Skip to content

१३. सन्धिसितासितरोगविज्ञानीयः

Adhikarana अथ सन्धिसितासितरोगविज्ञानीयो नाम त्रयोदशोऽध्यायः - प्रतिज्ञा (१) · Śloka

अथातः सन्धिसितासितरोगविज्ञानीयनामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

क्रमप्राप्तानां वर्त्मसन्ध्यादीनां रोगेषु हेत्वादिकं प्रदर्शयितुं स्तोकप्रमेयत्वादेक एवाऽध्याय आरभ्यते||१||

Adhikarana सन्धिजाः व्याधयः - जलास्रवः (२) · Śloka

वायुः क्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः| अश्रुं स्रावयते वर्त्मशुक्लसन्धेः कनीनकात्| तेन नेत्रमरुग्रागशोफं स्यात् स जलास्रवः||२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

स्वहेतुभिः क्रुद्धो वायुर्हेतुविशेषादेव नेत्रे जलवाहिनीः सिराः प्राप्य कनीनकान्नासानिकटान्नेत्रान्ताच्छुक्लवर्त्मनोः सन्धेरश्रुं स्रावयते| तेन चाश्रुस्रवणेन नेत्रं रुगादिरहितं स्यात्| स रोगविशेषो नाम्ना जलास्रवः||२||

Adhikarana कफास्रवः (३) · Śloka

कफात्कफस्रवे श्वेतं पिच्छिलं बहलं स्रवेत्||३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कफास्रवाख्ये रोगे कफाद्धेतोः श्वेतादिगुणमश्रु स्रवेत्| बहलं घनम्||३||

Adhikarana उपनाहः (४) · Śloka

कफेन शोफस्तीक्ष्णाग्रः क्षारबुद्बुदकोपमः| पृथुमूलश्चलः स्निग्धः सवर्णो मृदुपिच्छिलः| महानपाकः कण्डूमानुपनाहः स नीरुजः||४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कफेन तीक्ष्णाग्रादिगुणः शोफो भवति स नाम्नोपनाहः| तीक्ष्णाग्रो निशितमुखः| क्षारबुद्बुदाः पच्यमाने क्षारेऽग्निसंयोगादुत्पद्यन्ते||४||

Adhikarana रक्तास्रवः (५) · Śloka

रक्ताद्रक्तास्रवे ताम्रं बहूष्णं चाश्रु संस्रवेत्||५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

रक्तास्रवनाम्नि रोगे रक्ताद्धेतोस्ताम्रादिस्वरूपमश्रु स्रवेत्||५||

Adhikarana पर्वणी (६) · Śloka

वर्त्मसन्ध्याश्रया शुक्ले पिटका दाहशूलिनी| ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी||६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

तत एव रत्काच्छुक्ले भागे वर्त्मसन्ध्याश्रयां तन्मूला दाहादिगुणा पिटका भवति| सा च भिन्ना रक्तमेव स्रवति| सा नाम्ना पर्वणीत्युच्यते||६||

Adhikarana पूयास्रवः (७) · Śloka

पूयास्रावे मलाः सास्रा वर्त्मसन्धेः कनीनकात्| स्रावयन्ति मुहुः पूयं सासृक् त्वङ्मांसपाकतः||७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पूयास्रावनाम्नि रोगे मला वातादयोऽस्रमिश्राः कनीनकाद्वर्त्मसन्धेस्त्वङ्मांसपाकेन सासृक् पूयं स्रावयन्ति||७||

Adhikarana पूयालसः (८) · Śloka

पूयालसो व्रणः सूक्ष्मः शोफसंरम्भपूर्वकः| कनीनसन्धावाध्मायी पूयास्रावी सवेदनः||८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कनीनके वर्त्मसन्धौ शोफसंरम्भपूर्वकः सूक्ष्मो यो व्रण आध्मायित्वादिगुणः स पूयालसनामा रोगः आदौ शोफसंरम्भो ततः स्वयं भिन्नो व्रण इति पूर्वशब्दार्थः||८||

Adhikarana अलजी (९) · Śloka

कनीनस्यान्तरलजी शोफो रुक्तोददाहवान्||९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

कनीने वर्त्मसन्धावन्तर्भागे यो रुजादिमान् शोफः स नाम्नाऽलजी||९||

Adhikarana कृमिग्रन्थिः (१०) · Śloka १०

अपाङ्गे वा कनीने वा कण्डूषापक्ष्मपोटवान्| पूयस्रावी कृमिग्रन्थिः ग्रन्थिः कृमियुतोऽर्तिमान्||१०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

