Skip to content

२२. मुख़रोगप्रतिषेधाध्यायः

Adhikarana मुखरोगप्रतिषेधाध्यायः||२२|| ओष्ठगतरोगाणां चिकित्सा| खण्डौष्ठे विलिख्य स्यूत्वा व्रणवत् (२-१) · Śloka

अथातो मुखरोगप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) खण्डौष्ठस्य विलिख्यान्तौ स्यूत्वा व्रणवदाचरेत्| |१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

प० च०-खाण्डौष्ठस्य-छिन्नौष्ठस्य स्निग्धस्विन्नस्य, ओष्ठप्रान्तौ विलिख्य सुष्लिष्टौ क्षौमसूत्रेण स्यूत्वा सद्योव्रणवदुपचारं कुर्यात्,-शतधौतघृताभ्यक्तां व्रणस्योपरि कवलिकां दद्यात्|

Adhikarana खण्डौष्ठे यष्ट्यादितैलेनाभ्यञ्जनम् खण्डौष्ठे वातघ्नादितैलेन नस्यम् (१-२) · Śloka

| यष्टिज्योतिष्मतीरोध्रश्रावणीसारिवोत्पलैः||१|| पटोल्या काकमाच्या च तैलमभ्यञ्जनं पचेत्| नस्यं च तैलं वातघ्नमधुरस्कन्धसाधितम्||२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

प० च०-मधुयष्ट्यादिभिः कल्कितैस्तैलमभ्यञ्जनं पचेत्| प० च०-वातहरमधुरौषधसाधितं तैलं नस्यं प्रयोज्यम्|

Adhikarana वातजे ओष्ठकोपे देवधूपादि महास्नेहेन पिचुर्योज्यः वातजे ओष्ठकोपे यष्टीचूर्णयुक्तमहास्नेहेन प्रतिसारणम् (३-४) · Śloka

महास्नेहेन वातौष्ठे सिद्धेनाक्तः पिचुर्हितः| देवधूपमधूच्छिष्टगुग्गुल्वमरदारुभिः||३|| यष्ट्याह्वचूर्णयुक्तेन तेनैव प्रतिसारणम्| |४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

प० च०-सर्जरससिक्थकगुग्गुलुदेवदारुभिः सिद्धेन महास्नेहेन-सर्पिर्मज्जवसातैलाख्येनाक्तः, पिचुर्वातौष्ठे-वातज ओष्ठकोपे, हितः| प० च०-तेनैव-महास्नेहेन, मधुयष्टीचूर्णयुक्तेन वातौष्ठे वा प्रतिसारणं हितम्|

Adhikarana वातजे ओष्ठकोपे एरण्डपल्लवैर्नाड्या स्वेदनम् वातजे ओष्ठकोपे खण्डौष्ठविहितं नस्यं शिरोभ्यङ्गश्च (४-५) · Śloka

| नाड्योष्ठं स्वेदयेद्दुग्धसिद्धैरेरण्डपल्लवैः||४|| खण्डौष्ठविहितं नस्यं तस्य मूर्ध्नि च तर्पणम्| |५|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

प० च०- ओष्ठं-वातौष्ठं, दुग्धसिद्धैरेरण्डपल्लवैर्नाड्या स्वेदयेत्| पं चं-खण्डौष्ठविहितं-खण्डौष्ठोक्तं, नस्यं प्रयोज्यम्| तथा तस्य मूर्ध्नि तर्पणं-शिरोभ्यङ्गः, कार्यः|

Adhikarana पित्तजे क्षतजे च जलौकाभीरक्तमोक्षणं पित्तजे क्षतजे च रोध्रादिभिःप्रतिसारणम् (५-६) · Śloka

| पित्ताभिघातजावोष्ठौ जलौकोभिरुपाचरेत्||५|| रोध्रसर्जरसक्षौद्रमधुकैः प्रतिसारणम्| |६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

प० च०-पित्तजमभिघातजमो(जं चौ)ष्ठकोपं जलौकोभिरुपाचरेत्-चिकित्सेत्ताभी रक्तं स्रावयेत्| प० च०-पित्तोत्थेऽभिघातजे चौष्ठकोपे रोध्रादिभिः प्रतिसारणं हितम्|

Adhikarana पित्तजे क्षतजे च गुडूच्यादिघृतेनाभ्यञ्जनम् पित्तजे क्षतजे च पित्तविद्रधिवत् क्रिया रक्तजे ओष्ठकोपे नवे इदमेव कर्म (६-७) · Śloka

| गुडूचीयष्टिपत्तङ्गसिद्धमभ्यञ्जने घृतम्||६|| पित्तविद्रधिवच्चात्र क्रिया शोणितजेऽपि च| इदमेव नवे कार्यं कर्म|७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

प० च०-गुडूच्यादिभिः कल्कितैर्घृतं सिद्धमभ्यञ्जने हितम्| प० च०-अत्र-[ए]तयोः पित्ताभिघातजयोः, पित्तविद्रधिवत् क्रिया-चिकित्सा, कार्या| पं चं-शोणितजे रक्तो(नवो)त्थे इदमेव-पित्तोक्तं, कर्मकार्यम्|

Adhikarana कफजे ओष्ठकोपे ह्रतास्रे पाठादिप्रतिसारणम् कफजे कफघ्ना धूमनावनगण्डूषाः (७-८) · Śloka

| ओष्ठे तु कफातुरे||७|| पाठाक्षारमधुव्योषैर्हृतास्रे प्रतिसारणम्| धूमनावनगण्डूषाः प्रयोज्याश्च कफच्छिदः||८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफातुर ओष्ठे हृतास्रे-हृतरक्ते, पाठादिभिः प्रतिसारणं हितम्| तथा धूमादयः कफघ्ना हिताः|

Adhikarana मेदोजे कफघ्ना स्विन्नादिकृत्वाऽग्निना दहेत् मेदोजे कफघ्ना प्रियङ्ग्वादिना प्रतिसारणम् जलार्बुदे भिन्नशुद्धे तीक्ष्णा घर्षणम् जलार्बुदे अवगाढेऽतिवृद्धे वा क्षारोऽग्निर्वा (९-११) · Śloka ११

स्विन्नं भिन्नं विमेदस्कं दहेन्मेदोजमग्निना| प्रियङ्गुरोध्रत्रिफलामाक्षिकैः प्रतिसारयेत्||९|| सक्षौद्रा घर्षणं तीक्ष्णा भिन्नशुद्धे जलार्बुदे| अवगाढेऽतिवृद्धे वा क्षारोऽग्निर्वा प्रतिक्रिया||१०|| आमाद्यवस्थास्वलजीं गण्डे शोफवदाचरेत्| |११|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मेदोजमोष्ठं स्विन्नं भिन्नं-विदारितं, विगतमेदसं सन्तमग्निना दहेत्| प्रियङ्ग्वादिभिः प्रतिसारयेत्| स०-तीक्ष्णाः-पिप्पलीमरिचादयः, समाक्षिका भिन्नशुद्धे जलार्बुदे घर्षणम्| अवगाढेऽतिवृद्धे जलार्बुदे क्षारोऽग्निरथवा चिकित्सितम्|

Adhikarana (सन्निपातरक्तमांसजौष्ठकोपार्बुदानामसाध्यत्वाच्चिकित्सा नोक्ता) गण्डगतरोगस्य चिकित्सा| गण्डालज्यां शोफवत् दन्तगतरोगाणां चिकित्सा| शीतदन्ते तैलेन पालीदहनम् शीतदन्ते दाडिमत्वगादिभिः प्रतिसारणम् शीतदन्ते क्षीरिक्वाथैः कवलः शीतदन्ते अणुतैलेन नस्यम् (११-१४) · Śloka १४

