Adhikarana १ (१-२) · Śloka २
अथातो द्रवद्रव्यविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Show commentary
अथात इत्यादि| द्रवद्रव्याणि पानीयक्षीरादीनि, तेषां विधिर्विधानं भेद इत्यर्थः||१-२||
Adhikarana १ (१-२) · Śloka २
अथातो द्रवद्रव्यविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
अथात इत्यादि| द्रवद्रव्याणि पानीयक्षीरादीनि, तेषां विधिर्विधानं भेद इत्यर्थः||१-२||
Adhikarana २ (३) · Śloka ३
पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वासजननं श्रमक्लमपिपासामदमूर्च्छातन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमं च ||३||
🔊 Audio coming soon
पानीयमित्यादि| अन्तरीक्षादागतमान्तरीक्षं, न पुनस्तत्र भवं; कुतः? मेघजत्वात्; तत्र जातं चेत्येके| अनिर्देशरसम् अव्यक्तरसमप्रकटरसमित्यर्थः, अत्यल्परसत्वात्; न पुनस्तस्य रसो नास्ति| अमृतमिति अमृतमिवेत्यर्थः, अमृतत्वं पुनरस्य दोषप्रकोपस्याकरणात्; ‘अमृतं ब्रह्मरूपम्’ इत्यन्ये| जीवनं प्राणधारणं, ‘सौम्यधातुवृद्धिकरम्’ इति केचित्, ‘ओजोवृद्धिकरम्’ इत्यन्ये| तर्पणं तृप्तिजनकम्| धारणमिति शस्त्रपातादिव्यथासु मूर्च्छतां शरीरं दधातीति धारणम्| आश्वासजननमिति मार्गादिशुष्कदेहानां प्राणजननम्| श्रमेत्यादि प्रशमनशब्दः श्रमादिभिः सह प्रत्येकमभिसम्बध्यते, श्रमादीनां प्रशमनमित्यर्थः; बह्वायासकृतं कष्टं श्रमः; अल्पायासकृतः श्रम एव क्लमः; मदः पूगफलेनेव मत्तता, स च विषमद्यशोणितोत्थो विकारः; तन्द्रानिद्रयोः कफवातकृतयोरपि प्रशमनं स्पर्शेन, या तु स्वाभाविकी निद्रा तां करोत्येव पीतं सत्; तन्द्रा निद्राभेदः, निद्रा प्रसिद्धैव| एकान्ततः पथ्यतममिति एकान्ततोऽतिशयेनेत्यर्थः, तर्हि तमप्प्रत्ययः कथं? उच्यते- स्वार्थिकत्वात्; एतेनातिशयेन पथ्यमित्यर्थः; ‘अन्येषामाकाशगुणभूयिष्ठभूमिसलिलानां पथ्यानां प्रकृष्टं पथ्यं पथ्यतमम्; एकान्तग्रहणेन सर्वकालदेशपुरुषव्याधिषु प्रयोगोऽस्य द्योत्यते’ इत्येके; ‘तमप्प्रत्ययेन स्वस्थस्यातिशयेन हितमित्यभिहितम्’ इत्यपरे||३||
Adhikarana ३ (४) · Śloka ४
तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टीप्रस्रवणोद्भिदविकिरकेदारपल्वलादि षु स्थानेष्ववस्थितमिति ||४||
🔊 Audio coming soon
तस्यानिर्देश्यरसस्यापि निर्देश्यरसत्वे कारणं निर्दिशन्नाह- तदित्यादि| तदेवावनिपतितमान्तरिक्षं जलं भूमिप्राप्तम्| अन्यतमं मधुरादिष्वेकतमम्| उपलभते प्राप्नोतीत्यर्थः| स्थानविशेषात् देशभेदादित्यर्थः| के पुनस्ते स्थानविशेषा इत्याह- नदीत्यादि| नद्यो गङ्गाद्याः; नदाः सिन्धुशोणादयः; सरो दिव्यख्यातं पुरुषव्यापारं विना; पुरुषव्यापारकृतस्तडागः, ‘तलाव’ इति लोके, केचिद्विपर्ययेणार्थमाहुः; वापी इष्टकादिभिर्बद्धा ससोपानतीर्था ‘पुष्करिणी’ इति लोके; कूपो मृत्तिकेष्टकादिभिर्बद्धोऽसोपानः; चुण्टी अवबद्धकूपः, अन्ये ‘भुआ गिरिपल्वलं वा’ इत्याहुः, भुआ नद्याः समीपे तत्कालकृता लघुकूपिका, पल्वलमखातगर्त इति; प्रस्रवणमुच्चप्रदेशात् प्रस्रवज्जलस्थानं पर्वताश्रितम्; उद्भिदं पुनर्निम्नप्रदेशादूर्ध्वोत्तिष्ठज्जलस्थानं; विकिरं वालुकादि विकीर्य गृह्यमाणोदकस्थानं; केदारः प्रसिद्धः; पल्वलमानूपदेशजं तृणादिच्छन्नं सरः| आदिग्रहणात् ह्रदसमुद्रादिग्रहणम्||४||
Adhikarana ४ (५) · Śloka ५
तत्र, ‘लोहितकपिलपाण्डुनीलपीतशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि सम्भवन्ति’ इत्येके भाषन्ते ||५||
🔊 Audio coming soon
परमतमाह- तत्रेत्यादि||५||
Adhikarana ५ (६) · Śloka ६
तत्तु न सम्यक्; पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युत्कर्षापकर्षेण | तत्र, स्वलक्षणभूयिष्ठायां भूमावम्लं लवणं च; अम्बुगुणभूयिष्ठायां मधुरं; तेजोगुणभूयिष्ठायां कटुकं तिक्तं च; वायुगुणभूयिष्ठायां कषायम्; आकाशगुणभूयिष्ठायामव्यक्तरसम्, अव्यक्तं ह्याकाशमित्यतः; तत् प्रधानमव्यक्तरसत्वात्, तत्पेयमान्तरीक्षालाभे ||६||
🔊 Audio coming soon
तन्निराकृत्य स्वमतमाह- तत्त्वित्यादि| कृत इति जनितः| उत्कर्षापकर्षेणेति वृद्धिह्रासाभ्याम्| स्वलक्षणभूयिष्ठायां पृथिव्यामात्मगुणबहुलायाम् | ‘तत्र पृथिव्यम्बुगुणबाहुल्यान्मधुर’ इत्यादिना रसविज्ञानीय उक्तस्य सामान्यविधेरुत्सर्गाख्यस्य ‘तत्र स्वलक्षणभूयिष्ठायां भूमावम्लम्’ इत्यादिको विशेषविधिरपवादाख्योऽत्र प्रोक्तः| अन्ये तु भूतद्वयगुणसंयोगं रसविशेषहेतुमाहुः| तथाहि- ‘तत्र स्वलक्षणोदकभूयिष्ठायां भूमौ मधुरं, पृथिव्यनिलभूयिष्ठायामम्लं, जलाग्निगुणभूयिष्ठायां लवणं, वाय्वग्निगुणभूयिष्ठायां कटुकं, पृथिव्यनिलगुणभूयिष्ठायां कषायम्, आकाशगुणभूयिष्ठायामव्यक्तरसम्’ इति||६||
Adhikarana ६ (७) · Śloka ७
तत्रान्तरीक्षं चतुर्विधम् | तद्यथा- धारं, कारं, तौषारं, हैममिति | तेषां धारं प्रधानं, लघुत्वात्; तत् पुनर्द्विविधं- गाङ्गं, सामुद्रं चेति | तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति | तयोर्द्वयोरपि परीक्षणं कुर्वीत- शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत, स यदि मुहूर्तं स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं; वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्रमिति विद्यात्, तन्नोपादेयम् | सामुद्रमप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति | गाङ्गं पुनः प्रधानं, तदुपाददीताश्वयुजे मासि | शुचिशुक्लविततपटैकदेशच्युतमथवा हर्म्यतलपरिभ्रष्टमन्यैर्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृन्मये वा पात्रे निदध्यात् | तत् सर्वकालमुपयुञ्जीत, तस्यालाभे भौमम् | तच्चाकाशगुणबहुलम् | तत् पुनः सप्तविधम् | तद्यथा- कौपं, नादेयं, सारसं, ताडागं, प्रास्रवणम्, औद्भिदं, चौण्ट्यमिति ||७||
🔊 Audio coming soon
तत्रेत्यादि| धाराभिः पततीति धारम्| करा वर्षोपलाः, तेषां तोयं कारम्| तौषारम् अवश्यायजं निशाजलम्| तदेव संहतावयवत्वेन स्फटिकशिलाशकलसदृशावयवं हिमं, तद्भवं हैमम्| तदित्यादि| गाङ्गमाकाशाधिष्ठानं, सामुद्रं पुनरवन्यधिष्ठानम्| तत्रेत्यादि| एतेन ‘गाङ्गमाश्वयुज एव ग्रहीतव्यं न भाद्रपदे मासि’ इत्युक्तं भवति| तयोरिति तयोर्गाङ्गसामुद्रयोरित्यर्थः| कथं परीक्षणमित्याह- शाल्योदनेत्यादि| अविदग्धम् अविवर्णम्| रूप्यमये भाजनेऽम्लरसे सामुद्रतोयं विना शाल्यन्नं न कोथमेति| दिनस्य रात्रेश्च पञ्चदशो भागो मुहूर्तः| अवगन्तव्यं ज्ञातव्यमित्यर्थः| वर्णान्यत्वे इत्यादि| प्रक्लेदः कोथः| तन्नोपादेयमिति दोषलत्वात्| सामुद्रमित्यादि| एतेन सामुद्रस्यानुपादेयस्यापि कदाचिदेवोपादेयता दर्शिता| आन्तरिक्षस्य ग्रहणोपायं दर्शयन्नाह- शुचीत्यादि| शुचिरनुपहतः| हर्म्यतलपरिभ्रष्टमिति धवलगृहोपरिभूमिकायाः सकाशादधः पतद्गृहीतम्| तदित्यादि कौपमित्यादिकं सर्वं प्रागेव व्याख्यातम्||७||
Adhikarana ७ (८) · Śloka ८
तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत, महागुणत्वात्; शरदि सर्वं, प्रसन्नत्वात्; हेमन्ते सारसं ताडागं वा; वसन्ते कौपं प्रास्रवणं वा; ग्रीष्मेऽप्येवं; प्रावृषि चौण्ट्यमनभिवृष्टं सर्वं चेति ||८||
🔊 Audio coming soon
तत्रेत्यादि| अत्र वर्षाशब्दो वर्षान्ते आश्वयुजे वर्तते न तु भाद्रपदे, तत्रान्तरिक्षजलस्य निषिद्धत्वात्; तदुक्तं- “बलाहकाद्याः समदाः कीटा लूताश्च खेचराः| तद्विषोत्सर्गसंसर्गादग्राह्यं तत्तदा जलम्” इति| तर्हि भाद्रपदे किं पातव्यम्? अत्रोच्यते- भाद्रपदे मास्याकाशगुणभूयिष्ठभूम्याश्रितमान्तरिक्षवद्भवतीति तत्पयः पेयमिति| अन्ये पुनस्तप्तशीतमम्भो भाद्रपदे पाययन्ति, पूर्वस्थापितं माहेन्द्रं वा; अन्ये तु ‘वर्षास्वान्तरिक्षमौद्भिदं कौपं वा’ इति पठन्ति, तच्च कौपं विदाहपरिहारार्थं सक्षौद्रं पेयमिति व्याख्यानयन्ति| शरदि सर्वं ‘पातव्यम्’ इति शेषः| प्रसन्नत्वादिति प्रसन्नत्वं निर्दोषत्वमगस्त्योदयात्| प्रावृषि चौण्ट्यमनवमनभिवृष्टं सर्वं चेति अनवं पुरातनं, तच्च सारसं ताडागं वा; अनभिवृष्टमनाभसं, तच्च कौपम्| परं यत्र न वृष्टो देवस्तदा सर्वमेव पातव्यं यदि वा संस्कृतं भवेत् क्वथनादिभिः; सर्वत्रैवाभिनवस्य जलस्य प्रविष्टत्वात्| अन्ये तु ‘अनवम्’ इत्यस्य स्थाने ‘अनभिनवम्’ इति पठन्ति; अत्रापि स एवार्थः||८||
Adhikarana ८ (९-१०) · Śloka १०
कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम् | तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ||९|| योऽवगाहेत वर्षासु पिबेद्वाऽपि नवं जलम् | स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु ||१०||
🔊 Audio coming soon
इदानीं नवस्य सलिलस्य बाह्याभ्यन्तरप्रयोगे बाह्याभ्यन्तरानेव च रोगान्निर्दिशन्नाह- कीटेत्यादि| कीटादिभिः सह कोथशब्दः प्रत्येकमभिसम्बध्यते, कोथः शटितत्वं; कीटाः सविषा वृश्चिकादयः, शवो मृतप्राणिशरीरं, प्रदूषितं विकृतीकृतम्| तृणपर्णोत्करयुतमिति तृणपर्णानामुत्करः समूहस्तेन युतम्| कलुषं मलिनम्| विषसंयुतमिति स्थावरजङ्गमविषयुक्तमित्यर्थः| वर्षास्विति आश्वयुजं विहायाषाढश्रावणभाद्रपदा गृह्यन्ते| वर्षाशब्दोऽयं प्रावृषि वर्षासु च वर्तते| तदाह- “वर्षासु चतुरो मासान् मात्रावदुदकं पिबेत्” इति| बाह्याभ्यन्तरान् रोगानिति बाह्याः कुष्ठादयः, आभ्यन्तरास्तूदरादयः; ते च यथासङ्ख्यमवगाहपानाभ्यां ज्ञेयाः||९-१०||
Adhikarana ९ (११) · Śloka ११
तत्र यत् पङ्कशैवलहठतृणपद्मपत्रप्रभृतिभिरवच्छन्नं रविशशिकिरणानिलैर्नाभिजुष्टं गन्धवर्णरसोपसृष्टं तद्व्यापन्नमिति विद्यात् | तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् सम्भवन्ति | तत्र, खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषः, पङ्कसिकताशैवालबहुवर्णता रूपदोषः; व्यक्तरसता रसदोषः; अनिष्टगन्धता गन्धदोषः; यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स विर्यदोषः; यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपाकदोष इति | त एते आन्तरिक्षे न सन्ति ||११||
🔊 Audio coming soon
व्यापन्नलक्षणमाह- तत्रेत्यादि| पड्कः कर्दमः; शैवालं शैवलं; हठः जलकुम्भिका, ‘अभूमिलग्नमूलस्तृणविशेषः’ इत्येके| अवच्छन्नम् आच्छादितम्| नाभिजुष्टं न स्पृष्टम्| उपसृष्टं संयुतम्| व्यापन्नं दोषाक्रान्तम्| तानेव षड्दोषान्निर्दिशन्नाह- तत्रेत्यादि| औष्ण्यं भूबाष्पजनितं, न पुनरग्न्यातपकृतम्| दन्तग्राहिता अतिशीतताऽभिप्रेता| पङ्केत्यादि सिकता वालुका| अनिष्टगन्धता विस्रादिगन्धता| व्यक्तरसता रसनेन्द्रियग्राह्यमधुरादिरसता| यदुपयुक्तमित्यादि कफप्रसेकः श्लेष्मस्रवणम्| वीर्यं चाचिन्त्यक्रियाहेतुः| यदुपयुक्तमित्यादि विष्टम्भो गुड्गुडाशब्दः| त एते इति एते पूर्वोक्ताः षड्दोषाः| आन्तरिक्षे इत्यस्योपलक्षणत्वादाकाशगुणभूयिष्ठेऽपि न सम्भवन्ति||११||
Adhikarana १० (१२) · Śloka १२
व्यापन्नस्य चाग्निक्वथनं सूर्यातपप्रतापनं तप्तायःपिण्डसिकतालोष्ट्राणां वा निर्वापणं प्रसादनं च कर्तव्यं, नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति ||१२||
🔊 Audio coming soon
व्यापन्नानां प्रसन्नतोपायं दर्शयन्नाह- व्यापन्नानामित्यादि| अग्निक्वथनं महादोषदुष्टस्य, सूर्यातपप्रतापनमल्पदोषे, तप्तायःपिण्डादिनिर्वापणं मध्यदोषे| लोष्ट्रः कठिनो मृन्मयः| निर्वापणं जले निःक्षेपणमित्यर्थः| प्रसादनं च कर्तव्यमिति अग्निक्वथनादिस्वरूपं प्रसादनं नान्यत्| गन्धापनयने उपायमाह- नागेत्यादि| नागो नागकेशरः, चम्पको राजचम्पकः, उत्पलं सौगन्धिकं; प्रभृतिग्रहणात् केतकीमल्लिकादिपुष्पाणि||१२||
Adhikarana ११ (१३) · Śloka १३
सौवर्णे राजते ताम्रे कांस्ये मणिमयेऽपि वा | पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् ||१३||
🔊 Audio coming soon
तदुदकं गुणवदपि किम्मयपात्रस्थं पेयमित्याह- सौवर्णे इत्यादि| पुष्पावतंसं पुष्पसुगन्धीकृतम्||१३||
Adhikarana १२ (१४-१६) · Śloka १६
व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम् | दोषसञ्जननं ह्येतन्नाददीताहितं तु तत् ||१४|| व्यापन्नमुदकं यस्तु पिबतीहाप्रसादितम् | श्वयथुं पाण्डुरोगं च त्वग्दोषमविपाकताम् ||१५|| श्वासकासप्रतिश्यायशूलगुल्मोदराणि च | अन्यान्वा विषमान्रोगान्प्राप्नुयादचिरेण सः ||१६||
🔊 Audio coming soon
व्यापन्नादिवर्जनमाह- व्यापन्नमित्यादि| अनार्तवमिति ऋतुविशेषानुपयोग्यम्, अनृतुवृष्टमिति केचित्| अप्रसाधितमिति क्वथनाद्यसंस्कृतम्||१४-१६||
Adhikarana १३ (१७) · Śloka १७
तत्र सप्त कलुषस्य प्रसादनानि भवन्ति | तद्यथा- कतकगोमेदकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति ||१७||
