Skip to content

२०. नस्यविधिरध्यायः

Adhikarana अध्यायोपक्रमः · Śloka

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

पञ्ह्चकर्मोक्तिप्रस्तावे वमनविरेकान्वासननिरूहानुक्त्वा नस्यविधिमाह -

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana नस्यविधिरध्यायः, नस्यस्य विषयः (२-१) · Śloka

पञ्ह्चकर्मोक्तिप्रस्तावे वमनविरेकान्वासननिरूहानुक्त्वा नस्यविधिमाह - - - - अथातो नस्यविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ऊर्ध्वजत्रुविकारेषु विशेषान्नस्यमिष्यते| नासा हि शिरसो द्वारं तेन तद्व्याप्य हन्ति तान्||१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-जत्रु-वक्षोंसयोः सन्धिः| जत्रुण ऊर्ध्वमूर्ध्वजत्रु| मयूरव्यंसकादित्वात् समासः| तत्र विकारा ऊर्ध्वजत्रुविकाराः, तेषूर्ध्वजत्रुविकारेषु-शिरोरोगादिषु विषये, वमनशिराव्यधादयोऽपीष्यन्त एव| विशेषण तु नस्यमिष्यते| नासायां क्रियत् इति नस्यम्| नासिकायाः "पद्दन्न" इति नसादेशः| ननु, किमिति नस्यमेतेषु रोगेषु विशेषेणेष्टम् ? इत्याह-नासा हीत्यादि| यस्मात् घ्राणं शिरोद्वारम्| तेन द्वारेण श्रोत्रशृङ्गाटकप्राप्तमूर्ध्वं नेत्रकण्ठादिशिरामुखानुप्रवेशेन, तत्-शिरो, व्याप्य ताम्-विकारान् हन्ति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-नस्यविधिमध्यायं व्याख्यातुं प्रतिजानीते अथेति| तत्र नस्यविषयमाह-ऊर्ध्वजत्रुविकारेष्विति| विशेषादितिवचनादितरेष्वपि| सङ्ग्रहे तु (सू. अ. २९) -"नासया प्रणीयमानमौषधं नस्यं नावनं नस्तःकर्मेति च संज्ञां लभते| नासा हि शिरसो द्वारम्| तत्र निषेचितमौषधंस्रोतःशृङ्गाटकं प्राप्य, व्याप्य च मूर्द्धानं नेत्रश्रोत्रकण्ठादिशिरामुखानि च, मुञ्जादिषीकामिवासक्तामूर्द्ध्वजत्रौगतां वैकारिकीमशेषामाशु दोषसंहतिमुत्तमाङ्गादपकर्षति|" इति|

Adhikarana नस्यभेदाः (२) · Śloka

विरेचनं बृंहणं च शमनं च त्रिधाऽपि तत्| |२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्-नस्यं, विरेचनबृंहणशमनाख्यभेदेन त्रिधा स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-[नस्यभेदानाह-विरेचनमिति|] विरेचनं बृंहणं शमनं चेति त्रिविधं नस्यम्|

Adhikarana विरेचननस्यस्य विषयः (२-३) · Śloka

तत्र पूर्वं विरेचनाख्यस्योपयोगमाह - - - - | विरेचनं शिरःशूलजाड्यस्यन्दगलामये||२|| शोफगण्डकृमिग्रन्थिकुष्ठापस्मारपीनसे| |३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-शिरःशूलादिषु विरेचनं नस्यमिष्यते| अपस्मारो यद्यप्यूर्ध्वजत्रुस्थितो न भवति, तथाऽपि विरेचननस्येन शाम्यतीति तदुपादानम्| उपलक्षणं चेदम्| कफजेषु प्रसेकास्यवैरस्यगन्धाज्ञानादिष्वपि विरेचनमेव हितम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-तत्र विरेचनस्य विषयमाह-विरेचनमिति| जाड्यं-शिरसः| स्यन्दो-नेत्रकोपः| सङ्ग्रहे तु (सू. अ. २९) -"उपदेहकण्डूस्तम्भस्रावप्रसेकवैरस्यारोचकस्वरभेदगन्धाज्ञानार्बुददद्रुकोठादिषु श्लेष्मजेषु" इति|

Adhikarana बृंहणनस्यस्य विषयः (३-४) · Śloka

| बृंहणं वातजे शूले सूर्यावर्ते स्वरक्षये||३|| नासास्यशोषे वाक्सङ्गे कृच्छ्रबोधेऽवबाहुके| |४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-वातोद्भवशूलादिषु बृंहणं नस्यं हितम्| सूर्यावर्तः-शिरोरोगविशेषः| कृच्छ्रबोधः-कृच्छ्रोन्मीलनम्| अवबाहुको-वातव्याधिविशेषः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-बृंहणनस्यस्य विषयमाह-बृंहणमिति| सङ्ग्रहे तु (सू. अ. २९)| "अर्धावभेदककृमिशिरोरोगाक्षिसङ्कोचस्पन्दनतिमिरदन्तकर्णशूलनादमन्यारोगापतानकनिद्रानाशादिष्बनिलोत्थेशु" इति|

Adhikarana शमननस्यस्य विषयः (४) · Śloka

| शमनं नीलिकाव्यङ्गकेशदोषाक्षिराजिषु||४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नीलिकादिषु शमनं नस्यं हितम्| नीलिकाव्यङ्गौ-क्षुद्ररोगेषु (हृ. उ. अ. ३१|२८) वक्ष्यमाणौ| केशदोषः-केशशातः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-शमननस्यस्य विषयमाह-शमनमिति| अक्षिराजयः-चक्षुषि रेखाकाराः शिराः| सङ्ग्रहे तु (सू. अ. २९) - "अकालवलीपलितखलतिदारुणकरक्तपित्तादिषु" इति|

Adhikarana विरेचननस्यस्य द्रव्याणि (५) · Śloka

यथास्वं यौगिकैः स्नेहैर्यथास्वं च प्रसाधितैः| कल्कक्वाथादिभिश्चाद्यं मधुपट्वासवैरपि||५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ये ये स्नेहा यथास्वं तैः| किम्भूतैः ? योगिकैः,-योगार्हैः सर्षपतैलादिभिः, न तु घृतादिभिः| तथा, यथास्वं-मरीचशुण्ठ्यादिभिः, प्रसाधितैः-संस्कृतैः| तथा, कल्कक्वाथस्वरसादिभिश्च यथास्वं कफघ्नैर्गिरिकर्णिकादिजैः साधितं, आद्यं-विरेचनाख्यं नस्यं, भवति| न केवलमेतैर्यावन्माक्षिकादिभिश्च| आसवो-मद्यविशेषः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-विरेचननस्यस्य द्रव्याण्याह-यथास्वमिति| यथास्वं-यो यस्योचितः स्नेहः, तेन| यथास्वं-यद्यस्योचितमौषधं, तेन| साधितैः स्नेहैः कल्कैः क्वाथैश्छूर्णादिभिश्छ| आद्यं-विरेचनम्| पटु-सैन्धवम्| सङ्ग्रहे तु (सू. अ. २९)- "तत्र भीरुस्त्रीकृशसुकुमारेषु स्नेहः| गलरोगसन्निपातज्वरातिनिद्रामनोविकारकृमिशिरोरोगाक्षिस्पन्दनतिमिरकृच्छ्रविषाभिपन्नाभिष्यन्नसर्पदष्टविसंज्ञेषु शेषाः| तेष्वेव च भूयसि दोषे शीघ्रकारिणी च चूर्णः| स हि नासायामावेगकरतरो भवति|" इति|