आमाद्यवस्थास्वलजीं गण्डे शोफवदाचरेत्| स्विन्नस्य शीतदन्तस्य पालीं विलिखितां दहेत्||११|| तैलेन, प्रतिसार्या च सक्षौद्रघनसैन्धवैः| दाडिमत्वग्वरातार्क्ष्यकान्ताजम्ब्वस्थिनागरैः||१२|| कवलः क्षीरिणां क्वाथैरणुतैलं च नावनम्| दन्तहर्षे तथा भेदे सर्वा वातहरा क्रिया||१३|| तिलयष्टीमधुशृतं क्षीरं गण्डूषधारणम्| |१४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आमाद्यवस्थास्वलजीं गण्डे शोफवदुपक्रमेत्| स०-शीतदन्तस्य स्विन्नस्य पालीं विलिखितां तैलेन दहेत्| दाडिमत्वगादिभिः क्षौद्रादियुतैः प्रतिसार्या च| क्षीरिणां क्वाथैः कवलो हितः| नस्यमणुतैलं हितम्| स०-दन्तभेदे हर्षे च सर्वा वातघ्नी क्रिया शस्ता| तिलयष्टीमधुशृतं क्षीरं गण्डूषधारणम्|

Adhikarana प्रचलद्विजे दशमूलाम्बु गण्डूषः प्रचलद्विजे तुत्थादिभिर्घर्षणम् प्रचलद्विजे स्निग्धा नस्यादयः (१४-१५) · Śloka १५

| सस्नेहं दशमूलाम्बु गण्डूषः प्रचलद्विजे||१४|| तुत्थरोध्रकणाश्रेष्ठापत्तङ्गपटुघर्षणम्| स्निग्धाः शील्या यथावस्थं नस्यान्नकवलादयः||१५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्रचलद्विजे दशमूलाम्बु सस्नेहं गण्डूषः| तुत्थादिभिर्घर्षणम्| स्निग्धा नस्यादयोऽवस्थावशादभ्यसनीयाः|

Adhikarana अधिदन्ते कृमिदन्तवच्चिकित्सा अधिदन्ते अनवस्थितरक्ते दग्धव्रणवत् (१६-१७) · Śloka १७

अधिदन्तकमालिप्तं यदा क्षारेण जर्जरम्| कृमिदन्तमिवोत्पाट्य तद्वच्चोपचरेत्तदा||१६|| अनवस्थितरक्ते च दग्धे व्रण इव क्रिया| |१७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अधिदन्तकं क्षारेणालिप्तं यदा जर्जरं स्यात्, तदा कृमिदन्तं यथोत्पाट्य तथैवोपक्रमेत्| अनवस्थितरक्ते च दग्धेव्रण इव चिकित्सा कार्या|

Adhikarana शर्करायां विलेखनम् शर्करायां ततः क्षारचूर्णैः प्रतिसारणम् कपालिकायां दन्तहर्षोक्ता क्रिया (१७-१८) · Śloka १८

| अहिंसन् दन्तमूलानि दन्तेभ्यः शर्करां हरेत्||१७|| क्षारचूर्णैर्मधुयुतैस्ततश्च प्रतिसारयेत्| कपालिकायामप्येवं हर्षोक्तं च समाचरेत्||१८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दन्तेभ्यः शर्करां हरेत्, दन्तमूलान्यहिंसन्-अपीडयन् रक्षन्| ततः-अनन्तरं, शर्करां विलिख्य क्षारचूर्णैर्मधुयुतैः प्रतिसारयेत्| स०-कपालिकायामप्येवं-एष एवोपक्रमः कार्यः| दन्तहर्षोक्तं च समाचरेत्|

Adhikarana कृमिदन्ते स्वेदो रक्तविस्रावणं च कृमिदन्ते वातघ्नाः स्निग्धा लेपादयः कृमिदन्ते गुडेन मदेनन वा दाहः कृमिदन्ते सप्तच्छदार्कक्षीराभ्यां पूरणम् (१९-२०) · Śloka २०

जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम्| स्निग्धैश्चालेपगण्डूषनस्याहारैश्चलापहैः||१९|| गुडेन पूर्णं सुषिरं मधूच्छिष्टेन वा दहेत्| सप्तच्छदार्कक्षीराभ्यां पूरणं कृमिशूलजित्||२०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कृमिदनतकं स्विन्नमचलं विस्रावर्णैर्विस्रावयेत्(जयेत्)| तथा स्निग्धैर्वातघ्नैरालेपादिभिः| गुडेन पूर्णं सुषिरं मदनेन दहेद्वा| सप्तपर्णार्कक्षीराभ्यां पूरणं हितम्| तत् कृमिशूलजित्|

Adhikarana कृमिदन्ते हिङ्ग्वादिचूर्णपोटली दशने धृता रुजाहृत् कृमिदन्ते हिंग्वादिसिद्धतैलेन गण्डूषः कृमिदन्ते एरण्डादिक्वाथयुक्तेन तैलेन गण्डूषः (२१-२२) · Śloka २२

हिङ्गुकट्फलकासीसस्वर्जिकाकुष्ठवेल्लजम्| रजो रुजं जयत्याशु वस्त्रस्थं दशने धृतम्||२१|| गण्डूषं ग्राहयेत्तैलमेभिरेव च साधितम्| क्वाऱ्थैर्वा युक्तमेरण्डद्विव्याघ्रीभूकदम्बजैः||२२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हिङ्ग्वादिकं चूर्णं वसनस्थितं दन्ते धृतं रुजाहृत्| स०-एभिरेव-हिङ्ग्वादिभिः, क्वाथयुक्तं सिद्धं तैलं गण्डूषं रोगिणं ग्राहयेत्| एरण्डादिजैः क्वाथैर्युक्तं तैलं गण्डूषं धारयेद्वा|

Adhikarana कृमिदन्ते एवमप्यशान्तरुजस्य दन्तस्योद्दरणम् कृमिदन्ते ततः सयष्टितैलेन मधुना वा गण्डूषः (२३-२४) · Śloka २४

क्रियायोगैर्बहुविधैरित्यशान्तरुजं भृशम्| दृढमप्युद्धरेद्दन्तं पूर्वं मूलाद्विमोक्षितम्||२३|| सन्दंशकेन लघुना दन्तनिर्घातनेन वा| तैलं सयष्ट्याह्वरजो गण्डूषो मधु वा ततः||२४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-इति-एवमादिभिः, क्रियायोगैर्बहुप्रकारैः कृतैरप्युपक्रमैरशान्तपीडं दन्तं सुदृढमपि पूर्वं मूलाद्विमोक्षितं लघुना सन्दंशकेन दन्तनिर्घातनेन यन्त्रेण वोद्धरेत्| अनन्तरं तैलं मधुयष्टीचूर्णयुतं गण्डूषं धारयेत्| माक्षिकं वा मधुयष्टीचूर्णयुतम्|

Adhikarana कृमिदन्ते ततो विदार्यादितैलेन नस्यम् कृमिदन्ते कृशादीनां दन्तं नोद्धरेत् कृमिदन्ते एषामप्युद्धृतौ स्निग्धादिक्रमः (करालश्यावयोरसाध्यत्वाच्चिकित्सा नोक्ता) (२५-२७) · Śloka २७

ततो विदारियष्ट्याह्वशृङ्गाटककसेरुभिः| तैलं दशगुणक्षीरं सिद्धं युञ्जीत नावनम्||२५|| कृशदुर्बलवृद्धानां वातार्तानां च नोद्धरेत्| नोद्धरेच्चोत्तरं दन्तं बहूपद्रवकृद्धि सः||२६|| एषामप्युद्धृतौ स्निग्धस्वादुशीतक्रमो हितः| |२७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ततो विदार्यादिभिर्दशगुणक्षीरं तैलं पक्वं नस्यं युञ्जीत| स०-कृशादीनां दन्तं नोद्धरेत्| उत्तरं च दन्तं नोद्धरेत्| यस्मात्स उद्धृतो बहूपद्रवकरः| एषामपि दन्तैरुद्धृतैः(दन्तोद्धृतौ) स्निग्धस्वादुशीतक्रमो हितः|