🔊 Audio coming soon
तत्रेत्यादि| कतकं शशकपुरीषप्रतिमं फलं; गोमेदकः पुष्परागाभो मणिः, मत्कोलमिति केचित्; बिसग्रन्थिः पद्ममूलं; शैवालमूलं प्रसिद्धम्; मुक्ता मौक्तिकं; मणिः स्फटिकादिः| एतेन रूपदोषापयनोपायो दर्शितः| अन्ये तु बिसग्रन्थीत्यस्याग्रे ‘पर्णीमूलं’ इति पठन्ति; तत्र पर्णी पानीयपृष्ठजा, तस्या मूलं जटा||१७||
Adhikarana १४ (१८) · Śloka १८
पञ्च निक्षेपणानि भवन्ति | तद्यथा- फलकं, त्र्यष्टकं, मुञ्जवलय, उदकमञ्चिका, शिक्यं चेति ||१८||
🔊 Audio coming soon
पञ्चेत्यादि| निक्षेपणं यत्र जलं निक्षिप्यते स्थाप्यते, तेन भूम्यादिस्पर्शाभावाद्दोषान्तरानुदयः| फलकं शाल्मलीकाष्ठादिविरचितं, त्र्यष्टकम् अष्टास्रदण्डत्रयसंयोगः, मुञ्जवलयो मुञ्जादिविरचितो वलयाकारः, उदकमञ्चिका आकाशान्तराले निरन्तरनिहितवेत्रवेण्वादिविरचिता वेत्रगृहाद्यभिधाना, शिक्यं मुञ्जादिविरचितं प्रसिद्धम्||१८||
Adhikarana १५ (१९) · Śloka १९
सप्त शीतीकरणानि भवन्ति; तद्यथा- प्रवातस्थापनम्, उदकप्रक्षेपणं, यष्टिकाभ्रामणं, व्यजनं, वस्त्रोद्धरणं, वालुकाप्रक्षेपणं, शिक्यावलम्बनं चेति ||१९||
🔊 Audio coming soon
सप्तेत्यादि| उदकप्रक्षेपणमिति सलिलपूर्णे भाजने वस्त्रादिपीडिते आकण्ठमपरशीतसलिलनिक्षेपः| यष्टिकाभ्रामणं यन्त्रयष्ट्यादिभ्रामणम्| व्यजनमिति व्यजनादिना वातलीकरणम्| वस्त्रोद्धरणं वस्त्रेण गालनम्| वालुकाप्रक्षेपणम् उदकपात्रस्य वालुकामध्ये निक्षेपणम्| शिक्यावलम्बनं प्रसिद्धम्||१९||
Adhikarana १६ (२०) · Śloka २०
निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम् | अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते ||२०||
🔊 Audio coming soon
कीदृशं पुनरुपादेयं भौममित्याह- निर्गन्धमित्यादि| शुचि अनुपहतम्| लघु चेति चकारः समस्तगुणवत्त्वेऽत्यन्तगुणकारि, अल्पगुणवत्त्वे त्वल्पगुणकारीति तारतम्यसूचकः| हृद्यं चेत्यत्र तु क्वथितजलस्य हृदयाप्रियत्वेऽप्युपग्रहणार्थम| गुणवत् प्रशस्तगुणोपेतम्||२०||
Adhikarana १७ (२१) · Śloka २१
तत्र नद्यः पश्चिमाभिमुखाः पथ्याः, लघूदकत्वात्; पूर्वाभिमुखास्तु न प्रशस्यन्ते, गुरूदकत्वात्; दक्षिणाभिमुखा नातिदोषलाः, साधारणत्वात् | तत्र सह्यप्रभवाःकुष्ठं जनयन्ति, विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगं च, मलयप्रभवाः कृमीन्, महेन्द्रप्रभवाः श्लीपदोदराणि, हिमवत्प्रभवा हृद्रोगश्वयथुशिरोरोगश्लीपदगलगण्डान्, प्राच्यावन्त्या अपरावन्त्याश्चार्शांस्युपजनयन्ति, पारियात्रप्रभवाः पथ्या बलारोग्यकर्य इति ||२१||
🔊 Audio coming soon
इदानीं जाङ्गलपश्चिमदेशस्थानूपपूर्वदेशस्थसाधारणमध्यदेशस्थानां नदीनां गुणान्निर्दिशन्नाह- तत्र नद्य इत्यादि| पश्चिमाभिमुखा जाङ्गलपश्चिमदेशस्थाः पश्चिमसमुद्रगाः, पूर्वाभिमुखाः आनूपदेशस्थाः पूर्वसमुद्रगाः, दक्षिणाभिमुखाः मध्यदेशस्थाः| शैलादिभेदेन गुणान्निर्दिशन्नाह- तत्रेत्यादि| मलयप्रभवा इति मलयप्रभवा हि नद्यो द्विविधा भवन्ति- पाषाणसिकतावाहिन्यः, अपाषाणसिकतावाहिन्यश्च; तत्र पाषाणसिकतावाहिन्यः पथ्याः, अपाषाणसिकतावाहिन्यः कृमीन् जनयन्ति| हिमवत्प्रभवा इति ता अपि द्विविधाः- हिमवदुपरिभागप्रभवाः पथ्याः, अधोभागप्रभवास्तु हृद्रोगादिहेतवः| विशिष्टदेशाश्रितपर्वतप्रभवाणां नदीनां सलिलगुणं दर्शयन्नाह- प्राच्येत्यदि| अवन्ती उज्जयिनी तयोपलक्षितो देशस्तस्य पूर्वस्यां जाताः प्राच्यावन्त्याः, पश्चिमस्यां जाता अपरावन्त्याः शैलाः, तेषु या नद्यः; एतेन विशिष्टदेशाश्रितपर्वतप्रभवाणां नदीनां सलिलगुण उक्तः| ‘उज्जयिन्युपलक्षिते देशे याः प्राचीं पश्चिमां चाभिमुखं यान्ति ताः प्राच्यावन्त्या अपरावन्त्याश्च, न तु उज्जयिनीप्रभवेषु पर्वतेषु’ इत्यन्ये| अयमर्थो गयदासेन दूषितः| पारियात्रेत्यादि पारियात्रः पर्वतभेदः, तत्र प्रभवा नद्यो द्विविधाः- तडागजा दरीजाश्च; तत्र तडागजाः पथ्याः, दरीजा दोषलाः||२१||
Adhikarana १८ (२२) · Śloka २२
नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः | गुर्व्यः शैवालसञ्छन्नाः कलुषा मन्दगाश्च याः ||२२||
🔊 Audio coming soon
नदीनां धन्वानूपसाधारणशैलाश्रयाणां सर्वासामेव शेषीभूतं विशेषं दर्शयन्नाह- नद्य इत्यादि||२२||
Adhikarana १९ (२३) · Śloka २३
प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः | लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः ||२३||
🔊 Audio coming soon
इदानीं विशिष्टदेशप्रभवाणां नदीनां गुणविशेषं दर्शयन्नाह- प्रायेणेत्यादि| मरुषु प्रसिद्धेषु मरुदेशेषु, नतु जाङ्गलशब्दाभिहितेषु| पौरुषेया वृष्या इत्यर्थः| अन्ये तु ‘ईषत्कषाया मधुरा लघुपाका बले हिताः’ इति पठन्ति||२३||
Adhikarana २० (२४) · Śloka २४
तत्र सर्वेषामेव भौमानां ग्रहणं प्रत्यूषसि, तत्र ह्यमलत्वं शैत्यं चाधिकं भवति, स एव चापां परो गुण इति ||२४||
🔊 Audio coming soon
भौमानां दिनापेक्षं ग्रहणकालं नियमयन्नाह- तत्रेत्यादि| प्रत्यूषसि प्रभाते| स एव चापां परो गुण इति स च शैत्यामलत्वलक्षणोऽपां परमो गुण इत्यर्थः| अन्ये तु ‘शैत्यं चापां परो गुणः’ इति पठन्ति| तत्र चकारोऽमलसूचनार्थः||२४||
Adhikarana २१ (२५) · Śloka २५
दिवार्ककिरणैर्जुष्टं निशायामिन्दुरश्मिभिः | अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना ||२५||
🔊 Audio coming soon
तत्र भौमानामर्कसोमकरसंस्कारजगुणेनान्तरिक्षतुल्यत्वं तदलाभे उपादानायाह- दिवेत्यादि| अर्कग्रहणे सिद्धे दिवाग्रहणं समस्तदिनप्राप्त्यर्थं, किरणग्रहणं दुर्दिनव्युदासार्थम्| दिवानिशीतिवचनात् सरोऽपि चन्द्रार्ककरसम्बद्धं सत्यप्यर्के चन्द्रसम्बन्धादरूक्षं, सत्यपि चन्द्रेऽर्कसम्बन्धादनभिष्यन्दि| दोषान् व्याधीन् झटिति यदभिष्यन्दते उत्पादयति तदभिष्यन्दि, विपर्ययेणानभिष्यन्दि| निशाग्रहणं समस्तरात्रिप्राप्त्यर्थम्| यद्यपि पौर्णमास्यामेव सकलरात्रौ चन्द्रसम्बन्धो नान्यासु, तथाऽपि एकयाऽपि पौर्णमास्या रात्र्याऽतिशायी संस्कारः कृतोऽन्यास्वप्यनुवर्तते| एतेनातिशीतोष्णस्निग्धरूक्षं निन्दितमित्युक्तं भवति||२५||
Adhikarana २२ (२६) · Śloka २६
गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने | बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् ||२६||
🔊 Audio coming soon
किङ्गुणं पुनर्गगनाम्बु येनैतत्तुल्यमुच्यत इत्याह- गगनाम्ब्वित्यादि| बल्यमुपचयौजःशक्तिकरत्वात्| विशिष्टरसाद्युत्पादनाद्रसायनं स्वस्थातुरोपयोगि| मेध्यं पवित्रम्| पात्रापेक्षि ततः परमिति अतिश्रेष्ठभाजने गृहीतमधिकं गुणं करोतीत्यर्थः| अन्ये तु मेध्यस्थाने शीतमिति पठन्ति| पूर्वं दोषशमनादि नोक्तमधुना अगस्त्योदयदर्शनविशेषप्रभावादुक्तम्||२६||
Adhikarana २३ (२७) · Śloka २७
रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् | चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् ||२७||
🔊 Audio coming soon
चन्द्रकान्तमणिप्रभवजलस्य गुणमाह- रक्षोघ्नमितादि| रक्षोघ्नं राक्षसभयहरम्| ह्लादि सुखावहम्| चन्द्रकान्तोद्भवमिति चन्द्रकान्तमणिप्रभवम्| इदं तु चन्द्रकिरणानुप्रवेशान्नाभसं, मणिप्रादुर्भूतत्वाद्भौममित्युभयात्मकम्||२७||
Adhikarana २४ (२८) · Śloka २९
मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये | भ्रमक्लमपरीतेषु तमके वमथौ तथा ||२८|| ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते |२९|
🔊 Audio coming soon
शीतोष्णविषयमाह- मूर्च्छेत्यादि| पित्तोष्णदाहेष्विति उष्णे शरदि ग्रीष्मे च| मदात्यये मद्यविकारे| भ्रमश्चक्रारूढस्येव| परीतेषु युक्तेषु| तमकः श्वासो मोहो वा| वमथौ छर्दिरोगे||२८||-
Adhikarana २५ (२९-३०) · Śloka ३०
पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ||२९|| आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे | हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ||३०||
🔊 Audio coming soon
पार्श्वेत्यादि| स्तिमिते कोष्ठे आमकोष्ठे इत्यर्थः| सद्यःशुद्धे इति यस्मिन् दिने शोधनं कृतं तत्रेत्येके, अपरे तु सप्ताहमित्याहुः| यद्यप्यौष्ण्यं स्पर्शदोष उक्तस्तथाऽप्यवस्थायां व्यवहारार्थत्वेनोपादेयम्; अन्ये तु पूर्वमौष्ण्यं भूबाष्पजनितमेव दोषत्वेनोक्तम्, इदं त्वग्न्यातपकृतमिति समादधति||२९-३०||
Adhikarana २६ (३१-३६) · Śloka ३७
नादेयं वातलं रूक्षं दीपनं लघु लेखनम् | तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ||३१|| तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु | ताडागं वातलं स्वादु कषायं कटुपाकि च ||३२|| वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम् | सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ||३३|| चौण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च | कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ||३४|| मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम् | वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ||३५|| कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् | तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ||३६|| सामुद्रमुदकं विस्रं लवणं सर्वदोषकृत् |३७|
🔊 Audio coming soon
समस्तनदीनां शेषगुणमाह- नादेयमित्यादि| द्विविधं कौपं सक्षारमव्यक्तरसं च; यत् सक्षारं तत् पित्तलं, इतरन्न पित्तलम्||३१-३६||-
Adhikarana २७ (३७-३८) · Śloka ३९
अनेकदोषमानूपं वार्यभिष्यन्दि गर्हितम् ||३७|| एभिर्दोषैरसंयुक्तं निरवद्यं तु जाङ्गलम् | पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्धनम् ||३८|| दीपनं स्वादु शीतं च तोयं साधारणं लघु |३९|
🔊 Audio coming soon
आनूपधन्वसाधारणगुणैर्निर्दिशन्नाह- अनेकेत्यादि| अत्र स्पर्शरूपरसगन्धवीर्यविपाकाः प्रागुक्ता दोषा ज्ञेयाः| एभिरिति एभिः पूर्वोक्तैः स्पर्शादिभिरित्यर्थः| अविदाहि अदाहकारीत्यर्थः||३७-३८||-
Adhikarana २८ (३९) · Śloka ४०
कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ||३९|| श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा |४०|
🔊 Audio coming soon
उष्णोदकगुणमाह- कफेत्यादि| पथ्यं हितम्| उष्णोदकमर्धावशिष्टमुदकम्||३९||-
Adhikarana २९ (४०) · Śloka ४१
यत् क्वाथ्यमानं निर्वेगं निष्फेनं निर्मलं लघु ||४०|| चतुर्भागावशेषं तु तत्तोयं गुणवत् स्मृतम् |४१|
🔊 Audio coming soon
उष्णोदकभेदमाह- यदित्यादि| निर्वेगं निश्चलम्||४०||-
Adhikarana ३० (४१) · Śloka ४२
न च पर्युषितं देयं कदाचिद्वारि जानता ||४१|| अम्लीभूतं कफोत्क्लेदि न हितं तत् पिपासवे |४२|
🔊 Audio coming soon
पर्युषितमुष्णोदकं न दातव्यमित्याह- न चेत्यादि| पर्युषितं रात्र्युषितम्||४१||-
Adhikarana ३१ (४२) · Śloka ४३
मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ||४२|| सन्निपातसमुत्थे च शृतशीतं प्रशस्यते |४३|
🔊 Audio coming soon
शृतशीतविषयमाह- मद्यपानादित्यादि| पूर्वं मदात्यये शीतम्, अत्र तु मदात्ययसमुद्भूते रोगे शृतशीतं; मदात्यये मदात्ययसमुद्भूते रोगे चोभयस्मिन्नपि शृतशीतं प्रयोक्तव्यमित्यर्थः||४२||-
Adhikarana ३२ (४३) · Śloka ४४
स्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम् ||४३|| वृष्यं पित्तपिपासाघ्नं नालिकेरोदकं गुरु |४४|
🔊 Audio coming soon
उदकप्रसङ्गेन नारिकेलफलसलिलस्यापि गुणं निदर्शयन्नाह- स्निग्धमित्यादि| नारिकेलोदकमीषत्पक्वार्द्रनारिकेलफलान्तर्वर्ति सलिलमित्यर्थः| जेज्झटस्तु ‘लघु’ इति पठति, लघुत्वं च शीघ्रपरिणामित्वमिच्छति||४३||-
Adhikarana ३३ (४४) · Śloka ४५
दाहातीसारपित्तासृङ्मूर्च्छामद्यविषार्तिषु ||४४|| शृतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च |४५|
🔊 Audio coming soon
अधुना शृतशीतस्य शेषविषयमाह- दाहेत्यादि||४४||-
Adhikarana ३४ (४५-४६) · Śloka ४६
अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ||४५|| मन्देऽग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा | व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ||४६|| इति जलवर्गः |
🔊 Audio coming soon
केषु रोगेषु जलं मन्दं पेयमित्याह- अरोचके इत्यादि| यावत् प्रतिषेधयितुमशक्यं तावदाचरेदिति मन्दार्थः| अयं पानीयवर्गो निबन्धकारैर्विपरीतक्रमेण पठितः| अस्माभिस्तु यथैव गुरुभिः कथितस्तथैव क्रमेण व्याख्यातः| इति पानीयवर्गः||४५-४६||
Adhikarana ३५ (४७) · Śloka ४७
अथ क्षीरवर्गः | गव्यमाजं तथा चौष्ट्रमाविकं माहिषं च यत् | अश्वायाश्चैव नार्याश्च करेणूनां च यत्पयः ||४७||
