Adhikarana अध्यायोपक्रमः · Śloka
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
द्विविधोपक्रमणीयाध्यायादनन्तरं शोधनादिगणसङ्ह्ग्रहाध्यायारम्भः| यतो दोषोपक्रमणीये द्विविधोपक्रमणीये च नानाविधा उपक्रमा अभिहिताः | ते च मदनमधुकादिभेषजाश्रयाः, अतस्तानि शोधनाद्युपयोगीनि सर्वोपक्रमाधिकारीणि सञ्जिघृक्षुरध्यायमिममारेभे-
Adhikarana शोधनादिगणसङ्ग्रहोध्यायः (२) · Śloka २
यतो दोषोपक्रमणीये द्विविधोपक्रमणीये च नानाविधा उपक्रमा अभिहिताः, ते च मदनमधुकादिभेषजाश्रयाः, अतस्तानि शोधनाद्युपयोगीनि सर्वोपक्रमाधिकारीणि सञ्जिघृक्षुरध्यायमिममारेभे - - - - अथातःशोधनादिगणसङ्ग्रहमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
गद्यसूत्रे||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शोधनं-शोधनरूपो द्रव्यगणः, आदिर्येषां त एवम्| आदि शब्देन वातहरादिगणपरिग्रहः| तेषां सङ्ग्रहो यस्मिन्नध्याये स शोधनादिगणसङ्ग्रहः, तं शोधनादिगणसङ्ग्रहसंज्ञमध्यायं व्याख्यास्यामः| गणः-समूहः| विक्षिप्तानां पदार्थानामेकत्र राशीकरणं-सङ्ग्रहः| तत्र शोधनगणस्य सर्वदोषविजयित्वेन प्राधान्यात् पूर्वमुपन्यासः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- शोधनादिगणीमध्यायं व्य्ख्यातुं प्रतिजानी-अथेति|
Adhikarana वमनगणः (१) · Śloka १
शोधनं चतुर्विधम्,- वमनविरेचनास्थापनशिरोविरेचनद्रव्यभेदेन|
तत्रापि वमनस्यौषधगणं तावत्पूर्वं वक्ति - - - - मदनमधुकलम्बानिम्बबिम्बीविशाला- त्रपुसकुटजमूर्वादेवदालीकृमिघ्नम्|
विदुलदहनचित्राः कोशवत्यौ करञ्जः कणलवणवचैलासर्षपाश्र्छर्दनानि||१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मदनं-राठः| मधुकं-मधुयष्टिका| लम्बा-तुम्बी दीर्घतिक्ताऽलाबुसंज्ञा| निम्बः-पिचमन्दः| बिम्बी-गोह्ला, ओष्ठोपमफलसंज्ञा| विशाला-इन्द्रवारुणी| त्रपुसं-तिक्तत्रपुसं व्रेद्यम्, तस्य वमनयोग्यत्वात्| कुटजं-वत्सकम्| मूर्वा-पीलुपर्णी| देवदाली-गरागरी| कृमिघ्नं-विडङ्गम्| विदुलो-जलवेतसः| दहनः-चित्रकः| चित्रा-मूषिकपर्णी| कोशवत्यौ-घण्टालिके, एका धामार्गवो द्वितीया राजकोशातकी| करञ्जो-नक्तमालः| कणा-कृष्णा| लवणं-सैन्धवम्| वचा-गोलोमी| एला-त्रुटीः| सर्षपो-रक्षोघ्नः| एतानि मदनादीनि छर्दनानि-छर्दिकराणि| "वसुमुनिविरतिश्चेन्मालिनी नौ मयोः यः|" अत्र च मदनविशालात्रपुसकुटजविडङ्गैलासर्षपाणां फलानि वमनक्रन्ति| मधुकविदुलचित्रकदन्तीवचानां तु मूलानि| रोध्रसुवर्णक्षीरीकम्पिल्लानां त्वचः| शेषाणां फलपत्रपुष्पाणि वेदितव्यानीति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- शोधनादिद्रव्यगणः| तत्र वमनगणमाहमदनमधुकेत्यादि| मदनो-गेलः| मधुकं-यष्टीमधु| लम्बाकटुतुम्बी| निम्बः-पिचुमन्दः| बिम्बी-कटुतुण्डिकेरी|विशाला-इन्द्रवारुणी| त्रपुसं-कटुवालुकम्| कुटजो-वत्सकः| मूर्वा-मधुरसा| देवदाली-जीमूतकः| कृमिन्धं-विङ्गगं| तिदुलो-वेतसः| दहनः-चित्रकः| चित्राचित्राडिका कटुपटोलफलं पत्रकं च| कोशवत्यौ-कटुकोशातकी राजकोशातकी च| करञ्जो-नक्तमालः| कणापिप्पली| लवणं-सैन्धवम्| वचा-उग्रा| एला-त्रुटिः| सर्षपो-रक्षोन्धः| छर्दनानीति वमनानि| बहुवचनं गुणबहुत्वार्थम्| तेन वमनादिद्रव्याणां यस्य कस्यचित् त्रिकचतुष्कपञ्चकादेः प्रयोजकत्वम्| उक्तं च सुश्रुतेन (सू. अ. ३७/३४|-"समस्तं वर्गमर्धं वा यथालाभमथापि वा| प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु||" इति| उपलक्षणं चेदम्| अत एव सङ्ग्रहकारोऽधिकमधीते (सू. अ. १४)- "मदनजीमूतेक्ष्वाकुकोशातकीद्वयफलपुष्पपत्राणि| कुटजकरञ्जत्रपुससर्षपपिप्पलीविडङ्गैलाप्रत्यक्पुष्पीहरेणुपृथ्वीकाकुस्तुम्बरीप्रपुन्नटानां फलानि शारदानि च हस्तिपर्ण्याः| कोविदारकर्बुदारारिष्टाश्व्वगन्धानीपविदुलबिम्बीबन्धुजीवकश्वेताशणपुष्पीसद्पुष्पीवचाचित्राचित्रकमृगैर्वारुकेन्द्रवारुणीसुषवीचतुरङ्गुलस्वादुकण्टकपाठापाटलीशार्ङ्गेष्टामधुकमूर्वासत्पपर्णसोमवल्कद्वीपिशिग्रुसुमनस्सौमनस्यायवावीवृश्चीवपुनर्नवामहासहाक्षुद्रसहेसक्षुकाण्डकतकपिप्पलीमूलचविकानलदोशीरहीबेरमूलानि| शाल्मलीशाल्मलुकाभद्रपर्ण्यैरावण्युपोदकौद्दालकधन्वनरसाञ्जनराजादनोपचित्रागोपशृङ्गाटिकापिच्छाः| प्रियङ्गुपुष्पम्| तालीसपत्रम्| हरिद्राशृङ्गबेरकन्दौ| मधूकदारुहरिद्रासारौ| तगरगुडूचीमधुफाणितक्षीरक्षारलवणानि चेति वमनोपयोगीनि|" इति|
Adhikarana विरेचनगणः (२) · Śloka २
निकुम्भकुम्भत्रिफलागवाक्षी- स्रुक्शङ्खिनीनीलिनितिल्वकानि|
शम्याककम्पिल्लकहेमदुग्धा दुग्धं च मूत्रं च विरेचनानि||२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-निकुम्भो-दन्ती| कुम्भः-त्रिवृत्| त्रिफला-वरा| गवाक्षी-विशाला, द्वितीयेन्द्रवारुणी| स्रुक्-गुडा| शङ्खिनी-यवतिक्ता| नीलिनी-नीलपुष्पा, भारवाहीसंज्ञा| तिल्वको-रोध्रः| शम्याकः-कर्णिकारः| कम्पिल्लको-रञ्जनकः| हेमदुग्धा-कनकक्षीरी| दुग्धं-क्षीरम्| मूत्रं-प्रसिद्धम्| निकुम्भादीन्येतानि विरेचनानि| उपजातिर्वृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- विरेचनगणमाह-निकुंभकुम्भेति| निकुम्भोदन्ती| कुम्भः-त्रिवृत्| त्रिफला-प्रसिद्धा| गवाक्षी-श्वेतपुष्पेन्द्रवारुणी| स्नुक्-स्नुही| शङ्किनीसद्दशाश्वेतपुष्पा| नीलिनी-कालाञ्जनिका| निल्वको-रोध्रः| शम्याकः-आरग्वधः| कम्पिल्लो-रक्ताङ्गः| हेमदुग्दा-हेमावती कङ्कुष्ठप्रकृतिः| सङ्ग्रहे त्वधिकमुक्तम् (सू. अ. १४) - "त्रिवृच्छ्यामादन्तीद्रवन्तीशङ्खिनीसत्पलाजगन्धाजशृङ्गीवचागवाक्षीछगलान्त्रीसुवर्णक्षीरीचित्रककिणिहीह्वस्वपञ्चमूलवृश्चीवपुनर्नवापलङ्कषावास्तुकशाकसालमूलानि| तिल्वकरम्यककम्पिल्लकपाटलीत्वचः| त्रिफलपीलुप्रियालबकुलबदरकर्कन्धुकास्मर्यपरूषकद्राक्षानीलिनीक्लीतनकक्षीरकोदकीर्याविटुङ्गपूगपञ्चःङ्गुलफलानि, चतुरङ्गुलफलपत्राणि| पूतीकत्वक्फलपत्राणि| पूतिकत्वक्फलपत्राणि| महावृक्षसत्पपर्णज्योतिष्मतीक्षीराणि| क्षीरमस्तुमद्यधान्याम्लूत्राणि चेति विरेचनोपयोगीनि| कोशातकीदेवदालीसपलाकारपेल्लिकास्वरसा अर्कक्षीरमुष्णोदकं चेत्युभयात्मकानि|" इति|
Adhikarana निरूहगणः (३) · Śloka ३
मदनकुटजकुष्ठदेवदाली- मधुकवचादशमूलदारुरास्नाः|
यवमिशिकृतवेधनं कुलत्था मधु लवणं त्रिवृता निरूहणानि||३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मदनं-मदनफलम्| कुटजं-वत्सकत्वक्| कुष्ठं-गदनाम| दारु-देवदारुः| रास्ना-युक्तरसा| मिशिः-शतपुष्पा| कृतवेधनं-धामार्गवः| कुलत्थाः-प्रसिद्धाः| एतानि निरूहणानि-निरूहणसाधनानि| "भवति जगति नौ ततः परौ र्यौ नजसहितैर्जरगैश्च पुष्पिताग्रा|"
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- निरूहगणमाह-मदनेत्यादि| कुष्ठं-पाकलम्| दशमूलं-महद्र्हस्वे पञ्चमूले| दारु-देवदारु| रास्त्रा-प्रसिद्धा| यवः-तीक्ष्णशूकः| मिशिः-शतपुष्पा| कृतवेधनं-कटुकोशातकी| कुलत्थः-शिम्बीधान्यविशेषः| मधु-माक्षिकम्| सङ्ग्रहे त्वधिकमुक्तम् (सू. अ. १४) - "बस्तिषु तु तेषु तेष्ववस्थान्तरेषु यान्युपयुज्यन्ते द्रव्याणि, तान्यसङ्खयेयत्वान्नोपदिश्यन्ते| रसस्कन्धेभ्य एव यथादोषं यथावस्थं च विभजेत्| सर्वेषु प्रायो मदनकुटजजीमूतकेक्ष्वाकुकोत्रिवृद्वचायष्ट्याद्वकुष्ठरास्नापुनर्नवाकटतृणमूलानि, सरलदेवदारुहपुषहिङ्गुरसाञ्जनदयोषपत्रैलामृतायवकोलकुलत्या गुडलवणमस्तुधान्याम्लमूत्रस्नहक्षीरक्षौद्राणि चेति||" इति|
