Adhikarana मुखरोगविज्ञानीयाध्यायः ||२१|| मुखरोगाणां सामान्यं निदानम् (२-३) · Śloka ३
क्रमप्राप्तं मुखरोगविज्ञानमभिधित्सुराह अथतो मुखरोगविज्ञानीयं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
) मात्स्यमाहिषवाराहपिशितामकमूलकम्|
माषसूपदधिक्षीरसुक्तेक्षुरसफाणितम्||१||
अवाक्शय्यां च भजतो द्विषतो दन्तधावनम्|
धूमर्च्छर्दनगण्डूषानुचितं च सिराव्यधम्||२||
कृद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्यन्तर्मुखं गदान्|
|३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मात्स्यमाहिषवाराहपिशितादि भजतो दन्तधावनं द्विषतः-असेवमानस्य, धूमादिकं चोचितं द्विषतः, सिराव्यधं च द्विषतः, श्लेष्मोल्बणा दोषाः कृद्धा मुखस्यान्तरे गदान् कुर्वन्ति|
Adhikarana ओष्ठे एकादश रोगाः| १ खण्डौष्ठस्य लक्षणम् (३) · Śloka ३
|
तत्र खण्डौष्ठ इत्युक्तो वातेनौष्ठो द्विधा कृतः||३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तेषु मुखरोगेषु मध्ये पवनादोष्ठो द्विधा कृतः खण्डौष्ठ इति गदितः|
Adhikarana २ वातजस्य ओष्ठकोपस्य लक्षणम् (४) · Śloka ४
ओष्ठकोपे तु पवनात् स्तब्धावोष्ठौ महारुजौ|
दाल्येते परिपाट्येते परुषासितकर्कशौ||४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पवनादोष्ठकोपे त्वोष्ठौ स्तब्धौ महारुजौ दाल्येते तथा परिपाट्येते इव| तथा परुषौ कृष्णौ रूक्षौ दृश्येते|
Adhikarana ३ पित्तजस्य ओष्ठकोपस्य लक्षणम् (५) · Śloka ५
पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ|
पिटिकाभिर्बहुक्लेदावाशुपाकौ|५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तेनौष्ठौ तीक्ष्णं न सहेते| पीतौ च स्याताम्| तथा च सर्षपाकृतिभिः पिटिकाभिश्चितौ बहुक्लेदौ शीघ्रपाकौ च|
Adhikarana ४ कफजस्य ओष्ठकोपस्य लक्षणम् (५-६) · Śloka ६
|
कफात्पुनः||५||
शीतासहौ गुरु शूनौ सवर्णपिटिकाचितौ|
|६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफेन शीतासहौ गुरु शूनौ सवर्णैः पिटकैराचितौ स्याताम्|
Adhikarana ५ सन्निपातजस्य ओष्ठकोपस्य लक्षणम् (६-७) · Śloka ७
|
सन्निपातादनेकाभौ दुर्गन्धास्रावपिच्छिलौ||६||
अकस्मान्म्लानसंशूनरुजौ विषमपाकिनौ|
|७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सन्निपातादोष्ठौ नानावर्णपिटकैराचितौ दुर्गन्धस्रावपिच्छिलौ सहसैव म्लानौ कदाचित्संशूनौ विषमपाकिनौ वा|
Adhikarana ६ रक्तजस्य ओष्ठकोपस्य लक्षणम् (७-८) · Śloka ८
|
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ||७||
खर्जूरसदृशं चात्र क्षीणे रक्तेऽर्बुदं भवेत्|
|८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-रक्तेन युक्तौ रुधिरं स्रवन्तौ रक्तप्रभौ च| क्षीणे रक्ते खर्जूराकारमर्बुदमोष्ठौ स्यात्|
Adhikarana ७ अर्बुदस्य ओष्ठकोपस्य लक्षणम् ८ मांसजस्य ओष्ठकोपस्य लक्षणम् (८) · Śloka ८
|
मांसपिण्डोपमौ मांसात्स्यातां मूर्च्छत्कृमी क्रमात्||८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मांसेन मांसपिण्डोपमावोष्ठौ| क्रमेण च मूर्च्छत्कृमी स्याताम्| मूर्च्छन्ति कृमयो ययोरिति मूर्च्छत्कृमी| तयोः कृमयो जायन्त इत्यर्थः|
Adhikarana ९ मेदोजस्य ओष्ठकोपस्य लक्षणम् १०क्षतजस्य ओष्ठकोपस्य लक्षणम् (९-१०) · Śloka १०
तैलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदू|
क्षतजाववतीर्येते पाट्येते चासकृत्पुनः||९||
ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ|
|१०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मेदसा तैलाभः शोफः क्लेदश्च ययोस्तावेवम्| तथा कण्डूयुतौ मृदू चौष्ठौ स्याताम्| स०-क्षतजावसकृदवदीर्येते परिपाट्येते-भेद्येते इव, ग्रथितौ च पुनरोष्ठौ स्यातां सकण्डूकौ च|
Adhikarana ११ जलार्बुदस्य ओष्ठकोपस्य लक्षणम् (१०) · Śloka १०
|
जलबुद्बुदवद्वातकफादोष्ठे जलार्बुदम्||१०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातकफात् जलबुद्बुदाकारं जलार्बुदमोष्ठे स्यात्| इत्येकादश ओष्ठे|
Adhikarana गण्डे एको रोगः| १ गण्डालज्याः लक्षणम् (११) · Śloka ११
गण्डालजी स्थिरः शोफो गण्डे दाहज्वरान्वितः|
|११|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स्थिरः शोफो गण्डप्रदेशे दाहज्वरयुतो गण्डालजीत्युच्यते| इत्येको गण्डे|
Adhikarana दन्ते दश रोगाः| १ शीतदन्तस्य लक्षणम् (११-१२) · Śloka १२
|
वातादुष्णसहा दन्ताः शीतस्पर्शेऽधिकव्यथाः||११||
दाल्यन्त इव शूलेन शीताख्यो दालनश्च सः|
|१२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातेन दन्ता उष्णसहाः शीतस्पर्शेऽधिकव्यथाः, शूलेन दाल्यन्त इव च| असौ शीतदन्तसंज्ञो दालनश्चोक्तः|
Adhikarana २ दन्तहर्षस्य लक्षणम् ३ दन्तभेदस्य लक्षणम् (१२-१३) · Śloka १३
|
दन्तहर्षे प्रवाताम्लशीतभक्षाक्षमा द्विजाः||१२||
भवन्त्यम्लाशनेनेव सरुजाश्चलिता इव|
दन्तभेदे द्विजास्तोदभेदरुक्स्फुटनान्विताः||१३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दन्तहर्षे प्रचण्डवातस्याम्लशीतभक्षस्या (स्य चा)- सहाः, द्विजाः तथाऽम्लाशनेनेव सरुजाश्चिलिता इव च स्युः| स०-दन्तभेदे दन्तास्तोदादियुताः स्युः|
Adhikarana ४ दन्तचालस्य लक्षणम् ५करालस्य लक्षणम् (१४) · Śloka १४
चालश्चलद्भिर्दशनैर्भक्षणादधिकव्यथैः|
करालस्तु करालानां दशनानां समुद्गमः||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-चालाख्यो रोगो दन्तैश्च चलद्भिर्भक्षणादधिकव्यथैश्च स्यात्| स०-करालानां दन्तानां समुद्गमः करालाख्यो रोगः|
Adhikarana ६ अधिदन्तस्य लक्षणम् (१५) · Śloka १५
दन्तोऽधिकोऽधिदन्ताख्यः स चोक्तः खलु वर्धनः|
जायमानेऽतिरुग् दन्ते, जाते तत्र तु शाम्यति||१५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अधिको दन्तोऽधिदन्तसंज्ञो रोगः| वर्धनश्च स एवोक्तः| जायमाने तस्मिन् दन्तेऽतिपीडा जायते| जाते तु तस्मिन् पीडा शाम्यति|
Adhikarana ७ शर्करायाः Vलक्षणम् (१६) · Śloka १६
अधावनामलो दन्ते कफो वा वातशोषितः|
पूतिगन्धिः स्थिरीभूतः शर्करा|१६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अधावनाद्दन्ते मलः कफो वा पवनेन शोषितः पूतिगन्धिः स्थिरीभूतः| स एवोपेक्षितः शर्करा स्यात्|
Adhikarana ८ कपालिकायाः लक्षणम् (१६-१७) · Śloka १७
|
साऽप्युपेक्षिता||१६||
शातयत्यणुशो दन्तात्कपालानि कपालिका|
|१७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कपालिकाख्यो दन्तात् कपालान्यणुशः-स्तोकं स्तोकं, शातयति|
Adhikarana ९ श्यावस्य लक्षणम् (१७) · Śloka १७
|
श्यावः श्यावत्वमायातो रक्तपित्तानिलैर्द्विजः||१७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्विजः श्यावत्वमायातो रक्तपित्तानिलैः श्यावाख्यः|
Adhikarana १० कृमिदन्तस्य लक्षणम् दन्तमूले त्रयोदश रोगाः| (१८-२०) · Śloka २०