🔊 Audio coming soon
इदानीं क्षीरस्याष्टविधां योनिमाह- गव्यमित्यादि| करेणुर्हस्तिनी| अश्वायाश्च नार्याश्च करेणूनां चेति चकारत्रयमनुक्तसमानजातीयक्षीराणां समुच्चयार्थं, तेनाश्वतरीखरीमृगीखङ्गिनीक्षीराणामपि ग्रहणम्| तत् पुनर्भूयसा नोपयुज्यत इति न कृतं साक्षात्तद्ग्रहणम्||४७||
Adhikarana ३६ (४८) · Śloka ४८
तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु | मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु | सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते ||४८||
🔊 Audio coming soon
सर्वेषामेव क्षीराणां दशविधं गुणं निर्दिशन्नाह- तत्त्वित्यादि| तत्त्वनेकौषधिरसप्रसादमिति तुशब्दः पुनरर्थे, ओषधिशब्देन सर्वद्रव्याणि न तु फलपाकावसानाः, रसः सारः किट्टभाव(ग)रहित ओजःशुक्रादिवत्, एतेन शुक्लत्वं द्योत्यते| प्राणदमग्निसोमादिधारणादुपचयादिकरणाद्वा| पिच्छिलं विशदविपरीतम्| श्लक्ष्णं खरविपरीतम्| एवमिदं क्षीरं दशगुणयुक्तं भवति| जेज्झटस्तु “तत्त्वनेकौषधिरसप्रसादः क्षीरतां गतः| सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते” इति पठति, व्यारव्यानयति च- क्षीरतां गतः क्षीरत्वं प्राप्तः| प्राणभृतां प्राणिनां जरायुजानाम्| सात्म्यं नाम सुस्वं यत् करोति तदुच्यते||४८||
Adhikarana ३७ (४९) · Śloka ४९
तत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात्, वातपित्तशोणितमानसेष्वपि विकारेष्वविरुद्धं, जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छाभ्रममददाहपिपासाहृद्बस्तिदोष- पाण्डुरोगग्रहणीदोषार्शःशूलोदावर्तातिसारप्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लमहरं, पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं वयःस्थापनमायुष्यं जीवनं बृंहणं सन्धानं वमनविरेचनास्थापनं तुल्यगुणत्वाच्चौजसो वर्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्यवायव्यायामकर्शितानां च पथ्यतमम् ||४९||
🔊 Audio coming soon
सर्वेषामेव समानगुणानां क्षीराणां समानकर्म निर्देष्टुमाह- तत्रेत्यादि| सर्वम् अष्टविधमपात्यर्थः| प्राणिनां जरायुजानाम्| जातिसात्म्यात् मनुष्यादिजातिसुखकरत्वात्| मानसेषु विकारेषु रजस्तमःसंसर्गजेषु| जीर्णज्वरेत्यादि जीर्णशब्दमेके ज्वरेण सह सम्बध्नन्ति, अन्ये तु क्लमान्तैर्ज्वरादिभिः सह, जीर्णत्वेनैतेषु प्रायेण वातपित्तानुबन्धो भवतीत्याहुः| हरशब्दो ज्वरादिभिः क्लमान्तैः सर्वैः सह प्रत्येकमभिसम्बध्यते| कासेति कासोऽत्र कफकासं त्यक्त्वा, शोषोऽत्र मुखकण्ठतालूनां, क्षयो राजयक्ष्मा, गुल्मोदरयोर्वातपैत्तिकयोः, मूर्च्छाभ्रममदपिपासासु कफामरहितासु, हृदयदोषाणां वातपित्तप्रायाणां, पाण्डुरोगे वातपित्तप्राये, ग्रहणीप्रदोषे जीर्णावस्थायाम्, अर्शस्सु रक्तपित्तप्रबलेषु, अतिसारे वातपित्तशोणितप्राये पक्वावस्थायां, प्रवाहिकायां वातपित्तप्रबलायां, गर्भस्रावे आमान्वयादिना; रक्तपित्ते कफप्रधाने, अग्निमान्द्ये च न देयम्| बल्यं मांसोपचयकरम्, अन्ये ओजसो वर्धनमिति; तन्मते ‘ओजसो वर्धनम्’ इति पाठोऽग्रे न भवति| वृष्यं शुक्रजनकं, वाजीकरणं शुक्रप्रवर्तनम्, एतेन जनकप्रवर्तकमित्युक्तम्| रसायनं सततोपयोगात्| मेध्यं मेधाजनकं पवित्रं वा| पाप्मापहं पापोपशमनं विशेषतो गव्यम्| वयःस्थापनं जरया विना| आयुष्यं आयुषे हितम्| सन्धानं भग्नस्य| वमनविरेचनास्थापनमिति वमनं वमनद्रव्यसंयोगि; विरेचनं सरत्वान्मृदुकोष्ठस्य, ‘रेचनद्रव्यसंयोगाद्विरेचनम्’ इत्यन्ये; आस्थापनम् आस्थापनद्रव्यसंयोगि, आस्थापनं निरूहणमित्यनर्थान्तरम्| तुल्यगुणत्वाच्चौजसो वर्धनमिति यावन्त एवौजसो गुणास्तावन्त एव क्षीरस्यापि, तेन तैस्तैरेवात्मगुणैस्तेषां समानानामोजसो गुणानामभिवर्धनम्| जेज्झटस्तु ‘गव्यं तु शीतं स्निग्धं मधुरमविदाही’ इति पठति, शेषं तु समं; तन्मते गोक्षीरस्यैव गुणाः||४९||
Adhikarana ३८ (५०) · Śloka ५१
अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम् | रक्तपित्तहरं शीतं मधुरं रसपाकयोः ||५०|| जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् |५१|
🔊 Audio coming soon
सामान्येन क्षीरस्य गुणमभिधाय गव्यस्यैव विशिष्टं गुणकर्म निर्दिशन्नाह- गोक्षीरमित्यादि| दोषधातुमलस्रोतसां मन्दक्लेदप्राप्तिजनकमल्पाभिष्यन्दि||५०||-
Adhikarana ३९ (५१-५२) · Śloka ५३
गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ||५१|| दीपनं लघु सङ्ग्राहि श्वासकासास्रपित्तनुत् | अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ||५२|| नात्यम्बुपानाद्व्यायामात् सर्वव्याधिहरं पयः |५३|
🔊 Audio coming soon
अजाक्षीरगुणमाह- गव्यतुल्यगुणमित्यादि| गुणशब्दस्तत्कार्ये फले वर्तते| अत्राल्पकायत्वादयः स्वरूपविशेषेण न क्षीरपथ्यत्वे हेतवः, तेषामल्पकायत्वादीनामव्यादिष्वपि सम्भवात्; अतो द्वयमेव क्षीरपथ्यापथ्यविभागे हेतुर्जातिविशेषो भ्रमणादिविशेषश्च| सर्वव्याधिहरं सर्वदोषहरम्||५१-५२||-
Adhikarana ४० (५३) · Śloka ५४
रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु ||५३|| शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम् |५४|
🔊 Audio coming soon
इदानीमौष्ट्रक्षीरगुणमाह- रूक्षेत्यादि||५३||-
Adhikarana ४१ (५४) · Śloka ५५
आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ||५४|| पथ्यं केवलवातेषु कासे चानिलसम्भवे |५५|
🔊 Audio coming soon
आविकक्षीरगुणमाह- आविकमित्यादि| कफावहं कफकरम्| केवलवातेष्विति केवलेष्वनावृतेषु, असंयुक्तेष्वपीत्यर्थः| अन्ये त्वेवं पठन्ति- “आविकं मधुरं स्निग्धमुष्णं पित्तकफावहम्| गुरु शुद्धेऽनिले पथ्यं सेकश्चानिलशोणिते”- इति| शुद्धेऽनिले अनावृते, अनिलशोणिते रक्तावृते वाते, सेकः परिषेकः||५४||-
Adhikarana ४२ (५५) · Śloka ५६
महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् ||५५|| निद्राकरं शीततरं गव्यात् स्निग्धतरं गुरु |५६|
🔊 Audio coming soon
महिषीक्षीरमाह- महाभिष्यन्दीत्यादि| दोषधातुमलस्रोतसामतिशयक्लेदप्राप्तिजनकं महाभिष्यन्दि| गव्यात् स्निग्धतरं गोक्षीरात् स्निग्धतरमित्यर्थः||५५||-
Adhikarana ४३ (५६) · Śloka ५७
उष्णमैकशफं बल्यं शाखावातहरं पयः ||५६|| मधुराम्लरसं रूक्षं लवणानुरसं लघु |५७|
🔊 Audio coming soon
अश्वादिक्षीरमाह- उष्णमित्यादि| एकशफा अश्वादयः, शफः खुरः| ‘शाखा बाहुजङ्घे, तद्वातहरम्’ इत्येके; ‘शाखा रक्तादयो धातवः’ इत्यन्ये| ‘काञ्जिकस्येव प्रभावादाधारप्रभावाच्च शाखायां हन्ति, कोष्ठे करोती’ इत्यामनन्ति||५६||-
Adhikarana ४४ (५७) · Śloka ५८
नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् ||५७|| नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् |५८|
🔊 Audio coming soon
मानुषं क्षीरमाह- नार्यास्त्वित्यादि| आश्च्योतनमक्षिपूरणम्||५७||-
Adhikarana ४५ (५८) · Śloka ५९
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ||५८|| स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् |५९|
🔊 Audio coming soon
हस्तिनीक्षीरमाह- हस्तिन्या इत्यादि| स्थैर्यकरं शरीरदार्ढ्यकरम्, अन्ये ‘तारुण्स्थापकम्’ इत्याहुः||५८||-
Adhikarana ४६ (५९) · Śloka ६०
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ||५९|| रात्र्याः सोमगुणत्वाच्च व्यायामाभावतस्तथा |६०|
🔊 Audio coming soon
प्राभातिकं क्षीरमाह- प्राय इत्यादि| विष्टम्भो गुडगुडाशब्दः||५९||-
Adhikarana ४७ (६०) · Śloka ६१
दिवाकराभितप्तानां व्यायामानिलसेवनात् ||६०|| श्रमघ्नं वातनुच्चैव चक्षुष्यं चापराह्णिकम् |६१|
🔊 Audio coming soon
आपराह्णिकक्षीरमाह- दिवाकरेत्यादि| अपराह्णो दिनान्तभागः| वृद्धानुमतौ पाठाविमौ||६०||-
Adhikarana ४८ (६१) · Śloka ६१
पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ||६१||
🔊 Audio coming soon
आमक्षीरमाह- पय इत्यादि||६१||
Adhikarana ४९ (६२) · Śloka ६२
तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् |६२|
🔊 Audio coming soon
पक्वस्य गुणमाह- तदित्यादि| शृतं पक्वम्, आवर्तितमित्यर्थः| अनभिष्यन्दि किञ्चिदभिष्यन्दीत्यर्थः|६२|
Adhikarana ५० (६२) · Śloka ६२
वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ||६२||
🔊 Audio coming soon
स्त्रीक्षीरे पाकनिषेधमाह- वर्जयित्वेत्यादि| स्त्रियाः स्तन्यं वर्जयित्वाऽन्यदुग्धानि शृतान्येव हितानि भवन्तीत्यर्थः| तत् स्त्रीभवं स्तन्यमाममक्वथितमेव हितम्||६२||
Adhikarana ५१ (६३) · Śloka ६३
धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा |६३|
🔊 Audio coming soon
तेषां सर्वक्षीराणामेव दोहनकालधारापातोष्णानां गुणविशेषं निर्दिशन्नाह- धारोष्णमित्यादि| गुणवत् गुणान्वितं, विपरीतमगुणवत्, अतोऽन्यथेति धारोष्णं यन्न भवति|६३|
Adhikarana ५२ (६३) · Śloka ६३
तदेवातिशृतं शीतं गुरु बृंहणमुच्यते ||६३||
🔊 Audio coming soon
अतिपक्वमाह- तदित्यादि| बृंहणं देहवृद्धिकरम्||६३||
Adhikarana ५३ (६४) · Śloka ६४
अनिष्टगन्धमम्लं च विवर्णं विरसं च यत् | वर्ज्यं सलवणं क्षीरं यच्च विग्रथितं भवेत् ||६४|| इति क्षीरवर्गः |
🔊 Audio coming soon
कीदृशं क्षीरं वर्ज्यमित्याह- अनिष्टेत्यादि| विवर्णं शुक्लाद्वर्णान्तरमापन्नम्| विरसं मधुरादन्यरसम्| विग्रथितमम्लादिद्रव्यसंयोगेन विग्रथितावयवं, यल्लोके विनष्टमिति प्रसिद्धम्||६४||
Adhikarana ५४ (६५) · Śloka ६५
अथ दधिवर्गः | दधि तु मधुरमम्लमत्यम्लं चेति; तत्कषायानुरसं स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यं प्राणकरं मङ्गल्यं च ||६५||
🔊 Audio coming soon
अथ दधिभेदानाह- दधीत्यादि| एतेन त्रिप्रकारं दध्युक्तम्| सामान्यदधिगुणमाह- तदित्यादि| उष्णमुष्णवीर्यम्| वृष्यं शुक्रकरम्| मङ्गल्यं मङ्गलहेतुः| अन्ये त्वेवं पठन्ति- ‘दधि तु मधुरं सृष्टमूत्रपुरीषं गुर्वम्लमभिष्यन्दि श्लेष्मपित्तशोफवर्धनं कार्श्यापहं रोचनं मङ्गल्यं च, तदेव चोद्धृतसारं ग्राह्यनभिष्यन्दि च, ससरं कफमेदःशुक्रकृत्, त्रिदोषकृन्मन्दजातम्’ इति||६५||
Adhikarana ५५ (६६) · Śloka ६६
महाभिष्यन्दि मधुरं कफमेदोविवर्धनम् | कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ||६६||
🔊 Audio coming soon
अथ त्रिप्रकारस्यापि दध्नो गुणमाह- महेत्यादि| महाभिष्यन्दीति पूर्ववद्व्याख्येयम्||६६||
Adhikarana ५६ (६७) · Śloka ६७
विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् |६७|
🔊 Audio coming soon
मन्दजातगुणमाह- विदाहीत्यादि| त्रिदोषकृदिति दोषान् वातपित्तश्लेष्माणः करोतीति दोषकृदिति सिद्धे त्रिग्रहणमेतज्ज्ञापयति यन्मन्दजातं दधि त्रीनपि दोषान् यौगपद्येन तुल्यबलस्वेन च कोपयति, न पुनः परिपाठ्या हीनाधिकभावेन वा|६७|
Adhikarana ५७ (६७) · Śloka ६८
स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ||६७|| वातापहं पवित्रं च दधि गव्यं रुचिप्रदम् |६८|
🔊 Audio coming soon
गोदध्याह- स्निग्धमित्यादि||६७||-
Adhikarana ५८ (६८) · Śloka ६९
दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ||६८|| दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् |६९|
🔊 Audio coming soon
अजादध्याह- दध्याजमित्यादि||६८||-
Adhikarana ५९ (६९) · Śloka ७०
विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ||६९|| बलासवर्धनं स्निग्धं विशेषाद्दधि माहिषम् |७०|
🔊 Audio coming soon
महिषीदध्याह- विपाके इत्यादि| बलासः श्लेष्मा| स्निग्धपदबलासवर्धनपदाभ्यां सह ‘विशेषात्’ इति सम्बध्यते||६९||-
Adhikarana ६० (७०) · Śloka ७१
विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि ||७०|| वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च |७१|
🔊 Audio coming soon
उष्ट्रीदध्याह- विपाके इत्यादि| सक्षारमीषत्क्षारम्||७०||-
Adhikarana ६१ (७१) · Śloka ७२
कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ||७१|| रसे पाके च मधुरमत्यभिष्यन्दि दोषलम् |७२|
🔊 Audio coming soon
मेषीदध्याह- कोपनमित्यादि| दुर्नामानि अर्शांसि| दोषलमपथ्यत्वेन विकारकारि||७१||-
Adhikarana ६२ (७२) · Śloka ७३
दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ||७२|| रूक्षमुष्णं कषायं च कफमूत्रापहं च तत् |७३|
🔊 Audio coming soon
अश्वादध्याह- दीपनीयमित्यादि| वाडवमाश्वम्||७२||-
Adhikarana ६३ (७३) · Śloka ७४
स्निग्धं विपाके मधुरं बल्यं सन्तर्पणं गुरु ||७३|| चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम् |७४|
