Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ऊर्ध्वाङ्गचिकित्साप्रसङ्गाद्धूमपानविधिं जिगदिषुराह-
Adhikarana अध्यायोपक्रमः · Śloka
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ऊर्ध्वाङ्गचिकित्साप्रसङ्गाद्धूमपानविधिं जिगदिषुराह-
Adhikarana धूमपानविधिरध्यायः दूमस्य सामान्यतो विषयः (२-१) · Śloka १
अथातो धूमपानविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| जत्रूर्ध्वकफवातोत्थविकाराणामजन्मने| उच्छेदाय च जातानां पिबेद्धूमं सदाऽऽत्मवान्||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आत्मवान्-सुमतिर्हिताहारविहारो, जत्रुण ऊर्ध्वं श्लेष्मवातोद्भवानां विकाराणं-रोगाणां, अजन्मने-अनुत्पत्त्यै, तथोत्पन्नानामुच्छेदाय-विनाशाय, सदा धूमं पिबेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धूमपानविधिमध्यायं व्याख्यातुं प्रतिजानीते| अथेति|
Adhikarana धूमभेदाः स्निग्धादीनां विषयः (२) · Śloka २
स्निग्धो मध्यः स तीक्ष्णश्च, वाते वातकफे कफे| योज्यः|२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-स च धूमः स्निग्धमध्यतीक्ष्णभेदेन त्रिधा| यथाक्रमं वाते स्निग्धो, वातकफे मध्यः, कफे तीक्ष्णो, योज्यः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धूमभेदानाह-स्निग्ध इति| सङ्ग्रहे तु (सू. अ. ३०)-"तत्र शमनः प्रायोगिको मध्यम इति पर्यायाः, बृंहणः स्नेहनो मृदुरिति, शोधनो विरेचनस्तीक्ष्ण इति च|" इति| "तथा कासघ्नो वामनो व्रणधूपनश्छ|" इन्यन्यद्भेदत्रयम्|
Adhikarana रक्तपित्तार्तादीनां धूमपाननिषेधः (२-४) · Śloka ४
स्निग्धादीनां विषयमाह-वात इति| क्रमेणेति शेषः| | न रक्तपित्तार्तिविरिक्तोदरमेहिषु||२|| तिमिरोर्ध्वानिलाध्मानरोहिणीदत्तबस्तिषु| मत्स्यमद्यदधिक्षीरक्षौद्रस्नेहविषाशिषु||३|| शिरस्यभिहते पाण्डुरोगे जागरिते निशि| |४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रक्तपित्तार्त्यादिषु धूमो नावछारणीयः| ननु, वाते वातकफे कफे च धूमस्यानुज्ञातत्वात् पित्तार्तौ प्राप्तिरेव नास्ति| तत्किं प्रतिषेधेन? ब्रूमः| वातप्रकृतेर्वातपित्तार्तौ सत्यां कश्चिद्भिषक्पाशो भ्रान्त्या प्रकृत्यनुरूपोपक्रमचिकीर्षया धूमं योजयेत्, तन्निषेधार्थमिदमुक्तम्| अथवा वातश्लेष्मप्रकृतेः पित्तार्तौ पित्तप्रकृतेर्वा वातश्लेष्मार्तौ धूमो न योज्य इति प्रतिपादनार्थमिदं गदितम्| अशिशब्दो मत्स्यादिषु विषान्तेषु प्रत्येकं योज्यः| अत्र च यथासम्भवं पानं मद्यादेः, भोजनं छ मत्स्यादेः अशनशब्देनोच्यते| चतुर्विधेऽप्याहारे अशनशब्देनास्त्येव व्यवहारः| यथा (हृ.सू.अ. ८|१)-"मात्राशी सर्वकालं स्यात्" इति केचिच्च यवागूपायिन्यपि धूमपानं नेच्छन्ति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-पित्तार्तादीनां धूमं निषेधति-न पित्तरक्तार्तेति|