Adhikarana दन्तमूलगतरोगाणां चिकित्सा| शीतादे रक्तस्रावो मुस्तादिभिः प्रतिसारणं च शीतादे मुस्तादिक्वाथेन कवलः शीतादे मधुरसाधिततैलेन नस्यम् (२७-२८) · Śloka २८

| विस्रावितास्रे शीतादे सक्षौद्रैः प्रतिसारणम्||२७|| मुस्तार्जुनत्वक्त्रिफलाफलिनीताऱ्र्क्ष्यनागरैः| तत्क्वाथः कवलो, नस्यं तैलं मधुरसाधितम्||२८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विस्रावितरक्ते शीतादे मुस्तादिभिः सक्षौद्रैः प्रतिसारणं हितम्| तेषां-मुस्तादीनां, क्वाथः कवलः| मधुरैः साधितं तैलं नस्यम्|

Adhikarana उपकुशे उष्णाम्बुस्विन्नदन्तमांसानां मण्डलाग्रादिना लेखनम् उपकुशे ततो लाक्षादिभिः प्रतिसारणम् उपकुशे ततो घृतमण्डादिना कवलग्रहः उपकुशे मधुरसिद्धघृतेन कवलो नस्यं च (२९-३२) · Śloka ३२

दन्तमांसान्युपकुशे स्विन्नान्युष्णाम्बुधारणैः| मण्डलाग्रेण शाकादिपत्रैर्वा बहुशो लिखेत्||२९|| ततश्च प्रतिसार्याणि घृतमण्डमधुद्रुतैः| लाक्षाप्रियङ्गुपत्तङ्गलवणोत्तमगैरिकैः||३०|| सकुष्ठशुण्ठीमरिचयष्टीमधुरसाञ्जनैः| सुखोष्णो घृतमण्डो तैलं वा कवलग्रहः||३१|| घृतं च मधुरैः सिद्धं हितं कवलनस्ययोः| |३२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-उपकुशे दन्तमासानि स्विन्नान्युष्णाम्बुगण्डूषधारणेन| ततो मण्डलाग्रेण शाकादिपत्रैर्वा बहुशो लिखेत्| ततो लाक्षादिभिर्घृतमण्डमधुद्रुतैः प्रतिसारणीयानि| अनन्तरं सुखोष्णो घृतमण्डस्तैलं वा कवलग्रहः| मधुरैश्च पक्वं घृतं कवलनस्ययोर्हितम्|

Adhikarana दन्तपुप्पुटके स्विन्नच्छिन्नादिकृते यष्ट्यादिभिः प्रतिसारणम् (३२-३३) · Śloka ३३

| दन्तपुप्पुटके स्विन्नछिन्नभिन्नविलेखिते||३२|| यष्ट्याह्वस्वर्जिकाशुण्ठीसैन्धवैः प्रतिसारणम्| |३३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दन्तपुप्पुटके स्विन्नछिन्नभिन्नविलिखिते यष्ट्यादिभिः प्रतिसारणम्|

Adhikarana दन्तविद्रधौ कट्वादिभिः कवललेपनम् दन्तविद्रधौ कटुकादिभिर्घर्षणम् दन्तविद्रधौ हिमैः पाकं रक्षेत् दन्तविद्रधौ पक्वः पाट्यः, अवगाढको दाह्यः (३३-३४) · Śloka ३४

| विद्रधौ कटुतीक्ष्णोष्णरूक्षैः कवललेपनम्||३३|| घर्षणं कटुकाकुष्ठवृश्चिकालीयवोद्भवैः| रक्षेत्पाकं हिमैः पक्वः पाट्यो दाह्योऽवगाढकः||३४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विद्रधौ कट्वादिभिः कवललेपनं हितम्| कटुकादिभिर्घर्षणं हितम्| हिमैः-शीतलैः, पाकं रक्षेत्| पक्वः पाटनीयः| दाह्योऽवगाढः|

Adhikarana सुषिरे छिन्नलिखिते रोध्रादिभिः प्रतिसारणम् सुषिरे छिन्नलिखिते रोध्रादिक्वाथैर्गण्डूषः सुषिरे छिन्नलिखिते यष्ट्यादितैलेन नावनम् (३५-३७) · Śloka ३७

सुषिरे छिन्नलिखिते सक्षौद्रैः प्रतिसारणम्| रोध्रमुस्तमिशिश्रेष्ठातार्क्ष्यपत्तङ्गकिंशुकैः||३५|| सकट्फलैः, कषायैश्च तेषां गण्डूष इष्यते| यष्टीरोध्रोत्पलानन्तासारिवागुरुचन्दनैः||३६|| सगैरिकसितापुण्ड्रैः सिद्धं तैलं च नावनम्| |३७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सौषिरे छिन्ने लिखिते च रोध्रादिभिर्माध्वीकयुतैः प्रतिसारणम्| तैरेव कषायैर्गण्डूषश्च स्यात्| यष्ट्यादिभिः पक्वं तैलं नावनम्|

Adhikarana अधिमांसके छेदनं वचादिचूर्णैः प्रतिसारणं च अधिमांसके पटोलादिक्वाथेन कवलः (३७-३८) · Śloka ३८

| छित्त्वाऽधिमांसकं चूर्णैः सक्षौद्रैः प्रतिसारयेत्||३७|| वचातेजोवतीपाठास्वर्जिकायवशूकजैः| पटोलनिम्बत्रिफलाकषायः कवलो हितः||३८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अधिमांसकं छित्त्वा वचादिजैश्चूर्णैः सक्षौद्रैः प्रतिसारयेत्| पटोलादिक्वाथः कवलो हितः|

Adhikarana विदर्भे दन्तमूलानां छेदनम् विदर्भे ततः क्षारनस्यादि (३९) · Śloka ३९

विदर्भे दन्तमूलानि मण्डलाग्रेण शोधयेत्| क्षारं युञ्ज्यात्ततो नस्यं गण्डूषादि च शीतलम्||३९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विदर्भे दन्तमूलानि मण्डलाग्रेण शोधयेत्| क्षारं युञ्जीत| ततो नस्यम्| गण्डूषादि च शीतलम्|

Adhikarana दन्तनाड्यां कायशिरोविरेकः दन्तनाड्यां ततो दन्तोद्धरणमग्न्यादिना दाहः दन्तनाड्यां जात्यादिक्वाथेन धावनम् दन्तनाड्यां क्षीरिवृक्षाम्बुन्ना गण्डूषः दन्तनाड्यां क्षीरिवृक्षसिद्धतैलेन नस्यम् (महासुषिरस्यासाध्यत्वाच्चिकित्सा नोक्ता) (४०-४२) · Śloka ४२

संशोध्योभयतः कायं शिरश्चोपचरेत्ततः| नाडीं दन्तानुगां दन्तं समुद्धृत्याग्निना दहेत्||४०|| कुब्जां नैकगतिं पूर्णां गुडेन मदनेन वा| धावनं जातिमदनखदिरस्वादुकण्टकैः||४१|| क्षीरिवृक्षाम्बुगण्डूषो, नस्यं तैलं च तत्कृतम्| |४२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-उभयतः-ऊर्ध्वमधश्च, कायं मूर्धानं च, विरेकेण नस्यादिना च संशोध्य ततो नाडीं दन्तानुगामुपचरेत्| दन्तं समुद्धृत्याग्निना दहेत्| कुब्जां नैकगतिं पूर्णां गुडेन मदनेन समुद्धृत्याग्निना दहेत्| कुब्जां नैकगतिं पूर्णां गुडेन मदनेन वा दहेत्| जात्यादिभिर्धावनं हितम्| क्षीरवृक्षाम्बुगण्डूषः| तत्पक्वं च तैलं नस्यम्|