🔊 Audio coming soon
मानुषीदध्याह- स्निग्धमित्यादि| चक्षुष्यमग्र्यं श्रेष्ठं चक्षुष्यमित्यर्थः| गुणोत्तरं गुणोत्कृष्टम्||७३||-
Adhikarana ६४ (७४) · Śloka ७५
लघु पाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् ||७४|| कषायानुरसं नाग्या दधि वर्चोविवर्धनम् |७५|
🔊 Audio coming soon
हस्तिनीदध्याह- लघ्वित्यादि||७४||-
Adhikarana ६५ (७५) · Śloka ७६
दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ||७५|| विज्ञेयमेवं सर्वेषु गव्यमेव गुणोत्तरम् |७६|
🔊 Audio coming soon
सर्वेषां गोदधि श्रेष्ठमित्याह- दधीनीत्यादि| एवमेतेन प्रकारेण, एवावधारणे||७५||-
Adhikarana ६६ (७६) · Śloka ७७
वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ||७६|| कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम् |७७|
🔊 Audio coming soon
वस्त्रादिगालितदधिगुणमाह- वातघ्नमित्यादि| सुपरिस्रुतं सुष्ठु गालितं वस्त्रादिभिः||७६||-
Adhikarana ६७ (७७) · Śloka ७८
शृतात् क्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् ||७७|| वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् |७८|
🔊 Audio coming soon
क्वथितक्षीरजातस्य दध्नो गुणमाह- शृतादित्यादि||७७||-
Adhikarana ६८ (७८) · Śloka ७९
दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः ||७८|| वह्नेर्विधमनश्चापि कफशुक्रविवर्धनः |७९|
🔊 Audio coming soon
दध्यवयवविशेषाणां गुणविशेषं दर्शयन्नाह- दध्न इत्यादि| सरः दध्न उपरितनो भागः स्नेहबहुलः ‘तर’ इति प्रसिद्धः| वह्नेर्विधमनः अग्निनाशनः| वृष्यः शुक्रवर्धन इति चोभयमतिवृद्धिकरत्वप्राप्तये; एतेन जनकप्रवर्तकमुक्तम्||७८||-
Adhikarana ६९ (७९) · Śloka ८०
दधि त्वसारं रूक्षं च ग्राहि विष्टम्भि वातलम् ||७९|| दीपनीयं लघुतरं सकषायं रुचिप्रदम् |८०|
🔊 Audio coming soon
उद्धृतस्नेहस्य दध्नो गुणमाह- दधीत्यादि| असारं साररहितम्| विष्टम्भीति सवाततोदशूला मलस्याप्रवृत्तिर्विष्टम्भः; अन्ये ‘विष्टम्भो गुडगुडाशब्दः’ इति प्राहुः||७९||-
Adhikarana ७० (८०) · Śloka ८१
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ||८०|| हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते |८१|
🔊 Audio coming soon
ऋतुभेदेन हेयोपादेयतामाह- शरदित्यादि||८०||-
Adhikarana ७१ (८१-८३) · Śloka ८३
तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ||८१|| अम्लं कषायं मधुरमवृष्यं कफवातनुत् | प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत् | बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ||८२|| स्वाद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च | असारमेवं दधि सप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ||८३|| इति दधिवर्गः |
🔊 Audio coming soon
मस्तुगुणमाह- तृष्णेत्यादि| मस्तु अधोदधि जलमिश्रं; तच्च सप्तविधं दधिभेदात्; अन्ये तु दधितक्रजभेदेन मस्तु द्विविधमिच्छन्ति| मलं मूत्रपुरीषम्| भक्तच्छन्दं भोजनाभिलाषम्||८१-८३||
Adhikarana ७२ (८४) · Śloka ८४
अथ तक्रवर्गः | तक्रं तु मधुरमम्लं कषायानुरसमुष्णवीर्यं लघुरूक्षमग्निदीपनं गरशोफातिसारग्रहणीपाण्डुरोगार्शःप्लीहगुल्मारोचकविषमज्वरतृष्णाच्छर्दिप्रसेकशूलभेदःश्लेष्मानिलहरं मधुरविपाकं हृद्यं मूत्रकृच्छ्रस्नेहव्यापत्प्रशमनमवृष्यं च ||८४||
🔊 Audio coming soon
अथ तक्रगुणानाह- तक्रमित्यादि| गरं कृत्रिमं विषं, सदाभाविनं वर्जयित्वाऽन्ये विषमज्वराः, प्रसेको लालास्रावः| स्नेहव्यापत् स्नेहातियोगायोगसमुत्थो विकारः| अवृष्यम् अशुक्रलम्| तच्च तन्त्रान्तरे त्रिविधं- “रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम्| तक्रं दोषाग्निबलवित्त्रिविधं तत् प्रयोजयेत्” (च. चि. अ. १४)- इति| तन्त्रान्तरे सर्वेषामेवैतेषां पृथग्गुणोपवर्णनं कृतम्||८४||
Adhikarana ७३ (८५) · Śloka ८५
मन्थनादिपृथग्भूतस्नेहमर्धोदकं च यत् | नातिसान्द्रद्रवं तक्रं स्वाद्वम्लं तुवरं रसे | यत्तु सस्नेहमजलं मथितं घोलमुच्यते ||८५||
🔊 Audio coming soon
अथ कीदृक् तक्रं यस्यायं गुणनिर्देशः कृतः? उच्यते- मन्थनादीत्यादि| घोलमाह- यत्त्वित्यादि| तत्तु दधिगुणमेव| सस्नेहं सजलमुदश्वित्; तद्गुणास्तु मतान्तराद्बोद्धव्याः||८५||
Adhikarana ७४ (८६) · Śloka ८६
नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले | न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ||८६||
🔊 Audio coming soon
तस्य तक्रस्य निषेधविषयमाह- नैवेत्यादि| उष्णकाले शरद्ग्रीष्मयोः||८६||
Adhikarana ७५ (८७) · Śloka ८७
शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु च | मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ||८७||
🔊 Audio coming soon
केषु प्रशस्तमित्याह- शीतकाल इत्यादि| मार्गावरोधे स्रोतःशोधकत्वात्| दुष्टे च वायौ विकृते वाते; स च प्रायः कोष्ठस्थो ज्ञेयः||८७||
Adhikarana ७६ (८८) · Śloka ८८
तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनं च; अम्लं वातघ्नं पित्तकरं च ||८८||
🔊 Audio coming soon
तक्रस्य रसविशेषेण गुणविशेषमाह- तदित्यादि||८८||
Adhikarana ७७ (८९) · Śloka ८९
वातेऽम्लं सैन्धवोपेतं, स्वादु पित्ते सशर्करम् | पिबेत्तक्रं कफे चापि व्योषक्षारसमन्वितम् ||८९||
🔊 Audio coming soon
संयोगविशेषेण त्रिदोषहरत्वमाह- वाते इत्यादि||८९||
Adhikarana ७८ (९०) · Śloka ९०
ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका |९०|
🔊 Audio coming soon
तस्य हेत्वन्तरैर्विग्रथितस्य घनीभूतावयवस्य स्वगुणान् निर्दिशन्नाह- ग्राहिणीत्यादि| विनष्टं तक्रं घनावयवं तक्रकूर्चिका|९०|
Adhikarana ७९ (९०) · Śloka ९०
तक्राल्लघुतरो मण्डः कूर्चिकादधितक्रजः ||९०||
🔊 Audio coming soon
इदानीं तक्राद्दधिमस्तुनस्तथा तक्रमस्तुनोऽपि विशेषं गुणेषु दर्शयन्नाह- तक्रादित्यादि| मण्डो मस्तुकः; कूर्चिकाभूतं यद्दधि तक्रं च ताभ्यां जातो यो मण्डः स तक्राल्लघुतरः, प्राकृतदधिजातं पुनर्मस्तु लाघवात्तक्रसममेव| अन्ये त्वेवं पठन्ति, ‘दधिकूर्चिकतक्रजः’ इति| तक्र प्राकृतदधिजः, कूर्चिकीभूतदधिजः, कूर्चिकीभूततक्रज इति मस्तुत्रयसङ्ग्रहः| ‘तक्रतुल्यो दधिमण्डो विष्टम्भारुचिनाशन’ इति च क्वचित् पठ्यते| प्राकृतमस्तु च ग्रीष्मादिविदाहेन सुजातस्य दध्नोऽच्छो भाग उच्यते||९०||
Adhikarana ८० (९१) · Śloka ९१
गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः स्मृतः |९१|
🔊 Audio coming soon
तक्रकूर्चिकाप्रस्तावे क्षीरकूर्चिकामाह- गुरुरित्यादि| कूर्चिकीभूतक्षीरस्य घनभागः किलाटः; यं लोकाः क्षीरांशुमित्याहुः, सूदास्तु ‘किलाटी’ इति| पुंस्त्वं शुक्रम्|९१|
Adhikarana ८१ (९१) · Śloka ९१
मधुरौ बृंहणौ वृष्यौ तद्वत्पीयूषमोरटौ ||९१||
🔊 Audio coming soon
पीयूषमोरटावाह- मधुरावित्यादि| तद्वदिति किलाटतुल्यौ| पीयूषः सद्यःप्रसूताया गोः क्षीरं सप्ताहं यावत्, तदेव सप्ताहात् परतो यावत् प्रसन्नतां न गच्छति तावत् ‘मोरट’ इत्युच्यते| जेज्जटस्तु ‘विनष्टक्षीरभवं मस्तु मोरटम्’ इत्याह||९१||
Adhikarana ८२ (९२) · Śloka ९२
नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं सङ्ग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासव्रणशोषार्शोऽर्दितापहं, चिरोत्थितं गुरु कफमेदोविवर्धनं बलकरं बृंहणं शोषघ्नं विशेषेण बालानां प्रशस्यते ||९२||
🔊 Audio coming soon
सद्यस्कं नवनीतमाह- नवनीतमित्यादि| सद्यस्कं सद्योभवम्| सुकुमारं देहसौकुमार्यकरम्| सङ्ग्राहि प्रभावात्तक्रावयवसम्बन्धाच्च, अत एवाम्लम्| चिरोत्थितस्य नवनीतस्य गुणमाह- गुर्वित्यादि| बलकरमोजस्करम्| बृंहणं देहोपचयकरम्| विशेषेणातिशयेनेत्यर्थः||९२||
Adhikarana ८३ (९३) · Śloka ९३
क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहमाधुर्यमतिशीतं सौकुमार्यकरं चक्षुष्यं सङ्ग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनं च ||९३||
🔊 Audio coming soon
क्षीरमथनोत्थितस्य नवनीतस्य गुणमाह- क्षीरोत्थमित्यादि| दध्युत्थितनवनीतापेक्षया उत्कृष्टे स्नेहमाधुर्ये यस्मिन् तत्तथा| अतिशीतमपि तदपेक्षयैव| प्रसादनं चेति रक्तपित्तनेत्ररोगयोः| प्रसादनस्थाने ‘वर्णप्रसादनीयम्’ इति केचित् पठन्ति||९३||
Adhikarana ८४ (९४) · Śloka ९४
सन्तानिका पुनर्वातघ्नी तर्पणी वृष्या बल्या स्निग्धा रुच्या मधुरा मधुरविपाका रक्तपित्तप्रसादनी गुर्वी च ||९४||
🔊 Audio coming soon
क्षीरोत्थनवनीतप्रसङ्गेन क्षीरोत्थसन्तानिकामाह- सन्तानिकेत्यादि| सन्तानिका क्षीरस्योपरि स्त्यानो भागः क्षीरसर इत्यर्थः| तर्पणी तृप्तिजनिका||९४||
Adhikarana ८५ (९५) · Śloka ९५
विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः | विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत् ||९५|| इति तक्रवर्गः |
🔊 Audio coming soon
ननु चाष्टानां क्षीराणां निर्दिष्टत्वादिह तक्रमस्तुतक्रकूर्चिकाकिलाटपीयूषमोरटनवनीतसन्तानिकादयः कस्य क्षीरस्योक्ता इत्याह- विकल्प इत्यादि| विकल्पो भेदः प्रकारः| दधि आदिर्यस्य स दध्यादिः| गव्य इति गोरेव| अभिवर्णितः कथितः| न पुनरजाविप्रभृतीनां, यतः श्रेष्ठः सर्वेभ्यः प्रधानम्| तत् किमजादीनां दध्यादि न सम्भवतीत्याह- विकल्पानित्यादि| अवशिष्टान् उर्वरितान्| क्षीरवीर्यादिति क्षीरवीर्यं क्षीरगुण इत्यर्थः| यथाऽजादीनां क्षीरगुणस्तदनुगुणस्तत्तक्रादिगुणो वाच्य इत्यर्थः||९५||
Adhikarana ८६ (९६) · Śloka ९६
अथ घृतम् | घृतं तु मधुरं सौम्यं मृदु शीतवीर्यमनभिष्यन्दि स्नेहनमुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्यौजस्तेजोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोघ्नं च ||९६||
🔊 Audio coming soon
अथ घृतमाह- घृतं त्वित्यादि| एते सामान्यघृतस्य गुणाः, अन्ये तु गव्यस्यैवेति गुणश्रेष्ठत्वादित्याहुः| सौम्यत्वमुष्णेऽपि यथाऽविक्षीरे, अत एव शीतवीर्यमित्युक्तम्| अनभिष्यन्दीति अत्रेषदर्थे नञ्; तेन, अल्पाभिष्यन्दीत्यर्थः; एतेन दोषधातुमलस्रोतसां मन्दक्लेदप्राप्तिजननम्| स्नेहनं स्निग्धत्वापादकम्| उदावर्तादिप्रशमनं निरामाणामेव नतु सामानाम्| ज्वरस्य जीर्णस्य प्रशमनं शान्तिकरमित्यर्थः| स्मृत्यादिभिर्बलान्तैः सह करशब्दः प्रत्येकमभिसम्बध्यते| स्मृतिः अतीतस्मरणम्; अनागतज्ञानं मतिः; मेधा ग्रन्थधारणशक्तिः; कान्तिः शोभा; लावण्यं रूपातिशयः; सौकुमार्यं मार्दवमङ्गानाम्; ओजो हृदि स्थितं धातुधाम; तेजः पराक्रमः, अन्ये प्रभामाहुः, सा च महापञ्जिकायां निषिद्धा; बलमुपचयः| मेध्यं पवित्रम्| वयःस्थापनमिति यावदेवायुः प्रमितं तावदेवायुः स्थापयत्यनाबाधम्| पापादीनि हन्ति प्रभावात्| रक्षोघ्नं राक्षसभयहरम्| ‘त्रिदोषापकर्षणम्’ इति केचित् पठन्ति, स तु नातिप्रसिद्धः पाठः| तत्रापि वातपित्तसम्बद्धस्यैव कफस्य हन्तृत्वं, नतु केवलस्य||९६||
Adhikarana ८७ (९७) · Śloka ९७
विपाके मधुरं शीतं वातपित्तविषापहम् | चक्षुष्यमग्र्यं बल्यं च गव्यं सर्पिर्गुणोत्तरम् ||९७||
🔊 Audio coming soon
सामान्येन घृतगुणमभिधाय गव्यघृतस्य विशेषगुणमाह- विपाके इत्यादि| चक्षुष्यमग्र्यमिति सर्वचक्षुष्यश्रेष्ठमित्यर्थः| गुणोत्तरं गुणोत्कृष्टम्||९७||
Adhikarana ८८ (९८) · Śloka ९८
आजं घृतं दीपनीयं चक्षुष्यं बलवर्धनम् | कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ||९८||
🔊 Audio coming soon
आजं घृतमाह- आजमित्यादि||९८||
Adhikarana ८९ (९९) · Śloka ९९
मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम् | वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ||९९||
🔊 Audio coming soon
माहिषघृतमाह- मधुरमित्यादि||९९||
Adhikarana ९० (१००) · Śloka १००
औष्ट्रं कटु घृतं पाके शोफक्रिमिविषापहम् | दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ||१००||
🔊 Audio coming soon
औष्ट्रघृतमाह- औष्ट्रमित्यादि||१००||
Adhikarana ९१ (१०१) · Śloka १०१
पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम् | कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् ||१०१||
🔊 Audio coming soon
आविकघृतमाह- पाके इत्यादि||१०१||
Adhikarana ९२ (१०२) · Śloka १०२
पाके लघूष्णवीर्यं च कषायं कफनाशनम् | दीपनं बद्धमूत्रं च विद्यादैकशफं घृतम् ||१०२||
🔊 Audio coming soon
आश्वघृतमाह- पाके इत्यादि| ऐकशफं घृतमश्वाया घृतमित्यर्थः||१०२||
Adhikarana ९३ (१०३) · Śloka १०३