समूलं दन्तमाश्रित्य दोषैरुल्बणमारुतैः|
शोषिते मज्ज्ञि सुषिरे दन्तेऽन्नमलपूरिते||१८||
पूतित्वात्कृमयः सूक्ष्मा जायन्ते, जायते ततः|
अहेतुतीव्रार्तिशमः ससंरम्भोऽसितश्चलः||१९||
प्रलूनः पूयरक्तस्रुत् स चोक्तः कृमिदन्तकः|
|२०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-समूलं दन्तमाश्रित्य दोषैरधिकमारुतैः शोषिते मज्ज्ञि सुषिरे दन्तेऽन्नमलपूरिते पूतित्वात् कृमयः सूक्ष्मा जायन्ते| ततोऽहेतु-निमित्तमन्तरेण, तीव्रार्तिशान्तिर्जायते| तथा संरम्भान्वितः कृष्णश्चलः प्रलूनाख्यः पूयरक्तस्रावी| स च कृमिदन्तक उक्तः| इति दन्ते दशैते|
Adhikarana १ शीतादस्य लक्षणम् (२०-२१) · Śloka २१
|
श्लेष्मरक्तेन पूतीनि वहन्त्यस्रमहेतुकम्||२०||
शीर्यन्ते दन्तमांसानि मृदुक्लिन्नासितानि च|
शीतादोऽसौ|२१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्लेष्मरक्तेन दन्तमांसानि पूतीनि रक्तं निर्निमित्तं वहन्ति शीर्यन्ते| किम्भूतानि ? मृदुक्लिन्नानि असितानि च| असौ शीतादः कथ्यते|
Adhikarana २ उपकुशस्य लक्षणम् (२१-२३) · Śloka २३
|
उपकुशः पाकः पित्तासृगुद्भवः||२१||
दन्तमाम्सानि दह्यन्ते रक्तान्युत्सेधवन्त्यतः|
कण्डूमन्ति स्रवन्त्यस्रमाध्मायन्तेऽसृजि स्थिते||२२||
चला मन्दरुजो दन्ता पूति वक्त्रं च जायते|
|२३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पित्तरक्तोत्थो यो दन्तमांसे पाकः स उपकुशसंज्ञः| तेन दन्तमांसानि दह्यन्ते रक्तवर्णानि सोत्सेधानि च| ततः कण्डूयुतानि रक्तं स्रवन्ति| रक्ते स्थिते सत्याध्मायन्ते| चला दन्ता मन्दरुजः स्युः| पूति वक्त्रं च जायते|
Adhikarana ३ दन्तपुप्पुटस्य लक्षणम् (२३-२४) · Śloka २४
|
दन्तयोस्त्रिषु वा शोफो बदरास्थिनिभो घनः||२३||
कफास्रात्तीव्ररुक् शीघ्रं पच्यते दन्तपुप्पुटः|
|२४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-द्वयोर्दन्तयोस्त्रिषु व दन्तेषु शोफो बदरास्थिसदृशो घनः कफरक्तात् तीव्ररुक् शीघ्रं पच्यते| स दन्तपुप्पुटसंज्ञः|
Adhikarana ४ दन्तविद्रधेः लक्षणम् (२४-२५) · Śloka २५
|
दन्तमांसे मलैः सास्रैर्बाह्यान्तः श्वयथुर्गुरुः||२४||
सरुग्दाहः स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः|
|२५|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दन्तमांसे बाह्येऽभ्यन्तरे च दोषैः सरक्तैर्गुरुः श्वयथुः सरुग्दाहः| स च भिन्नः सन् पूयास्रं स्रवेत्| स दन्ताविद्रधिः|
Adhikarana ५ सुषिरस्य लक्षणम् (२५-२६) · Śloka २६
|
श्वयथुर्दन्तमूलेषु रुजावान् पित्तरक्तजः||२५||
लालास्रावी स सुषिरो दन्तमांसप्रशातनः|
|२६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-दन्तमूलेषु श्वयथुः पीडावान् पित्तरक्तोत्थो लालास्रावी| सुषिरसंज्ञो दन्तमांसप्रशातनः
Adhikarana ६ महासुषिरस्य लक्षणम् (२६-२७) · Śloka २७
|
स सन्निपाताज्ज्वरवान् सपूयरुधिरस्रुतिः||२६||
महासुषिर इत्युक्तो विशीर्णद्विजबन्धनः|
|२७|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सन्निपातज्वरयुतः पूयरुधिरस्रावेनान्वितः महासुषिराख्य उक्तः| स च विशीर्णद्विजबन्धनः स्यात्|
Adhikarana ७ अधिमांसस्य लक्षणम् (२७-२८) · Śloka २८
|
दन्तान्ते कीलवच्छोफो हनुकर्णरुजाकरः||२७||
प्रतिहन्त्यभ्यवहृतिं श्लेष्मणा सोऽधिमांसकः|