Adhikarana बृंहणनस्यस्य द्रव्याणि, शमननस्यस्य द्रव्याणि (६) · Śloka

बृंहणं धन्वमांसोत्थरसासृक्ऽऽकपुरैरपि| शमनं योजयेत्पूर्वैः क्षीरेण सलिलेन वा||६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-बृंहणं नस्यं धन्वोत्थमांसोद्भवरसैः स्यात्| तथा, असृजा-रक्तेन, धन्वोत्थेनैव| तथा, खपुरैः-निर्यासविशेषैः| अपिशब्दादन्यैरपि पूर्वोक्तैः स्नेहैरतीक्ष्णैर्बृंहणं भवति| शमनं नस्यं पूर्वोक्तैरतीक्ष्णैः स्नेहैर्घृतादिभिस्तथा मांसरसादिभिर्योजयेत्| तथा, क्षीरेण जलेन चेति| सुश्रुतस्तु स्पष्टतरमुवाच (चि. अ. ४०|२२)- "तत्तु नस्यं देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपातदारुणककर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघातनासारोग मुखशोषेष्वकालजवलीपलितप्रादुर्भावे दारुणप्रबोधे वातपैत्तिकेषु चान्येषु मुखरोगेषु वातपित्तहरद्रव्यसिद्धेन स्नेहेनेति| शिरोविरेचनं श्लेष्मणाऽभिव्याप्ततालुकण्ठशिरसां निद्राभिभूतानां शिरोगौरवशूलपीनसार्द्धावभेदककृमिप्रतिश्यायापस्मारगन्धाज्ञानेष्वन्येषु चोर्ध्वजत्रुगतेषु कफजेषु विकारेषु शिरोविरेचनद्रव्यैस्तत्सिद्धेन वा स्नेहेनेति|" तथा-"सम्यग्विशुद्धे शिरसि सर्पिर्नस्तो निषेचयेत्| अवपीडस्तु शिरोविरेचनवदभिष्यन्दसर्पदष्टविसंज्ञेभ्यो दद्यात्, शिरोविरेचनद्रव्याणामन्यतममवपिष्यावपीड्य च| चेतोविकारकृमिविषाभिपन्नानां चूर्णं प्रधमेत्| शर्करेक्षुरसक्षीरघृतमांसरसानामन्यतमं क्षीणानां शोणितपित्ते च विदध्यात्| कृशदुर्बलभीरूणां सुकुमारस्य योषिताम्| श्रृताः स्नेहाः शिरःशुद्ध्यै कल्कस्तेभ्यो यथा हितः||" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-बृंहणमिति| असृक्-रुधिरम्| खपुरो-निर्यासो मोचरसादिः| अपिशब्दात् बृंहणद्रव्यसाधितस्नेहादिभिश्छ| शमननस्यस्य द्रव्याण्याह-शमनमिति| पूर्वैः-धन्वमांसरसादिभिः शमनौषधसाधितस्नेहादिभिश्छ|

Adhikarana मर्शादय पञ्च नस्यभेदाः (७-८) · Śloka

अधुनाऽन्यानपि नस्यविशेषानाह - - - - मर्शश्च प्रतिमर्शश्च द्विधा स्नेहोऽत्र मात्रया| कल्काद्यैरवपीडस्तु स तीक्ष्णैर्मूर्द्धरेचनः||७|| ध्मानं विरेचनश्चूर्णो| |८|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-अत्र-एषु नस्यभेदेषु मध्ये, मर्शाख्यः प्रतिमर्शाख्यश्चेति स्नेहो द्विधा-भेदद्वयेन भवति| कथम् ? मात्रया,-मात्राभेदेन, न तु वस्तुभेदेन| कल्काद्यैरित्यादि| तुरवधारणे भिन्नक्रमः| कल्काद्यैरेवावपीडः, न स्नेहेनापि| स चावपीडः, तीक्ष्णैः-शुण्ठ्यादिभिः कल्कक्वाथरसाद्यैः, न मृदुभिः| मूर्द्धरेचनः-शिरोविरेचनाख्यं नामान्तरमस्य| अतीक्ष्णैस्तु शमनसंज्ञमेतद्विरेचनं नस्यम्| पुनः प्रकारान्तरमाह-ध्मानमित्यादि| चूर्णो-मरीचादिभिः कृतो, नासया प्रणीयमानो विरेचनो-बहिर्दोषनिरसनो, ध्मानं-प्रध्मानाख्यं नस्यं स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-मर्शादीन् पञ्च नस्यभेदानाह-मर्शश्छेति| मर्शप्रतिमर्शौ-स्नेहस्य वहुत्वाल्पत्वकृतौ भेदौ| अवपीडशिरोविरेचनौ-कल्कादिनस्यस्य मृदुत्वतीक्ष्णत्वकृतौ भेदौ| विरेचनचूर्णकृतं नस्यं ध्मानम्-प्रधमनाख्यम्| इति पञ्च|

Adhikarana प्रधमनस्य विधिः, प्रधमनय बहुदोषहरत्वे युक्तिः (८-९) · Śloka

कथं पुनरसौ नासायां ध्मापयितव्यः ? इत्याह - - - - युञ्ज्यात्तं मुखवायुना| षडङ्गुलद्विमुखया नाड्या भेषजगर्भया||८|| स हि भूरितरं दोषं चूर्णत्वादपकर्षति| |९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तं-चूर्णं, मुखवायुना-फूत्काराख्येन, युञ्ज्यात्-प्रवेशयेत्| कथम् ? नाड्या, कारणभूतया| किम्भूतया ? षडङ्गुलद्विमुखया,-षडङ्गुलानि यस्याः सा षडङ्गुला, द्वे मुखे यस्याः सा द्विमुखा, षडङ्गुला चासौ द्विमुखा च षडङ्गुलद्विमुखा, तया| तथाविधया, तथा भेषजगर्भया-त्रिकटुकादिचूर्णभरितया| स हि-चूर्णो, भूरितरं-बहुतरं, दोषं चूर्णत्वादपकर्षति, न तथा कल्कक्वाथादयः| तस्माद्विरेचनाख्योऽयमित्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-प्रधमनस्य विधिमाह-युञ्ज्यादिति| प्रधमनस्य बहुदोषहरत्वे युक्तिमाह-स हीति| चूर्णं हि बहुद्रवग्राहित्वात् बहुदोषापकर्षणम्|

Adhikarana बिन्दुमानम्, मर्शस्य मात्रात्रयम्, अवपीडशिरोविरेचनयोर्मात्रात्रयम् (९-११) · Śloka ११