चक्षुष्यमग्र्यं स्त्रीणां तु सर्पिः स्यादमृतोपमम् | वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ||१०३||
🔊 Audio coming soon
मानुषीघृतमाह- चक्षुष्यमित्यादि| चक्षुष्यमग्र्यं सर्वचक्षुष्यश्रेष्ठम्||१०३||
Adhikarana ९४ (१०४) · Śloka १०४
कषायं बद्धविण्मूत्रं तिक्तमग्निकरं लघु | हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् ||१०४||
🔊 Audio coming soon
हास्तिनघृतमाह- कषायमित्यादि| कारेणवं हास्तिनम्||१०४||
Adhikarana ९५ (१०५) · Śloka १०५
क्षीरघृतं पुनः सङ्ग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितं च ||१०५||
🔊 Audio coming soon
क्षीरोत्थघृतगुणमाह- क्षीरघृतमित्यादि| क्षीरमथनात् समुद्भूतनवनीतोत्थितं घृतं क्षीरघृतम्| सङ्ग्राहि प्रभावात्| भ्रमः चक्रारूढस्येव| मूर्च्छा चेतनाच्युतिः||१०५||
Adhikarana ९६ (१०६) · Śloka १०६
सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो बस्तिनस्याक्षिपूरणेषूपदिश्यते ||१०६||
🔊 Audio coming soon
घृतमण्डस्य गुणमाह- सर्पिर्मण्डस्त्वित्यादि| विलीनघृतस्य घनीभूत उपरितनो भागो मण्डः||१०६||
Adhikarana ९७ (१०७-१११) · Śloka १११
सर्पिः पुराणं सरं कटुविपाकं त्रिदोषापहं मूर्च्छामदोन्मादोदरज्वरगरशोषापस्मारयोनिश्रोत्राक्षिशिर शूलघ्नं दीपनं बस्तिनस्यपूरणेषूपदिश्यते ||१०७|| भवति चात्र- पुराणं तिमिरश्वासपीनसज्वरकासनुत् | मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ||१०८|| (एकादशशतं चैव वत्सरानुषितं घृतम् | रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् ||१०९|| पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः | बल्यं पवित्रं मेध्यं च विशेषात्तिमिरापहम् ||११०|| सर्वभूतहरं चैव घृतमेतत् प्रशस्यते) ||१११|| इति घृतवर्गः |
🔊 Audio coming soon
पुराणघृतगुणमाह- सर्पिरित्यादि| पुराणं दशवर्षस्थितम्| विषरुधिरमद्यजा मदास्त्रयः, गरः संयोगविषम्| पूरणेऽक्षिपूरणे| एकादशशतमिति एकादशोत्तरं शतमित्यर्थः| भूतैः प्राणिभिः| आचार्यस्तु ‘कौम्भं तु शतवत्सरम्’ इत्याह| अयं पाठो निबन्धेषु न दृश्यते, अस्माभिस्तु बहुवैद्यपठितत्वात् पठितः||१०७-१११||
Adhikarana ९८ (११२-११३) · Śloka ११३
अथ तैलानि | तैलं त्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यवायि सूक्ष्मं विशदं गुरु सरं विकासि वृष्यं त्वक्प्रसादनं मेधामार्दवमांसस्थैर्यवर्णबलकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलासक्षयकरं क्रिमिघ्नमशितपित्तजननं योनिशिरःकर्णशूलप्रशमनं गर्भाशयशोधनं च, तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षतपिच्चितभग्नस्फुटितक्षाराग्निदग्धविश्लिष्टदारिता भिहतदुर्भग्नमृगव्यालविदष्टप्रभृतिषु च परिषेकाभ्यङ्गावगाहादिषु तिलतैलं प्रशस्यते ||११२|| तद्बस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे | अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ||११३||
🔊 Audio coming soon
जङ्गमस्नेहोत्तमं घृतं निर्दिश्य स्थावरस्नेहोत्तमं तैलं गुणकर्मभ्यां निर्दिशन्नाह- तैलमित्यादि| तिलेषु भवं तैलं तिलतैलम्| आग्नेयमुष्णमिति प्रभा आग्नेयी न चोष्णा, क्षार उष्णः सौम्यश्च, मत्स्या उष्णा न त्वाग्नेयाः, अत एवाग्नेयमुष्णमित्युभयमुक्तम्| बृंहणं धातुपुष्टिकरत्वेन शरीरदार्ढ्यावहत्वात्; न च लेखनत्वमप्यस्य विरुद्धं, मेदोहरत्वात्| न खलु तैलं मेदोघ्नमपि मांसं न करोति, प्रतिनियतशक्तित्वाद्द्रव्याणाम्| प्रीणनं तृप्तिजनकम्| व्यवायि अपरिणतमेव व्याप्य देहं पच्यते| सूक्ष्मं सूक्ष्मस्रोतोनुसारि| विशदं निर्मलम्| विकासि सन्धिबन्धविमोचकम्| वृष्यं शुक्रलम्, अन्ये तु धातुपोषणकरणाद्वृष्यं, सद्यः पुनरवृष्यमेव| यदुक्तं जातूकर्णेन- ‘अशुक्रार्थे तैललवणम्’ इति| त्वक्प्रसादनमभ्यङ्गे भोजने च| वर्णो गौरादिः| बलकरमुत्साहकरम्| चक्षुष्यं परिणामे, न तु पूरणेन| लेखनं मेदोहरम्| अनिलबलासक्षयकरमिति मिलितवातबलासयोः क्षयकरं, न केवलस्य वातस्य न च केवलस्य श्लेष्मणः; अथवा क्षयो मार्गः, अनिलबलासस्रोतःशोधनमित्यर्थः| अशितपित्तजननम् जल्पतनूकरणपित्तयोर्जनकं, शितं हि तनूकरणं, नञीषदर्थे, तेनाल्पतनूकरणमिति लभ्यते; केचिदशितमिति पृथक् पठन्ति, तच्च महापञ्जिकायां दूषितम्| छिन्नं द्विधाभूतं, भिन्नं विदारितं, विद्धं सूच्यादिभिः, उत्पिष्टं चूर्णितं, च्युतं स्थानादधोगतं, मथितं विलोडितं, क्षतमुरःक्षतादि, पिञ्चितं चिप्पटीभूतं ‘चिर्पितं’ इति लोके, भग्नं सन्धिमुक्तादिभेदं, स्फुटितं बहुधा खण्डीभूतं, विश्लिष्टं सन्धिविश्लेषमात्रयुक्तं, दारितं स्फाटि(डि)तमित्यर्थः, अभिहतं लगुडादिभिः, दुर्भग्नं चूर्णितातिपातितं मज्जानुगतादिकं कृच्छ्रसाध्यं दुष्टं भग्नं, मृगव्यालविदष्टं दुष्टमृगभक्षितम्| परिषेकः अङ्गोपरि तैलधारादिनिपातः, अभ्यङ्गः प्रसिद्धः, अवगाहोऽपक्रीडनम् | अन्नपानविधाविति विधौ संस्करणे||११२-११३||
Adhikarana ९९ (११४) · Śloka ११४
एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटु कषायानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्रविशोधनमारोग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदोषहरं च ||११४||
🔊 Audio coming soon
एरण्डतैलस्य गुणकर्माण्याह- एरण्डतैलमित्यादि| अधोभागदोषहरं विरेचनेन दोषहरमित्यर्थः||११४||
Adhikarana १०० (११५) · Śloka ११५
निम्बातसीकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्लकहस्तिकर्णपृथ्वीकापीलु- करञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगापहराणि चेति ||११५||
🔊 Audio coming soon
निम्बादिफलस्नेहगुणानाह- निम्बेत्यादि| जीमूतको देवदाली, वृक्षकः कुटजः, कृतवेधनः कोशातकी, अर्कः प्रसिद्धः, कम्पिल्लको रेचनिकः, हस्तिकर्णो महापर्णो ‘भूपलाश’ इत्युच्यते, अन्ये रक्तैरण्डमाहुः, पृथ्वीका कृष्णजीरकः, पीलुः प्रसिद्धः, करञ्जो वृक्षकरञ्जः, इङ्गुदी कण्टकी(क)वृक्षः प्रसिद्धः, अन्ये पुत्रजीवकमाहुः, शिग्रुः शोभाञ्जनफलं, सुवर्चला सूर्यावर्तः, विडङ्गः कृमिहा, ज्योतीष्मति काकमर्दनिका| निम्बतैलं तन्त्रान्तरे पलितहरमुक्तम्, इहापि सामान्येन शिरोरोगापहरत्वेन पलितहरत्वमुच्यते||११५||
Adhikarana १०१ (११६-११९) · Śloka ११९
वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम् | कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरुपित्तलम् ||११६|| कृमिघ्नं सार्षपं तैलं कण्डूकुष्ठापहं लघु | कफमेदोनिलहरं लेखनं कटु दीपनम् ||११७|| कृमिघ्नमिङ्गुदीतैलमीषत्तिक्तं तथा लघु | कुष्ठामयकृमिहरं दृष्टिशुक्रबलापहम् ||११८|| विपाके कटुकं तैलं कौसुम्भं सर्वदोषकृत् | रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च ||११९||
🔊 Audio coming soon
एषु केषाञ्चित् सामान्यगुणाद्विशेषं निर्दिशन्नाह- वातघ्नमित्यादि| क्षौममिति अतसीभवम्||११६-११९||
Adhikarana १०२ (१२०) · Śloka १२०
किराततिक्तकातिमुक्तकबिभीतकनालिकेरकोलाक्षोडजीवन्तीप्रियालकर्बुदार- सूर्यवल्लीत्रपुसैर्वारुककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुरविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्यन्दीनि सृष्टमूत्राण्यग्निसादनानि चेति ||१२०||
🔊 Audio coming soon
कटून्यभिधाय मधुराणि निर्दिशन्नाह- किरातेत्यादि| अतिमुक्तक आवान्तकः, कोलो बदरमज्जा, अक्षोड उत्तरापथे प्रसिद्धः, जीवन्ती स्वर्णजीवन्तीफलं, प्रियालः प्रसिद्धो मधुराम्लफलः, कर्बुदारः काञ्चनारः; सूर्यवल्ली अर्कपुष्पी, ‘सूर्यावर्तभेदः’ इत्यन्ये, सुवर्चलायाः पूर्वमेव पठितत्वात्; त्रपुसं कर्कटीफलं ‘त्रिषुडी’ इति लोके, एर्वारुर्ग्रीष्मकर्कटिका, कर्कारु वाडवं त्रपुसम्| प्रभृतिग्रहणात् कालिङ्गादीनां ग्रहणम्| अग्निसादनानि अग्निमान्द्यकराणि| किराततिक्तकादीनां तिक्तानामपि मधुराणि तैलानि प्रत्यक्षदृष्टत्वात्||१२०||
Adhikarana १०३ (१२१) · Śloka १२१
मधूककाश्मर्यपलाशतैलानि मधुरकषायाणि कफपित्तप्रशमनानि ||१२१||
🔊 Audio coming soon
मधूकादीनां तैलान्याह- मधूकेत्यादि| पलाशः किंशुकः||१२१||
Adhikarana १०४ (१२२) · Śloka १२२
तुवरकभल्लातकतैले उष्णे मधुरकषाये तिक्तानुरसे वातकफकुष्ठमेदोमेहकृमिप्रशमने उभयतोभागदोषहरे च ||१२२||
🔊 Audio coming soon
तुवरकादितैलमाह- तुवरकेत्यादि| तुवरकं पश्चिमार्णवतीरजातमाहुः| तदुक्तं- “पत्रैस्तु केशराकारैः कपित्थसदृशैः फलैः| वृक्षस्तुवरको नाम पश्चिमार्णवतीरजः”- इति| उभयतोभागदोषहरे चेति वमनेन विरेचनेन चेत्यर्थः||१२२||
Adhikarana १०५ (१२३) · Śloka १२३
सरलदेवदारुशिंशपागुरुगण्डीरसारस्नेहास्तिक्तकटुकषाया दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च ||१२३||
🔊 Audio coming soon
सारस्नेहानाह- सरलेत्यादि| सरलादयः प्रसिद्धाः| गण्डीरः सारप्रधानस्तरुविशेषः| सारस्त्वन्तर्गतः प्रधानभूतोऽवयवविशेषः||१२३||
Adhikarana १०६ (१२४) · Śloka १२४
तुम्बीकोशाम्रदन्तीद्रवन्तीश्यामासप्तलानीलिकाकम्पिल्लकशङ्खिनीस्नेहास्तिक्तकटुकषाया अधोभागदोषहराः कृमिकफकुष्ठानिलहरा दुष्टव्रणशोधनाश्च ||१२४||
🔊 Audio coming soon
तुम्ब्यादीनां स्नेहमाह- तुम्बीत्यादि| तुम्बी तिक्तालाबुः, कोशाम्रः ‘कोशम्ब’ इति प्रसिद्धः, दन्ती दन्तिनी, द्रवन्ती शम्बरी, श्यामा वृद्धदारुकः, सप्तला सातलेति प्रसिद्धा, नीलिनी श्रीफलिका, कम्पिल्लकः प्रसिद्धः, शङ्खिनी श्वेतश्रीफलिका, अन्ये यवतिक्ताभेदमाहुः| अधोभागदोषहरा इति विरेचनेन दोषहरा इत्यर्थः||१२४||
Adhikarana १०७ (१२५) · Śloka १२५
यवतिक्तातैलं सर्वदोषप्रशमनमीषत्तिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं च ||१२५||
🔊 Audio coming soon
यवतिक्तातैलमाह- यवतिक्तातैलमित्यादि| यवतिक्ता यवक्षेत्रेषु जायते तिक्तसप्ताष्टपत्रा ‘यवेन्तिका’ इति प्रसिद्धा||१२५||
Adhikarana १०८ (१२६) · Śloka १२६
एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्माभिवर्धनं च ||१२६||
🔊 Audio coming soon
एकैषिकातैलमाह- एकैषिकातैलमित्यादि| एकैषिका अविद्धकरणी ‘पाठा’ इति लोके, त्रिवृदिति जेज्झटः||१२६||
Adhikarana १०९ (१२७) · Śloka १२७
सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं रूक्षं मधुरकषायं रसवन्नातिपित्तकरं च ||१२७||
🔊 Audio coming soon
आम्रतैलमाह- सहकारतैलमित्यादि| सहकारतैलमाम्रतैलम्| तच्च ‘आम्रस्य तरुणफलवृन्तभङ्गमात्रत एव जातम्’ इति गयी, ‘तत्फलमज्जस्नेहः’ इत्यन्ये||१२७||
Adhikarana ११० (१२८) · Śloka १२८
फलोद्भवानि तैलानि यान्युक्तानीह कानिचित् | गुणान् कर्म च विज्ञाय फलानीव विनिर्दिशेत् ||१२८||
🔊 Audio coming soon
फलानामानन्त्यात् फलगुणातिदेशं तैलेऽप्याह- फलोद्भवानीत्यादि| इह जगति| फलानीवेति फलसदृशगुणाः कर्माणि चेत्यर्थः; अथवा इह तैलवर्गे यानि कानिचित् फलोद्भवानि तैलान्युक्तानि तानि तावदुक्तगुणकर्मभ्यामेव ज्ञेयानि, शेषाणि तु फलतैलानि फलस्य गुणान् कर्म च विज्ञाय फलानीव विनिर्दिशेदित्यर्थः| केचित्तु ‘यान्युक्तानीह कानिचित्’ इत्यस्य स्थाने ‘यानीत्युक्तानि कानिचित्’ इति पठन्ति, शेषं च समम्| तच्च सुबोधम्||१२८||
Adhikarana १११ (१२९) · Śloka १२९
यावन्तः स्थावराः स्नेहाः समासात्परिकीर्तिताः | सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ||१२९||
🔊 Audio coming soon
सर्वेषां स्थावराणां स्नेहानां तिलतैलगुणत्वमाह- यावन्त इत्यादि| सर्वे तैलगुणा ज्ञेया इति एतेन तिलतैले ये केचिद्धर्माः यानि च कानिचित् कर्माणि तान्यपरेष्वपि तैलेषु वर्तन्त इत्युक्तं, न तु सर्वे तिलतैलधर्माः सर्वाणि तिलतैलकर्माणि; अन्ये तु गुणशब्देन सर्वसाधारणीं स्निग्धतामाहुः||१२९||
Adhikarana ११२ (१३०) · Śloka १३०
सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते | निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ||१३०||
🔊 Audio coming soon
तिलतैलप्राधान्यकथनद्वारेणेतरेषां तैलानामपि तैलत्वमाह- सर्वेभ्यस्त्वित्यादि| निष्पत्तेरिति यथा तैलं तिलानां निष्पद्यते तथैवैरण्डादितैलमपीति निष्पत्तिसाम्यादित्यर्थः| तद्गुणत्वाच्चेति कैश्चित्तिलतैलकर्मभिः कैश्चित्तिलतैलधर्मैश्च समानत्वात्||१३०||
Adhikarana ११३ (१३१) · Śloka १३१
ग्राम्यानूपौदकानां च वसामेदोमज्जानो गुरूष्णमधुरा वातघ्नाः, जाङ्गलैकशफक्रव्यादादीनां लघुशीतकषाया रक्तपित्तघ्नाः, प्रतुदविष्किराणां श्लेष्मघ्नाः | तत्र घृततैलवसामेदोमज्जानो यथोत्तरं गुरुविपाका वातहराश्च ||१३१|| इति तैलवर्गः |
🔊 Audio coming soon