Adhikarana जिह्वागतरोगाणां चिकित्सा| वातजिह्वायां वातौष्ठकोपोक्तो विधिः पित्तजिह्वायां घर्षणेन स्रुते रुधिरे मधुरैः प्रतिसारणादि जिह्वालसे नवे एषः एवोपक्रमः जिह्वालसे किन्तु शस्त्रेणैनं न स्पृशेत् (४२-४४) · Śloka ४४

| कुर्याद्वातौष्ठकोपोक्तं कण्टकेष्वनिलात्मसु||४२|| जिह्वायां पित्तजातेषु घृष्टेषु रुधिरे स्रुते| प्रतिसारणगण्डूषनावनं मधुरैर्हितम्||४३|| तीक्ष्णैः कफोत्थेष्वेवं च सर्षपत्र्यूषणादिभिः| नवे जिह्वालसेऽप्येवं, तं तु शस्त्रेण न स्पृशेत्||४४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-जिह्वायां वातोत्थेषु कण्टकेषु वातौष्ठकोपोक्तं चिकित्सितं कुर्यात्| स०-जिह्वायां पित्तजातेषु कण्टकेषु घृष्टेषु रुधिरे स्रुते प्रतिसारणादि मधुरैर्हितम्| सं-कफोत्थेष्वप्येवं तीक्ष्णैः सर्षपादिभिः प्रतिसारणादि हितम्| स०-नवे च जिह्वालसे एष एवोपक्रमः| किं तु शस्त्रेणैनं न स्पृशेत्| एतत् युक्त्या च पूर्वेषां शस्त्रस्पर्शनं कार्यमित्यनुजज्ञे|

Adhikarana अधिजिह्विकायां आकृष्टजिह्वाच्छेदनम् अधिजिह्विकायां तीक्ष्णोष्णैर्घषणादि (४५) · Śloka ४५

उन्नम्य जिह्वामाकृष्टां बडिशेनाधिजिह्विकाम्| छेदयेन्मण्डलाग्रेण तीक्ष्णोष्णैर्घर्षणादि च||४५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अधिजिह्विकां बडिशेनाकृष्टां मण्डलाग्रेण छेदयेत्| किं कृत्वा ? उन्नम्य जिह्वाम्| तीक्ष्णोष्णैर्घर्षणादि च कार्यम्|

Adhikarana उपजिह्वायां रक्तस्रावो यवक्षारेण घर्षणं च तालुरोगाणां चिकित्सा| शुण्डिकायां कफघ्ना नस्यादयः (४६) · Śloka ४६

उपजिह्वां परिस्राव्य यवक्षारेण घर्षयेत्| कफघ्नैः शुण्डिका साध्या नस्यगण्डूषघर्षणैः||४६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-उपजिह्वां शस्त्रेण परिस्राव्य यवक्षारेण घर्षयेत्| स०-शुण्डिका कफघ्नैर्नस्यादिभिः साधनीया|

Adhikarana शुण्डिकायां वृद्धायां जिह्वाग्रच्छेदनम् शुण्डिकायां अतिच्छेदे मृत्युः शुण्डिकायां हीनच्छेदे व्याधिवृद्धिः (४७-४८) · Śloka ४८

एर्वारुबीजप्रतिमं वृद्धायामसिराततम्| अग्रं निविष्टं जिह्वाया बडिशाद्यवलम्बितम्||४७|| छेदयेन्मण्डलाग्रेण नात्यग्रे न च मूलतः| छेदेऽत्यसृक्क्षयान्मृत्युर्हीने व्याधिर्विवर्द्धते||४८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वृद्धयां शुण्डिकायां सत्यां जिह्वाया अग्रे(ग्रं) निविष्टं कृष्णदीर्घकर्कटिकाबीजसदृशं बडिशादिनाऽवलम्बितं मण्डलाग्रेण छेदयेत्| कथम् ? नातिशयेन प्रान्ते न चातिशयेन मूले| यतोऽतिच्छेदे सत्यसृक्क्षयान्मृत्युः| हीनच्छिन्ने सति व्याधिर्विवर्द्धते|

Adhikarana शुण्डिकायां छिन्नायां मरिचादिभिर्घर्षणम् शुण्डिकायां छिन्नायां कटुकादिक्वाथेन कवलः (४९-५०) · Śloka ५०

मरिचातिविषापाठावचाकुष्ठकुटन्नटैः| छिन्नायां सपटुक्षौद्रैर्घर्षणं, कवलः पुनः||४९|| कटुकातिविषापाठानिम्बरास्नावचाम्बुभिः| |५०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-छिन्नायां मरिचादिभिः ससैन्धवैः क्षौद्रैर्घर्षणम्| कवलः कटुकादिक्वाथेन|

Adhikarana तालुसंहतौ विलिख्य एवं समाचरेत् पुप्पुटके विलिख्य एवं समाचरेत् कच्छपे च विलिख्य एवं समाचरेत् (५०) · Śloka ५०

| सङ्घाते पुप्पुटे कूर्मे विलिख्यैवं समाचरेत्||५०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-[तालु]संहतौ पुप्पुटके कच्छपे[च] विलिख्यैवं-अनेन क्रमेण, समाचरेत्|

Adhikarana तालुपाके अपक्वे कासीसादिभिर्घर्षणम् तालुपाके अपक्वे शीताद्यौषधैः कवलः (५१) · Śloka ५१

अपक्वे तालुपाके तु कासीसक्षौद्रतार्क्ष्यजैः| घर्षणं, कवलः शीतकषायमधुरौषधैः||५१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अपक्वे तु तालुपाके कासीसादिभिर्घर्षणम्| शीतकषायमधुरौषधैः कवलः|

Adhikarana तालुपाके पक्वे तीक्ष्णोष्णैः प्रतिसारणम् तालुपाके पक्वे वृषादिभिस्तिक्तैः कवलः (५२) · Śloka ५२

पक्वेऽष्टापदवद्भिन्ने तीक्ष्णोष्णैः प्रतिसारणम्| वृषनिम्बपटोलाद्यैस्तिक्तैः कवलधारणम्||५२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पक्वेऽष्टापदवद्भिन्ने सति तीक्ष्णोष्णैः प्रतिसारणं कार्यम्| अष्टापदं-चतुरङ्गपीठम्| वृषादिभिस्तिक्तद्रव्यैः कवलधारणम्|

Adhikarana तालुशोषेऽतृष्णस्योत्तरभक्तिकं सर्पिः तालुशोषे कणाशुण्ठीशृतं जलपानम् तालुशोषे अम्लैर्गण्डूषधारणम् तालुशोषे स्निग्धा धन्वमांसरसाः तालुशोषे क्षीरसर्पिषा नावनम् (तालुपिटिकार्बुदयोरसाध्यत्वाच्चिकित्सा नोक्ता) (५३-५४) · Śloka ५४

तालुशोषे त्वतृष्णस्य सर्पिरुत्तरभक्तिकम्| कणाशुण्ठीशृतं पानमम्लैर्गण्डूषधारणम्||५३|| धन्वमांसरसाः स्निग्धाः, क्षीरसर्पिश्च नावनम्| |५४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तालुशोषे त्वतृष्णस्य सतः सर्पिरुत्तरभक्तिकं योज्यम्| पिप्पलीशुण्ठीभ्यां शृतं जलपानम्| अम्लैः-काञ्जिकादिभिः, गण्डूषधारणम्| धन्वमांसरसाः स्निग्धाः| तथाक्षीरस्य सर्पिश्च नावनं हितम्|