|२८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दन्तान्ते कीलसदृशः शोफो हनौ कर्णे च रुजां करोति| अभ्यवहृतिं प्रतिहन्ति| सोऽधिमांसकः श्लेष्मणा स्यात्|
Adhikarana ८ विदर्भस्य लक्षणम् (२८-२९) · Śloka २९
|
घृष्टेषु दन्तमांसेषु संरम्भो जायते महान्||२८||
यस्मिंश्चलन्ति दन्ताश्च स विदर्भोऽभिघातजः|
|२९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दन्तमांसेषु दन्तकाष्ठादिना घृष्टेषु महान् संरम्भो जायते| यस्मिन्सति दन्ताश्च चलन्ति| सोऽभिघातजो विदर्भाख्यः|
Adhikarana ९,१०,११,१२,१३ पञ्चानां दन्तनाडीनां लक्षणम् (२९-३१) · Śloka ३१
|
दन्तमांसाश्रितान् रोगान् यः साध्यानप्युपेक्षते||२९||
अन्तस्तस्यास्रवन् दोषः सूक्ष्मां सञ्जनयेद्गतिम्|
पूयं मुहुः सा स्रवति त्वङ्मांसास्थिप्रभेदिनी||३०||
ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर्यथोदितैः|
|३१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दन्तमांसाश्रितान् रोगान् साध्यानपि य उपेक्षते, तस्यान्तरेषु दोषोऽस्रवन् सूक्ष्मां गतिं सञ्जनयेत्| सा च गतिः पुनः पुनः पूयं स्रवति| त्वङ्मांसास्थीनि प्रभिनत्ति| ताश्च गतयः पञ्च विज्ञेयाः स्वैः स्वैर्वातादिजैर्लक्षणैः| इति दन्तमूले त्रयोदश|
Adhikarana जिह्वायां षड्रोगाः| १ वातदूषितायाः लक्षणम् २ पित्तदूषितायाः लक्षणम् (३१-३२) · Śloka ३२
|
शाखपत्रखरा सुप्ता स्फुटिता वातदूषिता||३१||
जिह्वा पित्तात् सदाहोषा रक्तैर्मासाङ्कुरैश्चिता|
|३२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातदूषिता जिह्वा शाकपत्रवत् खरा सुप्ता स्फुटिता च स्यात्| स०-पित्तात् सदाहोषा तथा रक्तैर्मांसाङ्कुरैश्च चिता जिह्वा स्यात्|
Adhikarana ३ कफदूषितायाः लक्षणम् (३२) · Śloka ३२
|
शाल्मलीकण्टकाभैस्तु कफेन बहला गुरुः||३२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफेन शाल्मलीकण्टकाभैः कण्टकैश्चिता बहला गुरुश्च जिह्वा स्यात्|
Adhikarana ४ अलसस्य लक्षणम् (३३) · Śloka ३३
कफपित्तादधः शोफो जिह्वास्तम्भकृदुन्नतः|
मत्स्यगन्धिर्भवेत्पक्वः सोऽलसो मांसशातनः||३३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कफपित्तात् जिह्वाया अधः शोफो जिह्वास्तम्भकर उन्नतः पक्वो मत्स्यगन्धिर्भवेत्| सोऽलसाख्योमांसशातनः|
Adhikarana ५ अधिजिह्वस्य लक्षणम् ६उपजिह्वस्य लक्षणम् (३४-३५) · Śloka ३५
प्रबन्धनेऽधो जिह्वायाः शोफो जिह्वाग्रसन्निभः|
साङ्कुरः कफपित्तास्रैर्लालोषास्तम्भवान् खरः||३४||
अधिजिह्वः सरुक्कण्डूर्वाक्याहारविघातकृत्|
तादृगेवोपजिह्वस्तु जिह्वाया उपरि स्थितः||३५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जिह्वायाः प्रबन्धनेऽधस्ताज्जिह्वाग्रतुल्यः शोफः सहाङ्कुरः कफपित्तरक्तैर्लालोषास्तम्भयुतः खरस्पर्शयुतोऽधिजिह्वोरुक्कण्डूभ्यां युतो वाक्याहारविघातं करोति| स०-तादृगेव-अधिजिह्वासदृश उपजिह्वः, जिह्वाया उपरि स्थितः| इति जिह्वायाः षडेते|
Adhikarana तालुरोगा अष्टौ| १ तालुपिटिकाया लक्षणम् (३६) · Śloka ३६
तालुमांसेऽनिलाद्दुष्टे पिटिकाः सरुजः खराः|
बह्यो घनाः स्रावयुतास्तास्तालुपिटिकाः स्मृताः||३६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वातात्तालुमांसे दुष्टे पिटिकाः सरुजः खरा बह्यो घनाः स्रावान्विताश्च| तास्तालुपिटिकाः स्मृताः|
Adhikarana २ गलशुण्डिकायाः लक्षणम् (३७-३८) · Śloka ३८
तालुमूले कफात्सास्रात् मत्स्यबस्तिनिभो मृदुः|