स्नेहसमानत्वाद्वसादिगुणकर्माह- ग्राम्येत्यादि| ग्राम्या गवोष्ट्रबस्तादयः, आनूपा महिषादयः, औदका मत्स्यादयः| जाङ्गलेत्यादि जाङ्गला एणादयः, एकशफा अश्वादयः, क्रव्यादा व्याघ्रादयः| प्रतुदेत्यादि प्रतुदाः कपोतपारावतादयः, विष्किरा लावादयः||१३१||
Adhikarana ११४ (१३२) · Śloka १३२
अथ मधुवर्गः | मधु तु मधुरं कषायानुरसं रूक्षं शीतमग्निदीपनं वर्ण्यं स्वर्यं लघु सुकुमारं लेखनं हृद्यं वाजीकरणं सन्धानं शोधनं रोपणं(सङ्ग्राहि ) चक्षुष्यं प्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेहहिक्काश्वासकासातिसारच्छर्दितृष्णाकृमिविषप्रशमनं ह्लादि त्रिदोषप्रशमनं च; तत्तु लघुत्वात् कफघ्नं, पैच्छिल्यान्माधुर्यात् कषायभावाच्च वातपित्तघ्नम् ||१३२||
🔊 Audio coming soon
इदानीं मध्वाह, तस्य सामान्यं स्वगुणं निर्दिशन्नाह- मध्वित्यादि| रूक्षदीपनलघुत्वादिगुणयुक्तं पुराणं, नवमेतद्विपरीतमिति| सुकुमारं सौकुमार्यकरम्| लेखनं पत्तलीकरणम्| हृद्यं हृदयप्रियं हितं च| वाजीकरणं शुक्रलम्| सन्धानं भग्नस्य| शोधनं दुष्टव्रणस्य| रोपणं शुद्धव्रणस्य| चक्षुष्यं चक्षुषे हितम्| प्रसादनं चक्षुषोर्देहस्य च| ह्लादि सुखकारि| त्रिदोषशमनमिति यद्यपि शैत्यरौक्ष्यलाघवैर्वातकारित्वं मधुरत्वादिना च कफकारित्वं तथाऽपि द्रव्यगुणोभयप्रभावात्त्रिदोषघ्नत्वम्||१३२||
Adhikarana ११५ (१३३) · Śloka १३३
पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च | आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ||१३३||
🔊 Audio coming soon
तद्भेदानाह- पौत्तिकमित्यादि| पिङ्गला महत्यो मक्षिकाः पुत्तिकाः, तद्भवं पौत्तिकम्; अन्ये ‘मशकोपमा मक्षिकाः कृष्णवर्णाः पुत्तिकाः’ इति वदन्ति| भ्रमराः प्रसिद्धाः, तद्भवं भ्रामरम्| मक्षिकाः पिङ्गला एव स्वल्पाः क्षुद्राः, तद्भवं क्षौद्रम्| पिङ्गलवर्णा महत्यो मक्षिकास्तद्भवं माक्षिकम्; अन्ये ‘अत्यल्पा मक्षिकाः’ इत्याहुः| पीतकपिङ्गला ‘बग’ इति लोके यत् कुर्वन्ति छत्रकाकारं हैमवते वने मालववने च तच्छात्रम्| “मधूकवृक्षपुष्पेभ्यो जरत्कार्वाश्रमोद्भवाः| स्रवन्त्यार्ध्यं मधु प्राहुः श्वेतकं मालवे जनाः|| तीक्ष्णतुण्डास्तु याः पीतवर्णाः षट्पदसन्निभाः| अर्घा नाम च तद्भूतमार्घ्यमित्यपरे जगुः”- इति| उष्णेन सहार्घ्यं न विरुध्यते| यदुक्तं- “मधून्युष्णैर्विरुध्यन्तेऽन्यत्रार्घ्यात्”- इति| उद्दालकाः कपिलकीटाः स्वल्पाः प्रायशो वल्मीकेष्वन्तर्मधु चिन्वन्ति, तद्भवमौद्दालकम्| दालमिति दलं पत्रं, तदुपरिस्थितं दालम्; अन्ये तु कपिला एव स्वल्पतरा मक्षिकाः प्रायेण वृक्षकोटरोद्भवा ‘दला’ इत्युच्यन्ते, तद्भवं दालमिति||१३३||
Adhikarana ११६ (१३४-१३९) · Śloka १४०
विशेषात्पौत्तिकं तेषु रूक्षोष्णं सविषान्वयात् | वातासृक्पित्तकृच्छेदि विदाहि मदकृन्मधु ||१३४|| पैच्छिल्यात् स्वादुभूयस्त्वाद्भ्रामरं गुरुसञ्ज्ञितम् | क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ||१३५|| तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् | श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः ||१३६|| स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित् | श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् ||१३७|| आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् | कषायं कटु पाके च बल्यं तिक्तमवातकृत् ||१३८|| औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम् | कषायमम्लमुष्णं च पित्तकृत् कटुपाकि च ||१३९|| छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम् |१४०|
🔊 Audio coming soon
तेषां प्रत्येकं गुणमाह- विशेषादित्यादि| सविषान्वयादिति सविषपुष्पाहारमक्षिकासम्भत्वात्| छेदि मेदोग्रन्थ्यादीनाम्| मदकृदिति विषान्वयत्वादेव विषमदकृत्||१३४-१३९||-
Adhikarana ११७ (१४०) · Śloka १४१
बृंहणीयं मधु नवं नातिश्लेष्महरं समम् ||१४०|| मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् |१४१|
🔊 Audio coming soon
नवपुराणयोर्गुणमाह- बृंहणीयमित्यादि| आशयाच्च्यावितस्याल्पकालस्थापितत्वेन नवत्वम्, एतद्विपर्ययेण पुराणत्वम्||१४०||-
Adhikarana ११८ (१४१) · Śloka १४१
दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ||१४१||
🔊 Audio coming soon
पक्वामयोर्गुणमाह- दोषत्रयहरमित्यादि| पक्वत्वमग्निसंयोगात्, घनीभावादित्येके; ‘अग्निसंयोगनिषेधान्निन्दितमेतत्, तस्मान्मधुनः कालविशेषस्थित्या परिणामात् पक्वत्वमामत्वं च ज्ञेयम्’ इत्यन्ये||१४१||
Adhikarana ११९ (१४२) · Śloka १४२
तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून् | नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु ||१४२||
🔊 Audio coming soon
अनेककर्मकारिणीं योगवाहितां दर्शयन्नाह- तद्युक्तमित्यादि| योगैरिति औषधसमूहैरित्यर्थः| यादृग्द्रव्येण संयोज्यन्ते तादृक् कर्म कुर्वन्तीति योगवाहित्वं, तेषां मध्ये परमुत्कृष्टं मध्वित्यर्थः||१४२||
Adhikarana १२० (१४३-१४५) · Śloka १४५
तत्तु नानाद्रव्यरसगुणवीर्यविपाकविरुद्धानां पुष्परसानां मक्षिकासम्भवत्वाच्चानुष्णोपचारम् ||१४३|| उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु | उष्णार्तमुष्णैरुष्णे वा तन्निहन्ति यथा विषम् ||१४४|| तत्सौकुमार्याच्च तथैव शैत्यान्नानौषधीनां रससम्भवाच्च | उष्णैर्विरुध्येत विशेषतश्च तथाऽन्तरीक्षेण जलेन चापि ||१४५||
🔊 Audio coming soon
इदानीमुक्तायामपि हिताहितीये प्रक्रमागतायामनुष्णोपचारतायां हेतुं दर्शयन्नाह- तत्त्वित्यादि| तन्मधु अनुष्णोपचारं भवतीति सम्बन्धः| कस्मादित्याह- पुष्परसानां मक्षिकासम्भवत्वात्, किम्भूतानां नानाद्रव्यरसगुणवीर्यविपाकविरुद्धानां; ‘पुष्परसविषमक्षिकासम्भवत्वात्’ इत्यन्ये पठन्ति; पुष्परसविषसञ्चारिण्यो मक्षिकाः पुष्परसविषमक्षिकाः| ‘अनुष्णोपचारं योगवाहि च’ इति केचिद्द्वयं पठन्ति; तन्न, पूर्वमुक्तत्वाद्योगवाहितायाः| (मक्षिका हि पुष्परससञ्चारिण्यस्तत्सम्भवं मध्वपि वीर्येणोष्णं भवति, तस्मान्मधूष्णद्रव्येण नोपचर्यते युज्यते, उष्णेन सह विरुद्धत्वाद् विषवदिति भावः|) उष्णेन सह विरोधे हेतुमाह- उष्णैरित्यादि| उष्णैरिति उष्णस्पर्शैः, न तूष्णवीर्यैः| विषान्वयतया विषाहारमक्षिकाप्रसवतया| उष्णार्तं घर्मपीडितम्| उष्णैर्द्रव्यैः सह| उष्णे देशे काले वा| उक्तमेव सुखबोधनार्थमाह- तदित्यादि| सुकुमारं ह्युष्णेन विरुध्यते; यथा नवनीतस्त्यानघृतजलकुसुमानि| शीतस्यापि स्वभावतः शीतेनापि केनचिद्विरोधमाह- तथाऽन्तरीक्षेण जलेन चापि; खजलेन स्वभावतः; अपिशब्दादार्घ्यमुष्णेन सह न विरुध्यते||१४३-१४५||
Adhikarana १२१ (१४६) · Śloka १४६
उष्णेन मधु संयुक्तं वमनेष्ववचारितम् | अपाकादनवस्थानान्न विरुध्येत पूर्ववत् ||१४६||
🔊 Audio coming soon
वमनविषये उष्णेनाप्यविरोधमाह- उष्णेनेत्यादि| यद्यपि वमने उष्णस्य मधुना विरोधो नोक्तः, तथाऽपि वृद्धा न प्रयुञ्जते वमनस्याधोगतिभयात्||१४६||
Adhikarana १२२ (१४७) · Śloka १४७
मध्वामात्परतस्त्वन्यदामं कष्टं न विद्यते | विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् ||१४७|| इति मधुवर्गः |
🔊 Audio coming soon
अन्येभ्योऽजीर्णेभ्यः सकाशान्मध्वजीर्णं कष्टावहमित्याह- मध्वित्यादि| मध्वामं मध्वजीर्णम्| परत ऊर्ध्वम्| आमस्य स्वेदोष्णोदकादय उपक्रमाः, ते चोष्णत्वान्मधुनो विरुद्धाः| सर्वं प्राणिनम्||१४७||
Adhikarana १२३ (१४८-१४९) · Śloka १५०
अथेक्षुवर्गः | इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति | ते चानेकविधाः | तद्यथा- ||१४८|| पौण्ड्रको भीरुकश्चैव वंशकः श्वेतपोरकः | कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ||१४९|| नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् | इत्येता जातयः स्थौल्याद्, ... |१५०|
🔊 Audio coming soon
अथेक्षूणां सामान्यं गुणमाह- इक्षव इत्यादि| इतिशब्दः प्रकारवाची, तेन भोरदशतपत्रपाण्डुकवेत्रकोद्रवकचणिप्रभृतयो बह्वयो जातयो गृह्यन्ते| स्थौल्यादिति स्थौल्यात् सामान्यादेव द्वादशजातयो भवन्तीत्यर्थः||१४८-१४९||-
Adhikarana १२४ (१५०-१५४) · Śloka १५५
... गुणान् वक्ष्याम्यतः परम् ||१५०|| सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः | अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ||१५१|| आभ्यां तुल्यगुणः किञ्चित्सक्षारो वंशको मतः | वंशवच्छ्वेतपोरस्तु किञ्चिदुष्णः स वातहा ||१५२|| कान्तारतापसाविक्षू वंशकानुगतौ मतौ | एवङ्गुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः ||१५३|| सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः | वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ||१५४|| कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः |१५५|
🔊 Audio coming soon
गुणानित्यादि||१५०-१५४||-
Adhikarana १२५ (१५५) · Śloka १५६
अतीव मधुरो मूले मध्ये मधुर एव तु ||१५५|| अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ||१५६||
🔊 Audio coming soon
तेषामवयवविशेषेण गुणविशेषमाह- अतीवेत्यादि| अग्रेष्वक्षिषु विज्ञेय इति इक्षूणामक्षीणि पर्वसन्धिषु प्ररोहजननसमर्था अङ्कुराः| अन्ये ‘त्वक्षु च’ इति पठन्ति, त्वक्षु वल्कलेषु||१५५||-
Adhikarana १२६ (१५७) · Śloka १५७
अविदाही कफकरो वातपित्तनिवारणः | वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ||१५७||
🔊 Audio coming soon
दन्तनिष्पीडितेक्षुरसस्य गुणमाह- अविदाहीत्यादि|- बृहल्लघुपञ्जिकयोः; जेज्झटस्तु- “कफकृच्चाविदाही च रक्तपित्तनिबर्हणः| शर्करासमवीर्यस्तु दन्तनिष्पीडितो रसः”- इति पठति| शर्करासमवीर्य इत्यत्र वीर्यशब्दः शक्तयभिधायकः, नतु शीतादिवीर्यवाचकः| कस्मादविदाही? उच्यते- बहिरस्थायित्वेन वातातपाद्यनुपहतत्वात्||१५७||
Adhikarana १२७ (१५८) · Śloka १५८
गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः |१५८|
🔊 Audio coming soon
यन्त्रपीडितेक्षुरसस्य गुणमाह- गुरुरित्यादि| यन्त्रपीडितस्य बहिश्चिरस्थित्या वातातपादिसंयोगे त्वगादिभिः सह पीडनाच्च गुरुत्वादयो भवन्ति| गुरुत्वं चिरपाकित्वम्| विदाहीति “द्रव्यस्वभावादय गौरवाद्वा चिरेण पाकं जठराग्नियोगात्| पित्तप्रकोपं विदहत् करोति तदन्नपानं कथितं विदाहि”- इति| विष्टम्भो गुडगुडाशब्दः, अन्ये तु सवाततोदशूला मलस्याप्रवृत्तिर्विष्टम्भः|१५८|
Adhikarana १२८ (१५८) · Śloka १५८
पक्वो गुरुः सरः स्निग्धः सतीक्ष्णः कफवातनुत् ||१५८||
🔊 Audio coming soon
तस्याग्निपक्वस्य गुणमाह- पक्व इत्यादि||१५८||
Adhikarana १२९ (१५९) · Śloka १५९
फाणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च ||१५९||
🔊 Audio coming soon
फाणितस्य गुणमाह- फाणितमित्यादि| फाणितं क्षुद्रगुडः ‘काकवी’ इति लोके| अस्य त्रिदोषकरत्वं प्रभावात्||१५९||
Adhikarana १३० (१६०) · Śloka १६०
गुडः सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नातिपित्तजिद्वातघ्नो मेदःकृमिकफकरो बल्यो वृष्यश्च ||१६०||
🔊 Audio coming soon
तस्यैव पाकादतिघनभावं गतस्य गुडसञ्ज्ञा, तमाह- गुड इत्यादि| सक्षार ईषत्क्षारः| एतेऽनिर्मलगुडगुणाः||१६०||
Adhikarana १३१ (१६१) · Śloka १६१
पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः |१६१|
🔊 Audio coming soon
निर्मलगुडस्य गुणमाह- पित्तघ्न इत्यादि| शुद्धो निर्मलो धवल इत्यर्थः|१६१|
Adhikarana १३२ (१६१) · Śloka १६१
सपुराणोऽधिकगुणो गुडः पथ्यतमः स्मृतः ||१६१||
🔊 Audio coming soon
पुराणस्य गुडस्य गुणमाह- सेत्यादि| सपुराण ईषत्पुराणः||१६१||
Adhikarana १३३ (१६२) · Śloka १६२
मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च ||१६२||
🔊 Audio coming soon
तस्य गुडस्य संस्कारविशेषेण नामान्तरं गुणान्तरं चाह- मत्स्यण्डिकेत्यादि| मत्स्यण्डिका द्रवखण्डः ‘खण्डद्रव’ इति लोके; खण्डः प्रसिद्धः; शर्करा सितोपला ‘तवराज’ इति लोके| गुडान्मत्स्यण्डिका ततः खण्डस्ततः शर्करेति वैमल्योत्कर्षे शैत्यादिप्रकर्ष इत्यर्थः||१६२||
Adhikarana १३४ (१६३) · Śloka १६३
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा | स्नेहगौरवशैत्यानि सरत्वं च तथा तथा ||१६३||
🔊 Audio coming soon
पूर्वोक्तमेव स्पष्टयति- यथेत्यादि| एषामिक्षुविकाराणाम्| गौरवं वातपित्तहारित्वं, गौरवं मधुरविपाकित्वमित्यन्ये| अन्ये तु ‘स्नेहलाघवशैत्यानि’ इति पठन्ति||१६३||
Adhikarana १३५ (१६४) · Śloka १६४
यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः | तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः ||१६४||
🔊 Audio coming soon