Adhikarana नावनगणः (४) · Śloka ४
वेल्लापामार्गव्योषदार्वीसुराला बीजं शैरीषं बार्हतं शैग्रवं च|
सारो माधूकः सैन्धवं तार्क्ष्यशैलं त्रुट्यौ पृथ्वीका शोधयन्त्युत्तमाङ्गम्||४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वेल्लं-विडङ्गम्| अपामार्गः-प्रत्युक्पुष्पी| व्योषं-त्रिकटुकम्| दार्वी-पीतद्रुः| सुराला-श्रेष्ठसर्जरसः| शैरीशं-शिरीषबीजम्| बार्हतं-बृहतीबीजम्| शैग्रवं-शिग्रुबीजम्| सारो माधूको-मधूकपुष्पसारः| सैन्धवं-सिन्धूत्थम्| तार्क्ष्यशैलं-शुष्करसाञ्जनम्| त्रुट्यौ-सूक्ष्मैला स्थूलैला च| पृथ्वीका-हिङ्गुपत्री| एतान्युत्तमाङ्गं शोधयन्ति,- मूर्धविरेचनानीत्यर्थः| "मौ यौ पञ्चाश्वैर्वैश्वदेवीति नाम्ना|"
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- नावनगणमाह-वेल्लापामार्गेति| सुरालाश्रेष्ठः सर्जरसः| शिरिषबृहतीशिग्रणां बीजम्| मधुकस्यसारः| तार्क्ष्यशैलं-रसाञ्जनम्| त्रुट्यौ-एलाद्वयम्| पृष्वीका-बाष्पिका| सङ्ग्रहे त्वधिकमुक्तम् (सू. अ. १४) - "अपामार्गविडङ्गमरिचपिप्पलीशिरीषबिल्वाजाज्यजनोदावार्ताकपूथ्वीकैलाहरेणुफलानि| तालीसतमतर्कारीहरीतकवर्गपत्राणि| सर्षपफलपत्राणि| शिग्रुफलपत्रत्वजः| हरिद्रामूलकलशुननागरकन्दपत्राणि| अतिविषाकन्दा| कुष्ठथचाभार्ङीश्वेताकिणिहीनागन्तीज्योतिष्मतीगवाक्षीवयस्यावृश्चिकालीबिम्बीकरञ्जमूलानि| अर्कालर्कपुष्पमूलानि| रोध्रमदनसत्पपर्णनिम्बीकरञ्जमूलानि| मुरङ्गीमातुलुङ्गीलवङ्गाप्पुष्पणि| अगुरुसुरदारुसरलशलुकीजिङ्गिण्यशनरसाञ्जनहिङ्गुलाक्षानिर्यासाः| शालतालमधूकदार्वीसाराः| तेजस्विनीमेषशृङ्गीवराङ्गेदीबृहतीद्वयत्वचः| राजादतमज्जा|क्षौद्रलवणमद्यानि, गवादिशकृन्मूत्रपित्तानि, एववुधानि चेन्द्रियोपशमनीयान्यन्यान्यपि| तथा स्नेहाः क्षीरं रक्तं मांसरसो धान्यरसस्तोयमिति शिरोविरेचनोपयोगीनि| मधुकपद्मकमञ्जिष्ठासारिवामुस्ता पुन्नागनागकेशरैलवालुकसुवर्णत्वक्त्मालपत्रपृथ्वीकाहरेणुलाक्षाशतपुष्पाशलुकीशकरादमनक्रमक्बकन्प्यग्रोधोदुम्बंराश्वत्श्चप्लक्षरोध्रत्वक्पद्मोत्पलानि सर्वगन्धद्गम्याणि च कुष्ठतगरवर्ज्यानिप्रायोगिकधूमोपयोगीनि| अगुरुगुलिशल्लकीशैलेयकनलदह्रीवेररेणूशीरमुस्तध्यामकवराङ्गश्रीवेष्टकस्यौणेयकपरिपेलैवैलवालुककन्दुरुकसर्जरसयष्ठ्याङ्कफलसारस्नैहिधूमोपयोगीनि| शिरोविरेलद्रव्याणि गन्धद्रव्याणि च कुष्ठतगरवर्ज्यानि प्रायोगिकधूमोपयोगीनि| अगुरुगुग्गुलिशल्लकीशैलेयकनलदह्नीवेरेणूशीरमुस्तध्यामकाराङ्गश्चीवेष्टकस्यौणेयकपरिलैवैलवालुककन्दुरुकसर्जरसयष्ठ्याङ्कफलसारस्नेहमधूच्छिष्टबिल्वफलमज्जतिलयवमाषकुङ्कुरानि मेदोमज्जवसासर्पीषि च स्नैहिकधूमोपयोगीनि| शिरोविरेकद्रव्याणि गन्धद्रव्याणि च तीक्ष्णनि मनोह्वा हरितालं चेति तीक्ष्णधूमोपयोगीनि|" इति|
Adhikarana वातघ्नगणः (५) · Śloka ५
भद्रदारु नतं कुष्ठं दशमूलं बलाद्वयम्|
वायुं वीरतरादिश्च विदार्यादिश्च नाशयेत्||५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-भद्रादारु-किलिमम्| नतं-तगरम्| कुष्ठं-गदः| दशमूलं=द्विपञ्चमूलम्| बलाद्वयं-बलाऽतिबला च| एतानि भद्रदार्वादीनि, च-अपरं, वक्ष्यमाणो वीरतरादिर्विदार्यादिश्च गणो वायुं नाशयति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वातन्धगणमाह-भद्रदारु नतमिस्यादि| भद्रदारु-देवदारु| नतं-तगरम्| वीरतरादिविदार्यादी-वक्ष्यगाणौ गश्रौ| तयोर्यानि पुनरुक्तानि तानि द्विगुणं योज्यानि| सङ्ग्रहे तु (सू. अ. १४) - "भद्रदारुकुष्ठतगरवरुणबलातिअलार्तगलकच्छुराबाङ्कीककुबेराक्षिवत्सादन्यर्कालर्ककिंशुककतकभार्ङ्गीकार्पासीवृश्चिकात्स्त्रीपत्तूरप्रभृतीनि विदार्यादिर्वर्वक्ष्यमाषगणो वीरसरादिस्तृणाल्यवर्ज्यानि षट् पञ्चमूलानि चेति वाअशमनानि||" इति|
Adhikarana पित्तघ्नगणः (६) · Śloka ६
दूर्वाऽनन्ता निम्बवासाऽऽत्मगुप्ता गुन्द्राऽभीरुः शीतपाकी प्रियङ्गुः|
न्यग्रोधादिः पद्मकादिः स्थिरे द्वे पद्मं वन्यं सारिवादिश्च पित्तम्||६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-दूर्वा-शाद्वलम्| अनन्ता-यवासकः| निम्बः-प्रसिद्धः| वासा-आटरूषकः| आत्मगुप्ता-कपिकच्छूः| गुन्द्रा-पदएरकः| अभीरुः-शतावरी| शीतपाकी-शिखण्डिका काकणन्तिकाभेदः| प्रियङ्गुः-श्यामा| एष दूर्वादिर्गणः, तथा वक्ष्यमाणो न्यग्रोधादिः पद्मकादिश्च गणः, तथा शालिपर्णीपृश्निपर्ण्यौ, तथा पद्मं-जलजम्, वन्यं-कुटन्नटम्, तथा सावादिश्च गणः, एते पित्तं नाशयन्ति| "म्तौ तौ गौ चेच्छालिनी वेदलोकेः|"
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पित्तन्धगणमाह-दूर्वेत्यादि| अनन्ता-दुरालभा| गुन्द्रा-एरका शीतपाकी-गुञ्जा|स्थिरे द्वे-शालिपर्णी दयो-वक्ष्यमाणा गणांः| अत्रापि पुनरुक्तानि द्विगुणानि| सङ्ग्रहे तु (सू. अ. १४) - "दूर्वानन्तामोचरसमञ्जिष्ठापरिपेलवकालाकालीयककदलीकन्दलीपयस्यात्मगुत्पानारुकेलखर्जूरद्राक्षाविदारीबदरीबलानागबलानागबलानागपुष्पाशतावरीशीयपाक्योदनपाकीधवन्वनस्यन्दनखदिरकदरप्रियालतालशाअसर्जतिनिशाश्वकर्णगुन्द्रावानीरपद्मापद्मकपद्मबीजमृणालकुमुदनलि नसौगन्धिकपुण्डरीकशतपत्रशेवालक~ह्नारोत्पलकाकोल्युत्पलिकाशालूकशृङ्गाटककसेरुकक्रौञ्चादनप्रभृतीनि शीतवीर्याणि| सारिवादिः पद्मकादिः पटोआदिर्न्यग्रोधादिर्दाहहरोमहाकषायरतृणपञ्चमूलं चेति पित्तशमनानि||" इति|
Adhikarana श्लेष्मघ्नगणः (७) · Śloka ७
आरग्वधादिरर्कादिर्मुष्ककाद्योऽसनादिकः|
सुरसादिः समुस्तादिर्वत्सकादिर्बलासजित्||७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आरग्वधाद्यादयो गणाः सप्तैते बलासं-श्लेष्मणं जयन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- श्लेष्मन्धगणमाह-आरग्वधादिरिति| एते सत्पगणा वक्ष्यमाणाः| अतापि पुनक्तानि द्विगुणानि| सङ्ग्रहे तु (सू. अ. १४) - "शीतशिवशतपुष्पासरलसुरदारुरास्नेङ्ग्रुदीसातलसुमनःकाकादनीलाङ्गलिकाहस्तिकर्णमुञ्जातलामज्जकप्रभृतीन्यारग्वाधादिरसनादिरर्कादिः सुरसादिर्मुष्ककादिर्वत्सकादिर्मुस्तादिः शीतन्धो महाकषायो वल्लीकण्टकपञ्चमूले चेति श्लेष्मप्रशमनानीति||" इति|
Adhikarana जीवनीयाख्यो गणः (८) · Śloka ८
जीवन्ति काकोल्यौ मेदे द्वे मुद्गमाषपर्ण्यौ च|
ॠषभकजीवकमधुकं चेति गणो जीवनीयाख्यः||८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-जीवन्त्यादिर्गणो जीवनीयसंज्ञः| उदाहरणमात्रं चेदम्| धीमता स्वादुशीतस्निग्धादीन् जीवन्त्यादिषु साधारणगुणानालोच्य क्षीरेक्षुद्राक्षाक्षोडविदारिकन्दादिषु (ष्वपि) तद्गुणेषु जीवनीयादित्वमवधारयितुं युक्तमिति| जीवन्ती-जीववर्द्धनी| काकोल्यौ द्वे-एका काकोली केवडीसंज्ञा, अन्या क्षीरकाकोली पयस्विनीसंज्ञा| द्वे मेदे-एका मेदा मणिच्छिद्रासंज्ञा, अन्या महामेदा वृक्षरुहासंज्ञा| मुद्गपर्ण्यादीनां नामानि प्रागुक्तानीति| "ह्यन्तान्तरादिगुरुभिः सोदधिलैः सप्तभिर्गणैर्गुरुणा| आर्यार्धे नात्रायुजि जः षष्ठोऽयं नलघुकौ वा|"
