Adhikarana अथ कर्णरोगविज्ञानीयो नामैकविंशोऽध्यायः - प्रतिज्ञा (१) · Śloka १
अथातः कर्णरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
नेत्ररोगाणां निर्णयं कृत्वोर्द्वाङ्गचिकित्साप्रसङ्गेन कर्णरोगाणां हेत्वादिकं प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana वातकर्णरोगः (२) · Śloka २
प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत्|
मिथ्यायोगेन शब्दस्य कुपितोऽन्यैश्च कोपनैः|
प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत्|
अर्धावभेदकं स्तम्भं शिशिरानाभिनन्दनम्|
चिराच्च पाकः पक्वन्तु लसीकामल्पशः स्रवेत्|
श्रोतं शून्यमकस्माच्च स्यात् सञ्चारविचारवत्||२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
प्रतिश्यायादिभिर्हेतुभिरन्यैश्च निदानोक्तैर्मरुद्वायुः कुपितः श्रोत्रस्रोतसि वेगवच्छूलमर्धावभेदकादिकञ्च कुरुते| प्रतिश्यायो नासारोगेषु वक्ष्यते| अर्धावभेदकः शिरोरोगेषु| शिशिरानाभिनन्दनं शीतद्वेषः| चिराच्च पाकः श्रोत्रे स्यात्| पक्वं च श्रोत्रमकस्माद्विनाकारणं सञ्चारविचारवत् स्यात्| क्षणं संवृतमाभाति क्षणं विवृतमित्यर्थः| इति वातकर्णरोगः||२||
Adhikarana पित्तकर्णरोगः (३) · Śloka ३
शूलं पित्तात्सदाहोषा शीतेच्छा श्वयथुं ज्वरम्|
आशुपाकं प्रपक्वं च सपीतलसिकास्रुतिः|
सा लसीका स्पृशेद्यद्यत्तत्तत्पाकमुपैति च||३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पित्तात् स्वहेतुतः कुपिताच्छ्रोत्रस्रोतसि दोहादियुक्तं शूलं स्यादिति सम्बन्धः| आशुपाकादिकं चार्थाच्छ्रोत्रविशेषणं बोद्धव्यम्| सुबोधम्| इति पित्तकर्णरोगलिङ्गम्||३||
Adhikarana कफकर्णरोगः (४) · Śloka ४
कफाच्छिरोहनुग्रीवागौरवं मन्दता रुजः|
कण्डूश्वयथुरुष्णोच्छा पाकाच्छ्र्वेतघनस्रुतिः||४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कफादिति| प्रकरणात्कर्णरोगे शिरोगौरवादिकं लिङ्गम्||४||
Adhikarana रक्तकर्णरोगः (५) · Śloka ५
करोति श्रवणे शूलमभिघातादिदूषितम्|
रक्तं पित्तसमानार्ति किञ्चिद्वाधिकलक्षणम्||५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अभिघातादिना रक्तस्य कोपस्तेन दूषितं रक्तं श्रवणे कर्णे शूलं करोति| तच्च रक्तकर्णरोगं पित्तकर्णरोगसमानलिङ्गं भवति| ततोऽपि पित्तात् किञ्चिदधिकलक्षणमिति रक्तकर्णरोगः||५||
Adhikarana सन्निपातकर्णरोगः (६) · Śloka ६
शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक्|
पर्यायादुष्णशीतेच्छं जायेते श्रुतिजाड्यवत्|
पक्वं सितासितारक्तघनपूयप्रवाहि च||६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
समुदितैः सन्निपतितैर्दोषैर्वातादिभिः शोफादियुक्तं शूलं श्रोत्रे जायते| पर्यायेण निरन्तरावृत्त्या उष्णोच्छा शीतेच्छा च यस्मिन् शूले तत्पर्यायादुष्णशीतेच्छम्| पर्यायादेव श्रुतिजाड्यवत्| तच्च श्रोत्रं पक्वं सितासितादिगुणपूयप्रवाहि भवतीति सन्निपातकर्णरोगः||६||
Adhikarana कर्णनादः (७) · Śloka ७
शब्दवाहिसिरासंस्थे श्रृणोति पवने मुहुः|
नादानकस्माद्विधान् कर्णनादं वदन्ति तम्||७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
शब्दवहासु सिरासु कारणविशेषवशात् स्थिते पवने पुरुषो मुहुः प्रतिक्षणमकस्मात् कारणं विना विविधानसतो नादान् श्रृणोति| तं कर्णरोगं कर्णनादमित्याचार्या वदन्ति||७||
Adhikarana बधिरत्वम् (८) · Śloka ८
श्लेष्मणानुगतो वायुर्नादो वा समुपेक्षितः|
उच्चैः कृच्छ्राच्छुतिं कुर्याद्बधिरत्वं क्रमेण च||८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
श्लेष्मणा वायुरनुगत उच्चैः कृच्छ्राच्च श्रुतिं कुर्यात्| अथवा कर्णनादाख्यो रोग उपेक्षितः सन्नेवं कुर्यात्| उभयत्रापि क्रमेण बधिरत्वमयं रोगः सप्तमः||८||