Adhikarana गलरोगाणां चिकित्सा| कण्ठरोगेषु सर्वेषु रक्तमोक्षः कण्ठरोगेषु तीक्ष्णैर्नस्यादिकर्म कण्ठरोगेषु दार्वीत्वगादिक्वाथस्य पानम् कण्ठरोगेषु हरीतकीक्वाथस्य पानम् (५४-५५) · Śloka ५५

कण्ठरोगेष्वसृङ्मोक्षस्तीक्ष्णैर्नस्यादि कर्म च||५४|| क्वाथः पानं च दार्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजः| हरीतकीकषायो वा पेयो माक्षिकसंयुतः| ||५५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कण्ठरोगेषु सर्वेषु सिरादिभी रक्तमोक्षः| तीक्ष्णैर्द्रव्यैर्नस्यगण्डूषादि च| दाऱ्वीत्वगादीनां क्वाथः पातव्यः| हरीतक्या वा क्वाथः समाक्षिकः पेयः|

Adhikarana कण्ठरोगेषु श्रेष्ठादिभिः कवलः कण्ठरोगेषु श्रेष्ठादिगुटिकया प्रतिसारणम् (५६-५७) · Śloka ५७

श्रेष्ठाव्योषयवक्षारदार्वीद्वीपिरसाञ्जनैः| सपाठातेजिनीनिम्बैः सुक्तगोमूत्रसाधितैः|५६| कवलो, गुटिका वाऽत्र कल्पिता प्रतिसारणम्| |५७|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-श्रेष्ठादिभिः सुक्तगोमूत्रसाधितैः कवलः| गुटिका वाऽत्र-अस्मिन् क्वाथे, परिकल्पिता प्रतिसारणम्|

Adhikarana कण्ठरोगेषु श्रेष्ठादिभिः कवलः कण्ठरोगेषु श्रेष्ठादिगुटिकया प्रतिसारणम् (५६-५७) · Śloka ५७

श्रेष्ठाव्योषयवक्षारदार्वीद्वीपिरसाञ्जनैः| सपाठातेजिनीनिम्बैः सुक्तगोमूत्रसाधितैः||५६|| कवलो, गुटिका वाऽत्र कल्पिता प्रतिसारणम्| ||५७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-श्रेष्ठादिभिः सुक्तगोमूत्रसाधितैः कवलः| गुटिका वाऽत्र-अस्मिन् क्वाथे, परिकल्पिता प्रतिसारणम्|

Adhikarana वातरोहिणिकायां लेखनम् वातरोहिणिकायां पञ्चमूलक्वाथेन कवलस्तैलं गण्डूषो नस्यं च (५८-५९) · Śloka ५९

अथान्तर्बाह्यतः स्विन्नां वातरोहिणिकां लिखेत्||५८|| अङ्गुलीशस्त्रकेणाशु पटुयुक्तनखेन वा| पञ्चमूलाम्बु कवलस्तैलं गण्डूषनावनम्||५९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अथेति मङ्गले| मङ्गलपुर्वकं वातजां रोहिणिकामन्तर्बाह्यतश्च स्विन्नामङ्गुलिशस्त्रकेणाथवा पटुयुक्तेन नखेन शीघ्रमेव लिखेत्| पञ्चमूलक्वाथः कवलः| तैलं गण्डूषो नस्यं च|

Adhikarana पित्तरोहिण्यां विस्राव्य सितादिभिर्घर्षयेत् पित्तरोहिण्यां सितादिक्वाथेन कवलः पित्तरोहिण्यां द्राक्षादिक्वाथेन कवलः (६०-६१) · Śloka ६१

विस्राव्य पित्तसम्भूतां सिताक्षौद्रप्रियङ्गुभिः| घर्षेत्सरोध्रपत्तङ्गैः कवलः क्वथितैश्च तैः||६०|| द्राक्षापरूषकक्वाथो हितश्च कवलग्रहे| |६१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तजां रोहिणीं विस्राव्य-रक्तं निर्हृत्य, सितादिभिर्घर्षयेत्| तैश्च-सितादिभिः, क्वथितैः सरोध्रादिभिः कवलः| द्राक्षापरूषकयोः क्वाथः[च] कवलो हितः|

Adhikarana रक्तरोहिण्यां प्रत्याख्याय पित्तजायामिवोपक्रमः कफरोहिण्यां कटुकैः प्रतिसारणम् कफरोहिण्यां अपामार्गफलादितैलेन नस्यगण्डूषौ (६१-६३) · Śloka ६३

| उपाचरेदेवमेव प्रत्याख्यायास्रसम्भवाम्||६१|| सागारधूमैः कटुकैः कफजां प्रतिसारयेत्| नस्यगण्डूषयोस्तैलं साधितं च प्रशस्यते||६२|| अपामार्गफलश्वेतादन्तीजन्तुघ्नसैन्धवैः| |६३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-रक्तजां रोहिणिकां प्रत्याख्याय पित्तजामिवोपक्रमेत्| स०-कटुकैः-कटुवर्गोक्तैः, सागारधूमैः कफोत्थां प्रतिसारयेत्| अपामार्गादिभिः कल्कितैः साधितं तैलं कफरोहिण्यां नस्यगण्डूषयोः श्रेष्ठम्|

Adhikarana वृन्दे कफरोहिणीवच्चिकित्सा शालूके कफरोहिणीवच्चिकित्सा तुण्डिकेर्यां कफरोहिणीवच्चिकित्सा गिलायौ च कफरोहिणीवच्चिकित्सा गलविद्रधौ स्रावितौ श्रेष्ठादिभिर्गण्डूषघर्षणे (६३-६४) · Śloka ६४

| तद्वच्च वृन्दशालूकतुण्डिकेरीगिलायुषु||६३|| विद्रधौ स्राविते श्रेष्ठारोचनातार्क्ष्यगैरिकैः| सरोध्रपटुपत्तङ्गकणैर्गण्डूषघर्षणे||६४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-एषैव चिकित्सा वृन्दादिषु| स०-विद्रधौ शस्त्रेण स्राविते श्रेष्ठादिभिर्गण्डूषादि हितम्|

Adhikarana वातजे गलगण्डे स्वेदो रक्तस्रावो तिलादिभिरुपनाहश्च वातजे गलगण्डे रूढे व्रणे शिग्र्वादिभिः प्रलेपः वातजे गलगण्डे गुडूच्यादितैलस्य पानम् कफजे गलगण्डेऽप्येतच्चिकित्सा (६५-६८) · Śloka ६८

गलगण्डः पवनजः स्विन्नो निःस्रुतशोणितः| तिलैर्बीजैश्च लट्वोमाप्रियालशणसम्भवैः||६५|| उपनाह्यो, व्रणे रूढे प्रलेप्यश्च पुनःपुनः| शिग्रुतिल्वकतर्कारीगजकृष्णापुनर्नवैः||६६|| कालामृतार्कमूलैश्च पुष्पैश्च करहाटजैः| एकैषिकान्वितैः पिष्टैः सुरया काञ्जिकेन वा||६७|| गुडूचीनिम्बकुटजहंसपादीबलाद्वयैः| साधितं पाययेत्तैलं सकृष्णादेवदारुभिः||६८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गलगण्डो वातोद्भवः स्विन्नो निःस्रुतास्रस्तिलैर्लट्वादिबीजैश्च उपनाह्यः| रुढे व्रणे सति प्रलेप्यश्च बहुशः शिग्र्वादिभिः सुरया काञ्जिकेन वा पिष्टैः| एकैषिका-त्रिवृत्| गुडूच्यादिभिः सकृष्णादेवदारुभिः कल्कितैर्गलण्डिनमातुरं पक्वं तैलं पाययेत्|

Adhikarana कफजे गलगण्डे अतिशयेन स्वेदविम्लापने कफजे गलगण्डे अजगन्धादिभिर्लेपः (६९-७०) · Śloka ७०