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथ महाकशायाः| तत्र जीवनीयगणमाहजीवन्तीत्यादि| सङ्ग्रहे तु (सू. अ. १४) - "आनम्त्यादौषधानामामयानां चानन्ता एव कषायाः| येतु सुतराषधानामामयानां चानन्ता एव कशायाः| ये तु सुतरामुपयोगवन्तः प्रकर्षवर्तिनो वा ते जीवनीयादिसंज्ञाः| प्रत्येकं दशकषायसंयोगात् पञ्चचत्वारिंशन्महाकषाया वक्ष्यन्ते| तत्प्रतिपत्यर्थम्| शक्यं हि बुद्धिमद्भिः स्वादुस्निग्धशीतादीन् जीवन्त्यादिषु साधारणान् दुनानानालोच्य क्षीरेक्षुक्षौद्रद्राक्षाक्षोडविदारिकन्दादिष्वपि तद्गुणेषु जीवनीयादित्वमवधारयितुम्| यथोक्तानुसरणमेव श्रेयो मन्दबुद्धेरिति| व्यास्ताश्च ते चत्वारि शतानि पञ्चाशदधिकानि तदभिधानान्येव| यद्यपि च तानि तान्येव द्रव्याणीति द्रव्यसङ्करः काषायेषु, तथाऽपि नसंज्ञाविरोधः| एकस्यापि बहुकार्यनिर्वनात्| तत्रलवणवर्ज्याः पञ्च रसाः कल्पनायां कषाया इत्युच्यन्ते, तद्योनित्वात्| लवणे तु निर्यासादिकल्पनानामसम्भवः, पृथदुपयोगोपकाररहितत्वाच्च नैरर्थक्यमिति| भवन्ति चात्र| जीवन्ती काकोल्यौ द्वे मेदे मुद्गमाषपर्ण्यौ च| क्रषभकजीवकमधुकं चेति गणो जीवनीयाआख्यः|| १|| वाठ्या बला पयस्या काकोल्यावृषभवाजिगन्धे च| क्षीरिणिराजक्षवके भारद्वाजी च बृहणीयोऽयम्|| २|| वाठ्या-अतिबला| पयस्या-क्रष्यगन्धा, विदारी क्षीरविदारी [ वा ]| क्षीरिणी-श्रीपर्णी| राजक्षवकं-दिग्धिका| भारद्वाजी-वनकार्पासी| हैमवती विरिबिल्वं मुस्ता कुष्ठं वचा हरिद्रे च| चित्रककटुकातिविषा वर्गोऽयं लेखनीयाख्यः|| ३|| हैमवती-श्वेवती-श्वेतवचा| अर्कैरण्डौ चित्रा चित्रकचिरिबिल्वशङ्खिनीसरलाः| हेमक्षीरी कटुका वह्निमुखी भेदनीयानि|| ४|| चित्रा-दन्ती| सरला-त्रिवृत्| वह्निमुखी-लाङ्गली| मधुमधुकपृश्र्निपर्णीकट्फलरोध्रप्रियङ्गुधातक्यः| अम्बष्ठकी समङ्गा मोचरसश्चेति सन्धानम्|| ५|| अम्बश्ठकी-माचिका| हुङ्गुमरिचाम्लवेतसदीप्यकभल्लातकास्थिसंयोगात्| वर्गः सपञ्चकोलो निद्रिष्टो दिपनीयोऽयम्|| ६|| एन्द्र्यतिरसा पयस्या क्रष्यप्रोक्तास्थिरा बलाऽतिबला| इति बल्यो दशकोऽयं हयगन्धा रोहिणी क्रषभी|| ७|| ऐन्द्री-इन्द्रवारुणी| अतिरसा-मूर्वा| क्रष्यप्रोक्त-शतावरी| रोहिणी-श्रीपर्णी| क्रषमीकपिकच्छूः| चन्दनतुङ्गपयस्यासितालतामछुकपद्मोकोषीरम्| वर्ण्यो गणोऽयमिदितो मञ्चिष्ठासारिवासहितः|| ८|| तुङ्गकिञ्जल्कम्| सिता-श्वेरदूर्वा| लता-प्रियङ्गुः| हंसपदीबृहतीद्वयमृद्वीकासारिवेक्षुमूलानि| कैडर्यमधुककृष्णाः सविदार्यः कण्ठजननानि|| ९|| कैडर्यः-कट्फलः| वृक्षाम्लबदरदाडिसाम्लवेतसं वर्गम्|| १०|| कुवलं-कोलम्| नागरचविकाचित्रकचिडङ्गमूर्वामृतावचामिस्ताः| सहपिप्पलीपटोलास्तृत्पिन्धोऽयं गणः प्रथितः|| ११|| कुटजफलबिल्वचित्रकमहौषधप्रतिविषावचाचविकाः| अन्वयवासं पथ्या दारुहरिद्रा गणोऽर्शोन्धः|| १२|| स्वदिरामलकारुष्करनिशाभयासत्पपर्णकरवीराः| कुष्ठन्धाश्चतुरङ्गुलविडङ्गजाईप्रवालाश्च|| १३|| नलदकृतमालचन्दनसर्षपधननिम्बकुटजमधुकानि| कण्डूं दारुहरिद्रा सनक्तमालानि निन्धान्ति|| १४|| नलदंमांसी| कृतमालः-आरग्वधः| अक्षीवमरिचकेम्बुकविडङ्गकाण्डीरकिणिहिनिर्गुण्ड्यः| न्धन्ति कृमीन् श्वदंष्ट्रावृषाखुपर्ण्यस्तथा न चिरात्|| १५|| अक्षीवः-शिग्रुः| काण्डीरः-उग्र्काण्डः| मञ्जिष्ठाश्लेष्मातकरजनीसुवहाशिरीषपालिन्यः| सैलाचन्दनकतकाः ससिन्दुवारा विषं श्रन्ति|| १६|| सुवाहा-गन्धनाकुली| पालिन्दी-त्रिवृता| शालिकृज्ञकाशषष्टिकवीरणदर्भेक्षुबालिकेक्शूणाम्| तद्वद्गुन्द्रोरकटयोर्मूलमलं स्तन्यजमनाय|| १७|| इक्षुबालिका-ह्वस्वेक्षुः| पाठानागरसुरतरुघनामृतासारिवेन्द्रयवमूर्वाः| कटुकाकिराततिक्तं वर्गोऽयं स्तन्यशुद्धिकरः|| १८|| मेदाकाकोलीद्रयवृक्षरुहाजीवकर्हभकुलिङ्गाः| शुक्रजननो गणोऽयं सहजनिलाशूर्पपर्णीभिः|| १९|| कुलिङ्गा-कर्कटशृङ्गी| जटिला-उत्रठा| कुष्टैलवालुकक्ट्फलकाण्डेक्षुसमुम्रफेनकोशीरैः| वसुकेक्षिवक्शुरकईः शुक्रं शुध्येत्सकदम्बनिर्यासैः||२०|| काण्डेक्षुःकाशः| वसुकः-बुक्तः| इक्षुरकः-कोकिलाक्षः| द्राक्षाकाकोलीद्वयमधुपर्णीमहुकजीवकविदार्यः| स्नेहोपगाः समेदाजीवन्तीशालिपर्णीकाः|| २१|| सौभाञ्जनकपुनर्नववृश्चीवकुलत्थमाषबदराणि| स्वेदोपगानि विद्यात्सयवतिलार्कोरुबूकाणि|| २२|| लाजाम्लबदरदाडिमयवशष्टिकमातुलुङ्गस्व्यानि| जम्बाम्रपल्लवानि च दमिनिग्रहणानि मृस्त्रा च|| २३|| नागरधन्वयवासकवालकपर्पटकचन्दनगुडूच्यः| मीनिम्बधनपटोलीकुस्तुम्बर्यस्तृषं न्धन्ति|| २४|| बृहतीद्वयवृक्षरुटाप्लष्करमूलामयाकणाशृङ्ग्यः| हिध्मां निन्धन्ति शठी दुरालमा बदरबीजं च|| २४|| श्यामाऽवन्ता पद्मा कट्वङ्गः पद्मोकेशरं रोध्रम्| धातकिकुसुमसमङ्गा मोचेरसाम्रास्थिबिङ्गहपाम्|| २६|| स्यामा-प्रियङ्गु| अनन्ता-धन्वयासकः| पद्मा-पद्मचारिणी| जम्बूशल्लकिमधुकंनीलोत्पलकच्छुरातिलत्र्याह्वम्| भृष्टा च मृत् पयस्या सशाल्मली वुङ्गिरजनानि|| २७|| कच्छुरा-धन्वयासकः| श्र्यह्वः- श्रीवेष्टकः| जग्ब्वम्रोदुम्वरवटकपीतनप्लक्षपिप्पलाश्मन्तम्| मल्लातसोमवल्कं मूत्रग्रहणाय निर्दिष्टम्|| २८|| क,अलमलिमकुमुदमधुकसौगन्धिकधातकीलताकुसुमम्| मूत्रं नयति विरागं सोत्पलशतपत्रपिण्डरीकं च|| २९|| मधुकधातकीलताकुसुमेम्योऽन्यानि पद्मानि| लता-प्रियङ्गु| कमलं-म्रिवर्णम्, नलिनं-रक्तम्, शतपत्रं-नीलम्, पुण्डरीकं-श्वेतम्, तानि दिवा विकसन्ति| कुमुदं-श्वेतम्, सत्पलं-नीलम्, ते च रात्रौ| सौगन्धिकं सन्ध्यायाम्| सृक्षातलीश्वंदद्राद्रभौत्कटचसुकवशिरकुशकाशाः| मूत्रं विरेचरेयेयुर्गुन्द्रा पाशाणमेदश्च|| ३०|| वशिरः-करिपिप्पली| न्द्राह्यान्मलकपुनर्नबवृदुरालभाभयाकृष्णाः| कासं न्धनि सशङ्गी तामलकी कण्टकारी च|| ३१|| चण्डाम्लवेतसशठीतामलीसुरसहिङ्गुजीवन्त्यः| पुष्करमूलैलागुरु वर्गोऽयं श्वासशमनाय|| ३२|| द्राक्षापीलुपरूषकमञ्जिष्ठासारिवासुतापलाः|| त्रिफला वेति गणोऽयं ज्वरसंशमनाय निर्दिष्टः|| ३३|| दाडिमफल्गुपरूषकप्रियालयवषष्टिकेक्षुबदराणि| अमकाशननि विद्याद्दाक्षाखर्जूरसहितानि|| ३४|| पद्मकलाजोशीरं मधुत्पलसारिवासितोदीच्यम्| काश्मर्यफलं स्वन्द्रनमेष गणो दाहहा प्रोक्तः|| ३५|| नतनागरागुरुवनाधान्यकसूतीकपिम्पलीव्याध्यः| शीतं शमयन्त्यचिराच्छ्थोताकः साग्निमन्थश्च|| ३६|| भूतीकं-कट्तृणम्| तिन्दुकपियालबीजकसप्तच्छदखदरबदराणि| अहिमारवाआलिकगौ ककुभश्चोदर्दशमनानि|| ३७|| काकोल्येला सेव्यं निद्रिग्धिके शाळिपृश्र्निपर्ण्यौ च| न्धन्त्यङ्गमर्दमचिरास्तन्दनमधुकोरुबूकं च|| ३८|| दीप्यकामरिचाजाजीगण्डीरं सालगन्धमथ शूलम्| शमयति सपञ्जकोलं, शोफं दशम् स्लमाद्यं च|| ३९|| ४०|| मधुमधिकलाजगैरिकफलिनीमोचरसमृत्कापालानि| संस्थापयन्ति रिधिरं रुधिरं च शर्करं रोध्रम्|| ४१|| मृत्कपालं-कर्परम्| रुधिरं-कुङ्कुमम्| शैलैलावालुकट्फलमोचरसाशोकपद्मकशिरीषम्| स्थापयति वेदनामथ सहतुङ्गकदम्बविदुलं च|| ४२|| विदुलो-वेतसः| कैडर्यहिङ्गुचोरकपङ्कषाशोकरोहिणिवयःस्थाः| पूत्यरिमेदो जटिलागोलोमिवचाश्च संज्ञादाः|| ४३|| पलङ्कषा-गुग्गुलुः| अशोकरोहिणी-कटुका| वयःस्था-हरीतकी| पूयरिमेदो-दुर्गन्धोऽहिमारकः| जटिला-मांसी| दूर्वा| ऐन्द्री दूर्वाऽमोधा विष्वक्सेनाऽव्याथा शिवाऽरिष्टा| ब्राह्यी सवाठ्यपुष्पी-अतिबला| शतवीर्या-शतवरी| अमृता पथ्या धात्री जीवन्ती श्रेयसी स्थिरा युक्ता| मण्डूकपर्ण्यतिरसा स्थापयति पुनर्नवा च वयः|| ४५|| श्रेयसी-पाठा| युक्ता-रास्ना| इति नानाविधव्याधिविधातार्थमुदाहृताः| योगा रोगातुरवशात् कल्पयेतान् यथायथम्||" इति|