Adhikarana प्रतीनाहः (९) · Śloka ९
वातेन शोषितः श्लेष्मा स्रोतो लिम्पेत्ततो भवेत्|
रुग्गौरवं विधानं च सः प्रतीनाहसंज्ञितः||९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कारणविशेषवशाद्वातेन श्लेष्मा शोषितः सन् कर्णस्रोतो लिम्पेत्ततः स्रोतोलेपात् कर्णे रुगादिकं भवेत्| स एवम्भूतो रोगः संज्ञया प्रतीनाहः||९||
Adhikarana कण्डूः शोफश्च (१०) · Śloka १०
कण्डूशोफौ कफाच्छ्रोत्रे स्थिरौ तत्संज्ञया स्मृतौ||१०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कफाद्धेतोर्यौ श्रोत्रे स्थिरौ कण्डूशोफौ तौ तत्संज्ञया कण्डूशोफाविति नाम्ना स्मृतावाचार्यैः| एकः कण्डूः द्वितीयः शोफः||१०||
Adhikarana पूतिकर्णकः (११) · Śloka ११
कफो विदग्धः पित्तेन सरुजं नीरुजं तथा|
धनपूतिबहुक्लेदं कुरुते पूतिकर्णकम्||११||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
पित्तेन कर्त्रा कफो विदग्धः विदाहावस्थां नीतः पूतिकर्णाख्यं रोगं कुरुते| किम्भूतमित्याह| सरुजं वा नीरुजं वा उभयथापि घनपूति बहुक्लेदम्||११||
Adhikarana क्रिमिकर्णकः (१२) · Śloka १२
वातादिदूषितं श्रोतं मांसासृक्लेदजा रुजम्|
खादन्तो जन्तवः कुर्यस्तीव्रां स क्रिमिकर्णकः||१२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
जन्तवः क्रिमयः खादन्तो भक्षयन्तः प्रकरणात् कर्णं तत्रैव सम्भवात्तीव्रां रुजं कुर्युः| स रोगो नाम्ना क्रिमिकर्णकः| किम्भूता जन्तव आह-वातादिभिः स्वकारणकुपितैर्दूषिते ये श्रोत्रसम्बन्धिनी मांसासृजी तयोर्विक्लेदस्तज्जाः||१२||
Adhikarana विद्रध्यर्शोऽर्बुदानि (१३) · Śloka १३
श्रोत्रकण्डूयनाज्जाते क्षते स्यात् पूर्वलक्षणः|
विद्रधिः पूर्ववच्चान्यः शोफोऽर्शोर्बुदमीरितम्|
तेषु रुक् पूतिकर्णत्वं बधिरत्वं क्रमेण च||१३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
श्रोतस्य कण्डूयनेन क्षते व्रणे जाते सति पूर्वलक्षणस्तीव्ररूग्रुपो विद्रध्याख्यो रोगः स्यात्| अन्यश्च विद्रधिः पूर्ववन्निदानोक्तविद्रधिहेतुना भवत्येष च विद्रधेरेव भेदान्तरं तेन संख्यायां न प्रविशति| शोफश्च यः कर्णे स नाम्ना एकार्श ईरितः द्वितीयोऽर्बुदं एवमेतौ द्वौ रोगावेकीकृत्य पूर्वैः सह पञ्चदश तु भवन्ति| तेषु चानान्तरोक्तेषु विद्रध्यर्शोऽर्बुदेषु क्रमेण यथासङ्ख्यं रुगादित्रयं जायते| बधिरत्वं च जायते ( इति च पाठः )||१३||
Adhikarana कूचिकर्णकः (१४) · Śloka १४
गर्भेऽनिलात् सङ्कुचिता शष्कुली कूचिकर्णकः||१४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
गर्भावस्थायामनिलाद्धेतोर्गर्भानिलात् शष्कुली सङ्कुचिता स रोगे नाम्ना कूचिकर्णकः||१४||
Adhikarana पिप्पली (१५) · Śloka १५
एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः|
पिप्पली पिप्पलीमानः||१५||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
गर्भावस्थायामेव कर्णे एको वाऽनेको वा स्थिरः पिप्पलीप्रमाणो यो मांसाङ्कुरः स नाम्ना पिप्पली ||१५||
Adhikarana विदारिका (१६) · Śloka १६
सन्निपाताद्विदारिका|
सवर्णः सरुजः स्तब्धः श्वयथुः स उपेक्षितः|
कटुतैलनिभं पक्वः स्रवेत् कृच्छ्रेण रोहति|
सङ्कोचयति रूढा च सा ध्रुवं कर्णशष्कुलीम्||१६||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सन्निपाताद्धेतोर्यः श्वयथुः सवर्णादिगुण उपेक्षितश्च पक्वः सन् कटुतैलनिभं तत्सदृशं स्रावं स्रवेत् कृच्छ्रेण रोहति बहुकालप्रयुक्तभैषज्यसंस्काराद्रूढो भवति| सः श्वयथुर्विदारिका नाम रोगः| सा च विदारिका रूढा लब्धास्पदा सती ध्रुवमवश्यं कर्णशषुलीं सङ्कोचयति||१६||