प्रलम्बः पिच्छिलः शोफो नासयाऽऽहारमीरयन्||३७||
कण्ठोपरोधतृट्कासवमिकृत् गलशुण्डिका|
|३८|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सं-तालुमूले कफाद्रक्तान्वितात् मत्स्यबस्तिसदृशो मृदुः प्रलम्बः पिच्छिलः शोफो नासयाऽऽहारं प्रेरयन् कण्ठोपरोधादिकृत्| गुलशुण्डिकाख़्यः|
Adhikarana ३ तालुसंहतेः लक्षणम् ४ अर्बुदस्य लक्षणम् (३८-३९) · Śloka ३९
|
तालुमध्ये निरुङ्मांसं संहतं तालुसंहतिः||३८||
पद्माकृतिस्तालुमध्ये रक्ताच्छ्वयथुरर्बुदम्|
|३९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तालुमध्ये निरुङ्मांसं संहतं सा तालुसंहतिरित्युच्यते| स०- तालुमध्ये पद्माकारो रक्ताद्दुष्टाच्छ्वयथुरर्बुदम्|
Adhikarana ५ कच्छपस्य लक्षणम् ६पुप्पटस्य लक्षणम् (३९-४०) · Śloka ४०
|
कच्छपः कच्छपाकारश्चिरवृद्धिः कफादरुक्||३९||
कोलाभः श्लेष्ममेदोभ्यां पुप्पुटो नीरुजः स्थिरः|
|४०|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पदार्थचन्द्रिका-कफाद्दुष्टात् तालुदेशे यः श्वयथुः कच्छपाकारश्चिरवृद्धिररुक् च, स कच्छप इत्युच्यते| प० च०-श्लेष्ममेदोभ्यां दुष्टाभ्यां कोलाभः-कोलसदृशो, नीरुजः स्थिरश्च यः शोफः स्यात्, स पुप्पुट इत्युच्यते|
Adhikarana ७ तालुपाकस्य लक्षणम् (४०) · Śloka ४०
|
पित्तेन पाकः पाकाख्यः पूयास्रावी महारुजः||४०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-पित्तेन दुष्टेन यस्तालुनः पाकः पूयास्रावी महारुजः, स पाकाख्यः-पाकसंज्ञः|
Adhikarana ८ तालुशोषस्य लक्षणम् (४१) · Śloka ४१
वातपित्तज्वरायासैस्तालुशोषस्तदाह्वयः|
|४१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-वातपित्तज्वरायासैः प्रतिबद्धो यः शोषस्तालुशोषः, स तदाह्वयः-तालुशोष इत्युच्यते| इत्यष्टौ तालुरोगाः|
Adhikarana गले अष्टादश रोगाः| रोहिण्याः सामान्यं लक्षणम् (४१-४२) · Śloka ४२
|
जिह्वाप्रबन्धजाः कण्ठे दारुणा मार्गरोधिनः||४१||
मांसाङ्कुराः शीघ्रचया रोहिणी शीघ्रकारिणी|
|४२|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-कण्ठे-कण्ठप्रदेशे, ये मांसाङ्कुरा जिह्वाप्रबन्धजाः-जिह्वामूलोत्थाः, दारुणाः-दुःसहाः, कण्ठमार्गानुरोधिनः शीघ्रचयाः-सत्वरोद्भूताः, भवन्ति| सा शीघ्रकारिणी-आशुव्यापादनशीला, रोहिणीत्युच्यते|
Adhikarana १ वातजाया रोहिण्या लक्षणम् (४२) · Śloka ४२
|
कण्ठास्यशोषकृद्वातात् सा हनुश्रोत्ररुक्करी||४२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-सा-रोहिणी, वातात्समुत्पन्ना कण्ठास्यशोषं करोति| हन्वोः श्रोत्रयोश्च रुजं करोति|
Adhikarana २ पित्तजायाः रोहिण्या लक्षणम् ३ कफजायाः रोहिण्या लक्षणम् (४३-४४) · Śloka ४४
पित्ताज्ज्वरोषातृण्मोहकण्ठधूमायनान्विता|
क्षिप्रजा क्षिप्रपाकाऽतिरागिणी स्पर्शनासहा||४३||
कफेन पिच्छिला पाण्डुः|
|४४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-पित्ताद् रोहिणी ज्वरादिभिरन्विता स्यात्| क्षिप्रजा-शीघ्रोत्थाना| शीघ्रपाका अतिरागिणी-भृशलोहिता| स्पर्शनासहा-स्पर्शं न सहते| पं चं-कफेन दुष्टेन रोहिणी पिच्छिला पाण्डुरा च भवेत्|
Adhikarana ४ रक्तजाः रोहिण्या लक्षणम् (४४) · Śloka ४४
असृजा स्फोटकाचिता|