Adhikarana विदार्यादिगणः (९-१०) · Śloka १०
विदारिपञ्चाङ्गुलवृश्चिकाली- वृश्चीवदेवाह्वयशूर्पपर्ण्यः|
कण्डूकरी जीवनह्रस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी||९||
विदार्यादिरयं हृद्यो ब्रूंहणो वातपित्तहा|
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः||१०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-विदारी-वृष्यकन्दा| पञ्चाङ्गुलः-एरण्डः| वृश्चिकाली-उष्ट्रधूमका मेषश्रृङ्गी वा| वृश्चीवः-क्षुद्रवर्षाभूः| देवाह्वयः-सुरदारु| [देवाद्वयेति पाठे एका सहदेवा द्वितीया विश्वदेवा चेति देवाद्वयम्| ] शूर्पर्ण्यौ-मुद्गपर्णी माषपर्णी च| कण्डूकरी-कपिकच्छूः| जीवनेत्यादि| "अभीरुवीराजीवन्तीजीवकर्षभकैः स्मृतम्| जीवनाख्यम्" (हृ. सू. अ. ६|१७०) इति जीवनसंज्ञं पञ्चमूलम्| बृहती कण्टकारिका शालिपर्णी पृश्निपर्णी गोक्षुरकमिति ह्रस्वसंज्ञं पञ्चमूलम्| गोपसुता-सारिवा| त्रिपादि-हंसपादी कीटमारिकाख्या| एष विदार्यादिगणो बृंहणो वातपित्तघ्नः शोषादिहरश्च| उपजातिर्वृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अथविदार्यादिप्रभृतयः| तत्र विदार्यादिगणमाह-विदारीति| वृश्चिकाली-वृश्चिकाली-वृश्चिकपत्रा| वृश्चिवः-पुनर्नवा| देवाद्वयं-सहदेवा विश्वदेवा च| शूर्पपर्ण्यौ-मुद्रपर्णी माषपर्णी च| कण्डूकरी-कपिकच्छूः| जीवनं हस्वं च पञ्चमूलं-प्रागुक्तम्| दोपसुता-सारिवा| त्रोपादी-हंसपादी| अयं विदार्यादिगणो हृद्यर्वादिगुणः| शोषो-राजयक्ष्मा| ऊर्ध्वः-उदवर्तः|
Adhikarana सारिवादिगणः (११) · Śloka ११
सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्|
यष्टी परूषकं हन्ति दाहपित्तास्रतृड्ज्वरान्||११||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सारिवा-कृष्णवल्ली| उशीरं-वीरतरु (रम्)| काश्मर्यः-सर्वतोभद्रा| मधूको-गुडपुष्पकः| शिशिरद्वयं-एकं सितचन्दनं मलयजसंज्ञमन्यद्रक्तचन्दनसंज्ञम्| यष्टी-क्लीतकसंज्ञम्| परूषकं-मृदुफलम्| सारिवादिरयं दाहादीन् हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सारिवादिगणमाह-सारिवेति| शिशिरद्वयं श्वेतपीतचन्दने|
Adhikarana पद्मकादिगणः (१२) · Śloka १२
पद्मकपुण्ड्रौ वृद्धितुगर्द्य्धः शृङ्ग्यमृता दश जीवनसंज्ञाः|
स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनजीवनबृंहणवृष्याः||१२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पद्मकं-हेमपद्मम्| पुण्ड्रः-प्रपौण्डरीकम्| वृद्धिः-महाश्रावणी| तुगा-तुगाक्षीरी| ऋद्धिः-श्रावणी| श्रृङ्गी-कुलीरश्रृङ्गी| अमृता-छिन्नरुहा| दश जीवनसंज्ञाः-जीवन्त्यादिगणोक्ताः| एते पद्मकादयः स्तन्यहेतवः, तथा वातपित्तं घ्नन्ति, तथा प्रीणनादिगुणयुक्ताः| "अष्टाभ्यो भद्गौ योज्यावुपचित्रा|"
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पद्मकादिगणमाह-पद्मकपुण्द्राविति| पुण्ड्रः-प्रपौण्डरीकम्| तुगा-वंशरोचना| श्रृङ्गी-कर्कटशृङ्गी| अमृता-गुडूची| जीवनसंज्ञा दश-जीवनीयो गणः| ईरणो-वायुः|
Adhikarana परूषकादिगणः (१३) · Śloka १३
परूषकं वरा द्राक्षा कट्फलं कतकात् फलम्|
राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित्||१३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पुरूषको-मृदुफलो धन्वनच्छदः| वरा-श्रेष्ठा| द्राक्षा-मधुफला| कट्फलं-रोहिणी सोमवल्कः| कतकफलं-वारिप्रसादनम्| राजाह्वं-कऱ्णिकारम्| दाडिमं-शुकेष्टम्| शाकं-खरच्छदवृक्षविशेषः| परूषकादिरेष तृडामयादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- परूषादिगणमाह-परूषकमित्यादि| वसत्रिफला| राजाह्वं-राजादनम्| शाकं-शाकवृक्षफलम्|
Adhikarana अञ्जनादिगणः (१४) · Śloka १४
अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्|
सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्||१४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अञ्जनं द्विधा,-एकं स्रोतोञ्जनं यामुनसंज्ञमपरं सौवीरं नेत्रभूषणाख्यम्| फलिनी-प्रियङ्गुः| मांसी-कृष्णजटा| पद्मं-पुष्करम्| उत्पलं-शशिप्रियम्| रसाञ्जनं-तार्क्ष्यशैलम्| एला-बहुला| मधुकं-मधुयष्टी| नागाह्वं-नागकेसरम्| एषोऽञ्जनादिर्विषादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अञ्जनादिगणमाह-अञ्जनमित्यादि| अञ्जनंस्त्रोतोञ्जनम्| सओला-सूक्ष्मैला,सशब्द ईषद्वाची| नामाह्वंनागकेसरम्|
Adhikarana पटोलादिगणः (१५) · Śloka १५
पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्|
निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम्||१५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-पटोलं-पाण्डुफलम्| कटुरोहिणी-कटुका| चन्दनं-गन्धसारम्| मधुस्रवो-मुरङ्गी| गुडूची-छिन्नरुहा| पाठा-अम्बष्ठा| एतैर्द्रव्यैर्युक्तमेतत् पटोलादिकं कफादीन् निहन्ति| "मात्रासमकं नवमो ल्गान्तम् (मो लगोन्त्यः) " (वृत्तरत्नाकरे अ. २|३२)
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- पटोलादिगणमाह-पटोलेत्यादि| मधुस्त्रवामूर्वा|
Adhikarana गुडूच्यादिगणः (१६) · Śloka १६
गुडूचीपद्मकारिष्टधानकारक्तचन्दनम्|
पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत्||१६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-गुडूची-छिन्नोद्भवा| पद्मको-मरुद्भवः| अरिष्टो-निम्बः| धानका-धान्यकम्| रक्तचन्दनं-रक्तकाष्ठम्| एष गुडूच्यादिः पित्तादीन् हन्ति, [अग्निकरश्च ]|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- गुडूच्यादिगणमाह-गुडूचीत्यादि| अरिष्टोनिम्बः|
Adhikarana आरग्वधादिगणः (१७-१८) · Śloka १८
आरग्वधेन्द्रयवपाटलिकाकतिक्ता- निम्बामृतामधुरसास्रुववृक्षपाठाः|
भूनिम्बसैर्यक्रपतोलकरञ्जयुग्म- सप्तच्छदाग्निसुषवीफलबाणघोण्टाः||१७||
आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान्|
कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः||१८||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आरग्वधः-शम्याकः| इन्द्रयवाः-कलिङ्गकाः| पाटलिः-वसन्तदूती| काकपिक्ता-शार्ङ्गेष्टा| निम्बः-पारिभद्रकः| अमृता-गुडूची| मधुरसा-मूर्वा| स्रुववृक्षो-विकङ्कतः, [कण्टकीवृक्षः कण्टकारिकेति प्रसिद्धः ]| पाठा-अम्बष्ठा| भूनिम्बः-कैरातः| सैर्यकः-सहचरः| पटोलं-कर्कशच्छदम्| करञ्जयुग्मं-एकः पूतिककरञ्जश्चिरिबिल्वाख्योऽपरो नक्तमालाख्यः| सप्तच्छदः-अयुग्मच्छदः| अग्निः-चित्रकः| सुषवी-कारवी, पानीयवल्लीसंज्ञा| फलं-मदनफलम्| बाणः-सहचरः| घोण्टा-पूगविशेषः| अयमारग्वधादिश्च्छर्द्यादीन्निहन्ति| [मेदोदरान् विशोधयति-पराकरोति| ] वसन्ततिलकावृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- आरबधादिगणमाह-आरम्बधेत्यादि| काकतिक्ता-करञ्जिका- स्त्रुववृक्षो-विकङ्कतः| सैर्यकः-सहचरः| [ सुषवी-कारवेल्लुकम्| फलं-मदनफलम्| वाणो-वीलसहचरः| ] घोण्टा-बदरी|