Adhikarana धूमस्याकालपानेऽतिपाने च दोषः (४-५) · Śloka ५
| रक्तपित्तान्ध्यबाधिर्यतृण्मूर्च्छामदमोहकृत्||४|| धूमोऽकालेऽतिपीतो वा| |५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-मूर्च्छा-संज्ञानाशः| मोहाः-चित्तनाशः,'मुहू वैचित्ये' इति पाठात्| आन्ध्यबाधिर्यग्रहणमुत्तमाङ्गरोगोपलक्ष्णार्थम्| तेन सङ्ग्रहोक्तमर्दितमपि गृह्यते| धूमोऽकाले-पूर्वोक्ते रक्तपित्तार्त्यादौ, पीतो रक्तपित्तादीन् कुर्यात्| अप्रतिषिद्धेऽपि काले- क्षुतादौ, अतिशयेन पीतो वा रक्तादिकृत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धूमस्याकालपानेऽतिपाने च दोषमाह-रक्तपित्तान्ध्येति|
Adhikarana उक्तदोषस्य प्रतीकारः (५) · Śloka ५
तत्र शीतो विधिर्हितः| |५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-रक्तपित्ताद्यार्तौ, विधिः-उपक्रमो यथास्वं सर्पिः पाननस्यालेपपरिषेकादिः, शीतो हितः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-उक्तदोषस्य प्रतीकारमाह-तत्र शीत इति| सङ्ग्रहे तु (सू.अ. ३०)-"एषां हि भ्रमज्वरशिरोभितापेन्द्रियोपघाततालुशोषपाकधूमायनच्छर्दिमुर्च्छारक्तपित्तार्दितानि मृत्युं वा धूमो जनयेत्, अतिमात्रश्चान्येषामपि| तत्र वातकफान्यतरसंसृष्टं पित्तमुपलक्ष्य यथास्वं सर्पिष्कषायपाननस्यास्यलेपाञ्जनपरिषेकान् स्निग्धरूक्षशीतान् प्रयुञ्जीत| एतेन सर्वधूमोपघातप्रतीकारा व्याख्याताः| विशेषस्तु सर्वस्रोतोभिगते धूमे तीव्रतरा वेदना भवन्त्यूषाध्माननेत्ररोगश्वासकासपीनसाङ्गस्वरसादाम्लकाः| तत्र घृतक्षीरेक्षुरसद्राक्षाशर्करोपयोगस्तद्विधैरेव वमनम्| कटुतिक्तैरपि च नस्यगण्डूषाः|" इति|
Adhikarana स्निग्धधूमस्याष्टौ कालाः मध्यधूमस्यैकादश कालाः तीक्ष्णधूमस्य पञ्च कालाः (५-७) · Śloka ७
इदानीं त्रयाणां धूमानां कालं पृथक् दर्शयन्नाह | क्षुतजृम्भितविण्मूत्रस्त्रीसेवाशस्त्रकर्मणाम्||५|| हासस्य दन्तकाष्ठस्य धूममन्ते पिबेन्मृदुम्| कालेष्वेषु निशाहारनावनान्ते च मध्यमम्||६|| निद्रानस्याञ्जनस्नानच्छर्दितान्ते विरेचनम्| |७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-क्षुतादीनामष्टानामन्ते मृदुं-स्नेहनाख्यं, धूमं पिबेत्| एषु-क्षुतादिषु कालेषु, निशाहारनावनान्तेषु च मध्यमं धूमं पिबेत्| मध्य एव मध्यमः, "मध्यान्मः" इति मप्रत्ययः| विरेछनाख्यं धूमं निद्रादीनामन्ते पिबेत्| नावननस्यशब्दयोरेकार्थयोरिहोपादानान्नस्यक्रमेण धूमं पिबेदिति ग्रन्थकृता प्रतिपादितम्| तेन स्निग्धनस्यान्ते स्निग्धं-मृद्वपरपर्यायं, धूमं