तप्ताङ्गारनिभा कर्णरुक्करी पित्तजाकृतिः||४४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-असृजा-रक्तेन दुष्टेन, रोहिणी स्फोटकैराचिता समन्तात् व्याप्ता स्यात्| तप्ताङ्गारनिभा-वर्णतः स्पर्शतो वा, कर्णयो रुजां करोति| पित्तजाकृतिः-पित्तोत्थरोहिणीलक्षणसमन्विता भवेत्|
Adhikarana ५ सन्निपातजायाः रोहिण्या लक्षणम् ६ शालूकस्य लक्षणम् (४५-४६) · Śloka ४६
गम्भीरपाका निचयात् सर्वलिङ्गसमन्विता|
दोषैः कफोल्बणैः शोफः कोलवद् ग्रथितोन्नतः||४५||
शूककण्टकवत्कण्ठे शालूको मार्गरोधनः|
|४६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-निचयात्-सन्निपातात्, रोहिणी गम्भीरपाकागूढपाका, स्यात्| सर्वलिङ्गैः-वातादीनां सम्बन्धिभिः, समन्विता-युक्ता, स्यात्| प० च०-दोषैः-वातादिभिः, कफोल्बणैः-कफप्रधानैः, कण्ठे कोलवद् ग्रथितोन्नतः शूककण्टकवत् मार्गरोधनो यः शोफः स्यात्, स कण्ठशालूक इत्युच्यते|
Adhikarana ७ वृन्दस्य लक्षणम् ८तुण्डिकेरिकायाः लक्षणम् (४६-४७) · Śloka ४७
|
वृन्दो वृत्तोन्नतो दाहज्वरकृद् गलपार्श्वगः||४६||
हनुसन्ध्याश्रितः कण्ठे कार्पासीफलसन्निभः|
पिच्छिलो मन्दरुक् शोफः कठिनास्तुण्डिकेरिका||४७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-कण्ठे वृत्तोन्नतो गलपार्श्वगो यः शोफो भवति, दाहज्वरं करोति, स नाम्ना वृन्द इत्युच्यते| प० च०-कण्ठप्रदेशे शोफः कार्पास्याः फलसन्निभः-तदाकारः, पिच्छिलो मन्दरुक् शोफः कठिनश्च| स नाम्ना तुण्डिकेरिकेत्युच्यते|
Adhikarana ९ गलौघस्य लक्षणम् १०वलयस्य लक्षणम् (४८-४९) · Śloka ४९
बाह्यान्तः श्वयथुर्घोरो गलमार्गार्गलोपमः|
गलौघो मूर्द्धगुरुतातन्द्रालालाज्वरप्रदः||४८||
वलयं नातिरुक् शोफस्तद्वदेवायतोन्नतः|
|४९|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-कण्ठे श्वयथुर्बाह्यान्तर्घोरो-दुस्तरो, गलमार्गार्गलोपमः-स इव, जायते| मूर्द्धगुरुतादींश्च प्रददाति| स गलौघ इत्युच्यते| प० च०-गले यः शोफो नातिरुक् आयतोन्नतः स्यात्, स व्याधिर्वलयमित्युच्यते| तद्वदेव-वलयाकृतित्वात्|
Adhikarana ११ गिलायुकस्य लक्षणम् १२शतघ्न्याः लक्षणम् (४९-५१) · Śloka ५१
|
मांसकीलो गले दोषैरेकोऽनेकोऽथवाऽल्परुक्||४९||
कृच्छ्रोच्छ्वासाभ्यवहृतिः पृथुमूलो गिलायुकः|
भूरिमांसङ्कुरवृता तीव्रतृड्ज्वरमूर्द्धरुक्||५०||
शतघ्नी निचिता वर्तिः शतघ्नीवातिरुक्वरी|
|५१|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-दोषैः वातादिभिर्दुष्टैः, गले मांसकील एकोऽनेको वाऽल्परुग् जातो मूले पृथुः-विस्तीर्णः, कृच्छ्रात्-दुःखेन, उच्छ्वासाभ्यवहृतिर्य(ती य)स्य सः| तथाविधो व्याधिर्गिलायुक इत्युच्यते| प० च०-भूरिभिः-प्रभूतैः, मांसाङ्कुरैरावृता-परिवृता, तीव्रतृड्ज्वरमूर्द्धरुग्युता वृत्ता या वर्तिः सा शतघ्नी| निचयात्सञ्चयं प्राप्ता शतघ्नीवच्चातिरुक्करी| स व्याधिर्नाम्ना शतघ्नीत्युच्यते| शतघ्नी-शस्त्रविशेषः|
Adhikarana १३ गलविद्रधेः लक्षणम् १४ गलार्बुदस्य लक्षणम् (५१-५३) · Śloka ५३
|
व्याप्तसर्वगलः शीघ्रजन्मपाको महारुजः||५१||
पूतिपूयनिभस्रावी श्वयथुर्गलविद्रधिः|
जिह्वावसाने कण्ठादावपाकं श्वयथुं मलाः||५२||
जनयन्ति स्थिरं रक्तं नीरुजं तद्गलार्बुदम्|
|५३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-व्याप्तः सर्वगलः-कण्ठो, येनेति| एवंविधो यः श्वयथुः शीघ्रजन्मपाको महारुजः पूति-दुर्गन्धि, पूयसदृशं स्रवति मलं,स गलविद्रधिरित्युच्यते| प० च०-जिह्वावसाने-पर्यन्ते, कण्ठादौ श्वयथुमपाकं स्थिरं रक्तं नीरुजं मलाः-दोषाः, जनयन्ति| तद्गलार्बुदं स्मृतम्|