कर्तव्यं कफजेऽप्येतत्स्वेदविम्लापने त्वति| लेपोऽजगन्धातिविषाविशल्याः सविषाणिकाः||६९|| गुञ्जालाबुशुकाह्वाश्च पलाशक्षारकल्किताः| |७०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कफोत्थेऽप्येतत्-वातगलगण्डोक्तं चिकित्सितं, कार्यम्| किन्तु स्वेदविम्लापने चात्यर्थं कार्ये| स०-कफजे गलगण्डेऽजगन्धादयः पलाशक्षारनिश्चोतकल्किताः लेपः|

Adhikarana कफजे गलगण्डे हठक्षारस्य पानम् वत्सकादितैलस्य पानम् कफजे गलगण्डे कफघ्ना धूमादयः (७०-७१) · Śloka ७१

| मूत्रस्रुतं हठक्षारं पक्त्वा कोद्रवभुक् पिबेत्||७०|| साधितं वत्सकाद्यैर्वा तैलं सपटुपञ्चकैः| कफघ्नान् धूमवमननावनादींश्च शीलयेत्||७१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-हठो-मिम्मिणिः, तस्य क्षारं गोमूत्रे स्रुतं पक्त्वा क्षारन्यायेन पिबेज्जलेन, 'पेषणालोडने वारि' (हृ.क.अ. ६/२३) इति वचनात्| किम्भूतः सन् ? कोद्रवभुक्| वत्सकादिभिर्वा (हृ.सू.अ. १५/३३) तैलं साधितं हितम्| कफघ्नान् धूमादीन् शीलयेत्|

Adhikarana मेदोजे गलगण्डे सिराव्यधः मेदोजे कफघ्नो विधिः मेदोजे असनादिचूर्णस्य पानम् मेदोजे अशान्तौ पाचयित्वा व्रणवदाचरः (रक्तरोहिणीसन्निपातरोहिणीगलौघवलयशतघ्नीगलार्बुदस्वरघ्नानामसाध्यत्वाच्चिकित्सा नोक्ता) (७२-७३) · Śloka ७३

मेदोभवे सिरां विध्येत्कफघ्नं च विधिं भजेत्| असनादिरजश्चैनं प्रातर्मूत्रेण पाययेत्||७२|| अशान्तौ पाचयित्वा च सर्वान् व्रणवदाचरेत्| |७३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मेदोभवे गलगण्डे सिरां विध्येत्| कफघ्नं च विधिं सेवेत| असनादिचूर्णं (हृ.सू.अ.१५/१९) चैनं प्रातर्गोमूत्रेण पाययेत्| सं-अशान्तौ सत्यां पाचयित्वा सर्वान् व्रणवदुपक्रमेत्|

Adhikarana सर्ववक्त्रगरोगाणां चिकित्सा| मुखपाकेषु त्रिफलादिक्वाथेन मुखधावनम् मुखपाकेषु त्रिफलादीन् कुठेरादिं वा भक्षयित्वा निष्ठीवनम् (७३-७४) · Śloka ७४

| मुखपाकेषु सक्षौद्रा प्रयोज्या मुखधावनाः||७३|| क्वथितास्त्रिफलापाठामृद्वीकाजातिपल्लवाः| निष्ठेव्या भक्षयित्वा वा कुठेरादिर्गणोऽथवा||७४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मुखपाकेषु समाक्षिका मुखधावनाः क्वथितास्त्रिफलादयः प्रयोज्याः| अथवा त्रिफलादीन् भक्षयित्वा निष्ठेव्याःभुक्त्वा निष्ठीवेत्| कुठेरादिर्गणो वा-हरीतकवर्गोक्तो (हृ.सू.अ.६/१०६), भक्षयित्वा निष्ठेव्यः|

Adhikarana वातजे मुखपाके कृष्णादिभिः प्रतिसारणम् वातजे वातहरसिद्धतैलेन कवलनस्ये (७५) · Śloka ७५

मुखपाकेऽनिलात् कृष्णापट्वेलाः प्रतिसारणम्| तैलं वातहरैः सिद्धं हितं कवलनस्ययोः||७५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मुखपाकेऽनिलात् कृष्णादयः प्रतिसारणम्| वातघ्नैः सिद्धं तैलं कवले नस्ये च हितम्|

Adhikarana पित्तजे मुखपाके पित्तरक्तघ्नो विधिः रक्तजे च मुखपाके पित्तरक्तघ्नो विधिः कफजे मुखपाके कफघ्नो विधिः कफजे पिटिकानां शाकादिपत्रैर्लेखनम् (७६) · Śloka ७६

पित्तास्रे पित्तरक्तघ्नः कफघ्नश्च कफे विधिः| लिखेच्छाकादिपत्रैश्च पिटिकाः कठिनाः स्थिराः||७६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पित्तास्रे पित्तरक्तघ्नो विधिः| सं-कफे च कफहृत् विधिः| पिटिकाः कठिनाः स्थिराः शाकादिपत्रैर्लिखेत्|

Adhikarana सन्निपातजे यथादोषोदयं चिकित्सा अर्बुदे नवे असंवृद्धे छेदनं स्वर्जिकादिभिः प्रतिसारणम् (७७-७८) · Śloka ७८

यथादोषोदयं कुर्यात्सन्निपाते चिकित्सितम्| नवेऽर्बुदे त्वसंवृद्धे छेदिते प्रतिसारणम्||७७|| स्वर्जिकानागरक्षौद्रैः, क्वाथो गण्डूष इष्यते| |७८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सन्निपाते यथादोषोदयं चिकित्सितं कुर्यात्| स०-अर्बुदे नवोत्थेऽसंवृद्धे छेदिते च प्रतिसारणं स्वर्जिकादिभिः| गण्डूष इष्टो गुडूचीनिम्बकल्कोद्भवः क्वाथो मधुतैलयुक्तः| तथा यवान्नभोजी तीक्ष्णतैलनस्याभ्यङ्गानाचरेत्|

Adhikarana अर्बुदे गुडूच्यादिक्वाथेन गण्डूषः कफजे यवान्नभुक् तीक्ष्णतैलनस्यादयः (७८-७९) · Śloka ७९

| गुडूचीनिम्बकल्कोत्थो मधुतैलसमन्वितः||७८|| यवान्नभुक् तीक्ष्णतैलनस्याभ्यङ्गांस्तथाऽऽचरेत्| |७९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अर्बुदे नवोत्थेऽसंवृद्धे छेदिते च प्रतिसारणं स्वर्जिकादिभिः| गण्डूष इष्टो गुडूचीनिम्बकल्कोद्भवः क्वाथो मधुतैलयुक्तः| तथा यवान्नभोजी तीक्ष्णतैलनस्याभ्यङ्गानाचरेत्|

Adhikarana पूतिवदने वमिते तीक्ष्णधूमादयः पूतिवदने समङ्गादिभिरन्तर्धावनम् पूतिवदने शीतादोपकुशोक्तं नस्यादि (ऊर्ध्वगुदत्यासाध्यत्वाच्चिकित्सा नोक्ता|) (७९-८१) · Śloka ८१

| वमिते पूतिवदने धूमस्तीक्ष्णः सनावनः||७९|| समङ्गाधातकीरोध्रफलिनीपद्मकैर्जलम्| धावनं वदनस्यान्तश्चूर्णितैरवचूर्णितम्||८०|| शीतादोपकुशोक्तं च नावनादि च शीलयेत्| |८१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पूतिमुखे वमिते सति तीक्ष्णधूमो नस्यं च तीक्ष्णं प्रयोज्यम्| समङ्गादिजलेन वदनस्यान्तः क्षालयेत्| एतैरेव मुखान्तरं चूर्णितैरवचूर्णयेत्| शीतादोपकुशोक्तं च नस्यादिकमभ्यसेत्|