अधुना मर्शस्नेहस्य परिमाणमधिकृत्याह - - - - | प्रदेशिन्यङ्गुलीपर्वद्वयान्मग्नसमुद्धृतात्||९|| यावत्पत्यसौ बिन्दुर्दशाष्टौ षट् क्रमेण ते| मर्शस्योत्कृष्टमध्योना मात्रास्ता एव च क्रमात्||१०|| बिन्दुद्वयोनाः कल्कादेः| |११|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्रदेशिनी-अङ्गुष्ठसमीपजाऽङ्गुली, तस्याः पर्वद्वयं, तस्मात्| किम्भूतात् ? पूर्वं भग्नं पश्चात्समुद्धृतं, तस्मात् मग्नसमुद्धृतात् तर्जनीपर्वद्वयात् यावत्परिमाणं पतति, असौ बिन्दुः, 'उच्यते' इति शेषः| ते-बिन्दवो, यथासङ्ख्यं मर्शस्य दशोत्कृष्टा मात्रा, अष्टौ मध्यमा मात्रा, षट् कनिष्ठा मात्रा| ता एव क्रमान्मात्रा बिन्दुद्वयेनोनाः कल्कस्वरसादेः| तेनाष्टौ बिन्दव उत्तमा मात्रा, षण्मध्यमा, चत्वारः कनिष्ठा, इत्यवतिष्ठते| यावदिति यत्परिमाणमस्येति| यत्तदेतेभ्यः परिमाणे वतुप्, आ सर्वनाम्न इत्याकारादेशः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-मर्शादिमानज्ञानार्थं बिन्दुमानमाह-प्रदेशिनीति| यावत्पतति तावान् बिन्दुः, न प्रथमपतित एव| मर्शस्य मात्रात्रयमाह-दशाष्टाविति| ते-बिन्दवः| अवपीडशिरोविरेचनयोर्मात्रात्रयमाह-ता एवेति| बिन्दुद्वयोनाः-अष्टषट्चतुर्बिन्दुकाः|

Adhikarana पीततोयादीनां नस्यनिषेधः (११-१३) · Śloka १३

अधुना येषां नस्यमयुक्तं तानाह - - - - योजयेन्न तु नावनम्| तोयमद्यगरस्नेहपीतानां पातुमिच्छताम्||११|| भुक्तभक्तशिरःस्नातस्नातुकामस्रुतासृजाम्| नवपीनसवेगार्तसूतिकाश्वासकासिनाम्||१२|| शुद्धानां दत्तबस्तीनां तथाऽनार्तवदुर्दिने| अन्यत्रात्ययिकाद्व्याधेः|१३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तोयादि पीतं यैस्तेषाम्| अत्र "आहिताग्न्यादित्वात्" परनिपातः| तथा पातुमिच्छतां नावनं-नस्यं, नैव योजयेत्| तोयादिपीतानां पातुमिच्छतां च योजितं नस्यं नासास्यस्यन्दोपदेहतिमिरशिरोरोगान् कुर्यात्| भुक्तभक्तस्य च दोषा ऊर्ध्वस्रोतांस्यावृत्य छर्दिश्वासकासप्रतिश्यायान् जनयेयुः| शिरोभ्यक्तस्य च शिरोक्षिकर्णशूलकण्ठरोगपीनसहनुमन्यास्तम्भार्दितशिरःकम्पान्| शिरःस्नातस्य स्नातुकामस्य च मूर्ध्नि स्तिमितो दोषो जाड्यारुचिपीनसान्| स्रुतरक्तस्य च क्षामतामरुचिमग्निसादं च| नवप्रतिश्यायस्य स्रोतोरोधात् दृष्टप्रतिश्यायकेशशातकृमिकण्डूविचर्चिकारोगान्| मूत्रितोच्चारितादिवेगार्तानां भृशतरं वेगविधारणजान् विकारान्| सूतिकायाः स्रुतरक्तदोषान्| श्वासकासिनोर्व्याधिविवृद्धिम्| शुद्धानां कृतवमनविरेचनादीनां श्वासकासस्वरेन्द्रियहानिशिरोगौरवकण्डूकृमिदोषान्| दत्तबस्तीनां विवृतस्रोतस्तयाऽतिव्याप्त्या श्वासकासादीनेव| तथा, अनार्तवदुर्दिने सहसैव शैत्याच्छिरोरुग्वेपथुस्तैमित्यतालुनेत्रकण्डूपाकमन्यास्तम्भकण्ठरोग प्रतिश्यायारूंषिकाः| एषु च नस्यदोषेषु जातेषु यथास्वमायतनं दोषोद्रेकं चापेक्ष्य स्नेहस्वेदशिरोविरेकवक्क्रलेपसेकतीक्ष्णावपीडधूमगण्डूषादीनि यथास्वं कुर्यात्| सङ्ग्रहे विशेषः (सू. अ. २९)- "गर्भिण्याश्च भक्तद्वेषज्वरमूर्च्छार्द्धावभेदकाः स्युः| अपत्यं च व्यङ्गं विकलेन्द्रियमुन्मादापस्मारयुक्तं वा स्यात्| विशेषेण तु गर्भिणी रूक्षे नस्यकर्मणि वर्षाभूकाकोलीकपिकच्छूभिः शृतं पयः पिबेत्| बलाविदार्यंशुमतीमेदाभिर्वा| एभिरेव च श्रृतं हविः| वातहरसिद्धश्च स्नेहः शिरोबस्तौ कर्णपूरणे च योज्यः| सर्वं च बृंहणमन्नपानम्|" इति| तोयपीतादिषु सदैव किं नस्यं न योज्यम् ? इत्याह-अन्यत्रेत्यादि| आत्ययिके व्याधौ नस्यं योज्यमेव|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-पीततोयादीनां नस्यं निषेधति-योजयेदिति| पातुमिच्छतां-तोयादीन्येव| भुक्तभक्तो-भुक्तवान्| नवपीनसः-अपक्वपीनसः| वेगार्तः-उत्पन्नविण्मूत्रादिवेगः| अनार्तवदुर्दिने-अवार्षिकाभ्रे| आत्ययिकाव्द्याधेरन्यत्र निषेधः| सङ्ग्रहे तु (सू. अ. २९) -"तत्र भुक्तभक्तस्य नस्येनेरितो दोष ऊर्ध्वस्रोतांस्यावृत्य छर्दिश्वासकासप्रतिश्यायान् जनयेत्| स्नेहाइपीतपातुकामानामक्षिनासास्यस्यन्दोपदेहतिमिरशिरोरोगान्| शिरःस्नातस्य शिरोक्षिकर्णशूलकण्ठरोगपीनसहनुमन्यास्तम्भार्दितशिरःकम्पान्| स्रातुकामस्य मूर्द्धस्तैमित्यजाड्यारुचिपीनसान्| स्रुतरक्तस्य क्षामतामरुचिमग्निसादं च| मूत्रितोच्चारितादिवेगार्तानां भृशतरं वेगविधारणजान् विकाराण्| अभिहतस्य तीव्रतरां रुजम्| कृतवमनादीनां श्वासकासस्वरेन्द्रियहानिशिरोरोगगौरवकण्डूकृमिदोषान्| [ दत्तबस्तीनां विवृतस्रोतस्तयाऽतिव्यास्या श्वास कासादीनेव| ] गर्भिण्या भक्तद्वेषज्वरमूर्च्छार्धावभेदकाः स्युः, अपत्यं च व्यङ्गं विकलेन्द्रियमुन्मादापस्मारयुक्तं वा| सूतियायाः स्रुतरक्तोक्ताण् दोषान्| नवप्रतिश्यायस्य स्रोतोरोधात् दुष्टप्रतिश्यायकेशशातकृमिकण्डूविचर्चिकाः| श्वासकासिनोर्वातव्याधिवृद्धिः| अकालदुर्दिने सहसैव शैत्याच्छिरोरुग्वेपथुस्तैमित्यतालुनेत्रकण्डूपाकमन्यास्तम्भकण्ठरोगप्रतिश्यायारूंषिकाः| तेषु यथास्वमायतनं दोषोद्रेकं चापेक्ष्य स्नेहस्वेदशिरोवक्त्रलेपसेकतीक्ष्णावपीडधूमगण्डूषाद्लीनाचरेत्| विशेषेण तु गर्भिणी रूक्षे नस्यकर्मणि वर्षाभूकाकोलीकपिकच्छूभिः शृतं पयः पिबेत्| बलादिदार्यंशमतीमेदाभिर्वा| आभिरेव च शृतं हविः| वातहरसिद्धश्छ स्नेहः शिरोबस्तौ कर्णपूरणे च योज्यः| सर्वं च बृंहणमन्नपानम्| भुक्तभक्तादिष्वपि चात्ययिकव्याध्यातुरमपेक्षेत|" इति|