नेत्रस्यापाङ्गे वा कनीने व कण्ड्वादिमान् पूयास्रावी कृमियुक्तश्चार्तिमांश्च यो ग्रन्थिः स नाम्ना कृमिग्रन्थिः| इति नव रोगाः वर्त्मशुक्लसन्धिजाः||१०||

Adhikarana सन्धिरोगे साध्यासाध्यविभागः (११) · Śloka ११

उपनाहकृमिग्रन्थिपूयालासकपर्वणीः| शस्त्रेण साधयेत्पञ्च सालजीनास्रचांस्त्यजेत्||११||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एषु चोपनाहादींश्चतुरः शस्त्रेण साधयेत् चिकित्सेत्| अलज्यासहितानास्रावान् वातकफरक्तजान् पूयास्रावं चेति पञ्चत्यजेदसाध्यत्वात्| पित्तमित्यादिना सितभागरोगा उच्यन्ते||११||

Adhikarana सितजाः रोगाः - तत्रादौ शुक्तिका (१२) · Śloka १२

पित्तं कुर्यात्सिते बिन्दूनसितश्यावपीतकान्| मलाक्तादर्शतुल्यं वा सर्वं शुक्लमदाहरुक्| रोगोऽयं शुक्तिकासंज्ञः सशकृद्भेदतृड्ज्वरः||१२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पित्तं कृद्धं सिते भागे असितादिवर्णान् बिन्दूंस्तिलकान् कुर्यात्| अथवा सर्वं शुक्लं मललिप्तदर्पणसदृशं कुर्यात्| उभयत्रापि दाहरुगभावः| एतदुभयमपि शकृद्भेदादियोगान्नाम्ना शुक्तिकेति रोगो भवति ||१२||

Adhikarana शुक्लार्म (१३) · Śloka १३

कफाच्छुक्ले समं श्वेतं चिरवृद्ध्यधिमांसकम्| शुक्लार्म ||१३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

शुक्ले भागे कफाद्भेतोः समादिगुणं यदधिमांसं तन्नाम्ना शुक्लार्म||१३||

Adhikarana बलासग्रथितः (१४) · Śloka १४

शोफस्त्वरुजः सवर्णो बहलो मृदुः| गुरुः स्निग्धोऽम्बुबिन्द्वाभो बलासग्रथितः स्मृतः||१४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यस्तु शोफः कफाच्छुक्ले अरुजत्वादियुक्तोऽम्बून्बिन्दुसदृशः स नाम्ना बलासग्रथित आचार्यैः स्मृतः||१४||

Adhikarana पिष्टकम् (१५) · Śloka १५

बिन्दुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत्||१५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

शालिपिष्टवच्छुक्लैः सोत्सेधैश्च बिन्दुभिर्युक्तं रोगं नाम्ना पिष्टकं वदेद्वैद्यः||१५||

Adhikarana सिरोत्पातः (१६) · Śloka १६

रक्तराजीततं शुक्लमूष्यते यत् सवेदनम्| सशोफाश्रूपदेहं च सिरोत्पातः स शोणितात्||१६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

शुक्लं नेत्रद्रव्यं यत् लोहिताभी राजीभिस्ततं व्याप्तं सवेदनंशोफादिरहितं चोष्यते सदाहं भवति स गदो नाम्ना सिरोत्पातः स चास्रात् भवति ||१६||

Adhikarana सिराहर्षः (१७) · Śloka १७

उपेक्षितः सिरोत्पातो राजीस्ता एव वर्धयन्| कुर्यात् सास्रं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमम्||१७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एष सिरोत्पात उपेक्षितोऽचिकित्सितः ता एव लोहिताः सिरोत्पातराजीर्वर्धयन्नश्रुणा सह नाम्ना सिराहर्षं गुदं कुर्यात्| तेन सिरा हर्षेणाक्षि नेत्रमुद्वीक्षणेऽक्षमं भवति||१७||

Adhikarana सिराजालम् (१८) · Śloka १८

सिराजालं सिराजालं बृहद्रक्तं घनोन्नतम्||१८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सिराजालं सिरासमूहो बृहत्वादिगुणं नाम्ना सिराजालं शुक्ले भवति||१८||

Adhikarana शोणितार्म (१९) · Śloka १९

शोणितार्म समं श्लक्ष्णं पद्मेभमधिमांसकम्||१९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

समादिगुणं पद्मसमरूपं चाधिमांसं नाम्ना शोणितार्म||१९||

Adhikarana अर्जुनः (२०) · Śloka २०

नीरुक्श्लक्ष्णोऽर्जुनो बिन्दुः शशलोहितलोहितः||२०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