Adhikarana कण्ठादिरोगघ्नाः फलत्रयादिगुटिका विदेहप्रणीताः (८१-८३) · Śloka ८३

फलत्रयद्वीपिकिराततिक्त- यष्ट्याह्वसिद्धार्थकटुत्रिकाणि| मुस्ताहरिद्राद्वययावशूक- वृक्षाम्लकाम्लाग्रिमवेतसाश्च||८१|| अश्वत्थजम्ब्वाम्रधनञ्जयत्वक् त्वक् चाहिमारात्खदिरस्य सारः| क्वाथेन तेषां घनतां गतेन तच्चूर्णयुक्ता गुटिका विधेयाः||८२|| ता धारिता घ्नन्ति मुखेन नित्यं कण्ठौष्ठताल्वादिगदान् सुकृच्छ्रान्| विशेषतो रोहिणिकास्यशोष- गन्धान् विदेहाधिपतिप्रणीताः||८३||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-त्रिफलादीनां द्रव्याणां क्वाथेन घनत्वं गतेन तच्चूर्णेन त्रिफलादिरजसाऽन्विता गुलिकाः कार्याः| ता मुखेन नित्यं धारिताः कण्ठादिरोगान् दारुणानपि घ्नन्ति| विशेषेण रोहिणिकादीन्| विदेहपतिना निर्मिता एताः| अम्लाग्रिमवेतसः-अम्लवेतसः| अत्रा[न्त्या]द्ये वृत्ते उपजाती, मध्यममिन्द्रवज्रा|

Adhikarana सर्वमुखरोगहरं खदिरादितैलम् (८४-८६) · Śloka ८६

खदिरतुलामम्बुघटे पक्त्वा तोयेन तेन पिष्टैश्च| चन्दनजोङ्गककुङ्कुमपरिपेलववालकोशीरैः||८४|| सुरतरुरोध्रद्राक्षामञ्जिष्ठाचोचपद्मकविडङ्गैः| स्पृक्कानतनखकट्फलसूक्ष्मैलाध्यामकैः सपत्तङ्गैः||८५|| तैलप्रस्थं विपचेत् कर्षांशैः पाननस्यगण्डूषैस्तत्| हत्वाऽऽस्ये सर्वगदान् जनयति गार्धीं दृशं श्रुतिं च वाराहीम्||८६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-खदिरपलशतं जलद्रोणे पक्त्वा पादावशेषितेन तेन जलेन पिष्टैश्चन्दनादिभिः कर्षाशैस्तैलप्रस्थं पचेत्| तच्च पाननस्यगण्डूषैरास्ये धारितं सर्वान् रोगान् जित्वा गृध्रसम्बन्धिनीं दृष्टिं वराहतुल्यां श्रुतिं[च] विधत्ते| आर्या(र्ये) गीतिः[च]|

Adhikarana व्यङ्गादिहरं प्रपुनाटादिभिरुद्वर्तनं अनेन तैलेनाभ्यङ्गश्च (८७) · Śloka ८७

उद्वर्तितं च प्रपुनाटरोध्र- दार्वीभिरभ्यक्तमनेन वक्त्रम्| निर्व्यङ्गनीलीमुखदूषिकादि सञ्जायते चन्द्रसमानकान्ति||८७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्रपुन्नाटादिभितुद्वर्तितं मुखं तैलेनानेनाभ्यक्तं व्यङ्गादिरहितं चन्द्रतुल्यकान्ति सञ्जायते| उपजातिः|

Adhikarana सर्वमुखरोगहरं बाणादितैलम् (८८-८९) · Śloka ८९

पलशतं बाणात्तोयघटे पक्त्वा रसेऽस्मिंश्च पलार्धिकैः खदिरजम्बूयष्ट्यानन्ताम्रैरहिमारनीलोत्पलान्वितैः||८८|| तैलप्रस्थं पाचयेच्छ्लक्ष्णपिष्टै- रेभिर्द्रव्यैर्धारितं तन्मुखेन| रोगान् सर्वान् हन्ति वक्त्रे विशेषा- त्स्थैर्यं धत्ते दन्तपङ्क्तेश्चलायाः||८९||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नीलसहचरात् पलशतं जलघटे पक्त्वा तस्मिन् रसेद्विकार्षिकैः खदिरादिभिः कल्कितैः सूक्ष्मरजीकृतैस्तैलप्रस्थं विपाचयेत्| तन्मुखेन धारितं सर्वमुखरोगहृत्| विशेषेण दन्तपङ्क्तेश्चलायाः स्थैर्यकृच्च| वृत्तं (?) शालिनी [च]|

Adhikarana सर्वमुखरोगहराः खदिरसारादिगुटिकाः (९०-९४) · Śloka ९४

खदिरसाराद् द्वे तुले पचेद्वल्कात्तुलां चारिमेदसः| घटचतुष्के पादशेषेऽस्मिन् पूते पुनः क्वथनाद्घने||९०|| आक्षिकं क्षिपेत्सुसूक्ष्मं रजः सेव्याम्बुपत्तङ्गगैरिकम्| चन्दनद्वय(श्यामा) रोध्रपुण्ड्रा- ह्वयष्ट्याह्वलाक्षाञ्जनद्वयम्||९१|| धातकीकटुफलद्विनिशात्रिफलाचतुर्जातजोङ्गकम्| मुस्तमञ्जिष्ठान्यग्रोधप्ररोह|वचा]मांसीयवासकम्||९२|| पद्मकैलासमङ्गाश्च शीते तस्मिंस्तथा पालिकां पृथक्| जातिपत्रिकां सजातीफलां सह- (नख)लवङ्गकङ्कोल्लकाम्||९३|| स्फटिकशुभ्रसुरभिकर्पूरकुडवं च तत्रावपेत्ततः| कारयेद्गुटिकाः सदा चैता धार्या मुखे तद्वदापहाः||९४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-खदिरसारद् द्वे तुले, तुलां चारिमेदसो वल्कात्, जलघटचतुष्टये पचेत्| पादावशेषिते पूतेऽस्मिन् पुनः क्वथनाद् घनीभूते कार्षिकाणि सूश्लक्ष्णचूर्णानि सेव्यादीनि क्षिपेत्| अस्मिन् शीते जातीपत्रादीन् पृथक्पालिकान् क्षिपेत्| श्रेष्ठतमोज्ज्वलकर्पूरकुडवं चात्र क्षिपेत्| अनन्तरं गुटिकाः कारयेत्| एताः सदा मुखे धार्याः सर्वमुखरोगहराः| [वृत्तानि(?) पञ्च|]

Adhikarana सर्वमुखरोगहरं अरिमेदादि तैलम् (९५) · Śloka ९५

क्वाथ्यौषधव्यत्यययोजनेन तैलं पचेत्कल्पनयाऽनयैव| सर्वास्यरोगोद्धृतये तदाहु- र्दन्तस्थिरत्वे त्विदमेव मुख्यम्||९५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्वाथ्यौषधयोः-खदिरसारारिमेदसोः, व्यत्ययो-वैपरीत्यं,-अरिमेदसः-विट्खदिरवल्कलाद् द्वे तुले प्रयोज्ये, खदिरसारत्तुलाम्, अन्यत्सर्वं पूर्ववद्देयमिति| तैलं पचेदनयैव कल्पनया| तत्-तैलं, सर्वमुखरोगघ्नम्| दन्तस्थिरकृतौ चेदमेव प्रधानमाहुः| इन्द्रवज्रा|