Adhikarana असनादिगणः (१९-२०) · Śloka २०
असनतिनिशभूर्जश्वेतवाहप्रकीर्याः खदिरकदरभण्डीशिंशिपामेषशृङ्ग्यः|
त्रिहिमतलपलाशा जोङ्गकः शाकशालौ क्रमुकधवकलिङ्गच्छापकर्णाश्वकर्णाः||१९||
असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्|
पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः||२०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-असनः-पीतशालाख्यः| तिनिशः-स्यन्दनसंज्ञः| भूर्जो-बहुपुटाख्यः| श्वेतवाहः-अर्जुनः| प्रकीर्यः-पूतिकरञ्जः| खदिरो-गायत्री| कदरः-खदिराकृतिः श्वेतसारः| भण्डी-शिरीषः| शिंशिपा-मण्डलपत्रिका| मेषशृङ्गी-अजशृङ्गी| त्रिहिमं-चन्दनत्रयम्, मलयजरक्तचन्दनदारुहरिद्राभेदेन| तलः-तालः| पलाशः-किंशुकः| जोङ्गकः-अगुरुसंज्ञः| शाकं-वरदारु| शालो-रसनिर्यासाख्यः| क्रमुकः-पूगम्| धवः-शकटाख्यः| कलिङ्गाः-शक्रयवाः| छागकर्णो-बस्तकर्णः| अश्वकर्णः-कुशिकः| अयमसनादिः श्वित्रादीन् विजयते-शमयति| विजयत इति "विपराभ्यां जेः" इत्यात्मनेपदम्| तथा, मेदोदोषं निबर्हति-पराकरोति| मालिनीवृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- असनादिगणमाह-असनेत्यादि| श्वेतवाहः-अर्जुनः| प्रकीर्यः-पूतिकरञ्जः| कदरः-श्वेतखदिरः| भण्डी-शिरीषः| त्रिहिमं-चन्दनत्रयम्| तलः-तालवृक्षः| जोङ्गकः-अगुरु| क्रमुकः-इन्द्रयवः|
Adhikarana वरूणादिगणः (४९)) · Śloka २२
वरुणसैर्यकयुग्मशतावरी- दहनमोरटबिल्वविषाणिकाः|
द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः||२१||
वरुणादिः कफं मेदो मन्दाग्नित्वं नियच्छति|
आढ्यवातं शिरःशूलं गुल्मं चान्तः सविद्रधिम्||२२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वरुणः-तमालः| सैर्यकयुग्मं-सहचरद्वयम्, एको रक्तपुष्पः कुरवकाख्योऽन्यः पीतपुष्पः कुरण्टकाख्यः| शतावरी-वरी| दहनो-वह्निः| मोरटो-मूर्वा| बिल्वः-पूतिवातः| विषाणिका-अजशृङ्गी| द्विबृहत्यौ-कण्टकारिकामहोटिकाख्ये| द्विकरञ्जः-करञ्जद्वयं प्रागुक्तम्| तर्कारी हरीतकी चेति-जयाद्वयम्| बहलपल्लवः-शोभाञ्जनः| दर्भः-कुशः| रुजाकरो-हिन्तालः| वरुणादिरयं कफादीन् हन्ति| "द्रुतविलम्बितमाहनभौ भरौ" (वृत्तरत्नाकरे अ. ३|४९)|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वरुणादिगणमाह-वरुणेत्यादि|मोरटः-क्षीरमूर्वा| विषाणिका-मेषशूङ्गी| जयद्वयं-तर्कारीद्वयम्| बहलपल्लवः-शिग्रुः| आढ्यवातं-ऊरुस्तम्भम्| आन्तरं गुल्मं विद्गधिं च|
Adhikarana ऊषकादिगणः (२३) · Śloka २३
ऊषकस्तुत्थकं हिङ्गु कासीसद्वयसैन्धवम्|
सशिलाजतु कृच्छ्राश्मगुल्ममेदःकफापहम्||२३||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ऊषको-वृषकः, कल्लर इति प्रसिद्धः| तुत्थकं-खर्परं किटिहापरसंज्ञम्| हिङ्गु-रामठम्| कासीसद्वयं-एकं पांशुधातुसंज्ञमपरं पुष्पकासीसाख्यम्| सैन्धवं-माणिमन्थम्| शिलाजतु-शिलाजम्| ऊषकादिरयं मूत्रकृच्छ्रादीन् हन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- ऊषकादिगणमाह-ऊषक इत्यादि| ऊषकः-क्षारमृत्तिका| कृच्छ्रं-मूत्रकृच्छ्रम्|
Adhikarana वीरतरादिगणः (२४-२५) · Śloka २५
वेल्लन्तरारणिकबूकवृषाश्मभेद- गोकण्टकेत्कटसहाचरबाणकाशाः|
वृक्षादनीनलकुशद्वयगुण्ठगुन्द्रा- भल्लूकमोरटकुरण्टकरम्भपार्थाः||२४||
वर्गो वीरतराद्योऽयं हन्ति वातकृतान् गदान्|
अश्मरीशर्करामूत्रकृच्छ्राघातरुजाहरः||२५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वेल्लन्तरो-वीरतर उशीराख्यः| अरणिकः-अग्निमन्थः| बूकः-ईश्वरमल्लिका| वृषः-आटरूषकः| अश्मभेदः-पाषाणभेदः| गोकण्टको-गोक्षुरकः| इत्कटा-सूक्ष्मपत्रिका दीर्घलोहितयष्टिका काण्डविशेषः, 'इकडि' इति लोके| सहाचरः-सहचरः| बाणो-नीलपुष्पः सैर्यकः| काशः-श्वेतचामरकः| वृक्षादनी-कामवृक्षकः| नलो-मृत्युपुष्पाख्यः| कुशद्वयं-स्थूलसूक्ष्मभेदेन दर्भद्वयम्| गुण्ठो-वृत्ततृणः, कुदगुण्ठिकापरसंज्ञः| गुन्द्रा-पदएरकः| भल्लूकः-श्योनाकः| मोरटः-क्षीरमोरटः| कुरण्टः-सितिवारकः| करम्भः-उत्तमारणिः| पार्था-सुवर्चला| एष वीरतरादिर्वर्गो-गणो, वातजान् रोगान् हन्ति| तथा, अश्मर्यादिहरः| वसन्ततिलकावृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वीरतरादिगणमाह-वेल्लन्तरेत्यादि| अरणिकः-तर्कारी| बूको-बकपुष्पः| उत्कटः-इक्षुः| ऋक्षादनी-वन्दाकः| भल्लूकः-टिण्टुकः| करम्भा-उत्तमारणी| पार्था-आदित्यभक्ता|
Adhikarana रोध्रादिगणः (२६-२७) · Śloka २७
रोध्रशाबरकरोध्रपलाशा जिङ्गिणीसरलकट्फलयुक्ताः|
कुत्सिताम्बकदलीगतशोकाः सैलवालुपरिपेलवमोचाः||२६||
एष रोध्रादिको नाम मेदः कफहरो गणः|
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः||२७||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रोध्रः-तिल्वकः| शाबरको-द्वितीयरोध्रः, अक्षिभेषजापरसंज्ञः| कदम्बपलाशौ-प्रसिद्धौ| जिङ्गिणी-कृष्णशाल्मली| सरलं-देवदारु| कट्फलं-कुमुदा, रोहिणीभेदः| युक्ता-रास्ना, गिरिकर्णिकेत्यन्ये| कुत्सिताम्बः-कदम्बः| कदली-रम्भा| गतशोकः-अशोकः| एलवालु-ऐलेयम्| परिपेलवं-कुटन्नटं गोपालदमनकाख्यम्| मोचा-शल्लकी| अयं रोध्रादिको गणो मेदःकफापहो योनिदोषघ्नश्च| तथा, स्तम्भी दोषाणां शकृदादेश्च| तथा, वर्णाय हितो विषघ्नश्च| स्वागतवृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- रोध्रादिगणमाह-रोध्रेत्यादि| शाबररोध्रः-श्वेतरोध्रः| जिङ्गिणी-मोदकी| युक्ता-रास्ना| कुत्सितीम्बः-कदम्बः| गतशोकः-अशोकः| परिपलवं-क्षुद्गमुस्ता| मोचा-सल्लकि|
Adhikarana अर्कादिगणः (२८-२९) · Śloka २९
अर्कालर्कौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या|
प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेतायुग्मं तापसानां च वृक्षः||२८||
अयमर्कादिको वर्गः कफमेदोविषापहः|
कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः||२९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अर्कः-सदापुष्पी| अलर्को-मन्दारकाख्यः श्वेतकुसुमः| नागदन्ती-पर्वपुष्पिका| विशल्या-लाङ्गली| भार्ङ्गी-फञ्जी| रस्ना-रस्या| वृश्चिकाली-उष्ट्रधूमकः| प्रकीर्या-करञ्जः| प्रत्यक्पुष्पी-अपामार्गः| पीततेला-काकादनी| उदकीर्या-करञ्जः| श्वेतायुग्मं-एका किणिहीसंज्ञाऽन्या महाश्वेता पालिन्दीसंज्ञा| तापसानां वृक्षः-इङ्गुदी| एषोऽर्कादिर्वर्गः कफादिघ्नोऽतिशयेन व्रणशोधनः| शालिनीवृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- अर्कादिगणमाह-अर्केत्यादि| अलर्को-मन्दारः| नागदन्ती-पर्वपुष्पी| विशल्या-लाङ्गलीं| प्रत्यवपुष्पी-अपामार्गः| पिततैला-ज्योतिष्मती| उदकीर्यां-पूतिकरञ्जः| श्वेतायुग्मं-किणिही कटमी च| तापसानां वृक्षः- इञ्जुदी|