मत्स्यण्डिकादीनां करणेऽपनीयमानस्य मलस्य गुणमाह- यो य इत्यादि| स्वको गुणः शीतादिरित्यर्थः| तेन तेनैव स्वकीयेन स्वकीयेनैव गुणेन| को निर्देश्य इत्याह- तेषां विस्रावणो गुण इति; निर्देश्यः कथनीयः| गुणः समलक्षारोऽवयवविशेषः| कथं समलक्षारो गुणः कथ्यते? उच्यते- यो यत्सम्बन्धी भवति स तु तद्गुण एव , तत्सम्भूतत्वात्||१६४||
Adhikarana १३६ (१६५) · Śloka १६५
सारस्थिता सुविमला निःक्षारा च यथा यथा | तथा गुणवती सर्वा विज्ञेया शर्करा बुधैः ||१६५||
🔊 Audio coming soon
शर्कराया उत्कर्षमाह- सारेत्यादि||१६५||
Adhikarana १३७ (१६६) · Śloka १६६
मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रसादनी कषायमधुरा मधुरविपाका च ||१६६||
🔊 Audio coming soon
मधुशर्करागुणमाह- मधुशर्करेत्यादि| पाकात् कालान्तरशोषणाद्वा घनीभूतावयवं मधु शर्करातुल्यत्वात् ‘मधुशर्करा’ इत्युच्यते| छेदनी कफादीनां पिण्डीभूतानां भेदकारिणी||१६६||
Adhikarana १३८ (१६७) · Śloka १६७
यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति ||१६७||
🔊 Audio coming soon
यवासशर्करागुणमाह- यवासशर्करेत्यादि| यवासक्वाथपाकघनीभावाच्छर्करा कृता यवासशर्करा||१६७||
Adhikarana १३९ (१६८) · Śloka १६८
यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः | रक्तपित्तप्रशमनाश्छर्दिमूर्च्छातृषापहाः ||१६८||
🔊 Audio coming soon
अवशिष्टशर्करागुणमाह- यावत्य इत्यादि||१६८||
Adhikarana १४० (१६९) · Śloka १६९
रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत् | कफघ्नं मधुरं पाके कषायं बस्तिदूषणम् ||१६९|| इतीक्षुवर्गः |
🔊 Audio coming soon
मधूकपुष्पोत्थफाणितस्य गुणमाह- रूक्षमित्यादि| बस्तिदूषणमिति मूत्राशये वातादिप्रकोपकारि||१६९||
Adhikarana १४१ (१७०) · Śloka १७१
अथ मद्यवर्गः | सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम् | भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ||१७०|| पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम् | विकासि सृष्टविण्मूत्रं... |१७१|
🔊 Audio coming soon
अथ मद्यानि गुणकर्मभ्यां निर्दिशन्नाह- सर्वमित्यादि| सर्वं पैष्टिकं मार्द्वीकं गौडं च त्रिविधं हि मद्यम्| अम्लमिति लवणवर्ज्यं पञ्चरसत्वेऽप्यम्लस्योत्कटत्वादम्लकार्यकारित्वाच्चाम्लमित्युक्तम्| इन्द्रियबोधनम् इन्द्रियपाटवकरम्| विकासि सन्धिबन्धविमोचकम्| सृष्टविण्मूत्रं विष्ठामूत्रप्रवर्तकम्| एते सर्वमद्यगुणाः||१७०||-
Adhikarana १४२ (१७१-१७३) · Śloka १७३
... शृणु तस्य विशेषणम् ||१७१|| मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा | रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते ||१७२|| मधुरं तद्धि रूक्षं च कषायानुरसं लघु | लघुपाकि सरं शोषविषमज्वरनाशनम् ||१७३||
🔊 Audio coming soon
मार्द्वीकमाह- मार्द्वीकमित्यादि| मार्द्वीकमविदाहित्वादिति मार्द्वीकं द्राक्षोद्भवम्| मधुरान्वयतो मधुरद्रव्यप्रभवत्वात्||१७१-१७३||
Adhikarana १४३ (१७४) · Śloka १७५
मार्द्वीकाल्पान्तरं किञ्चित् खार्जूरं वातकोपनम् | तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु ||१७४|| कषायमधुरं हृद्यं सुगन्धीन्द्रियबोधनम् |१७५|
🔊 Audio coming soon
खार्जूरमाह- मार्द्वीकेत्यादि| अल्पान्तरं स्तोकभेदम्| कर्शनं कार्श्यकरम्||१७४||-
Adhikarana १४४ (१७५) · Śloka १७६
कासार्शोग्रहणीदोषमूत्राघातानिलापहा ||१७५|| स्तन्यरक्तक्षयहिता सुरा बृंहणदीपनी |१७६|
🔊 Audio coming soon
सुरागुणमाह- कासार्श इत्यादि| सुरा लोहितवर्णा पिष्टकिण्वकल्केन किञ्चित्कलुषा| एते सर्वसुरागुणाः||१७५||-
Adhikarana १४५ (१७६) · Śloka १७७
कासार्शोग्रहणीश्वासप्रतिश्यायविनाशनी ||१७६|| श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा |१७७|
🔊 Audio coming soon
श्वेतसुरागुणमाह- कासार्श इत्यादि| श्वेतसुरा श्वेतपुनर्नवादिमूलशालिपिष्टककिण्वप्रभवा ‘कतोली’ इत प्रसिद्धा||१७६||-
Adhikarana १४६ (१७७) · Śloka १७८
छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दनी ||१७७|| प्रसन्ना कफवातार्शोविबन्धानाहनाशनी |१७८|
🔊 Audio coming soon
प्रसन्नागुणमाह- छर्दीत्यादि| तोदः पीडा, शूलं द्वादशप्रकारमुक्तलक्षणम्| प्रसन्ना सुराया मण्ड उपर्यच्छो भागः| विबन्धो वातादीनामप्रवृत्तिः| आनाह उदरापूरः||१७७||-
Adhikarana १४७ (१७८) · Śloka १७९
पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपणी |१७८| विष्टम्भिनी सुरा गुर्वी... ||१७९||
🔊 Audio coming soon
पिष्टसुरां कथयित्वा कुधान्यसुरामाह- पित्तलेत्यादि| यवैरिति बहुवचनाद्यवयविकातियवा गृह्यन्ते| सवाततोदशूला मलस्याप्रवृत्तिर्विष्टम्भः, अन्ये गुडगुडाशब्दमाहुः| यवकिण्वेन सुरेयम्||१७८||-
Adhikarana १४८ (१७८) · Śloka १७८
... श्लेष्मलं तु मधूलकम् ||१७८||
🔊 Audio coming soon
मधूलकमाह- श्लेष्मलं तु मधूलकमिति| मधूलकः स्वल्पगोधूमो मध्यदेशे ‘पीशीका’ इति ख्याताः, मर्कटहस्ततृणं वा, तत्फलकिण्वं मधूलकम्; ‘असञ्जातमद्यं मधूकपुष्पोत्थम्’ इति जेज्झटः||१७८||
Adhikarana १४९ (१७९) · Śloka १७९
रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता ||१७९||
🔊 Audio coming soon
आक्षिकीं सुरामाह- रूक्षेत्यदि| अक्षस्य बिभीतकस्य वल्कलैः सह कृता आक्षिकी; ‘वल्किकी’ इति केचित्, अत्रापि स एवार्थः||१७९||
Adhikarana १५० (१८०) · Śloka १८०
त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः |१८०|
🔊 Audio coming soon
कोहलगुणमाह- त्रिदोष इत्यादि| यवसक्तुकृतः कोहलः ‘कौहलिका’ इति लोके, अन्ये पुनर्भक्तसुरामाहुः, यामेव पौण्ड्राः ‘काञ्चनाली’ इत्याहुः|१८०| -
Adhikarana १५१ (१८०) · Śloka १८१
ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् ||१८०|| हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत् |१८१|
🔊 Audio coming soon
जगलगुणमाह- ग्राहीत्यादि| जगलोऽधः किट्टं मद्यस्य यो बहिस्त्यज्यते| अन्ये ‘किण्वभक्तसुरा जगलमित्युच्यते’| शोफहा लेपेन| शोषः क्षयः||१८०||-
Adhikarana १५२ (१८१) · Śloka १८२
बक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः ||१८१|| दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः |१८२|
🔊 Audio coming soon
बक्कसगुणमाह- बक्कस इत्यादि| बक्कसो जगल एवाद्रवः किण्वौषधमात्रम्||१८१||-
Adhikarana १५३ (१८२) · Śloka १८२
कषायो मधुरः शीधुर्गौडः पाचनदीपनः ||१८२||
🔊 Audio coming soon
गुडशीधुमाह- कषाय इत्यादि| शीधुः सस्यक इक्षुरसेन क्वथितेन धातक्यादिबद्धपाशः कालान्तरेण निष्पन्नः किञ्चिद्गुडघृतावापः सस्यकवाच्यः||१८२||
Adhikarana १५४ (१८३) · Śloka १८३
शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः | वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः ||१८३||
🔊 Audio coming soon
शार्करशीधुमाह- शार्कर इत्यादि| गुडशर्करया खण्डशर्करया वा क्रियत इति शार्करशीधुः| इन्द्रियबोधनः इन्द्रियपाटवजनकः||१८३||
Adhikarana १५५ (१८४) · Śloka १८४
तद्वत् पक्वरसः शीधुर्बलवर्णकरः सरः | शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः ||१८४||
🔊 Audio coming soon
पक्वरसशीधुमाह- तद्वदित्यादि| तद्वत् शार्करवत्| पक्वरसः पक्वेनेक्षुरसादिना कृतः||१८४||
Adhikarana १५६ (१८५) · Śloka १८५
कर्शनः शीतरसिकः श्वयथूदरनाशनः | वर्णकृज्जरणः स्वर्यो विबन्धघ्नोऽर्शसां हितः ||१८५||
🔊 Audio coming soon
अपक्वरसशीधुगुणमाह- कर्शन इत्यादि| शीतरसिकस्त्वपक्वरसकृतः| जरणोऽन्नादिपरिणामकारी||१८५||
Adhikarana १५७ (१८६) · Śloka १८६
आक्षिकः पाण्डुरोगघ्नो व्रण्यः सङ्ग्राहको लघुः | कषायमधुरः सीधुः पित्तघ्नोऽसृक्प्रसादनः ||१८६||
🔊 Audio coming soon
आक्षिकशीधुमाह- आक्षिक इत्यादि| बिभीतकक्वाथगुडकृतो धातकीकुसुमादिकृतसंस्कारः शीधराक्षिकः| द्रव्यप्रभावादपरमद्यापेक्षया प्रायशः पाण्डुरोगे व्रणे चाविरुद्धाः; ग्राहित्वमप्येवं वाच्यम्||१८६||
Adhikarana १५८ (१८७) · Śloka १८७
जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः |१८७|
🔊 Audio coming soon
जाम्बवशीधुमाह- जाम्बव इत्यादि| जम्बूफलरसतुम्बरुक्वाथगुडधातक्यादिकृतसंस्कारो जाम्बवः शीधुरुक्तः| बद्धनिस्यन्दो बद्धमूत्रः| तुवरः कषायः|१८७|
Adhikarana १५९ (१८७) · Śloka १८८
तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ||१८७|| मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः |१८८|
🔊 Audio coming soon
आसवमाह- तीक्ष्ण इत्यादि| सुरासवः सुरया सूयते तोयकार्यं क्रियते यस्मिन् सः सुरासवः| सः स्थिरमदश्चिरकालमत्तताकारी||१८७||-
Adhikarana १६० (१८८) · Śloka १८९
लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ||१८८|| तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् |१८९|
🔊 Audio coming soon
मध्वासवमाह- लघुरित्यादि| मध्वासवो मधुगुडाभ्यां सन्धानम्||१८८||-
Adhikarana १६१ (१८९) · Śloka १९०
तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् ||१८९|| कृमिमेदोनिलहरो मैरेयो मधुरो गुरुः |१९०|
🔊 Audio coming soon
मैरेयसञ्ज्ञकत्रियोनिमासवमाह- तीक्ष्ण इत्यादि| तत्र मैरेयो नाम सुरासवयोः प्रत्येकनिष्पादितयोरेकीकृत्य पुनः सन्धानान्मैरेयः| सुरा पैष्टी, आसवश्च गुडयोनिः, मधु च देयमिति त्रियोनित्वम्| यदि वा पैष्टी मध्वासवो गुडश्चेति सन्धानात्त्रियोनित्वेन मैरेयो द्विविधो भवति||१८९||-
Adhikarana १६२ (१९०) · Śloka १९०
बल्यः पित्तहरो वर्ण्यो हृद्यश्चेक्षुरसासवः ||१९०||
🔊 Audio coming soon
इक्षुरसासवमाह- बल्य इत्यादि| ‘मृद्वीकेक्षुरसासवः’ इति द्वयमन्ये पठन्ति| मार्द्वीकं मद्यमुक्तम्, अयं त्वासवः||१९०||
Adhikarana १६३ (१९१) · Śloka १९१
शीधुर्मधूकपुष्पोत्थो विहाह्यग्निबलप्रदः | रूक्षः कषायः कफहृद्वातपित्तप्रकोपणः ||१९१||
🔊 Audio coming soon
पुष्पयोनिं शीधुमाह- शीधुरित्यादि| अत्र मधूकपुष्पोत्थे केचिद्गुडं नेच्छन्ति, शीधुत्वाद्गुडमिच्छन्त्यन्ये||१९१||
Adhikarana १६४ (१९२) · Śloka १९२
निर्दिशेद्रसतश्चान्यान् कन्दमूलफलासवान् |१९२|
🔊 Audio coming soon
अनुक्तसङ्ग्रहायाह- निर्दिशेदित्यादि| कन्दाद्युपलक्षणं, तेन काण्डत्वगासवा अपि गृह्यन्ते|१९२|
Adhikarana १६५ (१९२) · Śloka १९३
नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् ||१९२|| अनिष्टगन्धि विरसमहृद्यं च विदाहि च |१९३|
🔊 Audio coming soon
नवमद्यस्य दोषमाह- नवमित्यादि| नवत्वमजातरसप्रसादत्वेन, अन्ये तु ‘अनतीतसंवत्सरं नवम्’ इत्याहुः||१९२||-
Adhikarana १६६ (१९३) · Śloka १९४
सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ||१९३|| स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम् |१९४|
🔊 Audio coming soon
जीर्णस्य गुणमाह- सुगन्धीत्यादि| रोचिष्णु साधु रोचते, तृप्तस्यापि रुचिकरम्| पुराणत्वं जातरसप्रसादनत्वेन गन्धादिसम्पत्त्या; ‘अतीतसंवत्सरं जीर्णम्’ इत्यन्ये वदन्ति||१९३||-
Adhikarana १६७ (१९४-१९५) · Śloka १९६
अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ||१९४|| बहुदोषहरश्चैव दोषाणां शमनश्च सः | दीपनः कफवातघ्नः सरः पित्ताविरोधनः ||१९५|| शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः |१९६|
🔊 Audio coming soon
आसवप्रसङ्गेन तत्सदृशारिष्टगुणमाह- अरिष्ट इत्यादि| द्रव्यसंयोगः अभयाचित्रकादिसंयोगः| संस्काराच्च मद्यादधिककर्मता| बहुदोषहरश्चैवेति दोषशब्दो व्याधिवाची| दोषाणां शमन इत्यस्य भाष्यं- कफवातघ्न इति| पित्ताविरोधन इति नञीषदर्थे, तेनेषत् पित्तं हन्तीति मन्यते| बहुव्याधिहर इत्येतस्य तु भाष्यं- शूलाध्मानोदरादीनां हित इति; शूलादिके हित इत्यर्थः, अन्ये ‘कफवातघ्नत्वं विशेषतः’ इत्याहुः||१९४-१९५||-
Adhikarana १६८ (१९६) · Śloka १९६
पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः ||१९६||
🔊 Audio coming soon
पिप्पल्याद्यरिष्टमाह- पिप्पल्यादीत्यादि||१९६||
Adhikarana १६९ (१९७) · Śloka १९७
चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक् |१९७|
🔊 Audio coming soon
शेषारिष्टानां स्थानमाह- चिकित्सितेष्वित्यादि|१९७|
Adhikarana १७० (१९७) · Śloka १९८
अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् ||१९७|| बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् |१९८|
🔊 Audio coming soon