Adhikarana गलागण्डास्य निदानादि १५वातजस्य गलगण्डस्य लक्षणम् (५३-५४) · Śloka ५४
पवनश्लेष्ममेदोभिर्गलगण्डो भवेद्बहिः|
वर्धमानः स कालेन मुष्कवल्लम्बतेऽतिरुक्||५३||
कृष्णोऽरुणो वा तोदाढ्यः स वातात्कृष्णराजिमान्|
वृद्धस्तालुगले शोषं कुर्याच्च विरसास्यताम्||५४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-दुष्टैः पवनश्लेष्ममेदोभिर्गलस्य बहिर्गलगण्डो नाम व्याधिर्भवेत्| स च कालेन विवर्धमानो
Adhikarana १६ कफजस्य गलगण्डस्य लक्षणम् (५५) · Śloka ५५
स्थिरः सवर्णः कण्डूमान् शीतस्पर्शो गुरुः कफात्|
वृद्धस्तालुगले लेपं कुर्याच्च मधुरास्यताम्||५५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-कफात्प्रकुपितात् गले गलगण्डो जातः स्थिरः समानवर्णः कण्डुमान् शीतस्पर्शो गुरुश्च भवेत्| वृद्धः सन् तालुगले लेपं कुर्यात्| तथा मधुरास्यतां-मधुरवक्त्रत्वं च, कुर्यात्|
Adhikarana १७ मेदोजस्य गलगण्डस्य लक्षणम् (५६) · Śloka ५६
मेदसः श्लेष्मवद्धानिवृद्ध्योः सोऽनुविधीयते|
देहं वृद्धश्च कुरुते गले शब्दं स्वरेऽल्पताम्||५६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-मेदसः प्रवृद्धादुत्पन्नो गलगण्डः कफवल्लक्षणैर्भवेत्| स च देहं-शरीरं, हानिवृद्ध्योरनुविधीयते-अनुकरोति| तेन देहस्य वृद्धौ सोऽपि वृद्धो भवेत्, देहस्य क्षयात् क्षीणः स्यात्| वृद्धः स गले शब्दं कुरुते स्वरे चाल्पताम्|
Adhikarana १८ स्वरघ्नस्य लक्षणम् (५७) · Śloka ५७
श्लेष्मरुद्धाऽनिलगतिः शुष्ककण्ठो हतस्वरः|
ताम्यन् प्रसक्तं श्वसिति येन स स्वरहाऽनिलात्||५७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-श्लेष्मणा दुष्टेन यदाऽनिलस्य-वायोः, गतिः रुद्धा भवेत्| तथा स च येन व्याधिना पुरुषः शुष्ककण्ठो हतस्वरश्च स्यात्| ते(ये)न च ताम्यन्-तमोगच्छन् तमःप्रविशन्, प्रकर्षेण सक्तं श्वासं मुञ्चति| स व्याधिरनिलात्-वातात्, स्वरहास्वरघ्ननाम्ना, भवेत्| इति गलरोगा अष्टादश|
Adhikarana सर्ववक्रगा अष्टौ रोगाः| १ वातजस्य मुखपाकस्य लक्षणम् (५८-५९) · Śloka ५९
करोति वदनस्यान्तर्व्रणान् सर्वसरोऽनिलः|
सञ्चारिणोऽरुणान् रूक्षानोष्ठौ ताम्रौ चलत्वचौ||५८||
जिह्वा शीतासहा गुर्वी स्फुटिता कण्टाकाचिता|
विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः||५९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-अनिलो-वायुः, सर्वसरः-सर्वतः प्रसरन् सन्, सर्वतो वदनस्यान्तर्व्रणान् सञ्चारिणोऽरुणान् रूक्षांश्च करोति| तथौष्ठौ ताम्रौ-ताम्रवर्णौ, चलत्वचौ| जिह्वा च शीतासहा शीतस्पर्शाक्षमा, गुर्वी स्फुटिता कण्टकैराचिता स्यात्| स च मुखं-वक्त्रं, कृच्छ्रेण विवृणोति| स मुखस्य पाक इत्युच्यते|
Adhikarana २ ऊर्ध्वगुदस्य मुखपाकस्य लक्षणम् (६०) · Śloka ६०
अधः प्रतिहतो वायुरर्शोगुल्मकफादिभिः|
यात्यूर्ध्वं वक्त्रदौर्गन्ध्यं कुर्वन्नूर्ध्वगुदस्तु सः||६०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-अर्शोगुल्मकफादिभिर्वायुरधः प्रतिहतो वक्त्रदौर्गन्ध्यं कुर्वन्नूर्ध्वं याति| स ऊर्ध्वगुद इति संज्ञितः|
Adhikarana ३ पित्तजस्य मुखपाकस्य लक्षणम् ४रक्तजस्य मुखपाकस्य लक्षणम् (६१) · Śloka ६१
मुखस्य पित्तजे पाके दाहोषे तिक्तवक्त्रता|