Adhikarana सुरसादिगणः (३०-३१) · Śloka ३१
सुरसयुगफणिज्जं कालमाला विडङ्गं खरबुसवृषकर्णीकट्फलं कासमर्दः|
क्षवकसरसिभाङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टीभूस्तृणो भूतकेशी||३०||
सुरसादिर्गणः श्लेष्ममेदःकृमिनिषूदनः|
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः||३१||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-सुरसयुगं-तुलसीद्वयं गौरकृष्णभेदेन| फणिज्जो-मरीचकः| कालमाला-कृष्णार्जकः, कुठेरकभेदः| विडङ्गं-वेल्लम्| खरबुसो-मरुबकः| वृषकर्णी-मूषिककर्णी| कट्फलं-सोमवल्कम्| कासमर्दः-कासघ्नः| क्षवकः-क्षुद्विबोधनः| सरसी-तुम्बरपत्रिका| भार्ङ्गी-अङ्गारवल्ली| कार्मुका-रक्तमञ्जरी, अतिमुक्तक इत्यन्ये| काकमाची-गुडफला| कुलहलो-भूकदम्बकोऽलम्बुसाख्यः| विषमुष्टिः-कर्कोटी, महानिम्ब इत्यन्ये| भूस्तृणं-गुह्यबीजमतिच्छत्राख्यम्| भूतकेशी-मांसी पुत्रजारी| सुरसादिरेष गणः श्लेष्मादिघ्नः प्रतिश्यायादिहरो व्रणशुद्धिकृत् [च]| मालिनीवृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- सुरसादिगणमाह-सुरसेत्यादि| सुरसयुगं-श्वेतकृष्णे तुळस्यौ| फणिज्जो-मरिचकः| कालमाला-अर्जकः| खरबुसो-मरुचकः| वृषकर्णी-आखुकर्णी| क्षवकः-क्षुरकारी| सरासी-कपित्थपर्णी| कार्मुकः-प्राचीबलः| कुलहलो-मुण्डी,| भूस्तृणो-भूतिकतृणम्| भूतकेशी-निर्गुण्डी|
Adhikarana मुष्ककादिगणः (३२) · Śloka ३२
मुष्ककस्नुग्वराद्वीपिपलाशधवशिंशिपाः|
गुल्ममेहाश्मरीपाण्डुमेदोर्शःकफशुक्रजित्||३२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुष्कको-मोक्षकः| स्नुक्-गुडा उग्रकाण्डः| वरादीनां प्रोक्तानि नामानि| मुष्ककादिरेष गुल्मादिजित्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मुष्ककादिगणमाह-मुष्ककेत्यादि| मुष्ककोमोक्षकः| द्वीपी-चित्रिकः|
Adhikarana वत्साकादिगणः (३३-३४) · Śloka ३४
वत्सकमूर्वाभार्ङ्गी- कटुका मरीचं घुणप्रिया च गण्डीरम्|
एला पाठाऽजाजी कट्वङ्गफलाजमोदसिद्धार्थवचाः||३३||
जीरकहिङ्गुविडङ्गं पशुगन्धा पञ्चकोलकं हन्ति|
चलकफमेदःपीनसगुल्मज्वरशूलदुर्नाम्नः||३४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वत्सको-वनतिक्तकः| मूर्वा-मधुरसा| मरिचं-ऊषणम्| घुणप्रिया-अतिविषा| गण्डीरं-स्नुही| एला-बालैला| पाठा-प्राचीना| अजाजी-जीरकः| कट्वङ्गफलं-अरलुकफलम्| केचितु कट्वङ्गफलं-तिन्दुकीफलमित्याहुः| अजमोदो-दीप्यकः| सिद्धार्थो-गौरसर्षपः| अन्येषां नामान्युक्तानि| "गुर्वन्ताष्टगणाभागाऽऽर्या पूर्वार्द्धसदृशशकलद्वितया| आर्यैरार्यागीतिः सङ्गीता सङ्गीतगीतसंविध्यैः||" पशुगन्धा-अजगन्धा मकरन्तराख्या| पञ्चकोलकं-प्रागुक्तम्| वत्सकादिरसौ वातादीन्निहन्ति| आर्या|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वत्सकादिगणमाह-वत्सकेत्यादि| घुप्रिया-अतिविषा| गण्डीरं-स्निही| कट्वङ्गः-टुन्टुकः| फलं-मदनफलम्| पशुगन्धा| चलो-वायुः|
Adhikarana वचाहरिद्रादिगणौ (३५-३६) · Śloka ३६
वचाजलददेवाह्वनागरातिविषाभयाः|
हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः||३५||
वचाहरिद्रादिगणावामातीसारनाशनौ|
मेदःकफाढ्यपवनस्तन्यदोषनिबर्हणौ||३६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-वचा-गोलोमी| जलदः-अम्बुधरः| देवाह्वं-किलिमम्| नागरं-विश्वम्| अतिविषा-भङ्गुरा| अभया-अमृता| हरिद्राद्वयं-एका पिण्डा, अपरा पचम्पचा दारुहरिद्रा| यष्ट्याह्वं-क्लीतिका| कलशी-पृश्निपर्णी| कुटजोद्भवाः-इन्द्रयवाः| एतौ वचादिहरिद्रादिगणावामातीसारघ्नौ मेदःकफादिहरौ च|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- वचाहरिद्रादिगणावाह-वचेत्यादि, हरिद्राद्वयेत्यादि| कलशी-पृश्र्निपर्णी| कटजोद्भवः-इन्द्रयवः| आढ्यपवनः-ऊरुस्तम्भः|
Adhikarana प्रियङ्ग्वम्बष्ठादिगणौ (२१)) · Śloka ३९
प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्ल्यनन्ता|
मानद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः||३७||
अम्बष्ठा मधुकं नमस्करी नन्दीवृक्षपलाशकच्छुराः|
रोध्रं धातकिबिल्वपेशिके कट्वङ्गः कमलोद्भवं रजः||३८||
गणौ प्रियड्ग्वम्बष्ठादी पक्वातीसारनाशनौ|
सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ||३९||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-प्रियङ्गुः-श्यामा| पुष्पाञ्जनं-रीतिपुष्पम्| युग्मेत्यत्रानुवृत्तिकृतेन सम्बन्धेनाञ्जनमिति सम्बध्यते| तेनाञ्जनयुग्मं-एकं स्रोतोञ्जनमन्यत्सौवीरमित्यर्थोऽवतिष्ठते| पद्मा-पद्मचारिणी| पद्मात्-कमलात्, रजः-केसरम्| योजनवल्ली-मञ्जिष्ठा| अनन्ता-यवासकः| मानद्रुमः-शाल्मली| मोचरसः-शाल्मलीनिर्यासः| समङ्गा-नमस्कारी रक्तमूलाख्या| पुन्नागः-तुङ्गो रक्तकेसराख्यः| शीतं-चन्दनम्| मदनीयहेतुः-धातुकी| उपजातिवृत्तम्| अम्बष्ठा-पाठा मयूरशिखाख्या| मधुकं-मधुयष्टिका| नमस्करी-समङ्गा| नन्दीवृक्षः-प्ररोही| पलाशः-प्रसिद्धः| कच्छुरा-फणिहारी धन्वयवासकाख्यः| बिल्वपेशिका-बिल्वमज्जा| कट्वङ्गः-स्योनाकः| कमलोद्भवं रजः-पद्मरेणुः| एतौ प्रियड्ग्वंबष्ठादी गणो पक्वातीसारनाशनौ सन्धानीयौ पित्ते हितौ व्रणरोपणौ च| "म्सो ज्गौ शुद्धविराडितं मतम्" (वृत्तरत्नाकरे अ. ३|२१)|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- प्रियडूग्वम्बष्ठागणावाह-प्रियङिग्वत्यादि, अम्बष्ठेत्यादि| पुष्पं-[उष्पाञ्जनम्| अञ्जनयुग्मं-स्त्रोतोञ्जनं रसाञ्जनं च| पद्मा_भार्ङी| पद्माद्रजः-पद्मकेशरम्| योजनवल्ली-मञ्जिष्ठा| अनन्ता-दुरालभा| मानद्रुमः-शाल्मलीवृक्षः, मोचरसः-तन्निर्यासः| समङ्गा-लज्जिका| पुन्नाम-पुन्नागम्| शीतं-चन्दनम्| मदनीयहेतुः-धातकी| अम्बष्ठा-मयूरशिखा| नमस्करी-लज्जिका| बिल्वपेशिका-शुष्कबिल्वपेशिका| सन्धानीयौ-भन्गसन्धानजननौ|
Adhikarana मुस्तादिगणः (४०) · Śloka ४०
मुस्तावचाग्निद्विनिशाद्वितिक्ता- भल्लातपाठात्रिफलाविषाख्याः|
कुष्ठं त्रुटी हैमवती च योनि- स्तन्यामयघ्ना मलपाचनाश्च||४०||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मुस्ता-गाङ्गेयी| तिक्ताद्वयं-एका कटुकाऽन्या काकतिक्ता| विषाख्या-शुक्लकन्दा| हैमवती-श्वेतवचा| एते योन्यामयघ्नाः स्तन्यामयघ्ना मलपाचनाश्च| "तौ जो गुरु चेद्भवतीन्द्रवज्रा|"
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- मुस्तादिगणमाह-मुस्तेत्यादि| द्वितिक्ता-कटुका करञ्जिका च| हैमवती-श्वेतवचा|
Adhikarana न्यग्रोधादिगणः (४१-४२) · Śloka ४२
न्यग्रोधपिप्पलसदाफलरोध्रयुग्मं जम्बूद्वयार्जुनकपीतनसोमवल्काः|
प्लक्षाम्रवञ्जुलपियालपलाशनन्दी- कोलीकदम्बविरलामधुकं मधूकम्||४१||
न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधनः|