Adhikarana नस्यकालः (१३-१६) · Śloka १६

साम्प्रतं यत्र काले यत्र च दोषे नस्यं प्रयोज्यं तद्दर्शनार्थमाह - - - - | अथ नस्यं प्रयोजयेत्||१३|| प्रातः श्लेष्मणि, मध्याह्ने पित्ते, सायंनिशोश्चले| स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः||१४|| शीते मध्यंदिने, ग्रीष्मे सायं वर्षासु सातपे| वाताभिभूते शिरसि हिध्मायामपतानके||१५|| मन्यास्तम्भे स्वरभ्रंशे सायंप्रातर्दिनेदिने| एकाहान्तरमन्यत्र|१६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-कारणे कार्योपचारात्कफरोगः श्लेष्मशब्देनोक्तः| [ एवं पित्तादावपि| ] श्लेष्मरोगेषु प्रातर्नस्यं प्रयोजयेत्| पित्तरोगेषु मध्याह्ने| वातरोगेष्वपराह्णे रात्रौ च| सङ्ग्रहे विशेषः (सू. अ. २९) - "लालास्रावसुप्तप्रलापदन्तकटकटायनक्रथनकृच्छ्रोन्मीलनपूतिमुखकर्णनादतृष्णार्दितशिरोरोगश्वासकासोन्निद्रेषु रात्रौ" इति| स्वस्थेत्यादि| तुरवधारणे| स्वस्थवृत्ते शरदि वसन्ते च पूर्वाह्णे एवं नस्यं योज्यम्| शीते-हेमन्तशिशिरलक्षणे, मध्याह्ने| ग्रीष्मे सायं-अपराह्णे| वर्षासु सातपे-दृश्यमानरवौ वासरे प्रयोजयेत्| अधुना दोषापेक्षया नस्यकालनियममाह-वातेत्यादि| वाताभिभूतमूर्द्धादिषु स्वरभ्रंशान्तेषु सायंप्रातः-पूर्वाह्णापराह्णयोः, [ दिनेदिने- ] प्रतिदिनं च, नैकाहान्तरितम्| अन्यत्र-वाताभिभूतमूर्द्धादिभ्योऽन्यस्मिन् रोगे, एकाहान्तरम्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-नस्यकालमाह-अथेति| चले-वायौ| सङ्ग्रहे तु (सू. अ. २९) - "लालास्रावसुप्तप्रलापदन्तकटकटायनक्रथनकृच्छ्रोन्मीलनपूतिमुखकर्णनादतृष्णार्दितशिरोरो-गश्वासकासोन्निद्रेषु रात्रौ|" इति| स्वस्थवृत्ते ऋतुभेदेन पूर्वाह्णादिषु| सातपे-वर्षासु यदैवातपस्तदैव| सङ्ग्रहे तु (सू. अ. २९) - "पञ्चकर्माण्याचरतो बस्तिकर्मोत्तरकालमेव|" इति| वाताभिभूतशिरस्कादिषु पञ्चसु प्रत्यहं प्रातः सायं च| अन्येषु तु रोगेष्वेकाहान्तरं स्वे स्वे दोषकाले|

Adhikarana नस्यावृत्तेरवधिः (१६) · Śloka १६

| सप्ताहं च तदाचरेत्||१६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सप्ताहं च नस्यमाचरेत्,- सप्ताहादूर्ध्वं नस्यं न विदध्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-नस्यावृत्तेरवधिमाह-सप्ताहमिति| तत्-नस्यम्| सङ्ग्रहे तु (सू. अ. २९) -"अनेन विधिना पञ्च स्पत नव वा दिनानि दद्यादासम्यग्योगात्|" इति|

