर्वगात्राणामाम इत्यभिधीयते||” इति| अन्ये त्वाहुः– “आहारस्य रसः शेषो यो न पक्वोऽग्निलाघवात्| स मूलं सर्वरोगाणामाम इत्यभिधीयते||” इति| तथा चापरे– “आममन्नरसं केचित्, केचित्तु मलसञ्चयम्| प्रथमां दोषदुष्टिं च केचिदामं प्रचक्षते||” इति| नानावर्ण इति वातादिदूषितत्वाद्बहुवर्णः| युगपदित्यादि, वातकफौ युगपत्कुपितावन्तः कोष्ठे त्रिकसन्धिप्रवेशकौ भवतः, अथवा गात्रं स्तब्धं कुरुतः; त्रिकसन्धिषु प्रवेशस्तद्गतवेदनया बोध्यः||१-५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

ऊरुस्तम्भे वायुः साम इत्युक्तम्, अतस्तदन्तरमामवातनिदानमाह– विरुद्धेत्यादि| विरुद्धाहारचेष्टस्य तथा मन्दाग्नेरेवंविधस्य पुरुषस्य, निश्चलस्य व्यापाररहितस्य; विरुद्धाहारः क्षीरमत्स्यादिः संयोगादिविरुद्धः; विरुद्धा चेष्टाऽजीर्णे व्यायामव्यवायजलप्रतरणादिका| स्निग्धमन्नं भुक्तवतो व्यायामं कुर्वत इति मिलितो हेतुर्न पृथक्त्वेन| आमवाते विगतव्यायामत्वात्| अन्ये ‘व्यायामं वाऽप्यकुर्वत’ इत्यादि पठन्ति| तन्नातियुक्तं, निश्चलस्येत्यनेनैव लब्धत्वात्| श्लेष्मस्थानं प्रधावतीति श्लेष्मस्थानानि आमाशयोरःशिरःकण्ठसन्धय इति| श्लेष्मस्थाननिचितेन वातेन विदग्धो दूषित आमो धमनीः सिराः प्रतिपद्यते| ‘धमनीभिः प्रपद्यते’ इति पाठान्तरं, तत्र श्लेष्मस्थानमिति योज्यम्| अपक्वस्यैवाम इति सञ्ज्ञा, अन्नरसस्यैवाऽपक्वस्य तन्त्रान्तरे आम इति व्यपदेशात्| यदुक्तम्– “ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते|| जठरानलदौर्बल्यादविपक्वस्तु यो रसः| स आमसञ्ज्ञको देहे सर्वरोगप्रकोपकः||” इति| अन्यैरप्युक्तम्– “आमाशयस्थः कायाग्नेर्दौर्बल्यादविपाचितः| आद्य आहारधातुर्यः स आमः परिकीर्तितः||” इति| अन्यत्रापि– “अविपक्वमसंयुक्तं दुर्गन्धं बहु पिच्छिलम्| सदनं सर्वगात्राणामाम इत्यभिधीयते||” इति| तथाऽपरे– “अविपक्वरसं केचित्केचित्तं मलसञ्चयम्| प्रथमां दोषदुष्टिं वा केचिदामं प्रचक्षते||” इति| त्रिभिर्दोषैरतिशयदूषितोऽन्नरसः स्रोतांस्यभिष्यन्दयति लिम्पति, अतिपिच्छिलत्वात्| नानावर्ण इति वातादिदूषितत्वाद्बहुवर्णः| ततो वह्नेर्मन्दत्वं जनयति| हृदये गौरवं भवति, तस्य स्थानत्वात्| सर्वेषां रोगाणामयमेव कारणीभूत आमसञ्ज्ञकः| तस्यैव रूपमाह– युगपदिति| युगपदेकवारमेव कुपितौ वातकफौ अन्तःकोष्ठे त्रिकसन्धिप्रवेशकौ भवतः| (त्रिके कटिमन्याशयसन्धी तत्र, तथा सन्धिषु प्रविश्य) अथवा गात्रं स्तब्धं कुरुतः, स आमवातः कथ्यते| त्रिकसन्धिप्रवेशश्च तद्गतवेदनया बोद्धव्यः||१-५||

Adhikarana आमवातस्य सामान्यलक्षणम् (६) · Śloka

अङ्गमर्दोऽरुचिस्तृष्णा आलस्यं गौरवं ज्वरः | अपाकः शूनताऽङ्गानामामवातस्य लक्षणम् ||६||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

आमवातस्य सामान्यलक्षणमाह– अङ्गमर्द इत्यादि||६||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