मेदःपित्तास्रतृड्दाहयोनिरोगनिबर्हणः||४२||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-न्यग्रोधो-वटः| पिप्पलः-आश्वत्थः| सदाफलः-उदुम्बरः| जम्बूद्वयं-एका राजजम्बूर्बृहत्फलाऽन्या ह्रस्वफला काकजम्बूः| अर्जुनः-पार्थः| कपीतनः-कपिचूडो वानीराख्यः| सोमवल्कः-श्वेतसारः खदिरः| प्लक्षः-शृङ्गी प्लवाख्यः| आम्रः-चूतः| वञ्जुलो-वेतसः| पियालो-द्राक्षारसप्रियः खरस्कन्धाख्यः| नन्दी-जयवृक्षः| कोली-बदरी| विरला-तिन्दुकी| मधुकं-यष्टी| मधूकं-मधूकपुष्पम्| न्यग्रोधादिरयं सङ्ग्रहणादिगुणयुक्तः| वसन्ततिलकावृत्तम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- न्यग्रोधादिगणमाह-न्यग्रोधेत्यादि| सदाफलः-उद्रुम्बरः| जम्बूद्वयं-जम्बू राजजम्बूश्च| कपीतनः-आम्रातकः| सोमवल्कः-कट्फलः| पियालः-चारः| नन्दी-नन्दीवृक्षः| कोली-बदरी| विरला-तिन्दुकी| भग्रसाधनो-भन्गसधानकृत्|
Adhikarana एलादिगणः (४३-४४) · Śloka ४४
एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकं स्पृक्काचोरकचोचपत्रतगरस्थौणेयजातीरसाः|
शुक्तिर्व्याघ्रनखोऽमराह्वमगुरुः श्रीवासकः कुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम्||४३||
एलादिको वातकफौ विषं च विनियच्छति|
वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः||४४||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एलायुग्मं-सूक्ष्मैला स्थूलैला च| तुरुष्कः-कृत्रिमो निर्यासविशेषः| कुष्ठं-गदः| फलिनी-गन्धप्रियङ्गुः| मांसी-नलदम्| जलं-ह्रीबेरम्| ध्यामकं-देवदग्धकम्| स्पृक्का-देवी| चोरको-ग्रन्थिपर्णः| चोचं-त्वक्| पत्रं-तमालपत्रम्| तगरं-वक्रम्| स्थौणेयं-तैलपीतकम्| जातिरसो-बोलः| शुक्तिः-नखः| व्याघ्रनखः-समुद्रजः| अमराह्वं-देवदारु| अगुरुः-प्रसिद्धः| श्रीवासकः-चीडा श्रीवेष्टकाख्यः| कुङ्कुमं-बाह्लीकम्| चण्डा-कोपना| गुग्गुलुः-पुरः| देवधूपः-सर्जरसः| खपुरः-कुन्दुरुकः| पुन्नागो-रक्तकेसरः| नागाह्वयं-नागकेसरम्| एलादिरयं वातादीन् हन्ति| तथा, वर्णप्रसन्नत्वकृत् कण्ड्वादिहृच्च| "म्सौ ज्सौ तौ गुरुकं च सूर्यतुरगैः शार्दूलविक्रीडितम्|"
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- एलादिगणमाह-एलायुग्मेत्यादि| तुरुष्कः-सिह्लकः| ध्यामकं-रोहिषम्| चोरको-ग्रन्थिपर्णः| चोचं-त्वचम्| पत्रं-पत्रकम्| जातीरसो-बोलः| शुक्तिः-नखम्| व्याध्रनखः-तद्भेदः| श्रीवासकः-सरलनिर्यासः| देवधूपो-रालः| खपुरः-सल्लकीनिर्यासः| नागाह्वयं-नागकेशम्|
Adhikarana श्यामादिगणः (४५) · Śloka ४५
श्यामादन्तीद्रवन्तीक्रमुककुटरणा- शङ्खिनीचर्मसाह्वा- स्वर्णक्षीरीगवाक्षीशिखरिरजनक- च्छिन्नरोहाकरञ्जाः|
बस्तान्त्री व्याधिघातो बहलबहुरस- स्तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम्||४५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-श्यामा-मालविका त्रिवृत् मसूरविदलाख्या| दन्ती-मुकूलकश्चित्राख्यः| द्रवन्ती-उन्दुरकर्णिका| क्रमुकः-पट्टिकारोध्रः| कुटरणा-शुक्ला त्रिवृत्| शङ्खिनी-यवतिक्ता| चर्मसाह्वा-सातला, ब्राह्मीत्यन्ये| स्वर्णक्षीरी-कङ्कुष्ठम्| गवाक्षी-गवादनी स्थाणुकर्णीसंज्ञा, इन्द्रवारुणीत्यन्ये| शिखरी-अपामार्गः| रजनकः-कम्पिल्लकः| छिन्नरोहा-अमृतवल्ली| करञ्जः-कैडर्यः| बस्तान्त्री-वृषगन्धा| व्याधिघातः- कृतमालः| बहुलो-बहुफलः| बहुरसः-इक्षुः| तीक्ष्णवृक्षात्-पीलोः फलानि| श्यामादिरेष गुल्मादीन् हन्ति| [अत्र पिप्पल्यादिः प्रसिद्धत्वान्नोक्तः| ] "म्रौ भ्रौ याश्च त्रयः स्युः स्वरमुनितुरगैः स्रग्धरास्याद्विरामैः|"
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- श्यामादिगणमाह-श्यामेत्यादि| श्यामा-कृष्णमूला न्निवृत्| द्रवन्ती-चीरितपत्रा दन्तीभेदः| क्रसुकः-पूराः| कुठरणा-अरुणमूला त्रिव्ऱ्त्| चर्मसाह्वा-सत्पला| शिखरी-अपामार्गः| रजनकः-कम्पिल्लः| छिन्नरोहा-गुडूची| यस्तान्त्री-वृद्धदारुकः| व्याधिधातः-आरग्वदः| बहलः-शिग्रुः| बहुरसः-इक्षुः| तीक्ष्णवृक्षः-पीलुः, सस्य फलानि|
Adhikarana इति त्रयस्त्रिंशद्गणाः (४६) · Śloka ४६
त्रयस्त्रिंशदिति प्रोक्ता वर्गास्तेषु त्वलाभतः|
युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्||४६||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-इति-एवं प्रकारेण, त्रयस्त्रिंशत्सङ्ख्या वर्गाः कथिताः| अत्र सङ्ख्योपादानमेषां प्राधान्यख्यापनार्थम्| अन्येऽप्येवंप्रकाराः सन्ति, एते तु प्रधाना इत्यर्थः| सुखस्मरणार्थं च सङ्ख्यावचनम्| एषु च त्रयस्त्रिंशत्सु वर्गेष्वलाभतः-अलाभे सति, तद्विधं-रसवीर्यपाकैस्तुल्यं, द्रव्यमन्यत्-अनुक्तमपि युञ्ज्यात्| न केवलमेतावदेव विधेयमित्याह-जह्यादयौगिकम्,-न केवलमेषु वर्गेषु तद्द्रव्यलाभे यथालाभमन्यत्तद्विधं द्रव्यं युञ्ज्यात्, यावदयौगिकं यत् द्रव्यं तच्च त्यजेत्| दोषरोगाद्यपेक्षया पुरुषस्यास्मिन् काले वयसि वा अयमेव गणः प्रशस्तः, तदा तत्समस्तगणद्रव्यलाभे तद्विधमेकं द्रव्यं द्वे वा बहूनि वा द्रव्याणि संयोज्य प्रयोज्य एव, न समस्तद्रव्यापेक्षा कार्येति| तथा च सुश्रुतः (सु. अ. ३८|८२) - "समीक्ष्य दोषभेदांश्च गणान् भिन्नान् प्रयोजयेत्| पृथङ्मिश्रान् समस्तांश्च गणान् वा व्यस्तसंहतान्||" इति| त्रयस्त्रिंशदिति "त्रेस्त्रयश्च" इति त्रयसादेशः| अयौगिकमिति अयोगाय प्रभवतीत्यर्थः| योगाद्यच्चेति ठञ्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- उपसंहरति-त्रयस्त्रिंशदिति| एते गणा न यावदुक्ता ग्राह्याः| किं तर्हि ? ऊहापोहयोग्याः, इत्याह-तेषु त्वलाभत इति| देशतः कालतो वा कस्यचिद्द्रव्यस्यालाभे तत्सद्दशगुणमन्यत्-अनुक्तमपि यौगिकं युञ्ज्यात्| उक्तमप्यौषधमयौगिकं जह्यात्| देशकालावस्थाद्यपेक्षया उचितं-यौगिकम्, अनुचितं-अयौगिकम्| यथालाभप्रयोगोऽपि सुश्रुतेनोक्तः (सू. अ. ६७|६४) - "समस्तं वर्गमर्द्ध वा यथालाभमथापि वा| प्रयुञ्जीत भिषक् प्राज्ञो यथोद्विष्टेषु कर्मसु||' इति|
Adhikarana तेषु कस्यचिद्रव्यस्यालाभे तद्विधमन्यद्योज्यम्, एते वर्गाः सर्वकल्पयोग्याश्च (१५) · Śloka १५
एते वर्गा दोषदूष्याद्यपेक्ष्य कल्कक्काथस्नेहलेहादियुक्ताः|
पाने नस्येऽन्वासनेऽन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृच्छ्रान्||४७||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शोधनादिगणसङ्ग्रहो नाम पञ्चदशोऽध्यायः||१५||