शशलोहितवच्छशरक्तवल्लोहितवर्णो यो बिन्दुर्निरुक् श्लक्ष्णश्च शुक्ले भवति स नाम्नार्जुन उच्यते ||२०||

Adhikarana प्रस्तार्यर्म (२१) · Śloka २१

मृद्वाशुवृद्ध्यरुङ्मांसं प्रस्तारि श्यावलोहितम्| प्रस्तार्यर्म मलैः सास्रैः ||२१||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सास्रैः सरक्तैर्मलैर्वातादिभिर्मृद्वादिगुणं मांसं शुक्ले नाम्ना प्रस्तार्यर्मोच्यते| प्रस्तारीत्यत्युत्सन्नविस्तृतम्||२१||

Adhikarana स्नावार्म (२२) · Śloka २२

स्नावार्म स्नावसन्निभम्||२२||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

स्नावसन्निभमधिमांसं नाम्ना स्नावार्म भवति ||२२||

Adhikarana अधिमांसार्म (२३) · Śloka २३

शुष्कासृक्पिण्डवच्छ्यावं यन्मांसं बहलं पृथु| अधिमांसार्म तत् ||२३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यान्मांसं शुष्करक्तवच्छ्यावं बहलं घनं पृथु विस्तीर्ण तन्नाम्ना अधिमांसार्म||२३||

Adhikarana सिराः (सिराजपिटकाः) (२४) · Śloka २४

दाहघर्षवत्यः सिरावृताः| कृष्णासन्नाः सिरासंज्ञाः पिटकाः सर्षपोपमाः||२४||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

शुक्लभगे याः सर्षपोपमाः पिटकाः कृष्णाभागस्यासन्ना निकटवर्तिन्यो दाहादिमित्यः सिराभिश्चावृतास्ताः सिरासंज्ञाः संज्ञया सिरा इति भवन्ति| इति त्रयोदश रोगाः सितजाः||२४||

Adhikarana सितव्याधीनां चिकित्सासूत्रम् (२५) · Śloka २५

शुक्तिहर्षसिरोत्पातपिष्टकग्रथितार्जुनम्| साधयेदौषधैः षट्कं शेषं शस्त्रेण सप्तकम्| नवोत्थं तदपि द्रव्यैरर्मोक्तं यत्तु पञ्चधा| तच्छेद्यमसितप्राप्तं मांसस्नावसिरावृतम्| चर्मोद्दालवदुच्छायि दृष्टिप्राप्तं तु वर्जयेत्||२५||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

एषु च शुक्तितहर्षक्रमादिपठैतं षट्कं वक्ष्यमाणैरौषधैः साधयेत्| हर्षः सिराहर्षः| शेषे यत् लक्षणक्रमपाठे शुक्तिहर्षादिशिष्टमधिमांसार्मसिरोत्पातादिसप्तकं तच्छस्त्रेण साधयेच्चिकित्सेत्| न केवलं तच्छुक्त्यादिषट्कमौषधैः साधयेद्यावदेतत् सप्तकमपि अचिरकालजातं सत्| यत् पुनरेतेष्वेव मध्ये पञ्चभिः प्रकारैः शुक्लार्म, शोणितार्म, प्रस्तार्यर्म, स्नावार्म, अधिमांसार्माख्यैरमोक्तं तच्छुक्लभाग स्थित एव छेद्यम्| असितप्राप्तादिरूपं वर्जयेत्| असितं कृष्णाभगस्तस्यान्तर्दृष्टिः|| २५||

Adhikarana कृष्णभागव्याधयः क्षतशुक्लम् (२६) · Śloka २६

पित्तं कृष्णेऽथवा दृष्टौ शुक्लं तोदाश्रुरागवत्| छित्वा त्वचं जनयति तेन स्यात्कृष्णमण्डलम्| पक्वजम्बूनिभं चिञ्चिन्निम्नं च क्षतशुक्लकम्| तत् कृच्छ्रसाध्यं याप्यं तु द्वितीयपटलव्यधात्| तत्र तोदादिबाहुल्यं सूचीविद्धाभाकृष्णता| तृतीयपटलच्छेदादसाध्यं निचितं व्रणैः||२६||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