Adhikarana पालीशोषः (१७) · Śloka १७
सिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम्||१७||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कर्णसिरास्थो वायुः पाल्यां शोषं नाम्ना पालीशोषसंज्ञं कुरुते||१७||
Adhikarana तन्त्रिका (१८) · Śloka १८
कृशा दृढा च तन्त्रीवत्पाली वातेन तन्त्रिका||१८||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
वातेन पाली वीणातन्त्रीवत् कृशा दृढा च भवति; स तन्त्रिका नाम रोगः||१८||
Adhikarana पारिपोटः (१९) · Śloka १९
सुकुमारे चिरोत्सर्गात् सहसैव प्रवर्धते|
कर्णे शोफः सरुक्पाल्यामरुणः परिपोटवान्|
परिपोटश्च पवनात्||१९||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
सुकुमारे कर्णे बहुकालमुपेक्ष्य झटिति प्रकर्षेण वर्धिते अरुणः परिपोटवांश्च सरुक्पाल्यां शोफः स्यात्| परिपोटश्चर्मदरणम्| स रोगः पवनाद्धेतोर्भवति| नाम्ना परिपोटः||१९||
Adhikarana उत्पातः (२०) · Śloka २०
उत्पातः पित्तशोणितात्|
गुर्वाभरणभाराद्यैः श्यावो रुग्दाहपाकवान्|
श्वयथुः स्फोटपिटकारागोषाक्लेदसंयुतः||२०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
गुर्वाभरणभाराद्यैः प्रकुपितात् पित्तशोणितात् श्यावादिगुणः स्फोटादिसंयुक्तश्च यः श्वयथुः स उत्पातो नाम रोगः|| २०||
Adhikarana उन्मन्थः (२१) · Śloka २१
पाल्यां शोफोऽनिलकफात्सर्वतो निर्व्यथः स्थिरः|
स्तब्धः सवर्णः कण्डूमानुन्मन्थो गल्लिरश्च सः||२१||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
अनिलकफाद्धेतोः पाल्यां सर्वतोदिक्कं निर्यथादिगुणः शोफो भवति; स रोगो नाम्ना उन्मन्थो गल्लिरश्च्योच्यते||२१||
Adhikarana दुःखवर्धनः (२२) · Śloka २२
दुर्विद्धे वर्धिते कर्णे सकण्डूदाहपाकरुक्|
श्वयथुः सन्निपातोत्थः स नाम्ना दुःखवर्धनः||२२||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
यश्च कर्णो दुर्विद्धः सन् वर्धितस्तस्मिन् यः कण्ड्वादिगुणः सन्निपातोत्थः श्वयथुः स नाम्ना दुःखवर्धनः||२२||
Adhikarana लिह्याख्याः पिटकाः (२३) · Śloka २३
कफासृक्कृमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः|
लिह्याख्याः पिटकास्ता हि लिह्युः पालीमुपेक्षिताः||२३||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
कफादिजाः कण्ड्वादियुक्ताः पिटका नाम्ना लिह्याख्यास्ता ह्युपेक्षिताः पालीं लिह्युः शोषयेयुरित्यर्थः||२३||
Adhikarana साध्यासाध्यता (२४) · Śloka २४
पिप्पली सर्वजं शूलं विदारी कूचिकर्णकः|
एषामसाध्या याप्यैका तन्त्रिकान्यांस्तु साधयेत्||२४||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
एषां कर्णरोगाणां मध्ये पिप्पल्यादिचतुष्टयमसाध्यम्| एका तन्त्रिकैव याप्या| शेषान् धारयेत्||२४||
Adhikarana कर्णरोगासङ्ख्यानम् (२५-२०) · Śloka २०
पञ्चविंशतिरित्युक्ताः कर्णरोगा विभागतः||२५||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे कर्णरोगविज्ञानीयो नामैकविंशोऽध्यायः||२१||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे कर्णरोगविज्ञानीयो नामैकविंशोऽध्यायः||२०||
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
इत्यनन्तरोक्तेन प्रकारेण वातकर्णरोग, पित्तकर्णरोग, कफकर्णरोग, रक्तकर्णरोग, सन्निपातकर्णरोग, कर्णनाद, बधिरत्व, प्रतीनाह, कण्डू, शोफ, पूतिकर्णक, क्रिमिकर्णक, उभयरूपविद्रध्यर्शोर्बुद, कूचिकर्णक, पिप्पली, विदारिका, पालीशोष, तन्त्रिका, परिपोटोत्पातोन्मन्थ, दुःखवर्धन, लिह्याख्याः पञ्चविंशतिकर्णरोगा उक्ताः||२५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे एकविंशोऽध्यायः