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-एते-पूर्वोक्ताः, वर्गा दोषदूष्यवयोबलादीन्यपेक्ष्यविकल्प्य, कल्कादियुक्ताः सुकृच्छ्रान् रोगान्-आमयान् घ्नन्ति| युक्ता इत्यत्रान्तर्भावितण्यर्थो युजिः| ततः कल्कादिषु वैद्येन योजिता इत्यर्थोऽवतिष्ठते| आदिशब्देन फाण्टशीतकषायादिपरिग्रहः| कथमेते घ्नन्ति ? इति प्रकारं युक्त्याऽऽह-पान इत्यादि| पाने-पानाद्युपयोगे सति| लेपाभ्यङ्गैरिति बहुवचनेन लेपाभ्यङ्गस्रानादिभिश्चेति योज्यम्| शालिनीवृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने शोधनादिगणसङ्ग्रहाध्यायः पञ्चदशः समाप्तः|| १५||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०- एते वर्गाः सर्वकल्पयोग्याश्चेत्याह-एते वर्गा इति| दोषाद्यपेक्षया कल्कादीनामन्यतमेन कल्पेन, पानादीनामन्यतमेनान्तःप्रयोगेण, लेपादीनामन्यतमेन बहिःप्रयोगेण वा, दुःसाध्यानपि रोगान् न्धन्ति| अथाग्र्यसङ्ग्रहःसङ्ग्रहे (सू. अ. १३) - " श्रेष्ठमुदकमाश्वासनस्तम्भनक्लेदनानाम्| १| वायुः प्राणसंज्ञाप्रदानहेतूनाम्| २| अग्निरामस्तम्भशीरशूलोद्वेष्टकम्पप्रशमनानाम्| ३| स्नानं सुरा च श्रमहराणाम्| ४| क्षीरं जीवनीयानाम्| ५| मांसं बृंहणीयानाम्| ६| [इर्षश्च ] प्रीणनानाम्| ७| लवणमन्नद्रव्यरुचिकराणाम्| ८| तिन्दुकमनन्नद्रव्यरुचिकराणाम्| ९| अम्लं हृद्यानाम्| १०| कुक्कुटो बल्यानाम्| ११| तैलं वातश्लेष्मप्रशमनानाम्| १२| सर्पिर्वातपिर्रप्रशमनानाम्| १३| मधु श्लेष्मपित्तप्रशमनानाम्| १४| स्वेदो मार्दवकराणाम्| १५| व्यायामः स्तैर्यकराणाम्| १६| क्षारः पुंस्त्वोपधातिनाम्| १७| आमं कपित्थमकण्ठ्यानाम्| १८| आविकं सर्पिरहृद्यानाम्| १९| माहिषं क्षीरं स्वन्पजननानाम्| २०| मन्दकं दधि अभिष्यन्दकराणाम्| २१| इक्षुर्नूत्रजननानाम्| २२| यवाः पुरीषजननानाम्| २३| जाम्बवं वातजननानाम्| २४| कुलत्था अम्लपित्तजननानाम्| २५| माषाः शष्कुल्योऽविक्षीरं च श्लेष्मपित्तजननानाम्| २६| दुरालभा पित्तश्लेष्मोपसमनानाम्| २७| उपवासो ज्वरहराणाम्| २८| वृषो रक्तपित्तप्रशमनानाम्| २९| कण्टकारिका कासन्धानाम्| ३० लाक्षा सद्यःक्षतन्धानाम्| ३१ नागबलाभ्यासः क्षयक्षतन्धानाम्| ३२ पुष्करमूलं हिक्काश्वासकासपार्श्वशूलारुचिहाराणाम्|| ३३| अजापयः शोषन्धस्तन्यकररक्तसङ्ग्रहणप्रशमनानाम्|| ३४| मृद्भृष्टलोष्टप्रसादश्चछर्दितृष्णातियोगप्रशमनानाम्| ३५| अरुष्करश्चित्रकमूलं च शुष्कार्शः प्रशमनानाम्| ३६| कुटजो रक्तार्शःप्रशमनानाम्| ३७| लाजाश्च्छर्दिन्धानाम्| ३७| यावशूकः स्त्रंसनीयपाचनीयार्शोन्धानाम्| ३९| तक्राभ्यासोऽर्शःश्वयथुग्रहणीदोशधृतव्यापत्प्रशमनानाम्| ४०| क्रव्यान्मांसाभ्यासोऽर्शः शोषग्रहनीदोषन्धानाम्| ४१| मुस्तं सङ्ग्रहणीयदीपनीयपाचनीयानाम्| ४२| अतिविषा पाचनीयसङ्ग्रहणीयसर्वदोषहराणाम्| ४३ बिल्वं शोणितपित्तातिवेगप्रशमनीयानाम्| ४५| उदीच्यं निर्वापणदीपनीयच्छर्द्यतीसारहराणाम्| ४६| कट्वङ्गं सङ्ग्रहणीयदीपनीयानाम्| ४७| कुटजत्वक् श्लेष्मपित्त्रक्तसङ्ग्रहणीयोपशोषणीयानाम्| ४८| उत्पलकुमुदकिञ्जल्कोऽनन्ता च सङ्ग्रहणियरक्तपित्तप्रशमनानाम्| ४९| काश्मर्यफलं रक्तसङ्ग्रहणीयरक्तपित्तप्रशमनानाम्| ५०| पृस्निपर्णी रक्तसङ्ग्रहणीयदीपनीयपाचनीयवातहरवृष्याणाम्| ५१| शालिपर्णी वृष्यसर्वदोषहराणाम्| ५२| बला सङ्ग्रहणीयबल्यवातहराणाम्| ५३| पिप्पलीमूलं दीपनीयानाहहराणाम्| ५४| वित्रकमूलं दीपनीयगुदशोफशूलहराणाम्|| ५५|| योक्षुरको मूत्रकृच्छ्रानिलहराणाम्|५६| हरिद्रा प्रमेहहराणाम्| ५७| रक्तावसेको विद्रधिवीसर्पपिटिकागण्डमालामयहराणाम्| ५८| एरण्डतैलाम्यासो वर्ध्मगुल्मशूलहराणाम्| ५९| लशुनो गुल्मानिलहराणाम्| ६०| हिङ्गुनिर्यासश्चछेदनीयदीपनीयानुलोमिकवरकफप्रशमनीयानाम्| ६१| अम्लवेतसो भेदनीयदीपनीयानुलोमिकवातश्लेष्महणाम्| ६२| उद्रीक्षीरमुदरश्वयथुन्धानाम्| ६३| अयोरजः पाण्डुरोगन्धानाम्| ६४| खदिरः कुष्ठन्धानाम्| ६५| विडङ्ग कृमिन्वानाम्| ६६| रस्ना वातहराणाम्| ६७| एरण्डमूलं वृष्यवातहराणाम्| ६८| गुग्गुलिर्मेदोनिलहराणाम्| ६९| अमृता सङ्ग्रहणीयदीपनीयवातश्लेष्मशोणितविबन्धप्रशमनानाम्| ७०| मदनफलं वमनास्थापनानुवासनिपयोगिनाम्| ७१| त्रिवृत्सुखविरेचनानाम्| ७२ चतुरङ्गुलो मृदुविरेचनानाम्| ७३| स्नुक्पयस्तीक्ष्णविरेचनानाम्| ७४| प्रत्यक्पुष्पी शिरोविरेचनानाम्| ७५| त्रिफला तिमिरन्धानाम्| ७६| त्रिफलामिग्गुलुर्व्रण्यानाम्| ७७| शिरीषो विषन्धानाम्| ७८| आमलकं वयः स्थापनानाम्| ७९| हरीतकी पथ्थानाम्| ८०| ञीरवूताम्यासो रसायनानाम्| ८१| समधृतसक्तुप्राशाम्यासो वृष्योदावर्तहराणाम्| ८२| सङ्कल्पो नक्ररेतश्च वृष्याणाम्| ८३| दौर्मनस्यमवृष्याणाम्| ८४ तैलगण्डूषाम्यासो दन्तबलरुचिकराणाम्| ८५| चन्दनोदुम्बरं दाहनिर्वापणालेपनानाम्| ८६| रास्नादुरुणी शीतापनयनप्रलेपनानाम्| ८७| लामज्जकोशीरे दाहत्वग्दोषस्वंदापनयनप्रलेपनानाम्| ८८| कुष्ठं वारहराम्यङ्गोपनाहोपयोगिनाम्| ८९| मधुकं चक्षुष्यवृष्यकेश्गकण्ठ्यवर्ण्यद्यन्यविरञ्जनीयरोपणीयानाम्| ९०| अजीर्णाशनं ग्रहणीदूषणानाम्| ९१| विरुद्धवीर्याशनं निन्दितव्याधिकराणाम्| ९२| गुरुभोजनं दुर्विपाकानाम्| ९३| अतिमात्राशनमाभदोषहेरूनाम्| ९४| यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानाम्| ९५| यथासात्म्यमाहारविहारौ सेव्यानाम्| ९६| एकासनशयनमोजनं सुखपरिणामकराणाम्| ९७| विषमाशनमग्निचैषम्यकराणाम्| ९८| काले भोजनमारोग्यकरार्म्| ९९| वगोदीरणधारणमनारोग्यकराणाम्| १००| तृत्पिरहारगुणानाम्| १०१| अनशनमायुषो ह्वासकराणाम्| १०२| प्रमिताशनं गवेधुकान्नं च कर्षणियानाम्| १०३| उद्दालकान्नं रूक्षणीयानाम्| १०४| मद्यं सौमनस्यजननानाम्| १०५| मद्याक्षेपो धीधृतिस्मृतिहराणाम्| १०६ स्नीष्वतिप्रसङ्गः शोषकराणाम्| १०७ शुक्रवेगनिग्रगघ् षाण्ढ्यकराणाम्| १०८| पादाम्यामुद्वर्तनमन्नश्रद्धाजनानाम्| १०९| सूनादर्शनमन्नाअद्धाजननानाम्| ११०| मिध्याय्गो व्याधिमुखानाम्| १११| रजस्वलारागनमलश्मीसुखानाम्| ११२| ब्रह्यचर्यमायुष्याणाम्| ११३ परदारगमनमनायुष्याणाम्| ११४| अयथाप्राकमारम्भः प्राणोपरोधिनाम्| ११४| विषादो रोगावर्द्धनानाम्| ११६| शिकः शोषणानाम्| ११७| निर्वृतिः पिष्टिकराणाम्| ११८| स्वप्नस्तन्द्राकराणम्| ११९| सर्वरसाभ्यासो बलकराणाम्| १२०| एकरसाभ्यासो दौर्बल्यारोचकन्यतमद्षप्रकोपकराणाम्| १२१| गर्भशल्यमहार्याणाम्| १२२| अजीर्णमुद्धार्याणाम्| १२३| बालो मृदुभेषजाहार्याणाम्| १२४| वृद्धो याप्यानाम्| १२५| गर्भिणी रीक्ष्णौषधव्यायामवर्जनीयानाम्| १२६| सौमनस्यं गर्भधारणानाम्| १२७| सन्निपातो दुश्चिकित्स्यानाम्| १२८| आमविषमचिकित्स्यानाम्| १२९| ज्वरो रोगाणाम्| १३०| कुष्ठं दीर्घरोगाणाम्| १३१| राजयक्ष्मा रोगसमूहानाम्| १३२| प्रमेहोऽनुषङ्गिणाम्| १३३| जलौकसोऽनुशस्त्राणाम्| १३४| बस्तिर्यन्त्रणाम्| हिमवानौषधभूमीनाम्| १३६| सोम ओषधीनाम्| १३७| मरुभूमिरारिग्यदेशानाम्| १३८| आनूपभूमिरहितदेशानाम्| १३९| निदेशकारित्वमातुरगुणनाम्| १४०| अनिर्देशकारित्वं रिष्टानाम्| १४१| भिषक् चिकित्साङ्गानाम्| १४२| सिद्धिर्वैद्यगुणानाम्| १४३| नास्तिको वर्ज्यानाम्| १४४ लौल्यं क्लेशकराणाम्| १४५| आत्मवत्तोपकारिणाम्| १४६| शास्त्रसहितस्तर्कः साधकानाम्| १४७| द्दष्टकर्मता निःसंशयकराणाम्| १४८| असमर्थता भयकराणाम्| १४९| तविद्यसम्भाषा बुद्धिबर्द्धनानाम्| १५०| आचार्यः शास्त्राधिगमहेतूनाम्| १५१| आयुर्वेदोऽमृतानाम्| १५२| सद्वैद्यद्वेषः प्राणत्यागहेतूनाम्| १५३| सद्वचनमनुष्ठेयानाम्| १५४| सर्वसन्न्यासः सुखानामिति| १५५| तत्रोदकग्निमृद्भृष्टलोष्ठप्रसादतक्राभ्यासरक्तावसेकैरण्डतैलाभ्यासोष्ट्रीक्षीरमदनफलमद्याक्षेपैकरसाभ्यासगर्भिणीनामेकैकस्मात् समुदायच्च निर्धारणम्| पुष्करमूलादीनां तु समुदायादेवेति| भवति चात्र| अग्र्याणां शतमुद्दिष्टं पञ्चपञ्चाशदुत्तरम्| अलमेतद्विजानीयाद्धिताहितविनिश्चये||" इति| इति हेमाद्रिटीकायमायुर्वेदरसायने| शुध्यादिगणसङ्ग्रहः सामस्त्येन निरूपितः|| १५||