Adhikarana नस्यविधिः, नस्ये पुठसङ्ख्या (१७-२१) · Śloka २१

इदानीं यादृशस्य पुरुषस्य यथास्थितस्य नस्यं देयं तथाऽऽह - - - - स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च| निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः||१७|| अथोत्तानुर्जुदेहस्य पाणिपादे प्रसारिते| किञ्चिदुन्नतपादस्य किञ्चिन्मूर्द्धनि नामिते||१८|| नासापुटं पिधायैकं पर्यायेण निषेचयेत्| उष्णाम्बुतप्तं भैष्ज्यं प्रणाड्या पिचुनाऽथवा||१९|| दत्ते पादतलस्कन्धहस्तकर्णादि मर्दयेत्| शनैरुच्छिद्य निष्ठीवेत्पार्श्वयोरुभयोस्ततः||२०|| आभेषजक्षयादेवं द्विस्त्रिर्वा नस्यमाचरेत्| |२१|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-पूर्वं स्निग्धं पश्चात् स्विन्नमुत्तमाङ्गं-शिरो, यस्य तस्य| तथा, प्राक्-पूर्वं, कृतमावश्यकं-अवश्यकरणीयमुच्चारमूत्रोत्सर्गदन्तधावनादिकं, येन स प्राक्कृतावश्यकः, तस्य| तथा, निवातस्थाने शयनं यत्तत्र स्थितस्य सतः, भूयो जत्रूर्ध्वं स्वेदयेत्| अथेत्यादि| अथ-अनन्तरम्, उत्तानस्पष्टस्थितशरीरस्य सतो हस्तचरणे प्रसारिते, तथा किञ्चिदुन्नतचरणस्य किञ्चिच्छिरसि नामिते सति, नासापुटमेकं पिधाय-स्थगयित्वा, पर्यायेण-न तु युगपत्, भैषज्यं निषेचयेत्| कीदृशम् ? उष्णाम्बुतप्तं,- उष्णोदकोष्णीकृतम्| केन परिषेचयेत् ? प्रणाड्या, अथवा पिचुना-कार्पासादिमयेन| दत्ते नस्ये सति पादतलस्कन्धहस्तकर्णादि मर्दयेत्| आदिशब्देन ग्रीवाललाटादिपरिग्रहः| सुश्रुते चाभ्यधायि (चि. अ. ४०|२५)- "वस्त्रावच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासिकाग्राय विशुद्धस्रोतसि दक्षिणहस्तेन स्नेहमुष्णाम्बुप्रतप्तं रजतसुवर्णताम्रमणिमृत्पात्रशुक्तीनामन्यतमस्थमनवच्छिन्नधारमासिञ्चेत्|" इति| शनैरित्यादि| ततो-मर्दनानन्तरं, शनैरुच्छिद्य पार्श्वयोरुभयोर्निष्ठीवेत्| (सङ्ग्रहे तु सू. अ. २९)- "अनभ्यवहरन्| कफसहितमभ्यवहृतमग्निमवासादयेद्दोषं च संवर्द्धयेत्| एकपार्श्वनिष्ठीवने न सर्वाः शिरा भेषजेन सम्यग्व्याप्यन्ते| पुनःपुनश्चैनं स्वेदयेत्|" एवं-अनेन क्रमेण, आभेषजक्षयात् कुर्यात्| (प्रायः सङ्ग्रहोक्तोऽयमग्रिमो ग्रन्थः-) न तु नस्यमात्रा सकृदेव प्रक्षेप्तव्या| हीनमात्रं चौषधं न देयम्| तद्धि दोषानुत्क्लेश्यानिर्हरन् गौरवारुचिकासप्रसेकपीनसच्छर्दिकण्ठरोगान् कुर्यात्| अधिकमतियोगदोषान् कुर्यात्| सकृदेव सर्वं दत्तमुच्छिन्द्यमानं शिरोरोगेप्रतिश्यायघ्राणक्लेदानुच्छ्वासोपरोधं च कुर्यात्| अत्युष्णं दाहपाकज्वररतागम [ शिरोरुग्दृष्टिदौर्बल्य ] मूर्छाभ्रमान्| अतिशीतं हीनदोषान्| अत्युन्नतशिरसः सम्यगप्रतिपद्यमानं तानेव हीनदोषान्| अत्यवनतशिरसो दूरगमनान्मूर्च्छाजाड्य [ कण्डूदाह ] ज्वरान्| सङ्कुचितगात्रस्य सम्यग्धमनीरप्राप्नुवद्दोषोत्क्लेशं [ वेदनां स्तम्भं वा ] कुर्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-नस्यविधिमाह-स्निग्धस्विन्नेति| आवश्यकं-दन्तधावनादि| पर्यायेण-न युगपन्नासापुटद्वये| प्रणाड्या-प्रणालिकया| उच्छिद्य-नासया श्वासमूर्ध्वं नीत्वा, उभयोः पार्श्वयोर्निष्ठीवत् यावद्भेषजक्षयः| नस्ये पुटसङ्ख्यामाह-एवमिति|

Adhikarana नस्यमूर्च्छायां प्रतीकारः (२१) · Śloka २१

यदि च नस्ये दीयमाने भेषजवेगादसात्म्येन वा मूर्च्छा स्यात् तदा किं कार्यम् ? इत्याह - - - - | मूर्च्छायां शीततोयेन सिञ्चेत्परिहरन् शिरः||२१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-मूर्च्छायां सत्यां शीतजलेन मूर्द्धवर्जं सिञ्चेत्| सङ्ग्रहेऽप्युक्तम् (सू. अ. २९) - "न च नस्ये निषिच्यमाने कोपहासव्याहारस्पन्दनोच्छिन्दनान्याचरेत्| तथा हि शिरोरुक्ऽऽप्रतिश्यायकासतिमिरखलतिपलितव्यङ्गतिलकालकमुखदूषिकाणां सम्भवः|" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ०र०-नस्यमूर्च्छायं प्रतीकारमाह-मूर्च्छायामिति|

Adhikarana विरेचननस्यान्ते स्नेहनं नस्यम् (२२) · Śloka २२

स्नेहं विरेचनस्यान्ते दद्याद्दोषाद्यपेक्षया| |२२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-विरेचनस्यावसाने देशदोषसात्म्याद्यपेक्षया स्नेहमनुषेचयेत्| तन्त्रान्तरे (सङ्ग्रहे) चोक्तम्| (सू. अ. २९) - "अथ नस्यार्हं नरमव्याहतवेगं धौतान्तर्बहिर्मुखं स्ववस्थितशिरसं प्रायोगिकधूमपानविशुद्धस्रोतसं स्वास्तीर्णनिवातशयनस्थमुत्तानशीर्षमीषदुन्नतपादं प्रसारितचरणं च जत्रूर्ध्वं पाणितापेन पुनः पुनः स्वेदयेत्|" इति|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-विरेचननस्यानन्तरं तीक्ष्णत्वदोषपरिहारार्थं स्नेहनं नस्यमङ्गत्वेनाह-स्नेहमिति|

Adhikarana नस्यान्ते उत्तानशयनम् (२२) · Śloka २२

| नस्यान्ते वाक्शतं तिष्ठेदुत्तानः|२२|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नस्यावसाने वाक्ऽऽशतं-मात्राशतमुत्तानो निद्रामसेवमानस्तिष्ठेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-निवृत्तनस्यस्योत्तानशयनमाह-नस्यान्त इति| वाक्शतं-शतगुर्वक्षरोच्चारणपर्याप्तं कालम्|