पिबेत्| आचार्योपदेशाच्च क्षुताद्यन्तेषु च स्निग्धं धूमं पिबेत्| मध्यनस्यान्ते मध्यमं धूमं पिबेत्| कालेष्विति वचनाच्च क्षुतान्तादिषु च मध्यमं धूमं पिबेत्| एवं तीक्ष्णनस्यान्ते विरेचनं धूमं पिबेत्| इति त्रिषु सम्बन्धः| तीक्ष्णशब्दोऽत्र विरेचनपर्यायः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्निग्धधूमस्याष्टौ कालानाह-क्षुतजृम्भितेति| मध्यधूमस्यैकादश कालानाह-कालेष्विति| तीक्ष्णधूमस्य पञ्च कालानाह-निद्रेति|
Adhikarana धूमनेत्रस्वरूपम् (७-८) · Śloka ८
साम्प्रतमत्र नेत्रस्वरूपमाह | बस्तिनेत्रसमद्रव्यं त्रिकोशं कारयेदृजु||७|| मूलाग्रेऽङ्गुष्ठकोलास्थिप्रवेशं धूमनेत्रकम्| |८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-बस्तौ नेत्रं बस्तिनेत्रम्, बस्तिनेत्रेण समं-तुल्यं, द्रव्यं-धातुदार्वस्थिवेणुजं, यस्य-धूमनेत्रस्य, तद्बस्तिनेत्रसमद्रव्यं धूमनेत्रं शिल्पिना कारयेद्भिषक्| किम्भूतं नेत्रम् ? त्रयः कोशाः पर्वाणि, यस्य तत् त्रिकोशम्| तथा, ऋजु-अवकम्| तथा, मूलं चाग्रं च तस्मिन् यथासङ्ख्यमङ्गुष्ठबदरास्थिप्रवेशम्| मूलेऽङ्गुष्ठप्रवेशमग्रे कोलास्थिप्रवेशमित्यर्थः| अङ्गुष्ठश्च कोलास्थि चेति समाहारद्वन्द्वः| तत्प्रविशत्यस्मिन्निति "पदरुजविशन्ति" इति घञ्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धूमनेत्रमाह-बस्तिनेत्रेति| बस्तिनेत्रसमद्रव्यं-हेमादिघटितम्| त्रिकोशं-यथापूर्व्याऽनुप्रविभज्य त्रिकाण्डम्|
Adhikarana तीक्ष्णादिभेदेन धूमनेत्रस्य प्रमाणम् (८-९) · Śloka ९
इदानीं तीक्ष्णादिकस्य त्रिविधस्य धूमस्य दैर्घ्येण नेत्र प्रमाणमाह | तीक्ष्णस्नेहनमध्येषु त्रीणि चत्वाति पञ्च च||८|| अङ्गुलानां क्रमात्पातुः प्रमाणेनाष्टकानि तत्| |९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-यथासङ्ख्यं दैर्घ्येण तीक्ष्णस्य त्रीण्यष्टकानि-चतुर्विंशतिरङ्गुलानि, स्युः| स्नेहने च धूमे चत्वार्यष्टकानि-द्वात्रिंशदङ्गुलानि, स्युः| मध्यमे च धूमे पञ्चाष्टकानि-चत्वारिंशदङ्गुलानि, स्युः| पर्वानेकत्वं सूक्ष्मत्वं दैर्घ्यं च नेत्रस्येह कृतम्| एवं हि नयनकर्णादीनां न बाधको धूमः स्यादिति| तथा च मुनिः (च.सू.अ.५|४८)-"दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः| नेन्द्रियं बाधते धूमः" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तीक्ष्णादिभेदेन धूमनेत्रस्य प्रमाणमाह-तीक्ष्णस्नेहनमध्येष्विति| धूमपाङ्गुलानि चतुर्विंशतिस्तीक्ष्णनेत्रम्, द्वात्रिंशत्स्निग्धनेत्रम्, चत्वारिंशन्मध्यनेत्रम्| सङ्ग्रहे तु (सू.अ. ३०)-"एवं हि धूमो दूरात्प्रवृत्तो नेत्रस्य पर्वच्छेदादूर्ध्वं तनुतया च शनैः श्लिष्यन्नबाधको भवति|" इति| तथा (सं. सू. अ. ३०)-"कासघ्ने वामने च दशाङ्गुलम्| व्रणधूपनार्थमष्टाङ्गुलम्| कलायपरिमण्डलं कुलत्थवाहिस्रोत इति| कासघ्नादिषु तु नेत्राभावे नलवंशैरण्डादीनामन्यतमां नाडीं योजयेत्|" इति|