क्षारोक्षितक्षतसमा व्रणाः तद्वच्च रक्तजे||६१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-पित्तजे-पित्तोद्भवे, मुखस्य पाके दाहोषे भवतः| तथा तिक्तवक्त्रता-तिक्तास्यत्वं, भवेत्| व्रणाश्च क्षारेणोक्षितं यत् क्षतं-व्रणः, तेन समानाः-तत्समरुजाः, भवन्ति| पं चं-रक्तजे पाके मुखस्यान्तः पित्तजपाकवल्लक्षणानि भवन्ति|
Adhikarana ५ कफजस्य मुखपाकस्य लक्षणम् ६अर्बुदस्य मुखपाकस्य लक्षणम् (६२-६३) · Śloka ६३
कफजे मधुरास्यत्वं कण्डूमत्पिच्छिला व्रणाः|
अन्तःकपोलमाश्रित्य श्यावपाण्डु कफोऽर्बुदम्||६२||
कुर्यात्तद् घट्टितं छिन्नं मृदितं च विवर्धते|
|६३|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-कफजे पाके मधुरास्यत्वं-मधुरमुखत्वं, स्यात्| तथा कण्डूमत्पिच्छिलाश्च व्रणा भवन्ति| प० च०-कफो वृद्धोऽन्तःकपोलमाश्रित्यार्बुदं श्यावं पाण्डु च कुर्यात्| तच्चार्बुदं घट्टितं छिन्नं मृदितं च पुनर्विवर्धते|
Adhikarana ७ सन्निपातजस्य मुखपाकस्य लक्षणम् ८पूत्यास्यतायाः मुखपाकस्य लक्षणम् (६३-६४) · Śloka ६४
|
मुखपाको भवेत्सास्रैः सर्वैः सर्वाकृतिर्मलैः||६३||
पूत्यास्यता च तैरेव दन्तकाष्ठादिविद्विषः|
|६४|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-मलैः-वातादिभिः, सर्वैः-त्रिभिः, सास्रैः-सरक्तैः, मुखस्य पाको भवेत्| स च सर्वाकृतिः-सर्वलक्षणः, स्यात्| प० च०-दन्तकाष्ठविद्विषः पुंसस्तैरेव दोषैः पूत्यास्यतापूतिवक्त्रत्वं, स्यात्| [इति सर्ववक्त्रगा अष्टौ|]
Adhikarana ओष्ठादिस्थानेषु एकादशादिक्रमेण पञ्चसप्ततिर्मुखरोगाः (६४-६६) · Śloka ६६
|
ओष्टे गण्डे द्विजे मूले जिह्वायां तालुके गले||६४||
वक्त्रे सर्वत्र चेत्युक्ताः पञ्चसप्ततिरामयाः|
एकादशैको दश च त्रयोदश तथा च षट्||६५||
अष्टावष्टादशाष्टौ च क्रमात्|
|६६|
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-ओष्ठामया एकादशोक्ताः| गण्डे एकः| द्विजेदन्ते, दश| दन्तमूले त्रयोदश| जिह्वायां षट्| तालुन्यष्टौ| गलेऽष्टदश| वक्त्रेऽष्टवामयाः| एवं सर्वत्र पञ्चसप्ततिरामया आख्याताः-उक्ताः|
Adhikarana तेषां साध्यासाध्यत्वम् (२१) · Śloka २१
तेष्वनुपक्रमाः|
करालो मांसरक्तौष्ठावर्बुदानि जलाद्विना||६६||
कच्छपस्तालुपिटिका गलौघः सुषिरो महान्|
स्वरघ्नोर्ध्वगुदश्यावशतघ्नीवलयालसाः||६७||
नाड्योष्ठकोपौ निचयात्, रक्तात्सर्वैश्च रोहिणी|
दशने स्फुटिते दन्तभेदः, पक्वोपजिह्विका||६८||
गलगण्डः स्वरभ्रंशी कृच्छ्रोच्छ्वासोऽतिवत्सरः|
याप्यस्तु हर्षो भेदश्च शेषान् शस्त्रौषधैर्जयेत्||६९||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने मुखरोगविज्ञानीयो नामै- कविंशोऽध्यायः||२१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प० च०-ओष्ठाद्यामयेषु मध्येऽनुपक्रमाः-असाध्याः| करालो नाम दन्तरोगः| महासुषिरो दन्तरोगः| स्वरघ्नो गलरोगः| ऊर्ध्वगुदो वक्त्ररोगः| शतघ्नीवलयौ कण्ठरोगौ| अलसोऽधिजिह्वारोगः| निचयात्-सन्निपातात्, नाडी दन्तमूलजा| ओष्ठकोपः सन्निपातजोऽसाध्यः| रक्तात्सन्निपातात् [च] जाता रोहिणी| दन्तभेदो दशने-दन्ते, स्फुटितेऽसाध्यः| पक्वोपजिह्विकाऽसाध्या| गलगण्डः स्वरभ्रंशः(शी)कृच्छ्रोच्छ्वासोऽतिवत्सरोऽसाध्यः| प० च०-दन्तहर्षो दन्तभेदश्च द्वावेतौ याप्यौ| प० च०-शेषान् रोगान् शस्त्रौषधैर्जयेत्| यथायोगैर्वक्ष्यमाणैरिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने मुखरोग- विज्ञानीयो नामैकविंशोऽध्यायः समाप्तः|| २१||