अनुक्तसङ्ग्रहमाह- अरिष्टासवेत्यादि| शीधुशब्देनात्र मद्यमाहुः| द्रव्यप्रधानमरिष्टं, द्रवप्रधान आसवः, उभयप्रधानं मद्यम्| बुद्ध्या अवेक्ष्य ज्ञात्वा, यथास्वमिति यद्यस्य रोगाद्यपेक्षया हितं द्रव्यसंस्कारादि एतेनारिष्टादि विधीयते , अतस्तदनुरूपं गुणकर्म वाच्यमित्यर्थः||१९७||-
Adhikarana १७१ (१९८-२०२) · Śloka २०३
सान्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु ||१९८|| अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् | अल्पौषधं पर्युषितमत्यच्छं पिच्छिलं च यत् ||१९९|| तद्वर्ज्यं सर्वथा मद्यं किञ्चिच्छेषं तु यद्भवेत् | तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु ||२००|| कफप्रकोपि तन्मद्यं दुर्जरं च विशेषतः | पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च ||२०१|| अहृद्यं पेलवं पूति कृमिलं विरसं च यत् | तथा पर्युषितं चापि विद्यादनिलकोपनम् ||२०२|| सर्वदोषैरुपेतं तु सर्वदोषप्रकोपणम् |२०३|
🔊 Audio coming soon
मद्यदोषानाह- सान्द्रमित्यादि| सान्द्रं घनम्| विदाहोऽस्यास्तीति विदाहि “जठराग्निसंयोगाद्यः पाकमगच्छन् मध्यमायामेव पाकावस्थायां विदह्यमानः पित्तं कुर्वंश्चिरकालमवतिष्ठते न शीघ्रं जरां याति गुरुत्वाद्वस्तुस्वभावाद्वा स विदाहयुक्तो भावो भण्यते” इत्यागमिकाः; अन्ये ‘विदाहि विविधसन्तापकारि’ इत्याहुः| दुर्गन्धं कुत्सितगन्धम्| विरसं विरुद्धरसमनिष्टरसमित्यर्थः| कृमिलं कृमियुक्तम्| गुरु चिरपाकि| अहृद्यम् अप्रियम्| तरुणं नवम्| तीक्ष्णं मुखे दुःखोत्पादकम्| उष्णं स्पर्शतः| दुर्भाजनस्थितं कुत्सितपात्रस्थम्| अल्पौषधं स्तोकधातक्यादिकम्| पर्युषितं सन्धानभाण्डादन्यस्मिन् भाण्डे रात्र्युषितम्| अत्यच्छम् अतितनु| पिच्छिलं श्लेष्मस्पर्शवत्| सर्वथा सर्वैः प्रकारैः| स्तोकसम्भारादिदोषफलमाह- तत्रेत्यादि| स्तोकसम्भारम् अल्पौषधम्| पेलवम् अच्छम्, अन्ये तरुणमाहुः| सर्वदोषैरिति सर्वदोषैः सान्द्रादिभिः||१९८-२०२||-
Adhikarana १७२ (२०३) · Śloka २०४
चिरस्थितं जातरसं दीपनं कफवातजित् ||२०३|| रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् |२०४|
🔊 Audio coming soon
दोषानभिधायेदानीं मद्यस्य गुणानाह- चिरस्थितमित्यादि| प्रसन्नं निर्मलम्| सुरभि सुगन्धि| मदावहं हर्षकारि| पूर्वदोषान्वितं वर्ज्यम्; एतद्गुणान्वितं सेव्यम्||२०३||-
Adhikarana १७३ (२०४-२०५) · Śloka २०५
तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः ||२०४|| सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम् | विचाल्येन्द्रियचेतांसि वीर्यं मदयतेऽचिरात् ||२०५||
🔊 Audio coming soon
इदानीं यथा मद्यं मदयति तदाह- तस्येत्यादि| तस्य एवंविधस्य मद्यस्य, वीर्यं शक्तिः, हृदयं प्राप्याचिरेण मदयति हर्षयतीति सम्बन्धः| अनेकप्रकारत्वं मृद्वीकादियोनिभेदेन, तथा रसवीर्यतश्च; रसा लवणवर्ज्याः, वीर्यमुष्णरूक्षादि| कथं मदयतीत्याह- विचाल्येन्द्रियचेतांसीति; विचाल्य क्षोभयित्वा , इन्द्रियाणि चक्षुरादीनि, चेतो मनः| किंविशिष्टं वीर्यं? धमनीरूर्ध्वमागतमिति| कथं पुनरस्य धमनीभिरूर्ध्वगमनं भवतीत्याह- वह्निना समेत्य मिलित्वा, स्वभावेनैव वह्नेरूर्ध्वगामित्वात्| कथं पुनस्तन्मद्यवीर्यं सूक्ष्माणीन्द्रियचेतांसि मदयतीत्याह- सौक्ष्म्यादिति| ऊर्ध्वगामित्वे द्वितीयं हेतुमाह- औष्ण्यादिति| आग्नेयद्रव्यस्य स्वभावेनैवोर्ध्वगामित्वात्| कुतः पुनरचिरेण मद्यवीर्यं मदयतीत्याह- तैक्ष्ण्यादिति| तीक्ष्णं हि द्रव्यमचिरकारि भवति| मद्यवीर्यस्याचिरकारित्वेऽपरमपि हेतुमाह- विकासित्वादिति|- विकासि सन्धिबन्धविमोचनकारि| चकारेणानुक्तमपि लाघवमूर्ध्वगमने हेतुः समुच्चीयते||२०४-२०५||-
Adhikarana १७४ (२०६) · Śloka २०६
चिरेण श्लैष्मिके पुंसि पानतो जायते मदः | अचिराद्वातिके दृष्टः, पैत्तिके शीघ्रमेव च ||२०६||
🔊 Audio coming soon
शारीरदोषेण मदभेदमाह- चिरेणेत्यादि| श्लैष्मिके श्लेष्मप्रकृतिके| वातिके वातप्रकृतिके| पैत्तिके पित्तप्रकृतिके| शीघ्रमेव चेति चकारात्तीक्ष्णश्च||२०६||
Adhikarana १७५ (२०७-२०९) · Śloka २०९
सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः | गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः ||२०७|| राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् | कलहं सानुबन्धं तु करोति पुरुषे मदः ||२०८|| अशौचनिद्रामात्सर्यागम्यागमनलोलताः | असत्यभाषणं चापि कुर्याद्धि तामसे मदः ||२०९||
🔊 Audio coming soon
मानसदोषेण मदभेदमाह- सात्त्विक इत्यादि| सात्त्विके सत्त्वप्रकृतिके| दाक्षिण्यं परापेक्षिणी प्रकृतिः| लालसः अभिलाषुकः| सुरतोत्साहो मैथुनोद्यमः| राजसे रजःप्रकृतिके| दुःखशीलत्वं दुःखसेवित्वम्| आत्मत्यागं ससाहसं देहनाशकारि साहसम्| अनुबन्धं निरन्तरम्| मद्यकार्यो मदो मत्ततेत्यर्थः| अशौचेत्यादि| तामसे तामसप्रकृतिके| मात्सर्यं परासहिष्णुता, लोलता अभिलाषः||२०७-२०९||
Adhikarana १७६ (२१०) · Śloka २११
रक्तपित्तकरं शुक्तं छेदनं भुक्तपाचनम् | वैस्वर्यं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु ||२१०|| तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटुपाकि च |२११|
🔊 Audio coming soon
शुक्तादिकर्माणि दर्शयन्नाह- रक्तपित्तकरमित्यादि| शुक्तं चुक्रमुच्यते; यदुक्तं- “यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम्| धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते” इति; तच्चेक्षुरसमधूकपुष्पपीलुप्रभृतिभिः कषायव्यतिरेकेणासूयते, कन्दाद्यासुतमपि शुक्तमाहुरन्ये| छेदनं कफग्रन्थ्यादीनाम्| वैस्वर्यं विस्वरत्वोत्पादकम्| जरणमामस्य| श्लेष्मपाण्डुः श्लेष्मोत्कटः पाण्डुरोग इत्यर्थः||२१०||-
Adhikarana १७७ (२११) · Śloka २११
तद्वत्तदासुतं सर्वं रोचनं च विशेषतः ||२११||
🔊 Audio coming soon
शुक्तसन्धितानां कन्दादीनामपि शुक्तगुणमाह- तद्वदित्यादि| तद्वत् शुक्तवत्| तदासुतं शुक्तसन्धितं कन्दादिकम्||२११||
Adhikarana १७८ (२१२) · Śloka २१२
गौडानि रसशुक्तानि मधुशुक्तानि यानि च | यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ||२१२||
🔊 Audio coming soon
शुक्तस्य योनिभेदेन गुणमाह- गौडानीत्यादि| गौडानि गुडोद्भवानि; “गुडाम्बुना सतैलेन सन्धानं काञ्जिकं तु यत्| कन्दशाकफलैर्युक्तं गुडशुक्तं तदुच्यते”- इति| रसशुक्तानि इक्षुरसादिकृतानि| गुडशुक्तवदिक्षुरसशुक्तं सन्धेयम्| मधुशुक्तं तु “जम्बीरस्य फलरसं पिप्पलीमूलसंयुतम्| मधुभाण्डे विनिक्षिप्य धान्यराशौ निधापयेत्|| त्र्यहेण तज्जातरसं मधुशुक्तमुदाहृतम्|”- इति| (मधुभाण्डे इति मधुपूर्णप्राये भाण्डे इत्यर्थः; अथवा मधूनि कृत्वा भाण्डे निक्षिप्येति योज्यम्|) मद्यशुक्तमिति पाठान्तरं; तत्र मद्यशुक्तलक्षणमुच्यते- “सर्वं मद्यं पञ्चरसं कालान्तरवशाद्यदा| त्यक्त्वाऽन्यरसमम्लत्वं याति शुक्तं तदुच्यते” इति| चकारेण धान्ययोनिशुक्तमप्यस्तीति समुच्चीयते| यथापूर्वं यो यः पूर्वः; मद्यशुक्तापेक्षया रसशुक्तं गुरु, तदपेक्षया गौडमित्यर्थः| दोषधातुमलस्रोतसां क्लेदप्राप्तिजननमभिष्यन्दि||२१२||
Adhikarana १७९ (२१३) · Śloka २१३
तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् | ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं तथा ||२१३||
🔊 Audio coming soon
तुषाम्बुसौवीरकयोर्गुणमाह- तुषाम्ब्वित्यादि| काञ्जिकभेदावेतौ| तुषाम्बुसौवीरके विरेचनाध्यायोक्ते अपि सन्धानसामान्यादधिकगुणकर्मदर्शनायेहोक्ते||२१३||
Adhikarana १८० (२१४-२१६) · Śloka २१६
धान्याम्लं धान्ययोनित्वाज्जीवनं दाहनाशनम् | स्पर्शात् पानात्तु पवनकफतृष्णाहरं लघु ||२१४|| तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् | मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम् ||२१५|| दीपनं जरणं भेदि हितमास्थापनेषु च | समुद्रमाश्रितानां च जनानां सात्म्यमुच्यते ||२१६|| इति मध्यवर्गः |
🔊 Audio coming soon
धान्याम्लमाह- धान्याम्लमित्यादि| धान्याम्लं काञ्जिकं शालिजूर्णाह्वकोद्रवादिकृतं मद्यम्| जीवनं प्राणधारणं शाल्या दिकृतत्वात्| दाहनाशनं स्पर्शात्| पानात्तु पवनकफतृष्णाहरमिति पानात् सवायुं कफं, तयोस्तृष्णां च हरतीत्यर्थः| शोषो मुखस्य| जरणं पाचनम्| आस्थापनेषु निरूहेषु||२१४-२१६||
Adhikarana १८१ (२१७-२१९) · Śloka २१९
अथ मूत्राणि | मूत्राणि गोमहिष्यजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णानि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमिमेदोविषगुल्मार्शदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः ||२१७|| भवतश्चात्र- तत् सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु | शोधनं कफवातघ्नं कृमिमेदोविषापहम् ||२१८|| अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् | पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् ||२१९||
🔊 Audio coming soon
अथ मूत्राण्युच्यन्ते- मूत्राणीत्यादि| अष्टानामपि मूत्राणां सामान्यगुणमाह- तीक्ष्णानीत्यादि| शोधनानि मलशुद्धिकराणि| तत् सर्वमित्यादि| पद्योक्तत्वान्न द्विरुक्तम्||२१७-२१९||
Adhikarana १८२ (२२०-२२१) · Śloka २२१
गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् | लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् ||२२०|| शूलगुल्मोदरानाहविरेकास्थापनादिषु | मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ||२२१||
🔊 Audio coming soon
गोमूत्रगुणमाह- गोमूत्रमित्यादि| गोमूत्रं गोरेव न तु वृषभस्य, महिषीसाहचर्यात्, न हि तत्र महिषेति पाठः; अथवा वृद्धव्यवहारादित्येके; आचार्यास्तु गोमहिष्यजावीनां स्त्रीणां, गजहयखरोष्ट्रमानुषाणां पुनः पुंसाम्, अनुक्तव्यक्तिके तु मूत्रपाठे उभयोरपि मूत्राणि ग्राह्याणि, यत्र तु व्यक्तया स्त्रीपुरुषनिर्देशस्तत्र तस्यैवेति निर्णीतवन्तः||२२०-२२१||
Adhikarana १८३ (२२२) · Śloka २२२
दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु | आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ||२२२||
🔊 Audio coming soon
माहिषमूत्रमाह- दुर्नामेत्यादि| अविशुद्धिर्वमनादीनाम्||२२२||
Adhikarana १८४ (२२३) · Śloka २२३
कासश्वासापहं शोफकामलापाण्डुरोगनुत् | कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ||२२३||
🔊 Audio coming soon
छागमूत्रमाह- कासश्वासापहमित्यादि||२२३||
Adhikarana १८५ (२२४) · Śloka २२४
कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम् | सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् ||२२४||
🔊 Audio coming soon
मैषमूत्रमाह- कासेत्यादि||२२४||
Adhikarana १८६ (२२५) · Śloka २२५
दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत् | आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते ||२२५||
🔊 Audio coming soon
आश्वमूत्रमाह- दीपनमित्यादि| चेतोविकार उन्मादादयः||२२५||
Adhikarana १८७ (२२६) · Śloka २२६
सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् | तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् ||२२६||
🔊 Audio coming soon
गजमूत्रमाह- सतिक्तमित्यादि| किलासं पाण्डुरं कुष्ठम्||२२६||
Adhikarana १८८ (२२७) · Śloka २२७
गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् | दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ||२२७||
🔊 Audio coming soon
गर्दभमूत्रमाह- गरचेत इत्यादि| गरः कृत्रिमं विषम्||२२७||
Adhikarana १८९ (२२८) · Śloka २२८
शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् | अर्शोघ्नं कारभं मूत्रं... |२२८|
🔊 Audio coming soon
कारभमूत्रमाह- शोफेत्यादि| कारभम् औष्ट्रम्|२२८|
Adhikarana १९० (२२८) · Śloka २२८
... मानुषं च विषापहम् ||२२८||
🔊 Audio coming soon
मानुषमूत्रमाह- मानुषमित्यादि| कारभं मानुषं च मूत्रं विषापहमित्यर्थः| मानुषमष्टानां मूत्राणां मध्येऽनुद्दिष्टमपि ‘तत् सर्वम्’ इत्यनेनैव पूर्वोक्तेन सूचितत्वाद्विवृतम्||२२८||
Adhikarana १९१ (२२९) · Śloka २२९
द्रवद्रव्याणि सर्वाणि समासात् कीर्तितानि तु | कालदेशविभागज्ञो नृपतेर्दातुमर्हति ||२२९||
🔊 Audio coming soon
उक्तानुक्तद्रवाणामूहार्थमाह- द्रवद्रव्याणीत्यादि| देशकालविभागज्ञ इति ‘वैद्य’ इति शेषः||२२९||
Adhikarana पुष्पिका · Śloka ४५
इति सुश्रुतसंहितायां सूत्रस्थाने द्रवद्रव्यविज्ञानीयो नाम पञ्चचत्वारिंशोऽध्यायः ||४५||
🔊 Audio coming soon
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने पञ्चचत्वारिंशत्तमोऽध्यायः||४५||