Adhikarana दृढद्विजकरमेतद्वयम् (९६) · Śloka ९६

खदिरेणैता गुटिका- स्तैलमिदं चारिमेदसा प्रथितम्| अनुशीलयन् प्रतिदिनं स्वस्थोऽपि दृढद्विजो भवति||९६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-खदिरेणैता गुटिकास्तैलं चैतदरिमेदसा प्रथितम्| द्वयमप्येतत् प्रतिदिनमभ्यस्तं स्वस्थस्यापि द्विजदार्ढ्यकृत्| आर्या|

Adhikarana सर्वमुखरोगहरो क्षुद्रादिकवलग्रहः दन्तमांसरोगहरः पाठादिचूर्णः (९७-९८) · Śloka ९८

क्षुद्रागुडूचीसुमनःप्रवाल- दार्वीयवासत्रिफलाकषायः| क्षौद्रेण युक्तः कवलग्रहोऽयं सर्वामयान् वक्त्रगतान्निहन्ति||९७|| पाठादार्वीत्वक्कुष्ठमुस्तासमङ्गा- तिक्तापीताङ्गीरोध्रतेजोवतीनाम्| चूर्णः सक्षौद्रो दन्तमांसार्तिकण्डू- पाकस्रावाणं नाशनो घर्षणेन||९८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-क्षुद्रादिभिः कषायः क्षौद्रेण युतः कवलग्रहोऽयं सर्वमुखरोगान् हन्ति| इन्द्रवज्रा| सं-पाठादीनां चूर्णः क्षौद्रयुतो दन्तमांसार्त्यादीनां घर्षणेन नाशनः| वैश्वदेवी|

Adhikarana मुखादिरोगहरः कालकचूर्णः दन्तादिरोगहरः पीतकचूर्णः (९९-१००) · Śloka १००

गृहधूमतार्क्ष्यपाठाव्योषक्षाराग्न्ययोवरातेजोह्वैः| मुखदन्तगलविकारे सक्षौद्रः कालको विधार्यश्चूर्णः||९९|| दार्वीत्वक्सिन्धूद्भवमनः शिलायावशूकहरितालैः| धार्यः पीतकचूर्णो दन्तास्यगलामये समध्वाज्यः||१००||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-गृहधूमादिभिश्चूर्णः समाक्षिकः कालकाख्यो मुख[दि]विकारे धार्यः| आर्या गीतिः| स०-दार्व्यादिभिः पीतकाख्यश्चूर्णो दन्ताद्यामये समधुघृतो धार्यः| गीतिरार्या|

Adhikarana गलामयघ्नी द्विक्षारादिरसक्रिया मुखरोगहरः पथ्याचूर्णः (१०१-१०२) · Śloka १०२

द्विक्षारधूमकवरापञ्चपटुव्योषवेल्लगिरितार्क्ष्यैः| गोमूत्रेण विपक्वा गलामयघ्नी रसक्रिया एषा||१०१|| गोमूत्रक्वथनविलीनविग्रहाणां पथ्यानां जलमिशिकुष्ठभावितानाम्| अत्तारं नरमणवोऽपि वक्त्ररोगाः श्रोतारं नृपमिव न स्पृशन्त्यनर्थाः||१०२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-द्विक्षारादिभिर्गोमूत्रेण विपक्वा एषा रसक्रिया गुटिका गलरोगघ्नी भवति| [गीतिरार्या|] स०-गोमूत्रक्वाथेन विलीनशरीराणां पथ्यानां वालकशतपुष्पाकुष्टैर्भावितानां भक्षयितारं नरं स्वल्पा अपि वक्त्ररोगा न स्पृशन्ति| अनर्थाः श्रोतारं नृपमिवेत्युपमालङ्कारः| प्रहर्षिणी|

Adhikarana मुखपाकहरः सप्तच्छदादिक्वाथः सर्वमुखरोगहरः पटोलादिक्वाथः (१०३-१०४) · Śloka १०४

सप्तच्छदोशीरपटोलमुस्त- हरीतकीतिक्तकरोहिणीभिः| यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य||१०३|| पटोलशुण्ठीत्रिफलाविशाला- त्रायन्तितिक्ताद्विनिशामृतानाम्| पीतः कषायो मधुना निहन्ति मुखे स्थितश्चास्यगदानशेषान्||१०४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सप्तच्छदादिभिः क्वाथं मुखपाकहरं पिबेत्| स०-पटोलादीनां कषायो मधुमान् पीतो मुखे च स्थितोगण्डूषो धारितो, मुखगदानशेषान्निहन्ति| उपजाती

Adhikarana मुखपाकादिहरा दार्वीरसक्रिया मुखपाकादिहरा पटोलादिरसक्रिया (१०५-१०६) · Śloka १०६

स्वरसः क्वथितो दार्व्या घनीभूतः सगैरिकः| आस्यस्थः समधुर्वक्त्रपाकनाडीव्रणापहः||१०५|| पटोलनिम्बयष्ट्याह्ववासाजात्यरिमेदसाम्| खदिरस्य वरायाश्च पृथगेवं प्रकल्पना||१०६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दार्व्या रसः क्वथितो घनीभूतः सगैरिकक्षौद्रो मुखस्थो वक्त्रपाकादिघ्नः| स०-पटोलादीनां पृथगेवं प्रकल्पना कार्या|

Adhikarana द्विजदार्ढ्यकृत् खदिरादिगण्डूषः मुखादिरोगेषु पुनः पुनः दुष्टरक्तस्रावः (१०७-१०८) · Śloka १०८

खदिरायोवरापार्थमदयन्त्यहिमारकैः| गाण्डूषोऽम्बुशृतैर्धार्यो दुर्बलद्विजशान्तये||१०७|| मुखदन्तमूलगलजाः प्रायो रोगाः कफास्रभूयिष्ठाः| तस्मात्तेषामसकृद् रुधिरं विस्रावयेद्दुष्टम्||१०८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-खदिरादिभिर्जलशृतैर्गण्डूशो द्विजदार्ढ्यकृद्धार्यः| अहिमारकः-अरिमेदः| स०-मुखादिगदा बाहुल्येन कफरक्तभूयिष्ठा यतः, तस्माद्धेतोस्तेषां दुष्टं रुधिरं पुनः पुनर्विस्रावयेत्|

Adhikarana मुखादिरोगेषु कायशिरसोर्विरेकादि मुखादिरोगेषु कफरक्तहरं कर्म (१०९-११०) · Śloka ११०

कायशिरसोर्विरेको वमनं कवलग्रहाश्च कटुतिक्ताः| प्रायः शस्तं तेषां कफरक्तहरं तथा कर्म||१०९|| यवतृणधान्यं भक्तं विदलैः क्षारोषितैरपस्नेहाः| यूषा भक्ष्याश्च हिता यच्चान्यच्छ्लेष्मनाशाय||११०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कायशिरोविरेकादिकं बाहुल्येन तेषां शस्तम्| कफरक्तहरं च यत्कर्म तत् शस्तम्| स०-यवादयो हिताः| यच्चापरं श्लेष्मनाशनं तच्च शस्तम्|

Adhikarana मुखादिरोगेषु यवतृणधान्यादि भोजनम् मुखादिरोगेषु त्वरितमुपक्रमः (२२) · Śloka २२

प्राणानिलपथसंस्थाः श्वसितमपि निरुन्धते प्रमादवतः| कण्ठामयाश्चिकित्सित- मतो द्रुतं तेषु कुर्वीत||१११|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि- तायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने मुखरोगप्रतिषेधो नाम द्वाविंशोऽध्यायः||२२||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्राणपवनमार्गस्थिता कण्ठरोगाः प्रमाद्यतः श्वासमपि निरुन्धन्ति यतः, अतः-अस्माद्धेतोः, तेषु रोगेषूपक्रमं द्राग् विदधीत| आर्याश्चतस्रः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने मुखरोग- प्रतिषेधो नाम द्वाविंशोऽध्यायः समाप्तः|| २२||