Adhikarana ततो धूमगण्डूषौ (२२-२३) · Śloka २३

| धारयेत्ततः||२२|| धूमं पीत्वा कवोष्णाम्बुकवलान् कण्ठशुद्धये| |२३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ततो-वाक्शतावस्थानादनन्तरम्, ईषदुष्णजलकवलान् धारयेत्| किमर्थम् ? कण्ठशुद्धये उत्क्लिष्टदोषशान्तये च| किं कृत्वा ? धूमं-विरेचनाद्यन्यतमं, यथायोगं पीत्वा, ततोऽस्य स्नेहोक्तमाचारमादिशेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-उत्तानशयनानन्तरं धूमगण्डूषावाह-धारयेदिति| सङ्ग्रहे तु (सू. अ. २९) -"अथ नस्यार्हं नरमव्याहतवेगं धौतान्तर्बहिर्मुखं नातिक्षुधितं प्रायोगिकधूमषानविशुद्धस्रोतसम्| ततः कनकरजतताम्राद्यन्यतमशुक्तिस्थितं प्रदेयौषधत्रिभागं वामहस्ताङ्गुष्ठकनिष्ठिकाभ्यामाक्रम्य नयनप्रच्छादणम् चतुर्गुणं वासो मध्यमया नासाग्रमुन्नमय्य प्रदेशिन्यनामिकाभ्यां चैकैकं नासापुटं पर्यायेण पिधायेतरस्मिन् नासास्रोतसि दक्षिणहस्तेन प्रणाड्या पिचुना वाऽनवच्छिन्नधारमासिञ्चेत्| न च हीनाधिकं सकृदेव सर्वमत्युष्णशीतमत्युन्नतावनतिशिरसे सङ्कुचितगात्रावयवाय देयम्| तत्र हीनं दोषमुत्क्लेश्यानिर्हरद्गौरवारुचिकासप्रसेकपीनसच्छर्दिकण्ठरोगान् कुर्यात्| अधिकमतियोगदोषान्| सकृदेव सर्वं दत्तमुत्स्नेहनशिरोरोगप्रतिश्यायघ्राणक्लेदानुच्छ्वासोपरोधं च| अत्युष्णं दाहपाकज्वररक्तागमशिरोरुग्द्दष्टिदौर्बल्यमूर्च्छाभ्रमान्| अतिशीतं हीनदोषान्| अत्युन्नतशिरसोऽपि सम्यक्शिरोऽप्रतिपद्यमानं तानेव| अत्यवनतशिरसोऽतिदूरगमनात् मूर्च्छाजाड्यकण्डूदाहज्वरान्| सङ्कुचितगात्रस्य सम्यक्धमनीरव्याप्नुवद्दोषोत्क्लेशं वेदनां स्तम्भं वा| न च नस्ये निषिच्यमाने कोपहास्यव्याहारस्पन्दनोच्छिन्द्यनान्याचरेत्| तथा हि शिरोरुक्प्रतिश्यायकासतिमिरखलतिपलितव्यङ्गतिलकालकमुखदूषिकाणां सम्भवः| अनभ्यवहरंश्छ वामदक्षिणपार्श्वयोरौषधं निष्ठीवेत्| सकफं हि तदभ्यवहृतमग्निमवसादयेद्दोषं च संवर्द्धयेत्| एकपार्श्वनिष्ठीवने न सर्वाः शिरा भेषजेन सम्यग्व्याप्यन्ते| पुनःपुनश्छैनं स्वेदयेत्| अथास्य स्नेहोक्तमाचारमादिशेदतिद्रवपानं च वर्जयेत्|" इति|

Adhikarana स्नेहननस्यस्य सम्यग्योगहीनयोगातियोगः (२३-२४) · Śloka २४

| सम्यक्स्निग्धे सुखोच्छ्वासस्वप्नबोधाक्षपाटवम्||२३|| रूक्षेऽक्षिस्तब्धता शोषो नासास्ये मूर्द्धशून्यता| स्निग्धेऽति कण्डूगुरुताप्रसेकारुचिपीनसाः||२४||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सम्यक्ऽऽस्निग्धे शिरसि सुखोच्छ्वासादयः स्युः| सङ्ग्रहे चोक्तम् (सू. अ. २९) - "सम्यक्ऽऽस्निग्धे मूर्ध्नि विरिक्ते वा सुखोच्छ्वासनिःश्वासक्षवथुस्वप्नप्रबोधशिरोवदनेन्द्रियविशुद्धयो भवन्ति, यथोक्तव्याध्युपशमश्च|" इति| स०-रूक्षे तु शिरस्यक्षिस्तब्धता स्यात्| तथा, नासायामास्ये च शोषो मूर्द्धशून्यता च स्यात्| स०-अतिस्निग्धे कण्ड्वादयः स्युः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-स्नेहननस्यस्य सम्यग्योगमाह-सम्यक्स्निग्ध इति| स्वप्नबोधौ सुखेन| आ० र०-स्नेहननस्यस्य हीनयोगमाह-रूक्ष इति| आ० र०-स्नेहननस्यातियोगमाह-स्निग्ध इति|

Adhikarana विरेचननस्यस्य सम्यग्योगहीनयोगातियोगाः (२५) · Śloka २५

सुविरिक्तेऽक्षिलघुतावक्क्रस्वरविशुद्धयः| दुर्विरिक्ते गदोद्रेकः, क्षामताऽतिविरेचिते||२५||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-सुविरिक्ते-सम्यग्विरिक्ते, अक्षिलघुतादयः स्युः| स०-दुर्विरिक्ते गदोद्रेको-रोगस्याधिक्यम्| अतिविरेचिते क्षामता-कृशता स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-विरेचननस्तस्य सम्यग्योगमाह-सुविरिक्त इति| आ० र०-विरेचननस्यस्य हीनयोगमाह-दुर्विरिक्त इति| विरेचननस्यस्यातियोगमाह-क्षामतेति|

Adhikarana प्रतिमर्शस्य विषयः (२६) · Śloka २६

अधुना प्रतिमर्शस्य विषयं सूचयितुमाह - - - - प्रतिमर्शः क्षतक्षामबालवृद्धसुखात्मसु| प्रयोज्योऽकालवर्षेऽपि|२६|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्रतिमर्शः क्षतक्षामादिषु प्रयोज्यः| अकालवर्षणेऽपि कार्यः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-प्रतिमर्शस्य विषयमाह-प्रतिमर्श इति| अकालवर्षेऽपि-अनार्तवदुर्दिनेऽपि| सङ्ग्रहे तु (सू. अ. २९) -"तृष्णामुखशोषभीरुषु" इत्यधिकम्|

Adhikarana दुष्टपीनसादौ प्रतिमर्शनिषेधः (२६-२७) · Śloka २७

| न त्विष्टो दुष्टपीनसे||२६|| मद्यपीतेऽबलश्रोत्रे कृमिदूषितमूर्द्धनि| उत्कृष्टोत्क्लिष्टदोषे च, हीनमात्रतया हि सः||२७||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-दृष्टपीनसे तु न प्रयोज्यः| दुष्टपीनसो-नासारोगेषु (हृ. उ. अ. १९|९) वक्ष्यमाणः| तथा मद्यपीते, तथाऽबलश्रोते-रुद्धश्रवणमार्गे, तथा कृमिभिर्दूषितो मूर्द्धा यस्य तस्मिन् कृमिपीडितशिरसि, तथोत्कृष्टो-वृद्धिं गतः, तथोत्क्लिष्टः-प्रचलो, दोषो यस्य तस्मिंश्च, प्रतिमर्शो न योज्यः| केन प्रकारेण (कारणेन) न योज्यः ? इत्याह-हीनेत्यादि| हि-यस्मात्, एषां सः-प्रतिमर्शः, हीनमात्रतया,-हीना मात्रा यस्य स हीनमात्रः, तस्य भावो हीनमात्रता, तया| य (अ) स्मादसौ न युज्यते| एषां ह्युदीर्णदोषत्वात् तावता दोषोत्क्लेश एव भवति न शमः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-दुष्टपीनसादौ प्रतिमर्शं निषेधति-न त्विष्ट इति| अबलश्रोत्रे-शब्दश्रवणासमर्थे| उत्कृष्टदोषे उत्क्लिष्टदोषे च , हि-यस्मात्, हीनमानतया युक्तः स दोषनिर्हरणा समर्थत्वादेतेषु न योज्य इत्यर्थः|