Adhikarana धूमपानविधिः (९-१०) · Śloka १०
कीदृशः सन् धूमं पीवेत्? इत्याह | ऋजूपविष्टस्तच्चेता विवृतास्यस्त्रिपर्ययम्||९|| पिधाय च्छिद्रमेकैकं धूमं नासिकया पिबेत्| |१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-ऋजु-स्पष्टं, उपविष्टः-आसीनः| तथा, तच्चेताः-धूमपानगतचित्तः| तथा, प्रसारितमुखः| तथा, नेत्रगतदृष्टिरित्यपि द्रष्टव्यम्| कथं पिबेत् ? त्रिपर्ययम्| आक्षेपविसर्गा-आपानः, त्रिभिरापानैः-पर्ययः| तथा, छिद्रमेकैकं पिधाय, प्रकृतत्वान्नासिकाया एव| तदेवंविधः सन् नासिकया पिबेत्| एकैकमिति "एकं बहुव्रीहिवत्" इति द्वित्वसुब्लोपौ| तेनायमर्थः,- एकं नासापुटं पिधायापरेण नासापुटेनाकृष्य धूमं पिबेत्| अपरं नासापुटं पिधाय तदपरेणाकृष्य तथैव पिबेदित्यर्थः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धूमपानविधिमाह-ऋजूपविष्ट इति| त्रिपर्यं-त्रिपरिवर्तम्| वामं पिधाय दक्षिणेन पिबेत् दक्षिणं पिधाय वामेन पिबेदित्येकः परिवर्तः| सङ्ग्रहे तु (सू.अ.३०)-"प्राकृतोच्छ्वासनिःश्वासो नेत्राग्रनिविष्टदृष्टिः|" इति|
Adhikarana धूमपाने विशेषः (१०-११) · Śloka ११
| प्राक् पिबेन्नासयोत्क्लिष्टे दोषे घ्राणशिरोगते||१०|| उत्क्लेशनार्थं वक्त्रेण, विपरीतं तु कण्ठगे| |११|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नासागते शिरोगते वा दोष उत्क्लिष्टे-स्वस्थानाच्चालिते सति, प्राक्-पूर्वं, नासिकया पिबेत्| अनुत्क्लिष्टे दोष उत्क्लेशनार्थं वक्त्रेण प्राक् पिबेत्, पश्चान्नसिकया| कण्ठगे तु दोष उत्क्लेशनार्थं प्राङ्नासिकया पिबेत् पश्चाद्वक्त्रेणेति विपरीतत्वम्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-दोषस्थानावस्थाभेदेन धूमपाने विशेषमाह-प्राक् पिबेदिति| घ्राणशिरोगते दोषे स्वयमुत्क्लिष्टे शोधनार्थं यो धूमस्तं पूर्वं नासिकया पिबेत्, पश्चाद्वक्रेण| तस्मिन्नेवानुत्क्लिष्टे उत्क्लेषनार्थं यो धूमस्तं पूर्वं वक्त्रेण पिबेत्, पश्चान्नासिकया| अनुत्क्लिष्टे प्राङ्नासिकया, पश्चाद्वक्रेण|
Adhikarana धूमोद्वमने नियमः (११) · Śloka ११
| मुखेनैवोद्वमेद्धूमं|११|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-नासयाऽऽस्येन वा पीतं धूमं वक्त्रेणैवोत्सृजेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धूमोद्वमने नियममाह-मुखेनैवेति|
Adhikarana नासोद्वमने दोषः (११) · Śloka ११