आमवातस्य सामान्यलक्षणमाह– अङ्गेत्यादि| अङ्गमर्दोऽङ्गभङ्गः| अरुचितृष्णे प्रसिद्धे| आलस्ययुक्तमङ्गगौरवं ज्वरश्च| अपाक आहारस्य| अङ्गानां शूनत्वम्| एतदामवातस्य स्वरूपकथनम्||६||

Adhikarana प्रकुपितस्यामवातस्य लक्षणम् (७-१०) · Śloka १०

स कष्टः सर्वरोगाणां यदा प्रकुपितो भवेत् | हस्तपादशिरोगुल्फत्रिकजानूरुसन्धिषु ||७|| करोति सरुजं शोथं यत्र दोषः प्रपद्यते | स देशो रुज्यतेऽत्यर्थं व्याविद्ध इव वृश्चिकैः ||८|| जनयेत् सोऽग्निदौर्बल्यं प्रसेकारुचिगौरवम् | उत्साहहानिं वैरस्यं दाहं च बहुमूत्रताम् ||९|| कुक्षौ कठिनतां शूलं तथा निद्राविपर्ययम् | तृट्छर्दिभ्रममूर्छाश्च हृद्ग्रहं विड्विबद्धताम् | जाड्यान्त्रकूजमानाहं कष्टांश्चान्यानुपद्रवान् ||१०||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तस्यैवातिवृद्धस्य लक्षणमाह– स इत्यादि| वृश्चिकैः सविषकीटविशेषैः| स इति आमवातः| जाड्यमकर्मण्यत्वम्| अन्यानुपद्रवान् सङ्कोचखञ्जत्वादीन्||७-१०||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

तस्यैवाऽतिप्रवृद्धस्य लक्षणमाह– स इत्यादि| आमवातो यदा कुपितो भवति, तदा सर्वरोगाणां मध्ये कष्टतमः कृच्छ्रसाध्यः स्यादित्यर्थः| हस्तपादादीनां सन्धिषु सरुजं श्वयथुं कुर्यात्| सन्धिमन्ये पृथग्व्याख्यानयन्ति| गुल्फौ चरणोपरिग्रन्थी, त्रिकं स्फिक्पृष्ठसन्धिः, ऊरु जङ्घादेशः| स देशो वृश्चिकैः सविषकीटविशेषैर्व्याविद्धो दष्ट इवात्यर्थं रुज्यते तुद्यते| उपद्रवानाह- जनयेदित्यादि| अग्निमान्द्यादीन् जनयेत्, प्रसेको लालास्रावः, अरुचिगौरवे प्रसिद्धे, उत्साहहानिं कर्माक्षमत्वं, वैरस्यादयः प्रसिद्धाः| कुक्षौ काठिन्यं, शूलं कुक्षावेव, निद्राविपर्ययो निद्रानाशः, तृडादयः प्रसिद्धाः, विड्विबद्धता विड्ग्रहः, जाड्यमङ्गानामकर्मण्यता, अन्ये जाड्यं कर्कशत्वमित्याहुः| आनाह ऊर्ध्वाधोभागनिरोधिता| अन्यानुपद्रवानिति वातव्याधिनिदानोक्तान्||७-१०||

Adhikarana आमवातस्य विशेषलक्षणानि (११) · Śloka ११

पित्तात् सदाहरागं च, सशूलं पवनानुगम् | स्तिमितं गुरुकण्डूं च कफदुष्टं तमादिशेत् ||११||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तस्य विशेषलक्षणान्याह– पित्तादित्यादि||११||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

पित्तादियुक्तस्य विशेषलक्षणमाह– पित्तादित्यादि| यदा पित्तेन मिलितो भवति, तदा दाहरागवान् भवति, यदि तु वातानुगं, तदा सशूलं सव्यथं जानीयात्| यद्यप्यामो वातेन नीयमानस्तथाऽपि प्रदेशस्थितेन मिलितत्वात्तेनैवानुगतत्वमिति| स्तिमितं जडं, गुरुं गौरवयुक्तं, कण्डूमन्तं च कफोत्तरं जानीयात्||११||

Adhikarana आमवातस्य साध्यासाध्यविचारः (१२) · Śloka १२

एकदोषानुगः साध्यो, द्विदोषो याप्य उच्यते | सर्वदेहचरः शोथः स कृच्छ्रः सान्निपातिकः ||१२||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

तस्य साध्यत्वादिकमाह– एकेत्यादि||१२||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

साध्यासाध्यत्वमाह– एकदोषानुग इति| सुगमम्||१२||

Adhikarana पुष्पिका · Śloka २५

इति श्रीमाधवकरविरचिते माधवनिदाने आमवातनिदानं समाप्तम् ||२५||

🔊 Audio coming soon

Show commentary

मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामामवातनिदानं समाप्तम्||२५||

आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)

इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायायामातङ्कदर्पणाख्यायामामवातनिदानम्||२५||