Adhikarana प्रतिमर्शस्य पञ्चदश कालाः (२८-२९) · Śloka २९

निशाहर्भुक्तवान्ताहः स्वप्नाध्वश्रमरेतसाम्| शिरोभ्यञ्जनगण्डूषप्रस्रावाञ्जनवर्चसाम्||२८|| दन्तकाष्ठस्य हासस्य योज्योऽन्तेऽसौ द्विबिन्दुकः| |२९|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-असौ-प्रतिमर्शौ, द्विबिन्दुको निशादीनां पञ्चदशानां कालानामन्ते प्रयोज्यः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-प्रतिमर्शस्य पञ्चदश कालानाह-निशाहरिति| अहःस्वप्नो-दिवास्वप्नः| श्रमो-व्यायामः| प्रस्रावो-मूत्रम्| द्विबिन्दुको-बिन्दुद्वयमात्रः| सङ्ग्रहे तु (सू. अ. २९) -"बिन्दुर्वा येन चोत्क्लेशो नानुत्क्लिष्टस्य जायते| निष्ठ्यते यत्र वा स्नेहो न साक्षादुपलक्ष्यते||" इति|

Adhikarana उक्तकालानां फलम् (२९-३०) · Śloka ३०

| पञ्चसु स्रोतसां शुद्धिः, क्लमनाशस्त्रिषु क्रमात्||२९|| दृग्बलं पञ्चसु, ततो दन्तदार्ढ्यं मरुच्छमः| |३०|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तत्र निशाहर्भुक्तवान्ताहःस्वप्नाख्येषु पञ्चसु कालेषु प्रतिमर्शे प्रयुक्ते स्रोतसां शुद्धिर्भवति| क्रमात्-क्रमेणैव पठितेषु| अध्वश्रममैथुनानां त्रयाणामन्ते प्रतिमर्शे दत्ते सति क्लमस्य नाशः स्यात्| उपलक्षणं चेदम्| मनःप्रसादशिरोलाघवेऽपि भवतः| एवं शिरोभ्यञ्जनादिषु पञ्चस्वन्ते प्रतिमर्शे योजिते सति दृष्टेर्बलं स्यात्| ततः-अनन्तरं, दन्तकाष्ठहासयोरन्ते यथासङ्ख्येन द्विजदृढत्वं पवनशमश्च स्यात्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-उक्तकालानां फलमाह-पञ्चस्विति| पञ्चसुनिशान्तादिषु, स्रोतःशुद्धिः| त्रिषु-अध्वश्रमरोतोन्तेषु, क्लमनाशः| पञ्चसु-शिरोभ्यञ्जनादिषु, दृग्बलम्| दन्तधावनान्ते दन्तदार्ढ्यम्| हास्यान्ते वातोपशमः|

Adhikarana वयोविशेषेण नस्यधूमकवलशोधनानां निषेधः (३०-३१) · Śloka ३१

अधुना नस्यस्य धूमादीनां च पुरुषविशेषे नियमं कुर्वन्नाह - - - - | न नस्यमूनसप्ताब्दे नातीताशीतिवत्सरे||३०|| न चोनाष्टादशे धूमः, कवलो नोनपञ्चमे| न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ||३१||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-ऊनसप्तवर्षे नस्यं न योज्यम्| तथा, अतिक्रान्ताशीतिवर्षे च नस्यं प्रयोजनम्| अपूर्णाष्टादशवर्शे धूमो न प्रयोज्यः| कवलोऽपूर्णपञ्चवत्सरे न प्रयोज्यः| ऊनदशमवर्षे शुद्धिः-वमनविरेकादिका, न प्रयोज्या| तथा, अतीतसप्ततिवर्षे च शुद्धिर्न योज्या|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-वयोविशेषेण नस्यधूमकवलशोधनानि निषेधति-न नस्यमिति|

Adhikarana प्रतिमर्शस्य सुखसेव्यत्वम् (३२-३३) · Śloka ३३

आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत्| मर्शवच्च गुणान् कुर्यात्स हि नित्योपसेवनात्||३२|| न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद्भयम्| |३३|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-प्रतिमर्शः पुनर्बस्तिरिव शस्तो-हितः| कथम् ? आजन्ममरणं,-जन्ममरणे अवधिं कृत्वा, प्रतिमर्शो हित इत्यर्थः| स च-प्रतिमर्शो, नित्योपसेवनात्-सन्ततमभ्यस्यमानो, मर्श इव गुणान्-सुखोच्छ्वासादीन् कुर्यात्| अत्र च-प्रतिमर्शे, यन्त्रणा-"उष्णोदकोपचारी स्यात्" इत्यादिका, नास्ति| न च व्यापभ्द्यः-"अक्षिस्तब्धता शोषः" इत्यादिभ्यो, भयं मर्श इव-मर्शवत् नास्तीति| मर्श इव मर्शवत्, सप्तम्यन्ताद्वतिः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-प्रतिमर्शस्य सुखसेव्यत्वमाह-आजन्मेति|

Adhikarana नित्यनस्ये तैलमेवोचितम् (३३-३४) · Śloka ३४

| तैलमेव च नस्यार्थे नित्याभ्यासेन शस्यते||३३|| शिरसः श्लेष्मधामत्वात्स्नेहाः स्वस्थस्य नेतरे| |३४|

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-तैलमेव नित्याभ्यासेन प्रतिमर्शन्यायेन नस्यार्थे श्रेष्ठं भवति| कुतो हेतोः ? मूर्ध्नः कफस्थानत्वात्| न त्वपरे स्नेहाः| तेषां श्लेष्मलत्वादिति भावः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-नित्यनस्ये तैलमेवोचितमित्याह-तैलमेवेति| सङ्ग्रहे तु (सू. अ. २९) -"आशुकृच्चिरकारित्वं गुणोत्कर्षापकृष्टता| मर्शे च प्रतिमर्शे च विशेषो न भवेद्यदि|| कोमर्शं सपरीहारं सापदं च भजेत्ततः| अच्छपानविचाराख्यौकुटीवातातपस्थिती|| अन्वासमात्राबस्ती च तद्वदेव विनिर्दिशेत्|" इति|

Adhikarana मर्शप्रतिमर्शादिषु विशेषगुणोत्कर्षापकृष्टत्वम् (३४-३६) · Śloka ३६

| आशुकृच्चिरकारित्वं गुणोत्कर्षापकृष्टता||३४|| मर्शे च प्रतिमर्शे च विशेषो न भवेद्यदि| को मर्शं सपरीहारं सापदं च भजेत्ततः||३५|| अच्छपानविचाराख्यौ कुटीवातातपस्थिती| अन्वासमात्राबस्ती च तद्वदेव विनिर्दिशेत्||३६||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-आशुकारिगुणयुक्तो मर्शः, चिरकारी तु प्रतिमर्शः| गुणोत्कर्षत्वयुक्तो मर्शो गुणापकृष्टतान्वितस्तु प्रतिमर्श इत्यनयोर्भेदः| यदि च मर्शे प्रतिमर्शे च विशेषगुणो न स्यात्, ततो मर्शं सपरिहारं सव्यापदं च को भजेत् ? न कश्चिद्भजेदित्यर्थः| मर्शप्रतिमर्शविशेषवदच्छपानविचाराख्यौ स्नेहौ शीघ्रकारित्वादिना विशेषेण निर्दिशेत्| तथा, कुटीप्रवेशस्थित्या यद्ररसायनमुपयुज्यते, यच्च वातातपाद्यपरिहारस्थित्या रसायनं क्रियते, ते च द्वे अपि तथैव सविशेषे निर्दिशेत्| तथा, अन्वासः-अनुवासनं, तथा मात्राबस्तिश्च, तावप्येवं शीघ्रकारिचिरकारित्वादिगुणैर्विनिर्दिशेत्|