ननु घ्राणेनैव कस्मान्न मुच्यते? इत्याह | नासया दृग्विघातकृत्||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-घ्राणेनोत्सृज्यमानो धूमो दृष्टिविघातं तिमिरादिना करोति| तस्मान्मुखेनैवोत्सृजेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-नासोद्वमने दोषमाह-नासयेति|
Adhikarana धूमपानावधिः (१२) · Śloka १२
आक्षेपमोक्षैः पातव्यो धूमस्तु त्रिस्त्रिभिस्त्रिभिः| |१२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-आक्षेपमोक्षैः-आदानविसर्गैः, त्रिभिस्त्रिभिस्त्रीन् वारान् धूमः पातव्यः| त्रिरिति "द्वित्रिचतुर्भ्यः सुच्" इति सुच्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ रं-धूमपानावधिमाह-ओक्षेपमोक्षैरिति| त्रिभिस्त्रिभिरिति त्रिषु पानेषु प्रत्येकं त्रय आक्षेपमोक्षाः|
Adhikarana स्निग्धादिभेदेनावृत्तिः (१२-१३) · Śloka १३
| अह्नः पिबेत्सकृत् स्निग्धं, द्विर्मध्यं, शोधनं परम्||१२|| त्रिश्चतुर्वा| |१३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-अह्नः सकृत्-एकवारं, स्निग्धं धूमं पिबेत्| मध्यमं धूमं द्वौ वारौ पिबेत्| अह्न इत्यत्राप्यनुवर्तते| तीक्ष्णं धूमं त्रीन् वारांश्चतुरो वा दिवसस्य पिबेत्| अह्न इति "कृत्वोऽर्थप्रयोगे कालेऽधिकरणे" इति षष्ठी|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्निग्धादिभेदेनावृत्तिमाह-अह्न इति| अह्नः सकृत्-अहोरात्रमध्ये एकवारं, स्निग्धं पिबेत्| द्विवारं मध्यम्| त्रिवारं चतुर्वारं वा तीक्ष्णम्|
Adhikarana स्निग्धधूमस्य द्रव्याणि (१३-१५) · Śloka १५
मृदौ तत्र द्रव्याण्यगुरुगुग्गुलु| मुस्तस्थौणेयशैलेयनलदोशीरवालकम्||१३|| वराङ्गकौन्तीमधुकबिल्वमज्जैलवालुकम्| श्रीवेष्टकं सर्जरसो ध्यामकं मदनं प्लवम्||१४|| शल्लकी कुङ्कुमं माषा यवाः कुन्दुरुकस्तिलाः| स्नेहः फलानां साराणां मेदो मज्जा वसा घृतम्||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तत्र-तेषु त्रिषु धूमेषु मध्यात्, मृदौ-प्रायोगिकाख्ये धूमे, द्रव्याण्यगुरुप्रभृतीनि| प्लवो-गोपालमदनकः| स्नेह इति| फलानां-आक्षोडनारिकेलादीनां स्नेहः, तथा साराणां-खदिरासनादीनां च स्नेहः| मधुमदनयोरेकयोनित्वादुक्तस्योपयोगो मदनस्यात्र विरुद्ध इति केचित्| तच्चायुक्तम्| द्रव्यान्तरत्वान्मदनस्य| पिण्याकदिवत्तिलादेः| घृतं चात्र गव्यमेव ग्राह्यम्, मुख्यत्वात्| उक्तं हि (हृ.सू.अ.५|४२)-"गव्ये क्षीरघृते श्रेष्ठे" इति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-स्निग्धधूमस्य द्रव्याण्याह-मृदाविति| नलदंमांसी| वराङ्गं-त्वचम्| ध्यामकं-कट्तृणम्| मदनं-मधूच्छिष्टम्| कुन्दुरुकः-शल्लकीनिर्यासः| फलानां स्नेहः-एरण्डतैलादिः| साराणां स्नेहः-देवदारुतैलादिः|