पित्तं कृष्ण इत्यादिना कृष्णभागव्याधयः| पित्तं दुष्टं कृष्णे वा दृष्टौ वा त्वचं छित्वा तोदादियुक्तं शुक्लविन्द्वाकृति रोगं जनयति| तेन च रोगेण कृष्णमण्डलं नेत्रे पक्वजम्बूफलप्रख्यं किञ्चिच्च निम्नं भवति तच्छुक्लं क्षतशुक्लं नाम्नोच्यते| तत् बहिस्थितत्वात् कृच्छ्रसाध्यम्| तदेव द्वितीयपटलव्यधाद्याप्यं भवति| पटलं नेत्रत्वक्| तत्र याप्ये पूर्वापेक्षया तोदादिबहुलत्वं सूचीविद्धसमकृष्णभागता च नेत्रस्य भवति| यदा तु तदेव तृतीयमपि पटलं व्याप्नोति तदा व्रणैर्निचितमसाध्यं क्षतशुक्लकं भवति| इति क्षतशुक्लम्||२६||

Adhikarana शुद्धशुक्लम् (२७) · Śloka २७

शङ्खशुक्लं कफात्साध्यं नातिरुक्शुद्धशुक्लकम्||२७||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यत्तु कृष्णे कफाद्धेतोः शङ्खवच्छुक्लं भवति तत् साध्यं न चातिरुङ् नाम्ना तु शुद्धशुक्लम्||२७||

Adhikarana अजका (२८) · Śloka २८

आताम्रपिच्छिलास्रस्रुदाताम्रपिटकातिरुक्| अजाविटसदृशोच्छायकार्ष्ण्या वर्ज्यासृजाजका||२८||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

असृजा रक्तेनातिरुगालोहिता पिटका ताम्रवर्णास्रस्रुद्भवति अजाविट्सदृशं कार्ष्ण्यमुच्छ्रायश्च यस्याः सा तथोक्ता सैवंविधा पिटका वर्ज्योपेक्षणीया नाम्ना अजका ||२८||

Adhikarana सिराशुक्लम् (२९) · Śloka २९

सिराशुक्लं मलैः सास्रैस्तज्जुष्टं कृष्णमण्डलम्| सतोददाहताम्राभिः सिराभिरवतन्यते| अनिमित्तोष्णशीताच्छघनास्रसुच्च तत्त्यजेत्||२९||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सिराशुक्लं नाम्ना भवति सास्रैर्मलैर्वातादिभिस्तेन जुष्टं सेवितं कृष्णमण्डलं तोदादियुताभिः सिराभिरवतन्यते व्याप्ते| अकारणादेव चोष्णं वा शीतवाच्छं वाऽश्रु स्रवति तत् सिराशुक्लं त्यजेत् ||२९||

Adhikarana तीव्रवेदनम् (३०) · Śloka ३०

दोषैः सास्रैः सदृक्कृष्णं नीयते शुक्लरूपताम्| धवनाभ्रोपलिप्ताभं निष्पावाऱ्धदलाकृति| अतितीव्ररुजारागदाहश्वयथुपीडितम्| पाकात्ययेन तच्छुक्लं वर्जयेत्तीव्रवेदनम्||३०||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

सरक्तैर्वातादिभिः सदृष्टिमण्डलं कृष्णं शुक्लरूपतां नीयते| धवलेन शुक्लेनाभ्रेणोपलिप्तमिव भाति| निष्पावस्य राजशिम्बीफलस्यार्धदलाकृति| अतितीव्रेण रुजादिना पीडितं तत्तु पाकात्ययेन पाकस्यातिक्रान्त्या वर्जयेन्नाम्ना तीव्रवेदनम्||३०||

Adhikarana शुक्लानामसाध्यलक्षणम् (१३) · Śloka १३

यस्य वा लिङ्गनाशोऽन्तः श्यावं यद्वा सलोहितम्| अत्युत्सेधावगाढं वा सास्रनाडीव्रणावृतम्| पुराणं विषमं मध्ये विच्छिन्नं यच्च शुक्लकम्| पञ्चेत्युक्ता गदाः कृष्णे साध्यासाढ्यविभागतः||३१|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे सितासितरोग विज्ञानीयो नाम त्रयोदशोऽध्यायः||१३||

🔊 Audio coming soon

Show commentary

शशिलेक व्याख्या (इन्दु कृत)

यस्य वेत्यादिना शुक्लानामसाध्यलक्षणम्| लिङ्गनाशो वक्ष्यमाणलक्षणः| अवगाढो निम्नः| विषमं निम्नोन्नतम्| इति पञ्च गदाः क्षतशुक्ल, शुद्धशुक्ल, अजका, शिराशुक्ल, तीव्रवेदनाख्याः कृष्णभागे साध्यासाध्यविभागेनोक्ताः| दृष्टौ तु पृथग्वक्ष्यत इति|| ३१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायामुत्तरतन्त्रे त्रयोदशोऽध्यायः||१३||