आयुर्वेदरसायनम् व्याख्या ( कृत)

०००००

Adhikarana अणुतैलम् (३७-३८) · Śloka ३८

इदानीं नस्यमणुतैलं निर्दिदिक्षुराह - - - - जीवन्तीजलदेवदारुजलदत्वक्ऽऽसेव्यगोपीहिमं दार्वीत्वङ्मधुकप्लवागुरुवरीपुण्ड्राह्विबिल्वोत्पलम्| धावन्यौ सुरभिं स्थिरे कृमिहरं पत्रं त्रुटिं रेणुकां किञ्जल्कं कमलाद्बलां शतगुणे दिव्येऽम्भसिक्वाथयेत्||३७|| तैलाद्रसं दशगुणं परिशेष्य तेन तैलं पचेत सलिलेन दशैव वारान्| पाके क्षिपेच्च दशमे सममाजदुग्धं नस्यं महागुणमुशन्त्यणुतैलमेतत्||३८||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-जीवन्त्यादीनि द्रव्याणि दिव्ये जले क्वाथयेत्| गोपी-सारिवा| प्लवं-गोपालदमनाख्यम्| पुण्ड्राह्वं-प्रपौण्डरीकम्| धावन्यौ-कण्टकारिकामहोटिकाख्ये| सुरभिः-सल्लकी| स्थिरे-शालीपर्णीपृश्निपर्ण्यौ| कृमिहरं-विडङ्गम्| अत्र तैलसमानि द्रव्याणि ग्राह्याणीति वृद्धवैद्यव्यवहारः| आकाशादेव पटादिभिर्गृहीतं जलं दिव्यमुच्यते| तच्च तैलाच्छतगुणं गृहीत्वा तावत्क्वाथयेत्, यावद्दशगुणो रसस्तैलात्स्यात्| तेन च क्वाथेन तैलं दशैव वारान् पचेत्| दशमे च पाके तैलसममजाक्षीरं क्षिपेत्| ततः पुनः पचेत्| इत्येतत्तैलं महागुणं-सर्वोत्तमगुणं, अणुतैलसंज्ञं कथयन्ति| अणुषु तैलमणुतैलम्| अणूनीन्द्रियस्रोतांसि प्रविशतीत्यर्थः|

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-नस्यतैलेषु श्रेष्ठत्वादणुतैलमाह-जीवन्तीति| जीवन्त्यादीनि शतगुणे जले निष्काथ्य, जीवन्त्याद्यपेक्षयैव दशगुणं रसं परिशेष्य, तैलाद्दशगुणेन सलिलेन-क्वाथेन, दशवारं तैलं पचेत्| अर्थात्प्रतिवारं तैलसमः क्वाथः| दशमे तु पाके तैलसममाजदुग्धं क्वाथं चावशिष्टं क्षिपेत्| सेव्यंउशीरम्| प्लवं-क्षुद्रमुस्तम्| धावन्यौ-बृहतीद्वयम्| सुरभिंरास्नाम्| स्थिरे-शालिपर्णीपृश्निपर्ण्यौ| कमलात्किञ्जल्कंपद्मकेसरम्| अत्र जीवन्त्यादीनामेव कल्कः, "यतः क्वाथस्ततः कल्कः केवलक्वाथभाषिते|" इति वचनात्| कल्कं बिनैव पाक इत्यपरे| सङ्ग्रहे तु (सू.अ.२९)-"अणुतैलविधानं तु मञ्जिष्टामधुकप्रपौण्डरीकजीवकर्शभकाकोलीद्वयपयस्यासारिवानन्तानीलोत्पलाञ्जनरास्नाविडङ्गतण्डुलमधुपर्णीश्रावणीमेदाकाकनासासरलसालभद्रदारुचन्दनैः सुपिष्टैरष्टगुणं पड्गुणेन पयसा तैलं विपचेत्| घृतं वा पित्तोल्बणेषु दोषेषु| अथवा चन्दनागुरुपत्रदार्व्लीत्वङ्मधुकबलैलाद्वयपद्मोत्पलपद्मकेशरपौण्डरीकविडङ्गोशीरह्नीबेरवन्यत्वङ्मुस्तासारिवाबृहतीद्वयांशुमतीद्वयजीवन्तीदेवदारुसुरभिशतावरीः शतगुणे दिव्येऽम्भसि दशभागावशिष्टं क्वाथयेत्| ततस्तस्य क्वाथस्य दशमांशेन समांशं तैलं साधयेत्| दशमे चात्र पाके तैलतुल्यमाजमपि पयो दद्यात्| एतदप्यणुतैलं पूर्वस्माद्विशेषेणेन्द्रियदार्ढ्यकरं केश्यं बल्यं कण्ठ्यं प्रीणनं बृंहणं दोपत्रयघ्नं च|" इति| तन्त्रान्तरात्-"नस्यं विदध्याद्गुडनागरं वा ससैन्धवां मागधिकामथो वा| घ्राणास्यमन्याहनुबाहुपृष्टशिरोक्षिकण्ठश्रवणामयेषु||" इति|

Adhikarana नस्यशीलनस्य फलम् (२०) · Śloka २०

घनोन्नतप्रसन्नत्वक्ऽऽस्कन्धग्रीवास्यवक्षसः| दृढेन्द्रियास्तपलिता भवेयुर्नस्यशीलिनः||३९|| इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने नस्यविधार्नाम विंशोऽध्यायः||२०||

🔊 Audio coming soon

Show commentary

सर्वाङ्गसुन्दरी व्याख्या ( कृत)

स०-नस्यशीलिनो निबिडोच्चतररमणीयत्वगादयः स्युः| त्वक् च स्कन्धश्च ग्रीवा चास्यं च वक्षश्च एतेषां समाहारः त्वक्ऽऽस्कन्धग्रीवास्यवक्षः| घनोन्नतप्रसन्नं त्वक्ऽऽस्कन्धग्रीवास्यवक्षो येषां ते घनोन्नतप्रसन्नत्वक्ऽऽस्कन्धग्रीवास्यवक्षसः| तथा, पुष्टेन्द्रियाः पलितवर्जिताश्च भवेयुः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने नस्यविधिर्नाम विंशोऽध्यायः समाप्तः|| २०||

आयुर्वेदरसायनम् व्याख्या ( कृत)

आ० र०-नस्यशीलनस्य फलमाह-घनोन्नतेति| घनत्वचः, उन्नतस्कन्धग्रीवावक्षसः, प्रसन्नास्याः, इति यथायोगं सम्बन्धः| इति हेमाद्रिटीकायामायुर्वेदरसायने| नस्यकर्मप्रकरणं सामस्त्येन निरूपितम्|| २०||