Adhikarana मध्यमधूमस्य द्रव्याणि (१६-१७) · Śloka १७
शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम्| न्यग्रोधोदुम्बराश्वत्थप्लक्षरोध्रत्वचः सिता||१६|| यष्टीमधु सुवर्णत्वक् पद्मकं रक्तयष्टिका| गन्धाश्चाकुष्ठतगराः|१७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शमने धूमे शल्लक्यादीनि गन्धद्रव्याणि कुष्ठतगरवर्ज्यानि|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-मध्यमधूमस्य द्रव्याण्याह-शमन इति| सिता-शर्करा| सुवर्णत्वक्-आरग्वधः| रक्तयष्टिका-मञ्जिष्ठा|
Adhikarana तीक्ष्णधूमस्य द्रव्याणि (१७-१८) · Śloka १८
| तीक्ष्णे ज्योतिष्मती निशा||१७|| दशमूलमनोह्वालं लाक्षा श्वेता फलत्रयम्| गन्धद्रव्याणि तीक्ष्णानि गणो मूर्द्धविरेचनः||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-तीक्ष्णे-विरेचनाख्ये धूमे, ज्योतिष्मत्यादीनि, गन्धद्रव्याणि, तीक्ष्णानि-कुष्ठतगरादीनि, गणश्च-शोधनादिगणसङ्ग्रहोक्तो "वेल्लापामार्ग" (हृ.सू.अ.१५|४) इत्यादिको, मूर्धविरेचनः|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-तीक्ष्णधूमस्य द्रव्याण्याह-तीक्ष्ण इति| अलं हरीतालम्| श्वेता-किणिही| तीक्ष्णानि गन्धद्रव्याणी-कङ्कोलादीनि| मूर्द्धविरेचनो गणः-"वेल्लापामार्ग" इत्यादिः|
Adhikarana धूमवर्तिः (१९-२१) · Śloka २१
सम्प्रति धूमवर्तिविधानमाह जले स्थितामहोरात्रमिषीकां द्वादशाङ्गुलाम्| पिष्टैर्धूमौषधैरेवं पञ्चकृत्वः प्रलेपयेत्||१९|| वर्तिरङ्गुष्ठकस्थूला यवमध्या यथा भवेत्| छायाशुष्कां विगर्भां तां स्नेहाभ्यक्तां यथायथम्||२०|| धूमनेत्रार्पितां पातुमग्निप्लुष्टां प्रयोजयेत्| |२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-रात्रिंदिवं सलिले उषितां दैर्घ्येण द्वादशाङ्गुलामिषीकां-दर्भतूलीं, पञ्चकृत्वः-पश्चवारान्, धूमोक्तैरौषधैः पिष्टैः प्रकर्षेण लेपयेत्| यथाऽङ्गुष्ठकस्थूला यवमध्या वर्तिः स्यात्| एतदाकृतिविधानं च त्रिविधेऽपि नेत्रके वर्तेः सुखप्रवेशार्थम्| तामिषीकां (तां वर्ति) छायायां विशुष्कां विगतगर्भां (विगर्भां)-अपनीतेषीकां, तथा स्नेहेन-घृतादिना यथास्वमभ्यक्तां, तथा, धूमनेत्रस्य यदङ्गुष्ठप्रमाणं छिद्रं तत्रार्पितां, तथाऽग्निप्लुष्टां अङ्गारप्रदीप्तां, पातुं-पानार्थं, प्रयोजयेत्|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धूमपानार्थं धूमवर्त्तिमाह-जले स्थितामिति| हषीकां-काशशलाकाम्| धूमौषधैः-यथोक्तैरगुर्वादिभिः, पञ्चभिर्लेपैरङ्गुष्ठस्थूला यवमध्या यथा भवेत्तथा विशोष्य विशोष्य प्रलेपयेत्| धूमवर्त्या धूमपानप्रकारमाह-छायाशुष्कामिति| विगर्भां-अपनीतेषीकाम्| यथायथं-मृदुमध्यतीक्ष्णैः स्नेहैरभ्यक्ताम्| सङ्ग्रहे तु (सू.अ.३०)-"इषीकामध्यं नवाङ्गुलं लेपयेत्| प्रतिलेपं चाक्षमात्रं लेपद्रव्यम्|" इत्युक्तम्|
Adhikarana धूमवर्त्या धूमपानप्रकारः (२१-२३) · Śloka २३
अधुनाऽपरमपि धूमप्रकारमाह शरावसम्पुटच्छिद्रे नाडीं न्यस्य दशाङ्गुलाम्|२१| अष्टाङ्गुलां वा वक्त्रेणा कासवान् धूममापिबेत्| २१ १/२||२३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-शरावयोः सम्पुटो-युग्मं, तस्य छिद्रे नाडीं दशाङ्गुलामष्टाङ्गुलप्रमाणां वा निक्षिप्य कासी धूममापिबेत्| तदयमत्रार्थः,-अपगतधूमखदिरबदरादिदारुस्थिराङ्गारप्रकरपूर्णशरावे कासहरचूर्णं सस्नेहं गुलिकां वा न्यस्य मध्यवृत्तच्छिद्रशरावेण पिधाय नाडीमष्टाङ्गुलां दशाङ्गुलां व निवेश्य कासवान्-कासी, वक्त्रेण-मुखेन, धूमं संपिबेदिति|
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-कासिनां धूमपाने विशेषमाह-शरावसम्पुटेति| शरावसम्पुटः-सङ्ग्रहोक्तः (सू.अ. ३०)-"कासघ्नं तु चूर्णं गुलिकां वा निर्धूमदीप्तस्थिराङ्गारपूर्णे सुसंस्थिते शरावे प्रक्षिप्यान्तेन बुध्नवृत्तच्छिद्रेण शरावेण पिधाय" इति|
Adhikarana कासिनां धूमपाने विशेषः धूमशीलनस्य फलम् (२१) · Śloka २१
कासः श्वासः पीनसो विस्वरत्वं पूतिर्गन्धः पाण्डुता केशदोषः| कर्णास्याक्षिस्त्रावकण्ड्वर्तिजाड्यं तन्द्रा हिध्मा धूमपं न स्पृशन्ति| २२ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने धूमपानविधिर्नामैकविंशतितमोऽध्यायः||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स०-कासादयो धूमपं न स्पृशन्ति| धूमपातुरेते न सम्भवन्तीति भावः| तत्र पूतिर्गन्धः-आस्यनासयोः| पाण्डुतामुखस्य| केशदोषाः-सितपिञ्जरत्वादयः| कर्णौ चास्यं चाक्षिणी च कर्णास्याक्षि, स्रावश्च कण्डूश्चार्तिश्च जाड्यं च स्रावकण्ड्वर्तिजाड्यम्, कर्णादिषु प्रत्येकं स्रावादिचतुष्टयं योज्यमिति| शालिनीवृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने धूमपानविधिर्नामैकविंशतितमोऽध्यायः समाप्तः|| २१||
आयुर्वेदरसायनम् व्याख्या ( कृत)
आ० र०-धूमशीलनस्य फलमाह-कास इति| सङ्ग्रहे तु (सू.अ.- ३०)-"धूमो हि शिरोक्षिकर्णशूलाभिष्यन्दगौरवार्द्धावभेदकपीनसकासश्वासास्यवैरस्य- प्रसेकवैस्वर्यपूतिघ्राणमुखहिध्मागलरोगदन्तशूलदौर्बल्यारुचिहनुमन्याग्रह- कृमिपक्षवधक्षवथुनाशबाहुल्यातिनिद्राक्रथनादिजत्रूर्ध्वगतवातकफ- व्याधिषु प्रशमनाय प्रयुज्यते| तथा शिरःकपालेन्द्रियमनोबृंहणप्रसादनाय च| शीतद्रव्यनिर्वृत्तोऽपि त्वग्निसंयोगादुष्णतया पित्तरक्तविरुद्धः|" इति| इति हेमाद्रिटीकायामायुर्वेदरसायने| धूमपानप्रकरणं सामस्त्येन निरूपितम्|| २१||